परिणामवादः
कार्यकारणभावस्थले परिणामवादः साङ्ख्यैः अङ्गीक्रियते।
लक्षणम्
[सम्पाद्यताम्]अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः।
अथवा
अथवा सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरोत्पत्तिः परिणामः।
यथा क्षीरात् दध्युत्पत्तिः।दधिभवने क्षीरस्य मधुररसः निवृत्तः भवति, तत्र अम्लरसोत्पत्तिः भवति।एषः परिणामः इत्युच्यते।
प्रकृतिः महदादिरूपेण परिणमते इति साङ्ख्याः मन्यन्ते।
परिणामवादस्य साङ्ख्योक्तं विवरणं दृष्टम्।अधुना आयुर्वेदे परिणामवादस्य सन्दर्भान् पश्यामः।
आयुर्वेदे परिणामवादः
[सम्पाद्यताम्]1 षट्कारणवादः
[सम्पाद्यताम्]१सुश्रुताचार्येण षट्कारणवादः उक्तः। तत्र ‘परिणामः’ इति अन्यतमं कारणं गणितम्।
स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा ।परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ॥सु.शा.१.११
एषः साङ्ख्योक्तः परिणामः एव।अस्य विवरणं प्रकृतिप्रकरणे कृतम्।
२ समानेन वृद्धिः
[सम्पाद्यताम्]परिणामवादस्य आयुर्वेदे अपरः सन्दर्भः एषः।तस्याशितीये अध्याये वर्तते (च.सू.६) सूत्रमेतत् –
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली।पक्ता भवति हेमन्ते .....॥९॥
एतेन यद् उच्यते-असमानात् शीतवातात् कथम् अग्निवृद्धिः इति एतद् अपास्तम्। न हि अत्र शीतः वातः अग्नित्वेन परिणमते, किं तर्हि निर्गच्छत्-त्तेजःप्रतीपीभूतः।-चक्रपाणिः
अत्र चक्रपाणिना काचित् विप्रतिपत्तिः दर्शिता- असमानात् शीतवातात् कथम् अग्निवृद्धिः?
विप्रतिपत्तेः स्वरूपमीदृशम् –
‘सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम्’ इति एकत्र (च.सू.१.४४) उक्तम्।अत्र ‘अग्नि-असमानेन अपि शीतवातेन अग्निः वर्धते’ इति उच्यते।एते वाक्ये विरुद्धार्थके ततः विरुद्धं प्रतीतिद्वयं जायते।अतः एषा विप्रतिपत्तिः।
अस्याः समाधानं तत्र एव चक्रपाणिना कृतम्।अस्मिन् समाधाने परिणामवादस्य आधारः स्वीकृतः।
न हि अत्र शीतः वातः अग्नित्वेन परिणमते, किं तर्हि निर्गच्छत्-त्तेजःप्रतीपीभूतः।
अस्य उत्तरस्य आशयः एवमस्ति।
यत्र कारणं कार्यरूपेण परिणमते, तत्र समानेन वृद्धिः इति नियमः।यथा रक्तं रक्तेन।
यत्र कारणं कार्यरूपेण न परिणमते, तत्र असमानेन अपि वृद्धिः सम्भवति।यथा जल-असमानेन अपि सेतुना जलप्रवाहवृद्धिः।अतो नात्र विप्रतिपत्तिः।
एवं परिणामवादमाश्रित्य यत्र कार्यकारणभावः वर्तते, तत्र एव समानेन वृद्धिः इति नियमः, नान्यत्र।
साङ्ख्यायुर्वेदयोः