पाशुपतमतेन सर्वज्ञत्वं वर्णयत।

विकिपुस्तकानि तः
Jump to navigation Jump to search

पाशुपतमतेन सर्वज्ञत्वं वर्णयत।

सन्दर्भः-
पाशुपतदर्शनस्य आदिमं सूत्रम् एवम् –
अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः।

अत्र अतः इति शब्देन ‘दुःखान्तः भवेदेतदर्थम्’ इति अर्थः अभिप्रेतः।कोऽसौ दुःखान्तः इति आकाङ्क्षायां द्विविधो दुःखान्तः अनात्मकः सात्मकश्च इति उक्तम्। तत्र सात्मक-दुःखान्तः दृक्-शक्तियुक्तः, क्रियाशक्तियुक्तः च भवति इति उक्तम्।ततः दृक्-शक्तिः का इति प्रश्ने पञ्चविधा दृक्-शक्तिः उक्ता- दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञता चेति।
एवं सर्वज्ञत्वम् इति सात्मकदुःखान्तस्य दृक्-शक्तिविशेषः।

लक्षणम्- उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतः च तत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम्।
तत्र समासः इत्युक्ते सङ्क्षेपः धर्मिमात्रस्य अभिधानम्।यथा
अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः।
अत्र दुःखान्तः (अतः शब्दसूचितः),
कार्यम् (पशुः)
कारणम् (पतिः)
योगः
विधिः
इति धर्मिणाम् अभिधानम्।
एतेषां पञ्चानां प्रमाणतः अभिधानं विस्तरः।
एतेषां निर्दुष्टलक्षणकथनं विभागः।
शास्त्रान्तरेभ्यः एतेषां पञ्चानां गुणातिशयस्य कथनं विशेषः।स च एवम् –

पदार्थः अन्यत्र पाशुपतशास्त्रे
दुःखान्तः दुःखनिवृत्तिः दुःखनिवृत्त्या सह पारमैश्वर्यावाप्तिः।
कार्यम् अभूत्वा भावि कार्यम् नित्यं पश्वादि कार्यम्
कारणम् सापेक्षम् निरपेक्षम्
योगः कैवल्यादि-फलकः पारमैश्वर्य-दुःखान्त-फलकः
विधिः पुनरावृत्तिरूपः स्वर्गादिफलकः अपुनरावृत्तिरूपः सामीप्यादिफलकः

एवम् समासविस्तरविभागविशेषतः सर्वेषां तत्त्वानां सदा प्रकटं (उदितं) ज्ञानं नाम सर्वज्ञत्वम्।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्