पाशुपतमतेन दुःखान्तस्य विवेचनं कुरुत।

विकिपुस्तकानि तः

पाशुपतमतेन दुःखान्तस्य विवेचनं कुरुत।

पाशुपतदर्शनस्य आदिमं सूत्रम् एवम् –

अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः

अस्मिन् सूत्रे अतः इति हेत्वर्थकं पदम्।‘आध्यात्मिकम् आधिदैविकं तथा आधिभौतिकम् इति त्रिविधस्य दुःखस्य नाशार्थम्’ इति तस्य पदस्य अर्थः।अत्र यः दुःखनाशः उक्तः तद्विषये जिज्ञासा भवति।तस्याः समाधानार्थं शास्त्रे दुःखान्तस्य वर्णनं क्रियते।तदेवम् –
दुःखान्तः द्विविधः अनात्मकः सात्मकश्च।
अनात्मकः दुःखान्तः सर्वदुःखानाम् अत्यन्तोच्छेदरूपः।
सात्मकः दुःखान्तः दृक्छक्तिलक्षणं क्रियाशक्तिलक्षणं च ऐश्वर्यम्।
दृक्-शक्तिः विषयभेदात् पञ्चविधा – दर्शनं श्रवणं. मननं विज्ञानं. सर्वज्ञत्वं च।
सूक्ष्म-व्यवहित-विप्रकृष्ट-अशेष-चाक्षुष-स्पर्शादिविषयं ज्ञानं दर्शनम्।
अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम्।
समस्तचिन्ताविषयं सिद्धिज्ञानं मननम्।
निरवशेषशास्त्रविषयं ग्रन्थतः अर्थतः च सिद्धिज्ञानं विज्ञानम्।
उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतः च तत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम्।
एषा धीशक्तिः (दृक्-शक्तिः)
क्रियाशक्तिः त्रिविधा।मनोजवित्वं कामरूपित्वं विकरणधर्मित्वं च।
निरतिशयशीघ्रकारित्वं मनोजवित्वम्।
कर्मादिनिरपेक्षस्य स्वेच्छया एव अनन्तसलक्षणविलक्षणसरूपकरणाधिष्ठातृत्वं कामरूपित्वम्।
उपसंहृतकरणस्यापि निरतिशयैश्वर्यसम्बन्धित्वं विकरणधर्मित्वम्।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्