पुरुषाद्यधिकरणं...

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- पुरुषाद्यधिकरणं विवृणुत।(३.३.२४)
उ.-
अधिकरणसङ्गति:।
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे उक्तं यद् असाधारणगुणानां प्रत्यभिज्ञानं भवति चेदेव उपसंहारो न्याय्य:।अत्र मरणमेव अवभृथम् इति असाधारणधर्मस्य प्रतिभिज्ञा अस्ति तथापि उपसंहारो न न्याय्य: इति प्रत्युदाहरणसङ्गत्या इदमधिकरणम् आरभ्यते।अत्रेदं सूत्रम्-
पुरुषविद्यायामिव चेतरेषामनाम्नानात्।३.३.२४
विषय:-
विशय:-
पैङ्गिरहस्ये पुरुषो वाव यज्ञ:। इति एतादृशी पुरुषविद्या उक्ता।तैत्तिरीये अपि तस्यैवं विदुषो यज्ञस्यात्मा इति पुरुषविद्या श्रूयते।अस्यां तैत्तिरीयोक्तविद्यायाम् पैङ्गिरहस्योक्तविद्याया: उपसंहार: कर्तव्य: न वा?
पूर्वपक्ष:-
उपसंहार: कर्तव्य:,मरणरूपावभृथम् उभयत्र श्रूयते।असाधारणधर्मप्रत्यभिज्ञानाद् उपसंहारो उपपन्न:।
उत्तरपक्ष:-
उपसंहारो न न्याय्य:।यतो हि
१ तैत्तिरीयोक्तपुरुषविद्यायां ये गुणा: श्रुता: ते इतरेषां पुरुषविद्यायां न आम्नाता:।अत्र भिन्नमेव अनुक्रमणम्।भिन्नं सवनसम्पादनम्।
२ मरणरूपावभृथमिति साम्यमस्ति तथापि साम्यमत्यल्पं, वैलक्षण्यं भूय:। भूयसा वैलक्षण्येन अल्पीयस: साम्यस्य अभिभवो भवति।
निर्णय:-
तैत्तिरीयकपुरुषविद्यायामन्येषामुपसंहारो न न्याय्य:।

३.३ ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:

"https://sa.wikibooks.org/w/index.php?title=पुरुषाद्यधिकरणं...&oldid=5704" इत्यस्माद् प्रतिप्राप्तम्