पातालभूतल-...रामनामभिः

विकिपुस्तकानि तः

मूलम्
पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥११॥

पदच्छेदः
पाताल-भूतल-व्योम-चारिणः छद्मचारिणः । न द्रष्टुम् अपि शक्ताः ते रक्षितं रामनामभिः ॥११॥

अन्वयः
(ये) पाताल-भूतल-व्योम-चारिणः छद्मचारिणः,ते रामनामभिः रक्षितं (जनं) द्रष्टुम् अपि न शक्ताः ॥११॥

सरलार्थः
पाताले भूतले अथवा आकाशे ये गुप्तरीत्या चरन्ति, ते रामनाम्ना रक्षितं मानवं वक्रदृष्ट्या द्रष्टुम् अपि समर्थाः न भवन्ति॥११

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
चारिणश्छद्मचारिणः चारिणस्- छद्मचारिणः स्तोः श्चुना श्चुः।८.४.४०

समासविग्रहः ११
पातालभूतलव्योमचारिणः
पातलं च भूतलं च व्योम च पातालभूतलव्योमानि।... चार्थे द्वन्द्वः।२.२.२९
पातालभूतलव्योमसु चारिणः पातालभूतलव्योमचारिणः।... उपपदमतिङ्।२.२.१९

छद्मचारिणः
छद्मं चारिणः ।...सह सुपा।२.१.४


रामनामभिः
रामस्य नामानि रामनामानि, तैः।... षष्ठी।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=पातालभूतल-...रामनामभिः&oldid=7223" इत्यस्माद् प्रतिप्राप्तम्