पाशुपतमतेन विधिं वर्णयत।

विकिपुस्तकानि तः

पाशुपतमतेन विधिं वर्णयत।

पाशुपतदर्शनस्य आदिमं सूत्रम् एवम् –
अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः।
इह सूत्रे विधिः इति शब्दोऽस्ति।तस्य विवरणं दर्शने एवं क्रियते-

धर्मार्थसाधकव्यापारो विधिः द्विविधः- प्रधानभूतः गुणभूतः च।
प्रधानभूतः द्विविधः- व्रतं, ६ द्वाराणि च।
व्रतं चतुर्विधम् - अनुस्नानादिः भस्मस्नानं भस्मशयनं ६नियमाः च।
६ द्वाराणि- १ क्राथनम् २ स्पन्दनम् ३ मन्दनम् ४ शृङ्गारणम् ५ अवितत्करणम् ६ अवितद्भाषणम्।
६नियमाः – १ हसितम् २ गीतम् ३ नृत्यम् ४ हुडुक्कारः ५ नमस्कारः ६जप्यम्
प्रधानविधेः उपकारकः - प्रदक्षिणा


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्