पूर्ववदनुमानम्
साङ्ख्यशास्त्रे प्रत्यक्षम् अनुमानं तथा आप्तवचनम् इति प्रमाणत्रितयम् अङ्गीक्रियते।तत्र अनुमानं त्रिविधमुक्तम् – पूर्ववदनुमानं, शेषवदनुमानं, सामान्यतोदृष्टमनुमानं च ।
पूर्ववदनुमानस्य लक्षणम् -
कारणलिङ्गकम् अनुमानं पूर्ववदनुमानम्।
यत्र कारणेन कार्यमनुमीयते, तत् पूर्ववद् अनुमानम्।यथा गगने मेघोन्नतिं दृष्ट्वा वृष्टिः अनुमीयते।अत्र मेघः कारणम्।वृष्टिः कार्यम्।कारणात् कार्यमनुमीयते अतः पूर्ववदनुमानमिदम्।
आयुर्वेदे साङ्ख्योक्तस्य पूर्ववदनुमानस्य प्रयोगाः
[सम्पाद्यताम्]१ तस्याशितीयाध्याये एतत् सूत्रं विद्यते-
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति॥(च.सू.६) ४१
अत्र चक्रपाणेः टीका एवम्-
आचितम् इति वर्षासु।– चक्रपाणिः
अत्र एवं प्रश्नः उत्पन्नः यत् शरदि यत् कुप्यति, तत् पित्तं ‘वर्षासु’ आचितम् इति ग्रन्थे तु न निबद्धम्। वर्षासु पित्तसञ्चयः भवति इति वर्षाचर्यायामपि नोक्तम्। कथमयमर्थः चक्रपाणिना कृतः?
अत्रोत्तरं वर्षासु पित्तचयस्य प्रमाणसिद्धत्वात्।किं तत्र प्रमाणम्? पूर्ववदनुमानम्। अनुमानस्य आकारः एवं भविष्यति-
वर्षासु पित्तचयसद्भावः | प्रतिज्ञा |
---|---|
पित्तचयकारणाहारात् (व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि।च.सू..३७) | हेतुः |
यत्र पित्तचयकारणाहारः, तत्र पित्तचयःयथा कस्मिंश्चित् पित्तरोगिणि। | व्याप्तिपूर्वकः!दृष्टान्तः |
वर्षासु अपि पित्तचयकारणीभूताहारः विद्यते | उपनयः |
तस्मात् वर्षासु पित्तचयसद्भावः | निगमनम् |
अतः यद्यपि सूत्रे वर्षासु आचितं पित्तम् इति उल्लेखः न दृश्यते, तथापि इदमाचितं पित्तं वर्षासु एव, पूर्ववदनुमानसिद्धत्वात्।अत्र अम्ल-लवणप्रचुरः आहारः कारणम्।पित्तचयः कार्यम्।कारणात् कार्यस्य अनुमितिः जाता, अतः इदं पूर्ववदनुमानम्।
साङ्ख्यायुर्वेदयोः