पुरुषः

विकिपुस्तकानि तः

पुरुषस्य स्वरूपम्[सम्पाद्यताम्]

साङ्य्'सम्मतेषु तत्वेbrषु पुरुषः इति अन्यतमं तत्व््म्।पुरुषस्य स्वरूपं साङ्ख्यकारिकायां व्यक्तप्रधानयोः भेदेन उक्तम्-
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्।सां.का.१०
अत्र व्यक्तस्य धर्माः उक्ताः।तद्विपरीतं प्रधानम्।
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा पुमान्॥सां.का११
व्यक्तप्रधानयोः धर्माः अत्रोक्ताः।तद्विपरीताः धर्माः पुरुषे सन्ति ।
तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च॥सां.का.१९
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः।सा.का.२०
एते त्रिगुणविपरीताः धर्माः।एते अपि पुरुषधर्माः।
एवं स्थाने स्थाने ये पुरुषधर्माः साङ्ख्यमते उक्ताः, तेषाम् अयं सङ्ग्रहः।अनेन सङ्ग्रहेण साङ्ख्योक्तस्य पुरुषस्य स्वरूपं स्पष्टं भविष्यति।

व्यक्तम् अव्यक्तं च तद्विपरीतः पुमान्
त्रिगुणम् अगुणः
अविवेकि विवेकी
विषयः अविषयः
सामान्यम् असामान्यः
अचेतनम् चेतनः
प्रसवधर्मि अप्रसवधर्मा
व्यक्तम् अव्यक्तम् पुरुषः
हेतुमत् अहेतुमत् अहेतुमत्
अनित्यम् नित्यम् नित्यः
अव्यापि व्यापि व्यापी
सक्रियम् अक्रियम् निष्क्रियः
अनेकम् एकम् बहवः
आश्रितम् अनाश्रितम् अनाश्रितः
लिङ्गम् अलिङ्गम् अलिङ्गः
सावयवम् निरवयवम् निरवयवः
परन्त्रम् स्वतन्त्रम् स्वतन्त्रः

पुरुषस्य धर्माः -[सम्पाद्यताम्]

अगुणत्वम् विवेकित्वम् अविषयत्वम् असामान्यत्वम् चेतनत्वम् अप्रसवधर्मित्वम् अहेतुमत्त्वम् नित्यत्वम् व्यापित्वम् निष्क्रियत्वम् अनेकत्वम् अनाश्रितत्वम् अलिङ्गत्वम् निरवयवत्वम् स्वतन्त्रत्वम् कैवल्यम् माध्यस्थ्यम् द्रष्टृत्वम् उदासीनत्वम्
अधुना आयुर्वेदे पुरुषविचारं पश्यामः।

आयुर्वेदे पुरुषविचारः[सम्पाद्यताम्]

चरकसंहितायां कतिधापुरुषीयशारीराध्याये (शा.१) पुरुष-वर्णनं विद्यते।तत्र अग्निवेशः पुनर्वसुं पुरुषविषये प्रश्नान् पृच्छति।तत्र प्रथमः प्रश्नः अयम् -
कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते। च.शा.१.३
तत्र पुनर्वसोः उत्तरम् एतत् -
खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः। च.शा.१.१६
चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः॥१६॥
पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः।
मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी॥१७॥
उत्तरे पुरुषस्य स्वरूपं स्पष्टं भवति।अत्र पुरुषस्य त्रिविधं स्वरूपं वर्णितम् –
१ पञ्चमहाभूतसमवेता चेतना नाम पुरुषः।
२ केवलं चेतनाधातुः नाम पुरुषः
३ मनः, दश इन्द्रियाणि, अर्थाः अष्टधातुकी प्रकृतिः इति चतुर्विंशतितत्त्वानि नाम पुरुषः।
एतेषु यत् प्रथमं पुरुषस्वरूपं, तद् वैशेषिकमतानुसारि।
द्वितीयं यत् पुरुषस्वरूपं, तत् साङ्ख्यमतानुसारि।अयं केवलः पुरुषः।अगुणत्वम् विवेकित्वम् इत्यादयः ये साङ्ख्योक्ताः पुरुषधर्माः उपरि दृष्टाः, ते अस्य पुरुषस्य सम्भवन्ति।
यदेतत् तृतीयं मतं, तत् साङ्ख्यमतम् अनुसरति ईषद्भेदेन।अयं राशिपुरुषः।अत्र केवलेन पुरुषेण सह प्रकृत्यादीनां तत्त्वानामपि गणना विद्यते।अतः अयं राशिपुरुषः इति अग्रे (च.शा.१.५३) संज्ञितः।
एवमायुर्वेदे पुरुषस्य स्वरूपं त्रिविधं प्रतिपादितम्।तथापि अस्मिन् अध्याये यं पुरुषमुद्दिश्य पुनर्वसुना विवेचनं कृतं, सः तृतीयः राशिपुरुषः।
ननु आयुर्वेदाभिमतः पुरुषः तृतीयः अस्ति चेत् तस्य एव सङ्कीर्तनं क्रियतां. किम् अन्याभ्यां पुरुषाभ्याम्?
नैवम्।प्रयोजनभेदात् त्रिविधाः अपि पुरुषाः सङ्कीर्तनीयाः।तत्र
खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः। च.शा.१.१६
इति अयं पुरुषः चिकित्साधिकृतः पुरुषः।पञ्चभूतानां विषये सुश्रुतसंहितायामुक्तम् –
तस्य (पाञ्चभौतिकस्य भूतग्रामस्य) उपयोगोऽभिहितः चिकित्सां प्रति सर्वदा। भूतेभ्यो हि परं यस्मात् नास्ति चिन्ता चिकित्सिते॥सु.शा.१.१३
चिकित्सायां पाञ्चभौतिकस्य भूतग्रामस्य एव उपकारः भवति।अतः अयं पञ्चमहाभूतसमवेतः पुरुषः अत्र सङ्कीर्तनीयः।
ज्वरादिरोगाणां चिकित्सार्थम् अस्य उपर्युक्तस्य पञ्चमहाभूतसमवेत-पुरुषस्य चिन्तनं पर्याप्तं स्यादपि।परम् एतावत्या चिकित्सया पुनर्वसोः मुनेः सन्तोषः नास्ति। अत्यन्तदुःखोपरम-स्वरूपां चिकित्सामपि सः वक्तुमिच्छति।
...चिकित्सा तु नैष्ठिकी या विनोपधाम्।च.शा.१.९४
इतः आरभ्य
तं दुःखं नोपतिष्ठते ।च.शा.१.९७
इतः पर्यन्तं मोक्षकारणभूता चिकित्सा उक्ता मुनिना।तस्याः चिकित्सायाः ज्ञानाय साङ्ख्योक्तानि तत्त्वानि अवश्यं ज्ञेयानि।तद् ज्ञानं विना नैष्ठिकी चिकित्सा न ज्ञायते।अतः आयुर्वेदाभिमतस्य राशिपुरुषस्य सङ्कीर्तनम् आवश्यकम्।
राशिपुरुषे समाविष्टानि तत्त्वानि वस्तुतः साङ्ख्योक्तानि एव।परं तत्र पुरुषस्य स्वरूपं किञ्चिद् भिन्नं प्रतिपादितम्।चेतनाधातुः इति तत् पुरुषस्वरूपम्। पुरुषस्य मूलं शुद्धं स्वरूपम् एतदेव।अस्य अज्ञानेन पुरुषः बद्धः भवति।‘अहं प्रकृतिभिन्नः अस्मि’ इति ज्ञानात् सः मुक्तः भवति।अतः नैष्ठिकीचिकित्सार्थं पुरुषस्य एतत् मूलभूतं स्वरूपम् अवश्यं ज्ञेयम्।
एवं प्रयोजनभेदं मनसिकृत्वा मुनिना अत्र त्रिविधः पुरुषः सङ्कीर्तितः।
सुश्रुताचार्येण पुरुषस्य स्वरूपम् एवं वर्णितम् –
...बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चेति।सु.शा.१.९
एतद् वर्णनं साङ्ख्यमतम् अनुसरति।केवलं साङ्ख्यमते पुरुषः विभुः अस्तीति अङ्गीकृतम्। सुश्रुताचार्येण तु पुरुषाः असर्वगताः सन्ति इति मतभेदः प्रदर्शितः-
न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगताः क्षेत्रज्ञा नित्याश्च; असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुष-ख्यापकान् हेतूनुदाहरन्ति; आयुर्वेदशास्त्रेष्वसर्वगताः क्षेत्रज्ञा नित्याश्च, तिर्यग्योनिमानुषदेवेषु सञ्चरन्ति धर्माधर्मनिमित्तं; त एतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्निपातेष्वभिव्यज्यन्ते, यतोऽभिहितं- ‘पञ्चमहाभूतशरीरिसमवायः पुरुषः’ (सू.१) इति; स एष कर्मपुरुषश्चिकित्साधिकृतः ॥सु.शा.१.१६
सुश्रुताचार्येण ये पुरुषधर्माः उक्ताः, तेषां सङ्ग्रहः एवं भवेत् –
बहुत्वम् चेतनत्वम् अगुणत्वम् अबीजध्रर्मत्वम् अप्रसवधर्मत्वम् मध्यस्थधर्मत्वम्अ सर्वगतत्वम् नित्यत्वम् क्षेत्रज्ञत्वम् धर्माधर्मनिमित्तः नानायोनिषु सञ्चारः परमसूक्ष्मत्वम् अनुमेयत्वम्

पुरुषस्य विभुत्वम्-[सम्पाद्यताम्]

सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्।
‘पुरुषः विभुः अस्ति’ इति साङ्ख्यमतम्। व्यक्तं तत्त्वम् अव्यापि अस्ति।अव्यक्तं (प्रधानम्) तथा पुरुषः इति तत्त्वद्वयं व्यापि अस्ति।व्यापि इत्युक्ते विभु।
आयुर्वेदे सुश्रुतसंहितायां प्रकृतिपुरुषयोः विवरणम् कृतम्।तत्र आदौ साङ्ख्यमतानुसारि प्रतिपादनं कृतम्।तत्र पुरुषः सर्वगतः अस्ति इति प्रतिपादितम्।सर्वगतः इत्युक्ते विभुः।
अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः।तद्यथा ....उभौ च सर्वगतौ इति। सु.शा.१.९
अनन्तरम् -
वैद्यके तु -।सु.शा.१.११
इति उपक्रम्य साङ्ख्यविचारात् भिन्नः आयुर्वेदविचारः प्रदर्शितः।तत्र साङ्ख्योक्तं पुरुषविभुत्वम् आयुर्वेदे त्यक्तम्-
न चायुर्वेदशास्त्रेषु उपदिश्यन्ते सर्वगताः क्षेत्रज्ञाः नित्याः च।- सु.शा.१.१६
यदि पुरुषः असर्वगतः अङ्गीक्रियते, तर्हि, एका समस्या उद्भवति।असर्वगतस्य पुरुषस्य अनित्यत्वम् आपतति।यथा-

पुरुषः अनित्यः ..... प्रतिज्ञा
असर्वगतत्वात्..... हेतुः
यः यः असर्वगतः सः सः अनित्यः यथा घटः..... उदाहरणम्
पुरुषः अपि असर्वगतः..... उपनयः
तस्मात् पुरुषः अनित्यः..... निगमनम्

अस्य आक्षेपस्य उत्तरम् अग्रे सुश्रुताचार्यः वदति -
असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतून् उदाहरन्ति। सु.शा.१.१६
यद्यपि पुरुषाः असर्वगताः अस्माकं शास्त्रे स्वीकृताः, तथापि तेषु नित्यत्वसाधकाः हेतवः अपि अस्माकं शास्त्रे उदाहृताः सन्ति इति अर्थः।कुत्र उदाहृताः?चरकसंहितायां भोजसंहितायां च। चरकसंहितायां पुरुषनित्यत्वसाधनम् एवम् -
अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः।
सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा॥च.शा.१५९॥
यः पुरुषः अनादिः (चेतनाधातुस्वरूपः) सः, नित्यः।यः पुरुषः हेतुजः (मोहेच्छाद्वेषकर्मजः राशिपुरुषः), सः तद्विपरीतः (अनित्यः) ।यत् कारणरहितं सत्, तद् नित्यं दृष्टम्।यत् कारणजन्यं सत्, तद् अन्यथा (विनाशि) दृष्टम् इति सूत्रार्थः ।
अत्र पुरुषस्य नित्यत्वम् अनुमानेन साधितम्।तदर्थं हेतुः दत्तः ‘कारणरहितत्वे सति सत्त्वम्’।पुरुषनित्यत्वसाधकम् अनुमानम् एवम्-

पुरुषः नित्यः..... प्रतिज्ञा
कारणरहितत्वे सति सत्त्वात्..... हेतुः
यत्र कारणरहितत्वे सति सत्त्वं, तत्र नित्यत्वं यथा प्रधाने ..... उदाहरणम्
पुरुषः अपि कारणरहितत्वे सति सन्..... उपनयः
तस्मात् पुरुषः नित्यः..... निगमनम्

भोजसंहितायाम् अपि अनेन एव हेतुना पुरुषस्य नित्यत्वं साधितम्।तच्च डह्लणेन अस्य सूत्रस्य व्याख्याने उल्लिखितम् –
तथा हि भोजः शुभाशुभाभ्यां कर्मभ्यां प्रेरणान्मनसो गतेः।
देहाद्देहान्तरं याति कृमिवत् शाश्वतोऽव्ययः।
नित्य इत्युच्यते सद्भिः सन् अकारणवान् यतः॥इति।–सु.शा.१.१६, डह्लणः
अतः पुरुषः विभुः वा न वा , नित्यः वा अनित्यः वा इति चर्चायाः उपसंहारः एवम् यत् -
आयुर्वेदशास्त्रेषु असर्वगताः क्षेत्रज्ञाः नित्याः च। सु.शा.१.१६
चरकसंहितायां तु पुरुषस्य विभुत्वम् अभ्युपगतम्।अग्निवेशः तस्य प्रश्नस्य उपक्रमम् एवं करोति –
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्।
वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा॥च.शा.१.५॥
अत्र पुरुषस्य सर्वगतत्वं तथा विभुत्वम् अभ्युपगतम्।तद् अभ्युपगम्य अग्रे सः पृच्छति-
सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः॥च.शा.१.७॥
अस्मिन् देहे वर्तमानः पुरुषः परपुरुषगतं सुखं वा दुःखं वा न जानाति।पुरुषः सर्वगतः अस्ति तथापि सः परपुरुषगतं सुखं दुःखं वा किमर्थं न जानाति इति एकः प्रश्नः।
न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्। च .शा.१.८
शैलं पर्वतः।कुड्यं भित्तिः।तिरस्कृतम् आवृतम् अन्तरितं वा।पुरुषः विभुः अस्ति चेत् सर्वैः मूर्तद्रव्यैः तस्य संयोगः अस्ति।परं पुरुषः शैलस्य वा भित्तेः वा परत्र विद्यमानं पदार्थं ज्ञातुम् असमर्थः। तत्कथम्? इति द्वितीयस्य प्रश्नस्य आशयः।
प्रश्नोऽयं याज्ञवल्क्यस्मृतौ अपि उत्थापितः-
वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम्?याज्ञ.स्मृतिः यतिधर्मप्रकरणम्१३०
अनयोः प्रश्नयोः उत्तरे पुनर्वसुः पुरुषस्य सर्वगतत्वं विभुत्वं वा न निराकरोति।प्रत्युत तद् अङ्गीकृत्य उत्तरं वदति –
नित्यानुबन्धं मनसा देहकर्मानुपातिना ।
सर्वयोनिगतं विद्यादेकयोनावपि स्थितम् ॥च.शा.१.८१
आत्मा सर्वगतः अस्ति तथा महान् अस्ति अतः तस्य विभुत्वम् उपपन्नम्।यदि मनसः समाधिः भवति तर्हि आत्मा (शैलकुड्यादिभिः) तिरस्कृतम् अपि पश्यति। पूर्वदेहे कृतेन कर्मणा केनचित् एकेन मनसा सह आत्मनः नित्यानुबन्धः अस्ति।तस्मात् यद्यपि आत्मा सर्वयोनिगतः अस्ति तथापि एकयोनौ स्थितः अस्ति इति ज्ञातव्यम्।अयं सूत्रार्थः।

…..ये तु तिरोहितं न पश्यन्ति तत्र अपि उपपत्तिम् आह नित्येत्यादि। सर्वयोनिगतम् अपि आत्मानं मनसाऽनुबन्धगतम् एकयोनौ अववस्थितं विद्याद् इति योज्यम्। देहनिर्वर्तकेन कर्मणा अनुपातः आत्मनि सम्बन्धः यस्य, तेन मनसा देहकर्मानुपातिना। एतेन, यद्यपि आत्मा कुड्यादिभिः अतिरोहितः तथाऽपि यद् अस्य उपलब्धिसाधनं मनः तस्य एकस्मिन् एव शरीरे व्यवस्थितस्य व्यवधानात् न पश्यति अयं तिरस्कृतम् इति उक्तं भवति॥च.शा.१.८०-८१॥चक्रपाणिः

एवं साङ्ख्यैः पुरुषस्य विभुत्वं प्रतिपादितम्।
चरकसंहितायां पुरुषस्य विभुत्वं स्वीकृतम्।सुश्रुतसंहितायां पुरुषस्य विभुत्वं त्यक्तम्। पुरुषे विभुत्वधर्मस्य अङ्गीकारः अथवा अनङ्गीकारः इति द्वौ पक्षौ उपस्थितौ।तयोः तुलनां कुर्मः।

पुरुषः सर्वगतः पुरुषः असर्वगतः
इष्टम् पुरुषस्य नित्यत्वं सिद्ध्यति। शैलकुड्यतिरस्कृतं कस्मात् न पश्यति इति आक्षेपः नोद्भवति।
अनिष्टम् न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्। पुरुषः अनित्यः, असर्वगतत्वात्।
समाधानम् यद्यपि आत्मा कुड्यादिभिः अतिरोहितः तथाऽपि यद् अस्य उपलब्धिसाधनं मनः तस्य एकस्मिन् एव शरीरे व्यवस्थितस्य व्यवधानात् न पश्यति अयं तिरस्कृतम् इति उक्तं भवति। सदकारणवन्नित्यं दृष्टं

प्रत्येकं पक्षे किञ्चिदिष्टमस्ति, किञ्चिदनिष्टमपि अस्ति।अनिष्टस्य परिहारः अपि अस्ति। अतः अस्यां दशायाम् अस्माभिः अनेकान्ततन्त्रयुक्तेः आश्रयः कार्यः।
अनेकान्तो नाम अन्यतरपक्षानवधारणम्..। च.सि.१२.४३ चक्रपाणिः
उभौ अपि पक्षौ अस्मिन् शास्त्रे ग्राह्यौ इति निर्णयः।

पुरुषस्य प्रपञ्चकारणत्वम् -[सम्पाद्यताम्]

साङ्ख्यमते प्रपञ्चस्य उपादानकारणं प्रकृतिः।तथापि पुरुषसंयोगं विना प्रपञ्चो न प्रवर्तते।
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पङ्ग्वन्धवद् उभयोरपि संयोगः तत्कृतः सर्गः॥सा.का.२१
अतः प्रकृतिसंयोगद्वारा पुरुषः प्रपञ्चस्य निमित्तकारणं भवति।

आयुर्वेदे अपि पुरुषस्य प्रपञ्चकारणत्वं सविस्तरं प्रतिपादितम्।अस्मिन् विषये अग्निवेशस्य प्रश्नः एवम् -
पुरुषः कारणं कस्मात्? च.शा.१.३
तत्र पुनर्वसोः उत्तरम् आरभ्यते।
भास्तमः...। च.शा.१.३९ इतः आरभ्य
कारणं पुरुषः तस्मात्।च.शा.१.४५ पर्यन्तं
पुनर्वसुना सविस्तरं प्रतिपादनं कृतम्।
भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्। न स्युः कर्ता च बोद्धा च पुरुषो न भवेद्यदि॥३९॥

नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्। न विज्ञानं न शास्त्राणि न जन्म मरणं न च॥४०॥

न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि। कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः॥४१॥

एतस्य सरलार्थः एवम् –
यदि च कश्चित् चेतनः पुरुषः न स्यात् तर्हि भाः, तमः, सत्यम्, असत्यं, वेदाः, शुभं कर्म, अशुभं कर्म, कर्ता, बोद्धा इति एते भावाः न भवेयुः।यदि पुरुषः न भवेत् तर्हि शरीरं, सुखं, दुःखं, गमनम् आगमनं, वाणी, विज्ञानं, शास्त्राणि, जन्म, मरणं, बन्धः तथा मोक्षः एतेषु किमपि न स्यात्।अतः कारणज्ञाः जनाः ‘पुरुषः कारणम्’ इति उदाहरन्ति।
पुरुषः अस्ति न वा इति अग्निवेशस्य सन्देहः नास्ति।पुरुषसद्बावम् अङ्गीकृत्य एव प्रश्नः क्रियते ‘पुरुषः कारणं कस्माद् ‘ इति।अस्य प्रश्नस्य बीजं साङ्ख्यमते एव विद्यते।
प्रकृतेर्महांस्ततोऽहङ्कारः तस्माद् गणश्च षोडशकः
इति सर्गः उक्तः साङ्ख्यमते।तत्र महदादिप्रपञ्चस्य प्रकृतेः जन्म उक्तम्।अतः ‘प्रकृतिः कारणम्’ इति वक्तव्यम्।‘पुरुषः कारणम्’ इति कस्माद् उच्यते इति अग्निवेशस्य आशयः।
कार्यकारणभावः अन्वयसहचार-व्यतिरेकसहचाराभ्यां निश्चीयते।तन्तुसत्त्वे पटसत्त्वम् इति अन्वयसहचारः। तन्त्वभावे पटाभावः इति व्यतिरेकसहचारः।एवम् अन्वयसहचार-व्यतिरेक-सहचाराभ्यां तन्तुपटयोः कार्यकारणभावः निर्धार्यते।
प्रकृते पुरुषप्रपञ्चयोः कार्यकारणभावः निश्चेतव्यः।तदर्थं पुरुषसत्त्वे प्रपञ्चसत्त्वं, पुरुषाभावे प्रपञ्चाभावः इति दर्शनीयम्।पुरुषसत्त्वे प्रपञ्चसत्त्वम् इति अन्वयसहचारः तु लोकप्रसिद्धः।अतः पुरुषाभावे प्रपञ्चाभावः इति व्यतिरेकसहचारः तावत् पुनर्वसुना उच्यते भास्तमः इत्यादिना ‘पुरुषो न भवेद्यदि’ इत्यन्तेन।पुरुषाभावे भादीनामभावः इति अस्य विस्तरस्य सारः।पुरुषसत्त्वे भादयः सन्ति, पुरुषासत्त्वे भादयः न सन्ति, तस्मात् पुरुषः भादीनां कारणम् इति आशयः।
एवं तर्हि प्रपञ्चस्य कारणं किम्? प्रकृतिः अथवा पुरुषः? तत्र उत्तरम् – उभयमपि कारणम्। प्रकृतिः उपादानकारणं पुरुषः निमित्तकारणमिति व्यवस्था कार्या। समवायिकारणभिन्नम् असमवायिकारणभिन्नं यत् कारणं तद् निमित्तकारणम् ।प्रकृतिपुरुषसंयोगः महदादिप्रपञ्चस्य कारणम् –
तस्मात् तत्संयोगात् अचेतनं चेतनवदिव लिङ्गम् ।सा.का.२०
अतः महदादिप्रपञ्चस्य समवायिकारणं प्रकृतिः।असमवायिकारणं प्रकृतिपुरुषसंयोगः।तथा निमित्तकारणं पुरुषः इति कारणज्ञाः वदन्ति।
अग्रे अपि पुरुषस्य प्रपञ्चकारणत्वं साधयति पुनर्वसुः।
न चेत् कारणमात्मा स्याद्भादयः स्युरहेतुकाः।
अस्य सरलार्थः एवम् –
यदि आत्मा कारणं न स्यात् तर्हि उपरि उक्ताः भादयः भावाः हेतुरहिताः स्युः ।
अस्य प्रतिपादनस्य पृष्ठभूमिः एवम्-
किमपि कार्यं यदा जायते, तदा तस्य किञ्चित् समवायिकारणमस्ति, किञ्चित् असमवायिकारणम् अस्ति, किञ्चित् निमित्तकारणम् अस्ति।यथा पटः इति कार्यम्।तस्य निर्माणे तन्तवः समवायिकारणं, तन्तूनां संयोगः असमवायिकारणं तथा तन्तुवायः निमित्तकारणम्।
अत्र भादयः कार्यम्।तस्य समवायिकारणं प्रकृतिः।असमवायिकारणं प्रकृतिपुरुषसंयोगः। निमित्तकारणं किम्?यदि ‘पुरुषः प्रपञ्चस्य निमित्तकारणम्’ इति नाङ्गीक्रियते तर्हि भादीनि कार्याणि निमित्तकारणरहितानि स्युः।तच्च अनिष्टम्।अतःपुरुषः प्रपञ्चस्य हेतुः इति अङ्गीकर्तव्यम्-
पुरुषस्य प्रपञ्चकारणत्वे अपरा उपपत्तिः अथ उच्यते।
न चैषु सम्भवेज् ज्ञानं ... ।४२
न चैषु सम्भवेज् ज्ञानम् इति सूत्रे ‘एषु’ इति विषयसप्तमी।एतद्विषयेषु इत्यर्थः।आत्मा भादीनां कारणं नास्ति चेत् भादीनां प्रापञ्चिकपदार्थानां विषये ज्ञानं न स्यात् इत्यर्थः सूत्रस्य।
यदि पुरुषः नास्ति तर्हि प्रपञ्चविषयकं ज्ञानमपि कस्यापि न सम्भवति इति सूत्रस्य अर्थः।पुरुषः सर्वस्य महदादिप्रपञ्चस्य बोद्धा अस्ति ।
ननु किमर्थम् इदम् उच्यते पुरुषः प्रपञ्चस्य ज्ञाता अस्ति इति? पुरुषः कारणं कस्मात् इति अग्निवेशस्य प्रश्नः, न तु ‘पुरुषः ज्ञाता कस्मात्’ इति।
ब्रूमः।प्रपञ्चपुरुषयोः ज्ञातृज्ञेयभावसम्बन्धः अस्ति इति एतस्मात् तयोः कार्यकारणभावः अस्ति इति अपि सिद्ध्यति? कथमिति चेत् , उच्यते।तदर्थं साङ्ख्यमतम् आश्रयणीयम्।
प्रकृतिः महदादिरूपेण नटति।सा तथा किमर्थं नटति इति अस्मिन् विषये साङ्ख्यमतम् एवम् अस्ति –
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।... तत्कृतः सर्गः॥सां.कारिका २१
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्।पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥सां.कारिका५०
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः।सा.कारिका६५
पुरुषेण प्रधानस्य दर्शनार्थं तथा पुरुषस्य कैवल्यार्थं सर्गः प्रवर्तते इत्यर्थः।एवं प्रपञ्चपुरुषयोः ज्ञातृज्ञेयभावः अस्ति अतः एव सर्गस्य एतत् प्रयोजनं सिद्ध्यति।यदि पुरुषः ज्ञाता न स्यात् तर्हि किमर्थं प्रधानमपि सर्गम् आरभेत?एवं पुरुषस्य ज्ञानार्थं सर्गः प्रवर्तते चेत् पुरुषः सर्गस्य प्रयोजकः भवति। परम्परया कार्यजनकत्वं प्रयोजकत्वम्।पुरुषः ज्ञातृज्ञेयभाव-सम्बन्धद्वारा महदादिप्रपञ्चस्य जनकः भवति।एतां सर्वां कार्यकारणपरम्पतरां ये जानन्ति ते कारणज्ञाः।तैः कारणज्ञैः ‘महदादिप्रपञ्चस्य कर्ता पुरुषः’ इति उच्यते।
परम्परया कारणत्वम् अपि पुरुषस्य विद्यते इति अधुना साधयति मुनिः।
... न च तैः स्यात् प्रयोजनम्॥४२॥
यदि पुरुषः कर्ता न स्यात् तर्हि भादिभिः प्रापञ्चिकपदार्थैः किमपि प्रयोजनं न सिद्ध्येत् इत्यर्थः। किमस्ति प्रयोजनं महदादिप्रपञ्चस्य? तद् ज्ञातुं पुनः साङ्ख्यमतम् अवलोकनीयम्।
पुरुषार्थहेतुकमिदं निमित्त-नैमित्तिकप्रसङ्गेन।- सां.कारिका४२
पुरुषार्थः प्रयोजनं सर्गस्य।पुरुषार्थः इति पुरुषस्य भोगः मोक्षः च।पुरुषस्य भोगार्थं पुरुषस्य मोक्षार्थं च सर्गो भवति।निमित्तम् इति धर्माधर्मौ।नैमित्तिकम् इति धर्माधर्मयोः कार्यं शरीरग्रहः।
पुरुषस्य भोगः इति महदादिप्रपञ्चस्य प्रयोजनम्।तदर्थं शरीरग्रहः अनिवार्यः।यतो हि आत्मनो भोगायतनं शरीरम्। शरीरग्रहस्य निमित्तं धर्माधर्मौ।तौ च धर्माधर्मौ पुरुषाश्रितौ भवतः।यदि पुरुषः एव न विद्यते तर्हि अग्रे कार्यकारणपरम्परा एव न भवति।अतः प्रपञ्चस्य परम्परया निमित्तं पुरुषः भवति इति कारणज्ञाः वदन्ति।
‘आत्माभावे प्रपञ्चाभावः’ इति व्यतिरेकसहचारः उक्तः।सः व्यतिरेकः अधुना दृष्टान्तद्वयेन समर्थ्यते। सिद्धान्तः महत्त्वपूर्णः अस्ति अतः दृष्टान्तद्वयम्।
कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्।कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्॥४३।
यो वदेत् स वदेद्देहं सम्भूय करणैः कृतम्।विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः॥च.शा.१.४४॥
यः घटं कुम्भकाराद् विना मृत्तिका-दण्ड-सूत्राद्यैः साधनैः कृतं वदति, यः गृहं गृहकाराद् विना मृत्तिका-तृण-काष्ठादिभिः साधनैः कृतं वदति, सः एव ‘एषः देहः आत्मानं विना केवलं करणैः कृतः’ इति अज्ञानात् वदेत्।सः युक्तिः तथा आगमः इति एताभ्यां प्रमाणाभ्यां रहितः अस्ति।एषः सूत्रार्थः। युक्त्या बहिष्कृतः इति युक्तिविरुद्धं भाषमाणः।आत्माभावे प्रपञ्चाभावः इति युक्तिः। तद्विरुद्धं वदति इति युक्तिबहिष्कृतः।
आगमविरुद्धं वदतीति आगमबहिष्कृतः। आगमश्च एवम्-
मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम्। करोति तृण-मृत्-काष्ठैः गृहं च गृहकारकः॥१४६
करणान्येवमादाय तासु तास्विह योनिषु। सृजत्यात्मानमात्मा च सम्भूय करणानि च॥ -याज्ञ.स्मृतिः यतिधर्मप्र.१४८
पुरुषः कारणं कस्मात् इति प्रश्नस्य उत्तरम् आरब्धं, तस्य अत्र उपसंहारः कृतः।
कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते।येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते॥च.शा.१.४५॥
यैः सर्वैः प्रमाणैः प्रमेयं प्रमीयते तैः सर्वैः प्रमाणैः ‘पुरुषः कारणम्’ इति ज्ञायते इत्यर्थः।
पुरुषस्य प्रपञ्चकारणत्वं साधयितुं योऽयं पुनर्वसुना विस्तरः कृतः, तस्य आधारः साङ्ख्यमतम् इति स्पष्टम्।

पुरुषस्य कारणम् -[सम्पाद्यताम्]

साङ्ख्यमते पुरुषस्य कारणं न विद्यते।अहेतुमान् पुरुषः साङ्ख्यानाम्।
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा पुमान्॥सां.का११
स्यादेतत् अहेतुमत्त्व-नित्यत्वादि प्रधानसाधर्म्यमस्ति पुरुषस्य ..... - वाचस्पतिमिश्रः।

आयुर्वेदे अपि पुरुषः कारणरहितः।अस्मिन् विषये अग्निवेशस्य प्रश्नः-
प्रभवः पुरुषस्य कः? च.शा.१.३
पुनर्वसोः उत्तरम् –
प्रभवो न ह्यनादित्वात् विद्यते परमात्मनः। पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः । च.शा.१.५३
प्रभवशब्दस्य अर्थः भवति कारणम्।पुरुषस्य कारणं किम्? इति प्रश्नस्य अर्थः।कतिधा पुरुषः इति प्रश्नस्य उत्तरे त्रिविधः पुरुषः उक्तः-
१ चेतनाधातुरूपः पुरुषः उक्तः।
२ षड्धातुकः पुरुषः उक्तः। (राशिस्वरूपः)
३ चतुर्विंशतिकः पुरुषः अपि उक्तः।(राशिस्वरूपः)
षड्धातुकः पुरुषः तथा चतुर्विंशतिकः पुरुषः इति द्वौ अपि राशिस्वरूपौ।चेतनाधातुः तु राशिस्वरूपः नास्ति। एवं राशिरूपः तथा केवलः इति पुरुषस्य द्विविधं स्वरूपं पूर्वम् उक्तम्।अतः तदनुरोधेन ‘पुरुषः कस्मात् कारणात् जायते’ इति प्रश्नस्य उत्तरम् अपि द्विविधं भवति।
परमात्मा (चेतनाधातुः) अनादिः अस्ति अतः तादृशस्य पुरुषस्य कारणं नास्ति।एतदेकम् उत्तरम्।
राशिसंज्ञकः पुरुषः (षड्धातुकः तथा चतुर्विंशतिकः) तु मोहेच्छाद्वेषकर्मभ्यः उत्पद्यते।एतद् द्वितीयम् उत्तरम्।
मोहेच्छाद्वेषकर्मजः इति मोहेच्छाद्वेष-जनितकर्मजः। मोहेच्छाद्वेषकर्माणि इति कार्यकारणशृङ्खला अस्ति। मोहः अज्ञानम्। अहं ‘प्रकृतेः भिन्नः, केवलः पुरुषः अस्मि’ इति ज्ञानम्।‘ अहं मनुष्यः’ , ‘अहं सुखी’ ‘अहं दुःखी’ इत्यादि सर्वम् अज्ञानम्। आत्मनः स्वस्य विषये एतद् अज्ञानम् एव मोहशब्देन उच्यते।
एतस्मात् मोहात् इच्छाद्वेषौ जायेते।इच्छातः अथवा द्वेषतः आत्मा कर्म करोति।तत् कर्म क्वचित् शुभम् अस्ति, क्वचित् अशुभम् अस्ति।एतेषां कर्मणां फलं तेन अवश्यं भोक्तव्यम्। भोगाः भोक्तव्याः चेत् तदर्थं शरीरम् आवश्यकम्।अतः आत्मा भोगार्थं शरीरं प्राप्नोति।सशरीरः आत्मा एव षड्धातुकः वा चतुर्विंशतिकः पुरुषः इति उच्यते।
अस्य सूत्रस्य आशयः स्मृतौ अपि दृश्यते –
अनादिरात्मा सम्भूतिर्विद्यते नान्तरात्मनः। समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः॥य़ाज्ञवलक्यस्मृतिः १२५ यतिधर्मप्रकरणम्

साङ्ख्यमते आयुर्वेदमते
पुरुषस्य कारणम् नास्ति चेतनाधातुरूपस्य पुरुषस्य कारणं - नास्ति
राशिपुरुषस्य कारणम् मोहेच्छाद्वेषजन्यं कर्म

पुरुषस्य ज्ञातृत्वम् - [सम्पाद्यताम्]

साङ्ख्यमते पुरुषः ज्ञः अस्ति।
... सिद्धं साक्षित्वमस्य पुरुषस्य।कैवल्यं माध्यस्थ्यं द्रष्टृत्वम् अकर्तृभावश्च॥सां.का.१९
किञ्च ज्ञः इति पदेन एव तस्य निर्देशः साङ्ख्यकारिकायां कृतः।
व्यक्त-अव्यक्त-ज्ञ-विज्ञानात्॥सा.का.२
आयुर्वेदे अपि पुरुषस्य ज्ञत्वम् अभ्युपगतम्।अस्मिन् विषये अग्निवेशस्य पुनर्वसुं प्रति प्रश्नः एवम् -
किमज्ञो ज्ञः, सः? च.शा.१.
सः इति पुरुषः।पुरुषः ज्ञः अथवा अज्ञः इति प्रश्नः।
तत्र पुनर्वसोः उत्तरम्
आत्मा ज्ञः। च.शा.१.५४

पुरुषः क्षेत्रज्ञः - [सम्पाद्यताम्]

साङ्ख्यशास्त्रे क्षेत्रज्ञः इति पुरुषस्य वर्णनं भवति।व्यक्तस्य क्षेत्रम् इत्यपि संज्ञा विद्यते-
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः।
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः।एतत् क्षेत्रं समासेन सविकारमुदाहृतम्॥भ.गी.१३.६
क्षतत्राणात्, क्षयात्, क्षरणात्,क्षेत्रवद् वा अस्मिन् कर्मफलनिर्वृत्तेः क्षेत्रम् इति।भ.गीता१३.२ शाङ्करभाष्यम्
एतत् क्षेत्रं यो जानाति, सः क्षेत्रज्ञः।पुरुषः ज्ञः अस्ति, सः एतत् क्षेत्रं जानाति, अतः तं क्षेत्रज्ञं मन्यन्ते साङ्ख्यतत्त्वविदः।पुरुषं विहाय अन्यानि सर्वाणि तत्त्वानि जडानि।न तत्र चेतनास्ति। अतः ज्ञातृत्वमपि तेषु न विद्यते।अतः क्षेत्रज्ञः इति संज्ञा केवलं पुरुषस्य सम्भवति।

क्षेत्र-क्षेत्रज्ञविभागः अन्यत्रापि कृतो दृश्यते।यथा –
बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च। अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि॥१७७
अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते। ईश्वरः सर्वभूतस्थः ...॥१७८ याज्ञवलक्यस्मृतिः यतिधर्मप्र.
एषः साङ्ख्यविचारः एव।

आयुर्वेदे क्षेत्रक्षेत्रज्ञविषये किं प्रतिपादितम् इति पश्यामः।
सुश्रुतसंहितायां क्षेत्रज्ञसंज्ञया पुरुषस्य निर्देशः कृतः-
तद् (अव्यक्तम्) एकं बहूनां क्षेत्रज्ञानाम् अधिष्ठानम् ...। सु.शा.१.३
अत्र क्षेत्रज्ञशब्दः पुरुषार्थकः।बहूनां पुरुषाणाम् अव्यक्तम् इति एकम् अधिष्ठानम् अस्ति इति सूत्रार्थः।एवं
तत्र स्त्रीपुंसयोः संयोगे.....गर्भाशयम् अनुप्रपद्यते क्षेत्रज्ञः.....। सु.शा.३.४
अत्रापि क्षेत्रज्ञशब्दः पुरुषार्थकः।
चरकसंहितायां कतिधापुरुषीयशारीराध्याये (च.शा.१) क्षेत्रक्षेत्रज्ञवर्णनं विद्यते-
इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्। अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः॥च.शा.१.६५॥
उपरि यानि तत्त्वानि उक्तानि, तेषु अव्यक्तवर्जितानां तत्त्वानां ‘क्षेत्रम्’ इति संज्ञा अस्ति। अव्यक्ततत्त्वम् एतस्य सर्वस्य क्षेत्रस्य ज्ञातृ अस्ति इति ऋषयः जानन्ति।एषः सूत्रार्थः।
एनम् एव प्रकृतिविकारसमूहं क्षेत्रक्षेत्रज्ञभेदेन विभजते इति इत्यादि।अव्यक्तवर्जितम् इति प्रकृति-उदासीनवर्जितं, प्रकृतेः च उदासीनपुरुष-चैतन्येन चैतन्यम् अस्ति एव ॥च.शा.१.६५चक्रपाणिः
टीकायाः आशयः एवम् - अव्यक्तशब्देन अत्र प्रकृतिपुरुषौ उभौ ग्राह्यौ।ननु अव्यक्तशब्देन अत्र प्रकृतिः किमर्थं ग्राह्या? सा तु जडा।तस्याः ज्ञातृत्वं नास्ति,जातृत्वं पुरुषस्य एव अस्ति।
एताम् आशङ्कां निराकरोति चक्रपाणिः प्रकृतेश्चेत्यादिना।
प्रकृतिः यद्यपि अचेतना, अज्ञा तथापि पुरुषसंयोगात् तस्याः अपि चैतन्यम् अभ्युपगम्यते। तस्मात् क्षेत्रज्ञशब्देन प्रकृतिपुरुषयोः उभयोः अपि ग्रहणं कर्तुं शक्यते।

क्षेत्रम् महत्+ अहङ्कारः+ एकादश इन्द्रियाणि+ पञ्चतन्मात्राणि+ पञ्च भूतानि २३
क्षेत्रज्ञः अव्यक्तम् ०१

‘यः क्षेत्रं जानाति सः क्षेत्रज्ञः’ इति क्षेत्रज्ञशब्दस्य अर्थः।एतम् अर्थं मनसि कृत्वा अग्निवेशः पुनर्वसुं पृच्छति –
क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः॥८॥
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते।क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः॥च.शा.१.९॥
आत्मा तथा महदादिः प्रपञ्चः इति एतयोः पूर्वं किं जातम् इति मम संशयः अस्ति। कुतः अयं संशयः उत्पन्नः? उभयपक्षयोः क्लेशदर्शनात्।
प्रथमपक्षः एवं यत् क्षेत्रज्ञः पूर्वं जातः, अनन्तरं क्षेत्रं जातम् इति मन्यामहे।परं क्षेत्रं विना क्षेत्रज्ञत्वं न सम्भवति।अतः क्षेत्रात् पूर्वं क्षेत्रज्ञः जातः इति वचने दोषः।अत्र चक्रपाणिटीका एवम्-
क्षेत्रज्ञः आत्मा।क्षेत्रम् अव्यक्तवर्जितं सर्वं वक्ष्यमाणम्। ज्ञेयम् इत्यादि। असति क्षेत्रे क्षेत्र-ज्ञानाभावात् न क्षेत्रज्ञत्वम् उपपद्यते इति भावः। च.शा.१.९ चक्रपाणिः
क्षेत्रं जानाति इति क्षेत्रज्ञः।अतः क्षेत्रज्ञस्य सिद्ध्यर्थं पूर्वं क्षेत्रम् आवश्यकम्।क्षेत्रमेव यदा नास्ति तदा क्षेत्रस्य ज्ञाता कथं सम्भवति?अतः क्षेत्रं विना क्षेत्रज्ञः इति वचनम् अयुक्तम्।
अथ द्वितीयः पक्षः। क्षेत्रं पूर्वं जातम्, अनन्तरं क्षेत्रज्ञः जातः इति मन्यामहे।एवं चेत् क्षेत्रज्ञः अनित्यः इति सिद्ध्यति।एतदपि अनिष्टम्।क्षेत्रं पूर्वमिति मन्यामहे चेत् क्षेत्रज्ञः क्षेत्राद् उत्तरकाले जातः इति प्राप्तम्।एतदपि अयुक्तं वचनम्। यद् यद् जायते, तत् तद् म्रियते इति व्याप्तिः सर्वमान्या। यदि क्षेत्रज्ञः जातः इति मन्यामहे तर्हि अनया व्याप्त्या पुरुषः अशाश्वतः इति आपद्यते।तदेवम् -

पुरुषः अशाश्वतः..... प्रतिज्ञा
क्षेत्रोत्तरकाले जातत्वात्..... हेतुः
यत् क्षेत्रोत्तरकाले जातं, तद् अशाश्वतं यथा घटः..... उदाहरणम्
पुरुषः अपि क्षेत्रोत्तरकाले जातः..... उपनयः
तस्मात् पुरुषः अशाश्वतः..... निगमनम्

अशाश्वतः इति अनित्यः। पुरुषः तु अस्मिन् मते नित्यः मतः।एवं मिथः विरुद्धार्थ-प्रतिपादकम् एतद् युक्तिद्वयं मम संशयस्य बीजमिति अग्निवेशस्य अभिप्रायः।
अस्योत्तरं पुनर्वसुना अग्रे दत्तम् -
...तयोः (क्षेत्र-क्षेत्रज्ञयोः) अनादित्वात् किं पूर्वमिति नोच्यते।च.शा.१.८२
क्षेत्रमपि अनादि, क्षेत्रज्ञः अपि अनादिः।अतः तयोः कालतः पूर्वापरभावः न सम्भवति इति अस्य वचनस्य आशयः।

पुरुषस्य ज्ञातृत्वं करणापेक्षम् - [सम्पाद्यताम्]

आत्मा ज्ञः इति साङ्ख्याः अपि मन्यन्ते, आयुर्वेदीयाः अपि।यद्यपि आत्माः ज्ञः, तथापि ज्ञानप्रक्रियायां तस्य करणानि आवश्यकानि भवन्ति।तानि करणानि कानि, यैः आत्मा जानाति? साङख्यमते -
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्।सांका.३३
मनः, बुद्धिः तथा अहङ्कारः इति अन्तःकरणं त्रिविधम्।बाह्यमिन्द्रियं दशविधम्।तत्र ज्ञानप्रक्रियायां पञ्च ज्ञानेन्द्रियाणि करणभूतानि भवन्ति-
बुद्धीन्द्रियाणि पञ्च....। सां.का.३४
एतेषां ज्ञानेन्द्रियाणां नामानि एवम् -
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि।सा.का.२६
एतेषु इन्द्रियेषु किम् इन्द्रियं कस्य ज्ञाने प्रवर्तते?
शब्दादिषु पञ्चानाम् आलोचनमात्रमिष्यते वृत्तिः।सा.का.२८

ज्ञेयः विषयः शब्दः स्पर्शः रूपम् रसः गन्धः
ज्ञान-करणम् श्रोत्रम् त्वक् चक्षुः रसनम् घ्राणम्

इदानीम् अन्तःकरणं त्रिविधम् उक्तम् - मनः बुद्धिः तथा अहङ्कारः।बाह्यानि ज्ञानकरणानि पञ्च उक्तानि।एतेषु अन्तःकरण-बाह्यकरणेषु मिथः सम्बन्धः कः?
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्।सांका.३३
बाह्यकरणम् अन्तःकरणस्य विषयरूपम् अस्ति।
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्। तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि।सांका.३५
एवं पञ्च ज्ञानेन्द्रियाणि विषयग्रहणकर्मणि द्वाररूपाणि सन्ति।मनोबुद्ध्यहङ्काररूपं त्रिविधं करणम् एभिः द्वारैः बाह्यविषयं जानाति।अग्रे-
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छत्नि॥सांका.३६
ज्ञानेन्द्रियाणि मनः तथा अहङ्कारः इति एते त्रिगुणस्य विशेषाः।ते परस्परम् अत्यन्तं विसदृशाः।तथापि पुरुषस्य भोगार्थं वा मोक्षार्थं वापि एते एकत्र विषयग्रहणरूपं कार्यं कुर्वन्ति, तथा विषयं प्रकाश्य बुद्धिं प्रति समर्पयन्ति।
तैलदीपे तैलं, कार्पासवर्तिः तथा अग्निः इति त्रयः पदार्थाः सन्ति।एते त्रयः परस्परम् अत्यन्तं विलक्षणाः।तथापि ते एकत्र कार्यं कुर्वन्ति।तेन पदार्थस्य प्रकाशनं भवति।तथैव मनोऽहङ्कारेन्द्रियाणि परस्परं विलक्षणानि।तथापि तानि एकत्र कार्यं कृत्वा बुद्धौ अर्थ प्रकाशयन्ति।ततः-
सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः।सांका.३७
बुद्धिः पुरुषस्य अर्थं साधयति।बुद्धिद्वारा पुरुषः बाह्यविषयान् जानाति।एषा पुरुषस्य ज्ञातृत्वे प्रक्रिया।
अतः आत्मा ज्ञः इति सत्यम्। तथापि यदि तस्य अन्तःकरणं बाह्यकरणं वा नास्ति तर्हि सः बाह्यविषयान् ज्ञातुं न शक्नोति,साधनाभावात्।अतः आत्मनः ज्ञातृत्वं करणापेक्षम् अस्ति। यद्यपि आत्माः ज्ञः, तथापि ज्ञानप्रक्रियायां तस्य करणानि आवश्यकानि भवन्ति इति साङ्ख्याः मन्यन्ते।आयुर्वेदे पुनर्वसुना अपि एतदेव प्रतिपादितम्-
... करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते। च.शा.१.५४
तथा च आत्मा इन्द्रियाणां मनसः च साहाय्येन एव बाह्यपदार्थं जानाति, न इन्द्रियमनोनिरपेक्षम् इति आशयः अन्यत्रापि विद्यते -
आत्मेन्द्रियमनोऽर्थानां सन्निकर्षात् प्रवर्तते। व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते॥च.सू.११.२०
पुरुषस्य ज्ञानं करणापेक्षम् अस्ति इति अन्वयमुखेन साधितम्।करणसत्त्वे ज्ञानम् इति अन्वयमुखम्।अधुना व्यतिरेकमुखेन अपि एतत् साधनीयम्।करणवैकल्ये ज्ञानाभावः इति व्यतिरेकमुखम्।तदर्थं ‘ज्ञः अपि आत्मा करणानाम् असामर्थ्यात् पदार्थं न वेत्ति’ वक्तव्यम्।
अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात्। सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहाराच्च॥सां.का.७
विषयस्य उपलब्धिः न भवति इति वाक्यशेषः।अष्टौ करणवैकल्यानि अत्र उक्तानि, येषु सत्सु आत्मनः ज्ञानं न भवति।तानि एवम् -

१ अतिदूरात्
पदार्थः अतिदूरे वर्तते चेत् तस्य ज्ञानं न भवति, यतो हि बाह्येन्द्रियाणाम् अतिदूरस्थपदार्थग्रहणे सामर्थ्यं नास्ति।यथा आकाशे अतिदूरे उड्डीयमानः खगः चक्षुषा न गृह्यते।बाह्येन्द्रियं यस्य विषयस्य ग्रहणं न करोति,तस्य ज्ञाने पुरुषः अपि न प्रभवति।

२ सामीप्यात्
पदार्थः अतिसमीपे वर्तते चेत् तस्य ज्ञानं न भवति।यतो हि बाह्येन्द्रियाणाम् अति-समीपस्थपदार्थग्रहणे सामर्थ्यं नास्ति।यथा नेत्रगतं कज्जलं चक्षुषा न गृह्यते।बाह्येन्द्रियं समीपस्थं विषयं न गृह्णाति अतः पुरुषः अपि तस्य ज्ञाने न प्रभवति।

३ इन्द्रियघातात्
इन्द्रियघातः अस्ति चेत् तेन इन्द्रियेण बिषयः न गृह्यते।यथा अन्धः पुरुषः पुरतः वर्तमानमपि घटं न पश्यति।पुरुषः ज्ञः अस्ति।तथापि येन इन्द्रियरूपेण साधनेन सः बाह्यविषयं जानाति, तद् इन्द्रियमेव नष्टम्।तदा ज्ञः अपि पुरुषः बाह्यविषयं न जानाति।

४ मनोऽनवस्थानात्
मनः विषयग्रहणे उपस्थितं नास्ति, अन्यत्र विषये अवस्थितम् अस्ति चेत् उपस्थितस्य अपि विषयस्य ज्ञानं न भवति।यथा दुष्यन्तस्मरणे लग्नचित्ता शकुन्तला दुर्वाससः मुनेः आगमनं न ज्ञातवती।पुरुषः ज्ञः।तथापि अन्तःकरणं विषयग्रहणे नास्ति।अतः बाह्यविषयस्य ज्ञानं न भवति।

५ सौक्ष्म्यात्
अतिसूक्ष्माः पदार्थाः पुरतः विद्यमानाः अपि इन्द्रियैः न गृह्यन्ते यतो हि तावन्तं सूक्ष्मं पदार्थं गृहीतुं तेषां सामर्थ्यं नास्ति।यथा परमाणुग्रहणं न चक्षुषा शक्यम्।यस्य ग्रहणं बाह्येन्द्रियेण न शक्यं तस्य ग्रहणं पुरुषेण अपि न शक्यम्।

६ व्यवधानात्
इन्द्रियविषययोः किमपि व्यवधानम् इन्द्रियप्रतिबन्धकं विद्यते चेत् विद्यमानः अपि पदार्थः न ज्ञायते।यथा भित्तेः परत्र विद्यमानं घटं चक्षुः न गृह्णाति।अत्र चक्षुषः घटग्रहणे सामर्थ्यं अस्ति। घटः न दूरे, न अतिसमीपे, न वा सूक्ष्मः।तथापि सः भित्त्या आच्छादितः इव अस्ति।अतः चक्षुषा न गृह्यते।बाह्येन्द्रियेण न गृह्यते चेत् पुरुषेणापि न गृह्यते।

७ अभिभवात्
एकस्य पदार्थस्य अपरेण पदार्थेण क्वचिद् अभिभवः (पराभवः) भवति।तदा अपि पराभूतस्य विषयस्य ज्ञानं न भवति।यथा मधुरे द्रव्ये आस्वादिते अनुक्षणं मधुरं द्रव्यान्तरं भक्षितं चेत् तस्य माधुर्यस्य अभिभवः भवति।अतः द्रव्यान्तरस्य माधुर्यं न ज्ञायते।एतद् रसनेन्द्रियस्य असामर्थ्यं यत् द्रव्यान्तरस्थं माधुर्यं ज्ञातुम् असमार्थ्यम्।अस्यां दशायां पुरुषः ज्ञः अपि तद् माधुर्यं ज्ञातुम् असमर्थः।

८ समानाभिहारात्
अभिहारः एकत्रीकरणम्।समानयोः समानानां वा एकत्रीकरणं समानाभिहारः।समानयोः पदार्थयोः एकत्रीकरणं भवति चेत् पृथक् एकस्य एकस्य ज्ञानं न भवति।यथा जलबिन्दुः जलाशये पतति। तदा अन्यैः जलाशयस्थैः बिन्दुभिः तस्य एकत्रीकरणं भवति।तदा पतितः जलबिन्दुः पृथक् न ज्ञायते। पृथक् बिन्दुज्ञाने बाह्येन्द्रियस्य सामर्थ्यं नास्ति।एवं चेत् पुरुषः अपि पृथक् बिन्दुज्ञाने असमर्थः।

एवं साङ्ख्यैः ‘ज्ञानग्रहणे पुरुषस्य करणापेक्षत्वम्’ अङ्गीकृतम्।‘ज्ञानग्रहणे पुरुषः करणापेक्षः’ इति आयुर्वेदे अपि व्यतिरेकमुखेन साधितम्।तदेवम् -
सतां च रूपाणाम् अतिसन्निकर्षात् अतिविप्रकर्षात्, आवरणात्, करणदौर्बल्यात्, मनोऽनवस्थानात्, समानाभिहारात्, अभिभवात्, अतिसौक्ष्म्यात्, च प्रत्यक्षानुपलब्धिः।च.सू.११.८
पूर्वं साङ्ख्यकारिकायां प्रत्यक्षानुपलब्धेः यानि कारणानि उक्तानि, तानि एव एतानि। अस्य सूत्रस्य विवरणे चक्रपाणिना प्रत्येकम् एकमुदाहरणम् उक्तम्।तस्य कोष्ठकरूपेण सङ्ग्रहः अत्र क्रियते-

प्रत्यक्षानुपलब्धिकारणम् ईश्वरकृष्णोक्तम् प्रत्यक्षानुपलब्धिकारणं चरकोक्तम् चक्रपाणिदत्तम् उदाहरणम्
सामीप्यात् अतिसन्निकर्षात् नयनगतकज्जलादेः
अतिदूरात् अतिविप्रकर्षात् दूराकाशगतस्य पक्षिणः
व्यवधानात् आवरणात् कुड्यादिपिहितस्य घटादेः
इन्द्रियघातात् करणदौर्बल्यात् कामलाद्युपहतस्य चक्षुषः पटशौक्ल्यादिप्रतिभानम्
मनोऽनवस्थानात् मनोऽनवस्थानात् कान्तामुखनिरीक्षिणप्रहितमनसः पार्श्वागतवचनानवबोधः
समानाभिहारात् समानाभिहारात् बिल्वराशिप्रविष्टस्य बिल्वस्य इन्द्रियसम्बद्धस्यापि भेदेनाग्रहणम्
अभिभवात् अभिभवात् मध्यन्दिने उल्कापातस्य
सौक्ष्म्यात् अतिसौक्ष्म्यात् त्रिचतुर्हस्तप्रमाणदेशवर्तिनः कृमिविशेषलिख्यादेरग्रहणम्

‘प्रत्यक्षग्रहणे आत्मनः करणापेक्षत्वम्’ व्यतिरेकमुखेन आयुर्वेदे अन्यत्र अपि परामृष्टम्। ‘यदि आत्मा ज्ञः, तर्हि सर्वदा तस्य ज्ञानं न भवति इति कथम्?’ इति आशङ्का कतिधापुरुषीयशारीरे (च.शा.१)उत्थापिता।तस्याः उत्तरं सूत्रे दत्तं ‘करणानाम् अवैमल्यात् तथा अयोगात् पुरुषस्य ज्ञानं सर्वदा न वर्तते’ इति।
करणानामवैमल्यादयोगाद्वा न वर्तते॥च.शा.१.५४॥
पश्यतोऽपि यथाऽऽदर्शे सङ्क्लिष्टे नास्ति दर्शनम्।तत्त्वं जले वा कलुषे चेतस्युपहते तथा॥च.शा.१.५५॥
पश्यतोऽपि पुरुषस्य इत्युक्ते यः चक्षुष्मान् अस्ति तस्य, यस्य द्रष्टुं सामर्थ्यं विद्यते,तस्य। यदि दर्पणः मलिनः अस्ति तर्हि दर्शनसमर्थस्य जनस्य अपि रूपज्ञानं सम्यङ् न भवति तथा यदि ज्ञानस्य करणानि कलुषितानि सन्ति तर्हि ज्ञस्य अपि पुरुषस्य ज्ञानं न भवति इति आशयः।अनेन व्यतिरेकमुखेन एतदेव उच्यते यत् ‘ज्ञानग्रहणे पुरुषः करणापेक्षः’।
अस्मिन् एव सन्दर्भे कतिधापुरुषीयशारीराध्याये (च.शा.१) अग्निवेशेन पृष्टः प्रश्नः चिन्तनीयः।अग्निवेशः पुनर्वसुं पृच्छति-
न पश्यति विभुः कस्मात् शैलकुड्यतिरस्कृतम्? च.शा.१.८
पुरुषः सर्वत्र अस्ति (विभुः), तथापि शैलेन कुड्येन वा तिरस्कृतं द्रव्यं किमर्थं द्रष्टुं न शक्नोति? इति अग्निवेशस्य आशयः। तिरस्कृतम् इति आवृतम् अन्तरितं वा।
तत्र पुनर्वसुना दत्तमुत्तरमिदम् –
नित्यानुबन्धं मनसा देहकर्मानुपातिना। सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्॥च.शा.१.८१॥
आत्मना पूर्वदेहे कृतं किञ्चित् कर्म विद्यते।तस्य फलमेवं यत् अस्मिन् जन्मनि केनचिद् एकेन मनसा सह तस्य नित्यानुबन्धः जायते।तस्मात् यद्यपि आत्मा सर्वयोनिगतः अस्ति तथापि एकयोनौ स्थितः अस्ति इति ज्ञातव्यम्।एषः सूत्रार्थः।
अत्र चक्रपाणिः विवृणोति –
सर्वयोनिगतम् अपि आत्मानं मनसाऽनुबन्धगतम् एकयोनौ अववस्थितं विद्याद् इति योज्यम्। देहनिर्वर्तकेन कर्मणा अनुपातः आत्मनि सम्बन्धः यस्य, तेन मनसा देहकर्मानुपातिना। एतेन, यद्यपि आत्मा कुड्यादिभिः अतिरोहितः तथाऽपि यद् अस्य उपलब्धिसाधनं मनः तस्य एकस्मिन् एव शरीरे व्यवस्थितस्य व्यवधानात् न पश्यति अयं तिरस्कृतम् इति उक्तं भवति॥ -च.शा.१.८०-८१॥
विषयस्य प्रत्यक्षजानम् आत्मेन्द्रियार्थमनोऽर्थानां सन्निकर्षात् प्रवर्तते(च.सू.११.२०)।यद्यपि आत्मा शैलकुड्यादिभिः न प्रतिबध्यते, तथापि मनः तु एकस्मिन् एव देहे प्रतिबद्धम् अस्ति। शैलकुड्यादेः परत्र आत्मा अस्ति, परं तदनुबद्धं मनः नास्ति।अतः आत्मना सह मनोऽनवस्थानात् आत्मनःसन्निकर्षः न भवति। आत्मेन्द्रियमनोऽर्थानां सन्निकर्षाभावः इत्युक्ते प्रत्यक्षज्ञानकारणस्य अभावः।कारणाभावे कार्याभावः।अतः सामान्यजनानां शैलकुड्यादि-तिरस्कृतस्य ज्ञानं न भवति।
‘मनःसन्निकर्षः नास्ति अतः विभुः अपि आत्मा शैलकुड्यतिरस्कृतं न पश्यति’

इति वचनेन ‘आत्मनः ज्ञानं करणापेक्षम् अस्ति’इति सिद्धं भवति।

पुरुषस्य नित्यत्वम्-[सम्पाद्यताम्]

साङ्ख्यमते पुरुषः नित्यः।
स्यादेतत् अहेतुमत्त्व-नित्यत्वादि प्रधानसाधर्म्यमस्ति पुरुषस्य।– वाचस्पतिः
नित्यत्वम् इति धर्मः साङ्ख्यमते पुरुषेऽपि अस्ति, प्रधानेऽपि अस्ति।

आयुर्वेदे अस्मिन् विषये अग्निवेशस्य प्रश्नः अस्ति -
स नित्यः किं? किमनित्यो निदर्शितः? च.शा.१.४
तत्र पुनर्वसोः उत्तरम्-
अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः। च.शा.१.५९
यः पुरुषः अनादिः सः, नित्यः।यः पुरुषः हेतुजः, सः तद्विपरीतः (अनित्यः) इति सूत्रार्थः।
उत्तरे एवं द्वैविध्यं कथम्? यद्विषये प्रश्नः कृतः सः पुरुषः द्विविधः अस्ति अतः उत्तरे अपि द्वैविध्यं स्वाभाविकम्।
चेतनाधातुरप्येकः पुरुषः सम्भवति(च.शा.१.१६)।आत्मशब्देन एतस्य अभिधानं भवति इति आत्मशब्दाभिधेयः।एषः अनादिः अस्ति अतः नित्यः अस्ति।
षड्धातुकः (च.शा.१.१६)अथवा चतुर्विंशतिकः (च.शा.१.१७) पुरुषः अपि अस्मिन् शास्त्रे चिन्त्यते। एषः पुरुषः मोहेच्छाद्वेषकर्मजः (च.शा.१.५३) अस्ति। एषः हेतुजः अस्ति अतः अनित्यः अस्ति।यद्वस्तु जायते, तद् अनित्यम् अस्ति।यथा घटः।राशिपुरुषः मोहेच्छाद्वेषजन्यकर्मभ्यः जायते अतः सः अनित्यः।
पुरुषस्य नित्यत्वविषये इतोऽपि एका आपत्तिः अग्निवेशेन प्रदर्शिता।सः पृच्छति -
क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः॥८॥
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते।क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः॥च.शा१.९॥
आत्मा क्षेत्रज्ञः।महदादिः प्रपञ्चः क्षेत्रम्।एतयोः पूर्वं किं जातम् इति मम संशयः अस्ति। यतो हि यदि क्षेत्रज्ञः पूर्वं जातः इति मन्यामहे तर्हि क्षेत्रं विना क्षेत्रज्ञत्वं न सम्भवति।क्षेत्रं पूर्वं जातम् इति मन्यामहे चेत् क्षेत्रज्ञः अनित्यः इति सिद्ध्यति।पुरुषनित्यत्वे अग्निवेशेन दर्शिता आपत्तिः एषा।
अत्र अग्निवेशस्य अभिमतम् अनुमानम् एवम् –

पुरुषः अशाश्वतः..... प्रतिज्ञा
क्षेत्रोत्तरकाले जातत्वात्..... हेतुः
यत् क्षेत्रोत्तरकाले जातं, तद् अशाश्वतं यथा घटः..... उदाहरणम्
पुरुषः अपि क्षेत्रोत्तरकाले जातः..... उपनयः
तस्मात् पुरुषः अशाश्वतः..... निगमनम्

अशाश्वतः इति अनित्यः। पुरुषः तु अस्मिन् मते नित्यः मतः।एवं मिथः विरुद्धार्थ-प्रतिपादकम् एतद् युक्तिद्वयं मम संशयस्य बीजमिति अग्निवेशस्य अभिप्रायः।
अस्योत्तरं पुनर्वसुना अग्रे दत्तम् -
...तयोः (क्षेत्र-क्षेत्रज्ञयोः) अनादित्वात् किं पूर्वमिति नोच्यते।च.शा.१.८२
अनेन उत्तरेण क्षेत्रज्ञसंज्ञकस्य पुरुषस्य अनित्यत्वापत्तिः निराकृता।

पुरुषः प्रकृतिः अथवा विकृतिः? -[सम्पाद्यताम्]

न प्रकृतिर्न विकृतिः पुरुषः’ ।-सा.का.३
एतत् साङ्ख्यमतम् ।प्रकृतिशब्देन अत्र उपादानकारणं ग्राह्यम्।पुरुषः कस्यापि तत्त्वान्तरस्य उपादानकारणं नास्ति इत्यर्थः।

आयुर्वेदे अस्मिन् विषये अग्निवेशः पृच्छति -
प्रकृतिः का?। च.शा.१.४
तत्र पुनर्वसोः उत्तरम् एतत् –
खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः। भूतप्रकृतिरुद्दिष्टा... ॥च.शा.१.६३
सूत्रार्थः एवम्- आकाशं, वायुः, अग्निः, जलं. पृथिवी इति पञ्च भूतानि, बुद्धिः, अव्यक्तम्, अहङ्कारः, इति एतेषाम् अष्टानां तत्त्वानां ‘भूतप्रकृतिः’ इति संज्ञा अस्ति। अव्यक्तशब्देन अस्मिन् शास्त्रे प्रकृतिपुरुषयोः उभयोः अपि ग्रहणं क्रियते इति पूर्वं (च.शा.१.१७)चक्रपाणिना उक्तम्।अतः पुरुषस्य समावेशः भूतप्रकृतौ भवति इति दृश्यते।
परम् अस्य सूत्रस्य व्याख्यायाम् अव्यक्तशब्दस्य अर्थं ब्रूते चक्रपाणिः -
अव्यक्तं मूलप्रकृतिः ।- चक्रपाणिः
अव्यक्तशब्देन अत्र त्रिगुणा मूलप्रकृतिः ग्राह्या इति चक्रपाणिः ब्रूते।ननु अव्यक्तशब्देन प्रकृतिपुरुषयोः उभयोः अपि ग्रहणं क्रियते इति पूर्वं (च.शा.१.१७)चक्रपाणिना एव उक्तम्।अत्र अव्यक्तशब्देन केवलं मूलप्रकृतिः गृह्यते, पुरुषः विवर्ज्यते इति कथम्?
ब्रूमः।साङ्ख्यमतम् अनुसृत्य एतद् उच्यते। ‘प्रकृतिः का विकाराः के’ इति प्रश्नस्य उत्तरम् अत्र दीयते।अस्मिन् अधिकरणे पुरुषस्य अन्तर्भावो नोचितः यतो हि
न प्रकृतिर्न विकृतिः पुरुषः ।सा.का.३
इति साङ्ख्यमतम्।तच्च पुनर्वसुना अभ्युपगतम्।तस्मात् अधिकरणतन्त्रयुक्त्या अत्र अव्यक्तशब्दस्य ‘मूलप्रकृतिः’ इत्येवार्थकरणं न्याय्यम्।
अतः ‘न प्रकृतिर्न विकृतिः पुरुषः’ इत्येव आयुर्वेदे पुरुषस्वरूपं स्वीकृतम् इति स्पष्टम्।

पुरुषस्य निष्क्रियत्वम् -[सम्पाद्यताम्]

सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं द्रष्टृत्वम् अकर्तृभावः च॥सां.का.१९
एवं साङ्ख्यमते पुरुषः निष्क्रियः।तथापि पुरुषस्य क्रियाः दृश्यन्ते।तत् कथम् इति प्रश्ने उपस्थिते साङ्ख्याः वदन्ति -
तस्मात् तत्संयोगादचेतनं चेतनवदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः॥सां.का.२०
पुरुषः प्रकृत्या सह संयुज्यते।तेन प्रकृतेः कर्तृत्वं पुरुषे भासते।अतः सः कर्ता इव अस्ति, न तु साक्षात् कर्ता।

आयुर्वेदे अस्मिन् विषये अग्निवेशस्य एषः प्रश्नः-
निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्? च.शा.१.६
तत्र पुनर्वसोः उत्तरम् -
अचेतनं क्रियावच्च मनश्चेतयिता परः।युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः ।च.शा.१.७५
चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते।अचेतनत्वाच्च मनः क्रियावदपि नोच्यते॥७६॥
एतेषां वचनानामयं सरलार्थः -
मनः चैतन्यरहितं तथा सक्रियम् अस्ति।मनसः प्रेरकः आत्मा अस्ति।विभुः आत्मा मनसा सह युक्तः भवति, तदा ‘आत्मनः क्रिया’ इति निर्देशः भवति। आत्मा चेतनः अस्ति अतः ‘कर्ता’ इति उच्यते।मनः वस्तुतः सक्रियम् अस्ति, तथापि तद् अचेतनम् अस्ति अतः ‘कर्तृ’ इति न उच्यते।
अत्र चक्रपाणेः टीकास्पष्टार्था अस्ति-
‘निष्क्रियस्य क्रिया तस्य कथम्’ इत्यस्य उत्तरम् अचेतनम् इत्यादि। चेतयिता परः इति परः आत्मा चेतयिता परं न तु साक्षात् क्रियावान्। ननु, यदि एवं, कथं तस्य क्रिया इति आह युक्तस्य इत्यादि। आत्माधिष्ठितस्य एव मनसः क्रिया उपचाराद् आत्मनः क्रिया इति उच्यते इति अर्थः। एतद् एव उपपादयति चेतनावान् इत्यादि ।चेतनेन हि आत्मना अधिष्ठितं मनः क्रियासु प्रवर्तते, चेतना-अनधिष्ठितं तु मनः क्रियासु न प्रवर्तते; तेन यत्कृता सा क्रिया सः एव क्रियावान् इति व्यपदेष्टुं युज्यते, न तु अचेतनं मनः; तत् पराधीनक्रियत्वेन परमार्थतः क्रियावद् अपि कर्तृत्वेन न उच्यते इति वाक्यार्थः; न उच्यते इति ‘कर्तृ’ इति शेषः॥चक्रपाणिः७५-७६॥
टीकायाः सङ्क्षिप्तार्थः अयम् -
क्रिया वस्तुतः मनसः अस्ति, न आत्मनः।आत्मा निष्क्रियः।तथापि ‘आत्मनः क्रिया’ इति शब्दप्रयोगः भवति इति कथम्? अस्य प्रश्नस्य उत्तरं दत्तं चक्रपाणिना ‘उपचारात्’ इति।
सहचरणादिनिमित्तेन अतद्भावे तद्वदभिधानम् उपचारः।
आत्मनि क्रिया नास्ति।तथापि आत्मनि क्रिया अस्ति इति अभिधानम् अत्र कृतम्।एषः उपचारः।अस्य उपचारस्य निमित्तम् आत्मनः कर्त्रा प्रकृत्या सह संयोगः। ।

पुरुषस्य स्वातन्त्र्यम् - [सम्पाद्यताम्]

साङ्ख्यमते पुरुषः स्वतन्त्रः।पुरुषभिन्नं तत्त्वं प्रकृतिः।पुरुषः प्रकृत्यधीनो नास्ति इति पुरुषस्य स्वतन्त्रत्वम्।
पुरुषस्य स्वातन्त्र्यम् अभ्युपगतं चेद् अपरः प्रश्नः उद्भवति यत् स्वतन्त्रः अपि पुरुषः कीटादिषु हीनयोनिषु कथं जायते?अत्र साङ्ख्यानाम् उत्तरमेवम्-
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन। प्रकृतेर्विभुत्वयोगात् नटवद् व्यवतिष्ठते लिङ्गम्॥सां.का.४२
लिङ्गमत्र सूक्ष्मशरीरम्।तत्र महत्, अहङ्कारः, पञ्च तन्मात्राणि तथा एकादश इन्द्रियाणि इति एतानि तत्त्वानि समाविष्टानि।एतत् सूक्ष्मशरीरं पुरुषार्थहेतुकम् अस्ति।पुरुषार्थनिमित्तम् एतत् प्रवर्तते इत्यर्थः।पुरुषार्थः नाम पुरुषस्य भोगः तथा मोक्षः।भोगः नाम सुखदुःखान्यतर-साक्षात्कारः।एवं पुरुषस्य सुखार्थं, दुःखार्थं मोक्षार्थं च इदं सूक्ष्मशरीरं नटवत् नाना स्थूलदेहान् धारयते।
कारिकायां ‘निमित्तनैमित्तिकप्रसङ्गेन’ इति स्थूलदेहधारणविषये उक्तम्।निमित्तम् इति धर्मः अधर्मः वा।नैमित्तिकमिति स्थूलशरीरम्।यथा निमित्तं तथा नैमित्तिकम्।यथा पूर्वम् अर्जितौ धर्माधर्मौ तथा उत्तरशरीरलाभः इत्यर्थः।
अत्र पुरुषः धर्माचरणे अधर्माचरणे च स्वतन्त्रः।ततः तदनुसारं स्थूलशरीरलाभः भवति, सः तु प्रकृतेः विभुत्वयोगात् भवति।तत्र पुरुषस्य स्वातन्त्र्यं न भवति।धर्माधर्माचरणे एव तस्य स्वातन्त्र्यम् ।तदुक्तम्-
धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण।॥सां.का.४४
स्वतन्त्रोऽपि पुरुषः हीनयोनिषु कथं जायते इत्यस्य साङ्ख्यैः दत्तम् एतदुत्तरम्।

आयुर्वेदे पुरुषस्य स्वातन्त्र्यमादाय एषः प्रश्नः अग्नेवेशेन अपि पृष्टः।
स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते? च.शा.१.६
तत्र पुनर्वसोः उत्तरम् ईदृशम् – यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु। प्राणैस्तन्त्रयते प्राणी न ह्यन्योऽस्त्यस्य तन्त्रकः॥ -च.शा.१.७७॥
प्रत्येकं प्राणी स्वस्वकर्मभिः स्वयम् आत्मानं सर्वासु योनिषु प्राणैः सह संयोजयति।यतः अस्य अन्यः नियामकः नास्ति इति सूत्रार्थः।
सम्प्रति स्वतन्त्रत्वे अपि अनिष्टयोनिगमनम् आक्षिप्तं समादधाति यथास्वेनेत्यादि। सर्वासु नर-गो-हस्ति-कीटादियोनिषु। प्राणैः तन्त्रयते प्राणैः योजयति, आत्मना एव अयं धर्म-अधर्मसहायेन आत्मानं सर्वयोनिषु नयति, न परप्रेरितो याति; यतः न अन्यः पुरुषः अस्य प्रेरकः अस्ति ईश्वराभावात्; किंवा सति अपि ईश्वरे तस्य अपि कर्मपराधीनत्वात्। इदमेव च अस्य अनिष्ट-योनि-गमने स्वातन्त्र्यं यद् अनिष्टयोनिगमनहेतु-अधर्मकरणे स्वातन्त्र्यम्, अधर्मकरण-आरब्ध-स्वकर्मणा एव अयम् अनिच्छन् अपि नीयते इति अनिष्टयोनिगमनं भवति; स्वातन्त्र्यं च यथोक्तं भवति॥ - च.शा.१.७७ चक्रपाणिः॥
पुरुषः स्वतन्त्रः अस्ति चेत् सः अनिष्टासु योनिषु कथं जायते इति अग्निवेशस्य प्रश्नः आसीत्। तस्य उत्तरम् अत्र दत्तम्।
यथास्वेन इत्यस्य अर्थः स्व-धर्माधर्मम् अनतिक्रम्य। यथा स्वस्य धर्माधर्मौ स्तः, तदनुसारम्।
‘न ह्यन्योऽस्ति अस्य तन्त्रकः’ इति सूत्रांशस्य द्विधा स्पष्टीकरणम् उच्यते चक्रपाणिना। तन्त्रकः इति नियामकः।पुरुषस्य तन्त्रकः ईश्वरः नास्ति इति एकं स्पष्टीकरणम्।पुरुषस्य तन्त्रकः अपरः कोऽपि पुरुषः नास्ति इति द्वतीयं स्पष्टीकरणम्।
पुरुषस्य तन्त्रकः ईश्वरः सम्भवति अथवा अन्यः पुरुषः।जडः महादादिप्रपञ्चः वा प्रधानं वा चेतनस्य तन्त्रकः भवितुं नार्हति।
साङ्ख्यमते ईश्वराङ्गीकारः नास्ति।तत्र अन्यः पुरुषः पुरुषस्य तन्त्रकः वा इति प्रश्नः उद्भवति। तस्योत्तरम् इदमेव ‘न ह्यन्योऽस्ति अस्य तन्त्रकः’ इति ।
सेश्वरसाङ्ख्याः अपि केचन सन्ति।तत्र ईश्वरः पुरुषस्य तन्त्रकः वा इति प्रश्नः सम्भवति। तस्य अपि उत्तरम् इदमेव ‘न ह्यन्योऽस्ति अस्य तन्त्रकः’ इति ।ईश्वरः अपि अत्र नियामकः नास्ति इति कथम्? इति आशङ्कायाः उत्तरं वदति चक्रपाणिः ‘तस्यापि कर्मपराधीनत्वात्’ इति।
योगदर्शनं सेश्वरम्।तत्रापि जीवस्य कर्मानुसारं तस्य जन्म भवति इति पतञ्जलिना उक्तम् -
...तद्विपाकाः जात्यायुर्भोगाः ।- पातञ्जलयोगदर्शनं २.१३
ईश्वरः जीवं शरीरेण संयोजयति इति अङ्गीकृतं चेद् अपि सः जीवकर्मानुसारं तं तेन तेन शरीरेण संयोजयति इत्येव योगिभिः मन्यते।एवमीश्वराङ्गीकारे अपि पुरुषः एव स्वस्य तन्त्रकः भवति, नेश्वरः।
पुरुषः कर्माचरणे स्वतन्त्रः अस्ति, न फलभोगे इति आशयः।सः यथेच्छं धर्मं वा अधर्मं वा कर्तुं स्वतन्त्र:।ततः फलभोगे तु तस्य स्वातन्त्र्यं नास्ति।अयमाशयः उक्तः टीकाकारेण इदमेव च इत्यादिना।
पुरुषः स्वतन्त्रः सन् अपि अनिष्टासु योनिषु कथं जायते इति प्रश्नस्य याज्ञवल्क्यमुनिना दत्तम् उत्तरम् एवम् –
अन्त्य-पक्षि-स्थावरतां मनोवाक्कायकर्मजैः। दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च॥याज्ञ.स्मृतिः यतिधर्मप्र.१३१
रजसा तमसा चैवं समाविष्टो भ्रमन्निह। भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते॥ याज्ञ.स्मृतिः यतिधर्मप्र.१४०

पुरुषस्य वशित्वम् -[सम्पाद्यताम्]

वशित्वं नाम स्वेच्छाधीनप्रवृत्तिमत्त्वम्।पुरुषः स्वाधीनः अस्ति न वेति प्रश्नः।साङ्ख्यमते पुरुषः निष्क्रियः।सः नैव कर्मणि प्रवर्तते।सः द्रष्टा, न तु कर्ता।
तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं, द्रष्टृत्वम् अकर्तृभावश्च॥सांका.१९
आयुर्वेदे अस्मिन् विषये अग्नेवेशेन पृष्टम् -
वशी यद्यसुखैः कस्माद् भावैराक्रम्यते बलात्? च.शा.१.७
यदि पुरुषः वशी अस्ति तर्हि सः दुःखकरैः भावैः बलात् कस्मात् आक्रान्तः भवति इति प्रश्नस्य आशयः।
पुरुषस्य वशित्वम् आदाय अयं प्रश्नः । वशी इति स्वाधीनः ।बलात् इति अनिच्छया।कोऽपि जीवः दुःखं नेच्छति।सर्वे सुखमेव इच्छन्ति।तथापि पुरुषः दुःखेन आक्रान्तो भवति इति लोके दृष्टम्। पुरुषः यदि स्वाधीनः अस्ति तर्हि सः अनिच्छन् अपि दुःखेन किमर्थम् आक्रान्तो भवति? इति अग्निवेशस्य आशयः।याज्ञवल्क्यस्मृतौ अपि एषः प्रश्नः विमृष्टः-
ईश्वरः स कथं भावैरनिष्टैः सम्प्रयुज्यते? अ याज्ञ.स्मृतिः यतिधर्मप्रकरणम्१२९
अग्निवेशेन कृतस्य प्रश्नस्य उत्तरम् पुनर्वसुना दत्तम्।एतदुत्तरं राशिपुरुषं मनसि कृत्वा दत्तं, न तु चेतनाधातुरूपं पुरुषं मनसि कृत्वा –
वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते। वशी चेतः समाधत्ते वशी सर्वं निरस्यति॥ च.शा.१.७८
पुरुषः स्ववशः अस्ति अतः शुभं वा अशुभं वा कर्म करोति, तत् कृत्वा कर्मविपाकरूपेण तस्य फलं भुङ्क्ते।पुरुषः स्ववशः अस्ति अतः अनिष्टात् कर्मणः मनः परावर्तयितुं शक्नोति।पुरुषः स्ववशः अस्ति अतः मोक्षार्थं सर्वं कर्म संन्यस्यति।एषः सूत्रार्थः।

वशीशुभं कर्म कुरुते वशी अशुभं कर्म कुरुते वशीचेतः समाधत्ते वशी सर्वं निरस्यति
ततः ततः ततः ततः
शुभं फलम् आप्नोति अशुभं फलम् आप्नोति अशुभकर्मणः मनो निवर्तयति मोक्षम् आप्नोति
ततः
अशुभफलं न आप्नोति

अत्र चक्रपाणेः टीका अपि स्पष्टार्था-
‘वशी यद्यसुखैः कस्माद्भावैराक्रम्यते’ इत्यस्य उत्तरं वशीत्यादि। वशी स्वेच्छाधीनप्रवृत्तिः (इष्टे अनिष्टे वा आत्मा ,); तेन, वशी सन् अयं तानि कर्माणि करोति शुभानि अशुभानि वा आपातफलरागात्, यानि कृत्वा तत्कर्मप्रभावात् शुभेन अशुभेन वा फलेन योगम् आप्नोति। एतेन कर्तव्ये कर्मणि अस्य वशित्वं, कृतकर्मफलं तु अस्य अनिच्छतः अपि भवति; तेन तत् प्रति न अस्य वशित्वम्। अन्यद् अपि वशित्वफलम् आह- वशी चेतः समाधत्ते इति। अनिष्टे अर्थे वशी सन् अयं मनो निवर्तयति; यदि हि अयं वशी न स्यात्, न मनो निवर्तयितुं शक्नुयात्। अपरम् अपि वशित्वगमकं कर्म आह वशी सर्वं निरस्यति इति। वशी सन् अयं मोक्षार्थं प्रवृत्तः सर्वारम्भं शुभाशुभफलं त्यजति इति अर्थः। - चक्रपाणिः
वशी इति पदस्य अर्थः स्वेच्छाधीनप्रवृत्तिः।स्वस्य इच्छा स्वेच्छा।स्वेच्छाधीना प्रवृत्तिः यस्य सः स्वेच्छाधीनप्रवृत्तिः इति बहुव्रीहिः।पुरुषस्य विशेषणम् इदम्।शुभकर्मणि वा अशुभकर्मणि वा पुरुषस्य प्रवृत्तिः पुरुषाधीना एव अस्ति।अतः कर्मकरणे सः वशी।
अशुभकर्मणि पुरुषस्य प्रवृत्तिः कथं वा स्यात् इति आशङ्का सम्भवति।तस्य उत्तरं वदति चक्रपाणिः ‘आपातफलरागात्’ इति।अयम् आपातफलरागः कथं भवति इति उक्तं भगवता –
विषयेन्द्रियसंयोगात् यत् तद् अग्रेऽमृतोपमम्। परिणामे विषमिव तत् सुखं राजसं स्मृतम्॥भ.गीता १६.३८
आपाततः अमृतोपमं फलं दृष्ट्वा राजसाः जनाः तज्जनकं कर्म कुर्वन्ति।तदा शुभशुभचिन्तां न कुर्वन्ति।
वशी चेत्, दुःखैःकिमर्थम् आक्रम्यते पुरुषः इत्यस्य प्रश्नस्य स्पष्टमुत्तरम् उच्यते चक्रपाणिना-
एतेन कर्तव्ये कर्मण्यस्य वशित्वं,कृतकर्मफलं त्वस्यानिच्छतोऽपि भवति; तेन तत्प्रति नास्य वशित्वम्।- चक्रपाणिः
अस्याः टीकायाः आशयः एवम्-

पुरुषः वशी .......... शुभाशुभकर्माचरणे
पुरुषः न वशी .......... कृतकर्मणां फलभोगे

पुरुषस्य शरीरग्रहणम् -[सम्पाद्यताम्]

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्॥सांका.४०
अस्मिन् विषये साङ्ख्यानां मतम् एवम् - लिङ्गमिति सूक्ष्मशरीरम्।तत् पूर्वतनकल्पे एव उत्पन्नम्।तत् कुत्रापि सक्तं न भवति। महद्, अहङ्कारः, पञ्चतन्मात्राणि, तथा एकादश इन्द्रियाणि इति अस्य लिङ्गस्य स्वरूपम्। एतत् लिङ्गं स्थूलाश्रयं विना स्वयमुपभोगं कर्तुं समर्थं नास्ति।अतः तत् देहं देहं सञ्चरति।बुद्धौ धर्माधर्मरूपाः भावाः सन्ति।अतः तैः भावैः एतत् लिङ्गम् अपि अङ्कितं भवति।तं तं भावम् अनुसृत्य लिङ्गं तं तं स्थूलदेहम् आश्रयते।
एवं पुरुषस्य भोगार्थं, मोक्षार्थं च सूक्ष्मशरीरं संसरति।‘पुरुषस्य भोगः’ इति वचनस्य तात्पर्यम् अवधेयम्।भोगः स्थूलशरीरं विना न शक्यः, अतः तत् सूक्ष्मशरीरं स्थूलशरीरं गृह्णाति।पूर्वार्जितौ धर्माधर्मौ यथा स्तः तथा स्थूलदेहस्य ग्रहणं भवति।अस्मिन् स्थूलशरीरे सूक्ष्मशरीरं विद्यते, चेतनः पुरुषः अपि विद्यते।यद्यपि पुरुषः असङ्गः, तथापि सः अविवेकेन बुद्धेः सुखदुःखादिधर्मान् स्वधर्मान् मन्यते।तेन आत्मानं सः क्वचित् सुखिनं मन्यते, क्वचिद् दुःखितं मन्यते।एषः एव तस्य भोगः।वस्तुतः सः सुखदुःखाभ्याम् अस्पृष्टः।
यद्यपि पुरुषाः नाना, सूक्ष्मशरीराणि नाना तथा स्थूलशरीराणि अपि नाना तथापि पुरुषस्य केनचिदेकेन नियतेन सूक्ष्मशरीरेण सम्बन्धः वर्तते, केनचिद् एकेन नियतेन स्थूलशरीरेण च सम्बन्धः वर्तते। तस्मिन् तस्मिन् सूक्ष्मशरीरे विद्यमानाभ्यां धर्माधर्माभ्यां सः स्पृष्टः इव भवति।तस्मिन् तस्मिन् स्थूलशरीरे विद्यमानेन सुखदुःखात्मकेन भोगेन सः स्पृष्टः इव भवति।
पुरुषस्य शरीरग्रहणविषये साङ्ख्यविज्ञानम् एतत् ।अस्य आधारेण पुनर्वसुः अग्निवेशस्य समाधानं करोति। अग्निवेशस्य प्रश्नः एवम् –
सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः? च.शा.१.७
यदि पुरुषः सर्वगः तर्हि सर्वाः वेदनाः सः किमर्थं न वेत्ति इति अग्निवेशस्य प्रश्नः। अस्मिन् देहे वर्तमानः पुरुषः परपुरुषगतं सुखं वा दुःखं वा न जानाति।पुरुषः सर्वगतः अस्ति तथापि सः परपुरुषगतं सुखं दुःखं वा किमर्थं न जानाति इति प्रश्नस्य आशयः।
प्रश्नोऽयं याज्ञवल्क्यस्मृतौ अपि उत्थापितः-
वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम्? याज्ञ.स्मृतिः यतिधर्मप्रकरणम्१३०
अग्निवेशस्य प्रश्नमुत्तरति पुनर्वसुः -
देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये।सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः ॥
देहे विद्यमानः आत्मा सर्वगतः अस्ति तथापि स्वस्य तस्य स्पर्शनेन्द्रियं यत्र विद्यते, तस्मिन् शरीरे सः एव वेदनाः जानाति।परन्तु अन्येषु आश्रयभूतेषु शरीरेषु तस्य स्वीयं स्पर्शनेन्द्रियं नास्ति अतः सर्वशरीरेषु विद्यमानाः सर्वाः वेदनाः सः न जानाति इति उत्तरस्य आशयः।
अत्र चक्रपाणेः टीका एवम् –
‘सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः’ इत्यस्य उत्तरम् आह- देहीत्यादि। सर्वगतः इति सर्वगतः अपि सन्, संस्पर्शनेन्द्रिये इति संस्पर्शनयुक्ते शरीरे, वेदनाः सुखदुःखरूपा वेत्ति, सर्वाश्रयस्थाः तु न वेत्ति इति योजना। यस्मात् सर्वगतः अपि आत्मा स्वकीये एव स्पर्शनवति शरीरे परं वेदना वेत्ति, तेन सर्वाश्रयस्थाः सर्ववेदनाः न वेत्ति इति वाक्यार्थः।सर्वाश्रयस्थाः इति सर्वपरशरीरगताः । परशरीरे च आत्मा स्व-कर्म-उपार्जित-इन्द्रियाभावाद् विद्यमानः अपि न उपलभते सुखदुःखे।- चक्रपाणिः
अर्थः इन्द्रियैः एव ज्ञायते। अन्यस्मिन् शरीरे आत्मनः स्वस्य इन्द्रियाणि न सन्ति।अतः आत्मा यद्यपि अन्येषु शरीरेषु अस्ति, तथापि साधनाभावात् सः अन्यशरीरस्थानि सुखदुःखानि न जानाति इति प्रश्नस्य उत्तरम्।
याज्ञवल्क्येन अस्य प्रश्नस्य उत्तरं दत्तं तद् अपि एवमेव-
सर्वाश्रयां निजे देहे देही विन्दति वेदनाम्।याज्ञ.स्मृतिः यतिधर्मप्रक.१४३
यः पुनर्देही देहाभिमानयुक्तः, सः सर्वाश्रयाम् आध्यात्मिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्राप्नोति, न देहान्तरगताम्।भोगायतनारम्भादृष्टवैलक्षण्यादेव।– तत्रैव मिताक्षरा टीका

सर्वगतोऽप्यात्मा स्वकर्मभिः एकं देहं गृह्णाति।..... अतः तत्र वेदनाः वेत्तुं प्रभवति..... स्वे संस्पर्शनेन्द्रिये वेदनाः वेत्ति
सर्वगतोऽप्यात्मा अन्येषु देहेषु स्वकर्मार्जितत्वसम्बन्धेन नास्ति..... अतः तत्र वेदनाः वेत्तुं न प्रभवति..... सर्वाश्रयाः वेदनाः न वेत्ति

पुरुषस्य साक्षित्वम् -[सम्पाद्यताम्]

साङख्यमते पुरुषः साक्षी।
तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य।सां.का.१९
अत्र ‘तस्मात् विपर्यासात् ‘ इति उक्तम्।कस्माद् विपर्यासात् इति प्रश्ने उपस्थिते एकादशी कारिका अनुसन्धेया।तस्यां कारिकायां व्यक्तप्रधानयोः केचन धर्माः उक्ताः -
त्रैगुण्यमविवेकि विषयःसामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्। सां.का.११
अत्र ये व्यक्तप्रधानयोः धर्माः उक्ताः, तस्मात् विपर्यासात् पुरुषधर्माः ज्ञेयाः इत्यर्थः।तदेवम्-

व्यक्तप्रधानयोः धर्मः (सांका.११) तस्मात् विपर्यासः पुरुषधर्मः(सांका.१९)
त्रिगुणमयत्वम् त्रिगुणरहितत्वम्
अविवेकः विवेकः
विषयत्वम् अविषयत्वम्
सामान्यत्वम् असामान्यत्वम्
अचेतनत्वम् चेतनत्वम्
प्रसवधर्मिता अप्रसवधर्मिता

पुरुषः चेतनः अस्ति तथा अविषयः अस्ति अतः साक्षी अपि भवितुमर्हति।यः चेतनः पदार्थः सः एव साक्षी सम्भवति, न जडः पदार्थः।तथैव यः साक्षी, सः साक्ष्य-विषये अन्तर्भूतः न स्यात्। अत्र साक्ष्यविषयः महदादिप्रपञ्चः।तत्र पुरुषः न अन्तर्भूतः।अतः सः साक्षी इति उच्यते।

साक्षी….. पुरुषः
साक्ष्यः..... महदादिप्रपञ्चः

आयुर्वेदे सुश्रुतसंहितायां पुरुषस्य साक्षित्वम् अभ्युपगतम्
तत्र स्त्रीपुंसयोः संयोगे.....गर्भाशयम् अनुप्रपद्यते क्षेत्रज्ञः.....साक्षी....। सु.शा.३.४
चरकसंहितायाम् अपि पुरुषस्य साक्षित्वम् अङ्गीकृतम्।परं तत्र कश्चन प्रश्नः अग्निवेशेन उपस्थापितः।स एवम् -
साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते। च.शा.१.१०
यदि पुरुषः साक्षी अस्ति तर्हि कस्य साक्षी अस्ति? यतः अस्य प्रपञ्चस्य कर्ता अन्यः नास्ति।एषः सूत्रार्थः।
पुरुषः साक्षी अस्ति इति आत्मज्ञाः वदन्ति।पुरुषस्य तत् साक्षित्वम् उद्दिश्य कृतः अयं प्रश्नः। प्रश्नस्य आकूतम् एवमस्ति।
बोद्धृत्वे सति अकर्तृत्वं
साक्षित्वस्य लक्षणम्।पुरुषः साक्षी अस्ति इति आत्मज्ञानां मतम्।तदङ्गीकारे पुरुषः प्रपञ्चस्य केवलं बोद्धा भवितुम् अर्हति, न कर्ता। तर्हि प्रपञ्चस्य कर्ता कः? यतो हि पुरुषाद् अन्यः कोऽपि कर्ता नास्ति इति आत्मज्ञानां मतम्।
‘चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते’ (च.शा.१.७६)
इति अत्रैव अग्रे मुनिः प्रतिपादयिष्यति च।यदि आत्मनः कर्तृत्वम् अङ्गीक्रियते तर्हि तस्य साक्षित्वं न घटते ।यदि आत्मनः कर्तृत्वं नाङ्गीक्रियते तर्हि प्रपञ्चस्य अन्यः कर्ता कोऽपि न उपलभ्यते।एवं विरुद्धार्थप्रतिपादक-उपपत्ति-द्वयम् अग्निवेशस्य सन्देहं जनयति।

पुरुषः प्रपञ्चस्य कर्ता अस्ति पुरुषः प्रपञ्चस्य कर्ता नास्ति
तर्हि तर्हि
तस्य साक्षित्वं न घटते प्रपञ्चस्य अन्यः कश्चित् कर्ता अपेक्षितः, स च न दृश्यते

अत्र पुनर्वसोः उत्तरम् -
ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः। सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः॥ च.शा.१.८३॥
लोके यः ज्ञाता, सः एव साक्षी इति उच्यते।अज्ञः कदापि साक्षी इति न उच्यते।अतः आत्मा साक्षी इति स्वीकृतः।यतो हि सर्वेषां भूतानां सर्वे भावाः आत्मना एव ज्ञायन्ते, न अन्येन।अयं सूत्रार्थः।
प्रश्नस्य उत्तरम् एवं यत् साक्षित्वं चेतनस्य एव सम्भवति, न जडस्य।परन्तु आत्मव्यतिरिक्तः कोऽपि पदार्थः चेतनः नास्ति। अतः यद्यपि ‘बोद्धृत्वे सति अकर्तृत्वम्’ इति साक्षिलक्षणं, तथापि अनन्यगत्या कर्ता सन् अपि आत्मा ‘साक्षी’ इति उच्यते।
ननु कुतः इयमगतिः?आत्मा साक्षी अस्तु।प्रपञ्चकर्तृत्वम् महदादेः अन्यस्य कस्यचित् भवतु।
न। जडस्य यथा बोद्धृत्वं न घटते तथा कर्तृत्वम् अपि न घटते।अतः आत्मा एव कर्ता। स एव बोद्धा।

ज्ञः पदार्थः अज्ञः पदार्थः
कर्ता च बोद्धा च साक्षी च अकर्ता च अबोद्धा च असाक्षी च

पुरुषस्य विकारराहित्यम् – [सम्पाद्यताम्]

सुखम् अथवा दुःखम् इति एतौ विकारौ।तौ पुरुषस्य सम्भवतः अथवा न इति प्रश्नः।
तत्र जरा-मरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः। लिङ्गस्य आविनिवृत्तेः तस्माद् दुःखं स्वभावेन॥सांका.५५
तत्र इति शरीरे। शरीरे पुरुषः नानाविधं दुःखं प्राप्नोति। लिङ्गस्य विनिवृत्तिपर्यन्तम् एतद् दुःखं भवति।एतत् साङ्ख्यमतम्।
वस्तुतः सुखं वा दुःखं वापि लिङ्गशरीरस्य धर्मौ, न पुरुषस्य।तथापि पुरुषः अविवेकेन लिङ्गधर्मौ सुखदुःखौ स्वधर्मौ इति मन्यते।तेन सः सुखमनुभवति, दुःखमनुभवति च।एवं पुरुषः सुखदुःखविकाररहितः।अविवेकेन सः विकारयुतः इति भासते।
साङ्ख्यतत्त्वानां प्रतिपादनं भगवद्गीतायाम् अपि स्थाने स्थाने विद्यते।तत्र अपि पुरुषस्य विकारित्वविषये अयमेव विचारः प्रदर्शितः यत् ‘सुखदुःखे प्रकृतिधर्मौ , न तु पुरुषधर्मौ’। प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥भ.गीता.१३.२०
...गुणाश्च प्रकृतिसम्भवाः सुखदुःखमोहात्मकाः...। शाङ्करभाष्यम्।
यदि सुखदुःखे प्रकृतिधर्मौ, तर्हि पुरुषः ‘अहं सुखी,’ ‘अहं दुःखी’ इति कथमनुभवति इति अस्य प्रश्नस्य उत्तरम् अपि तदेव दीयते यत् साङ्ख्यकारिकायाम् उक्तम्।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥भ.गीता१३.२२
यत्पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वम् इत्युक्तं, तस्य तत्किंनिमित्तम्?इत्युच्यते पुरुषः इति।....प्रकृतिस्थः प्रकृतिमात्मत्वेन गतः इति एतद् हि यस्मात् तस्मात् भुङ्क्ते उपलभते इत्यर्थः।प्रकृतिजान् प्रकृतितो जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान् ‘सुखी दुःखी मूढः पण्डितोऽहम्’ इत्येवम्।–शाङ्करभाष्यम्।

अधुना पुरुषस्य विकारित्वविषये आयुर्वेदे विद्यमानं प्रतिपादनं पश्यामः।सुश्रुतसंहितायां पुरुषाः मध्यस्थधर्माणः इति प्रतिपादितम्-
.....पुरुषाः ... मध्यस्थधर्माणः चेति।सु.शा.१.९
मध्यस्थधर्माणः... इति प्रीति-अप्रीति-विषाद-अयोगेन इच्छाद्वेषशून्यत्वात्...। डह्लणः।
एवं केवलस्य पुरुषस्य विकारशून्यत्वं यत् साङ्ख्यैः अभिहितं, तत् सुश्रुताचार्येण अभ्युपगतम्।
ननु ‘अहं सुखी’, ‘अहं दुःखी’ इत्यादयः अनुभवाः पुरुषस्य भवन्ति, तेषां का व्यवस्था इति प्रश्नः उद्भवति।
पञ्चमहाभूतशरीरिसमवायः पुरुषः इति, स एव कर्मपुरुषः, चिकित्साधिकृतः।सु.शा.१.१६
तस्य सुखदुःखे इच्छाद्वेषौ..... गुणाः इति।सु.शा.१.१७
इदानीं तस्य एव कर्मपुरुषस्य शरीरात्मनोः संयोगकारकेण मनसा संयोगे ये गुणाः उत्पद्यन्ते, तानाह तस्येत्यादि।डह्लणः।
एवं सुखदुःखरूपाः विकाराः कर्मपुरुषस्य. सम्भवन्ति।कर्मपुरुषः नाम पञ्चमहाभूतैः समवेतः चेतनाधातुः।पञ्चमहाभूतैः समवेतः इत्युक्ते प्रकृतिसंयुक्तः इति स्पष्टम्।यतो हि प्रकृतिपुरुषसंयोगादेव महाभूतानि परम्परया जायन्ते।अतः अत्रापि पुरुषस्य विकारित्वम् इति प्रकृतिसंयुक्तपुरुषस्य विकारित्वम् अवगन्तव्यम्, न केवलस्य चेतनाधातोः।

चरकसंहितायां प्रथमे अध्याये एव पुरुषस्य निर्विकारत्वं प्रतिपादितम् –
निर्विकारः परस्त्वात्मा ।च.सू.१.५६
अग्रे शारीरस्थानस्य प्रथमेऽध्याये अग्निवेशेन अस्मिन् सन्दर्भे पृष्टम् -
स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः॥च.शा.१.१०॥
पुरुषः विकाररहितः अस्ति इति आत्मज्ञानां मतम्।अविकारस्य वेदनाजन्यः विशेषः कथं भवति इति अग्निवेशस्य प्रश्नः। वेदना इत्युक्ते ज्ञानम्।‘पुत्रः जातः’ इति ज्ञानेन पुरुषस्य हर्षः भवति।‘पुत्रः मृतः’ इति ज्ञानेन पुरुषस्य दुःखं भवति।अयं वेदनाकृतः इत्युक्ते ज्ञानजन्यः सुखदुःखरूपः विशेषः।यदि पुरुषः विकाररहितः, तर्हि एते विशेषाः कथं भवन्ति इति प्रश्नस्य आशयः। तत्र पुनर्वसुः उत्तरति –
नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते। विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते॥- च.शा.१.८४॥
संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः।वेदना यत्र नियता विशेषस्तत्र तत्कृतः॥ च.शा.१.८५॥
भूतात्मा कदापि प्राणापानादिलिङ्गैः रहितः एकः न उपलभ्यते। प्राणापानादिलिङ्गैः एव सः उपलभ्यते।लक्षणरहितस्य अतः अनुपलभ्यस्य तस्य एकस्य कोऽपि विशेषः न अस्ति इति एषः सूत्रार्थः।
चक्रपाणिः अत्र विवृणोति -
‘स्यात् कथं चाविकारस्य’ इत्यादिप्रश्नस्य उत्तरं- नैक इत्यादि। अविकारस्य परमात्मनः वेदनाकृतः विशेषः नास्ति एव, यत्र तु वेदनाकृतः विशेषः, स राशिरूपः परमात्मव्यतिरिक्तः एव इति वाक्यार्थः। भूतानाम् अधिष्ठाता आत्मा भूतात्मा, अयं भूतात्मा एकः भूतव्यतिरिक्तः न लक्षणैः प्राणापानादिभिः उक्तैः उपलभ्यते...। - चक्रपाणिः
अस्याः टीकायाः आशयः एवम् -
प्रकृते विकाराः महदादयः।अविद्यमानाः विकाराः यस्य सः अविकारः। महदादिभिः संसर्गरहितः इत्यर्थः।अतः एकः इत्यपि उच्यते।लक्षणानि प्राणापानादीनि, पूर्वम् (च.शा.१.७०-७४) उक्तानि।तेषु लक्षणेषु सुखदुःखे अपि समाविष्टे(च.शा.१.७२)।अतः ‘अविकारस्य पुरुषस्य लक्षणानि न सन्ति’, इति वचनादेव ‘अविकारस्य पुरुषस्य सुखदुःखे न स्तः’ इति अर्थः लभ्यते।
अविकारे पुरुषे सुखदुःखरूपः वेदनाकृतः विशेषः कथं विद्यते इति अग्निवेशस्य प्रश्नः आसीत्।‘अविकारे पुरुषे सुखदुःखरूपः वेदनाकृतः विशेषः न विद्यते’ इति तस्य उत्तरम् अत्र उक्तम्।
यदि आत्मनः सुखदुःखरूपो विशेषः न विद्यते तर्हि सः विशेषः विद्यते कुत्र? किञ्च स्वयमेव मुनिना
‘… लिङ्गानि परमात्मनः’ (च.शा.१.७२)
इति यानि परमात्मलिङ्गानि गणितानि, तेषु वेदनाकृतविशेषस्य सुखदुःखरूपस्य अन्तर्भावः दृश्यते।अधुना कथमिदमुच्यते यत् पुरुषस्य सुखदुःखरूपः विशेषः नास्ति इति?
अस्य उत्तरमुच्यते ‘संयोगपुरुषस्येष्टः’ इत्यादिसूत्रे।चतुर्विंशतिकपुरुषे सुखदुःखे विद्येते। एतानि लिङ्गानि परमात्मनः इति यदुक्तं तत्रापि परमात्मशब्देन संयोगपुरुषः एव विवक्षितः, न तु विकाररहितः एकः पुरुषः।

अविकारः आत्मा = एकः पुरुषः

चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः। च.शा.१.१७

सविकारः आत्मा = संयोगपुरुषः

खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः। च.शा.१.१६
अथवा
पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः।च.शा.१.१७

सुखदुःखरूपा वेदना नास्ति सुखदुःखरूपा वेदना अस्ति
अतः विकाररहितः अतः सविकारः

साङ्ख्यायुर्वेदयोः

"https://sa.wikibooks.org/w/index.php?title=पुरुषः&oldid=7247" इत्यस्माद् प्रतिप्राप्तम्