प्रकृतिः का विकाराः के

विकिपुस्तकानि तः
Jump to navigation Jump to search

इतः पर्यन्तं पञ्चविंशतिः तत्त्वानि पठितानि।तेषु प्रकृतिभूतानि तत्त्वानि कानि? विकृतिभूतानि तत्त्वानि कानि इति चिन्तनम् आरभ्यते।
साङ्ख्यशास्त्रे तत्त्वानां चतुर्षु गणेषु विभजनं कृतम्-

मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त।षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः॥सां.का.३

प्रकृतिः प्रकृतिविकृतिः विकृतिः न प्रकृतिः न विकृतिः
महदाद्याः सप्त षोडशकः विकारः एकः
मूलप्रकृतिः १ महत् १ अहङ्कारः १ पञ्चतन्मात्राणि ५ ११ इन्द्रियाणि + पञ्चभूतानि ५ पुरुषः

अधुना आयुर्वेदे प्रकृतिविकृतिविषये किं प्रतिपादितम् इति पश्यामः।प्रकृतिविकृतिविषये अग्निवेशेन पुनर्वसुं प्रति प्रश्नः कृतः-

प्रकृतिः का, विकाराः के,….. च.शा.१.४॥

तस्य उत्तरं दत्तं पुनर्वसुना -

खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः। भूतप्रकृतिरुद्दिष्टा... च.शा.१.६३

आकाशं, वायुः, अग्निः, जलं. पृथिवी इति पञ्च भूतानि, बुद्धिः, मूलप्रकृतिः, अहङ्कारः इति एतेषाम् अष्टानां तत्त्वानां ‘भूतप्रकृतिः’ इति संज्ञा अस्ति।एषः सूत्रार्थः।

' ' ' ‘प्रकृतिः का विकाराः के’ इति अस्य उत्तरं ख-आदीनि इत्यादि।ख-आदीनि सूक्ष्मभूत-ख-आदीनि तन्मात्रशब्द-अभिधेयानि। बुद्धिः महत्-शब्द-अभिधेया । अव्यक्तं मूलप्रकृतिः। अहङ्कारः बुद्धिविकारः; स च त्रिविधः – भूतादिः तैजसः, वैकारिकः च। भूतानां स्थावरजङ्गमानां प्रकृतिः भूतप्रकृतिः। अत्र च अव्यक्तं प्रकृतिः एव परं, बुद्ध्यादयः तु स्वकारण-विकृतिरूपाः अपि स्वकार्य-अपेक्षया प्रकृतिरूपाः इह प्रकृतित्वेन उक्ताः। यदुक्तं“मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त” (सांका.३) इति। -चक्रपाणिः

अग्निवेशस्य प्रश्नेषु ‘प्रकृतिः का विकाराः के’ इति प्रश्नद्वयम् आसीत्।तस्य उत्तरम् अधुना आरभ्यते।
प्रकृतिः का इति प्रश्नस्य उत्तरम् एतद् –
खादीनि इति अनया संज्ञया सूक्ष्मरूपाणि तन्मात्राणि अपि उच्यन्ते, स्थूलमहाभूतानि अपि उच्यन्ते।अतः अत्र कः अर्थः अभिप्रेतः इति वक्तव्यम्।तद् वदति चक्रपाणिः ‘तन्मात्रशब्दाभिधेयानि’ इति।
खादीनि इति अस्मात् पदाद् अनन्तरं ‘बुद्धिः’ इति शब्दः विद्यते।एषः शब्दः ‘बुद्धीन्द्रियाणि पञ्चैव ’ इति अग्रिमे सूत्रे अपि विद्यते।बुद्धिशब्दस्य तत्र अर्थः भिन्नः, अत्र अर्थः भिन्नः। अतः चक्रपाणिः स्पष्टीकरोति ‘बुद्धिः महच्छब्दाभिधेया’ इति ।बुद्धिशब्देन अत्र ‘महत्’ इति तत्त्वम् अभिप्रेतं, न ज्ञानम्।
अव्यक्तशब्देन अत्र त्रिगुणा मूलप्रकृतिः ग्राह्या इति चक्रपाणिः ब्रूते।ननु अव्यक्तशब्देन प्रकृतिपुरुषयोः उभयोः अपि ग्रहणं क्रियते इति पूर्वं (च.शा.१.१७)चक्रपाणिना एव उक्तम्।अत्र अव्यक्तशब्देन केवलं मूलप्रकृतिः गृह्यते, पुरुषः विवर्ज्यते इति कथम्?
ब्रूमः। ‘प्रकृतिः का विकाराः के’ इति प्रश्नस्य उत्तरम् अत्र दीयते।अस्मिन् अधिकरणे पुरुषस्य अन्तर्भावो नोचितः यतो हि न प्रकृतिर्न विकृतिः पुरुषः इति साङ्ख्यमतम् (सा.का.३)।तस्मात् अधिकरणतन्त्रयुक्त्या अत्र अव्यक्तशब्दस्य ‘मूलप्रकृतिः’ इत्येवार्थकरणं न्याय्यम्।
अहङ्कारः इति एकं तत्त्वं भूतप्रकृतौ समाविष्टम्।एषः अहङ्कारः बुद्धितत्त्वात् जायते अतः सः बुद्धिविकारः।सःत्रिविधः।भूतादिः, तैजसः, वैकारिकः च।भूतादिः एव तामसः अहङ्कारः उच्यते। वैकारिकः एव सात्विकः अहङ्कारः उच्यते। अहङ्कारस्य एतत् त्रैविध्यं सूत्रे न सूचितम्।तथापि टीकाकारेण तदुक्तं यतो हि अग्रे ‘परं खादीन्यहङ्कारात्’ इति सूत्रस्य टीकायाम् ‘एतस्मात् त्रिविधाद् अहङ्कारात् खादीनि कथं जायन्ते’ इति वर्णनं चिकीर्षितम् अस्ति।
भूतप्रकृतिपदस्य अर्थं समासविग्रहेण वदति टीकाकारः।भूतशब्देन खादीनि अपि गृह्यन्ते, तथा स्थावरजङ्गमाः अपि कार्यरूपाः गृह्यन्ते।अतः अत्र स्पष्टीकरोति टीकाकारः ‘स्थावरजङ्गमानां प्रकृतिर्भूतप्रकृतिः’ इति।
भूतानां प्रकृतिः अष्टधा उक्ता।प्रकृतिः इति कारणम्।तत्र अव्यक्तं सर्वेषां स्थावरजङ्गमानां कारणम्।अन्यानि सप्त तत्त्वानि कारणभूतानि कथम्? तानि मूलप्रकृतेः कार्यरूपाणि सन्ति।अस्याः आशङ्कायाः उत्तरं वदति चक्रपाणिः अत्र चाव्यक्तमित्यादिना।
एतेषु अष्टसु तत्त्वेषु अव्यक्तम् इति सर्वदा कारणरूपमेव।अन्यानि सप्त तत्त्वानि स्वस्वकारणस्य कार्यभूतानि।तथापि स्वकार्यापेक्षया कारणभूतानि अपि सन्ति।एवं तेषु प्रकृतित्वं तथा विकृतित्वम् इति उभौ धर्मौ स्तः।अतः तेषां प्रकृतित्वेन यः उल्लेखः अत्र मुनिना कृतः सः न अनुचितः। तथैवास्ति साङ्ख्यसमयः –

महदाद्याः प्रकृतिविकृतयः सप्त ।– सां.कारिका

अधुना विकाराः के इति प्रश्नस्य उत्तरं दीयते –

विकाराश्चैव षोडश॥च.शा.१.६३॥

बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च। समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः॥च.शा.१.६४॥
पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनः, तथा च शब्दादयः पञ्च अर्थाः इति एतेषां षोडशतत्त्वानां ‘विकाराः’ इति संज्ञा वर्तते।अयं सरलार्थः सूत्रस्य।

विकारान् आह विकाराः इत्यादि।एवशब्दः भिन्नक्रमे अवधारणे, तेन विकाराः एव षोडश परं न प्रकृतयः। बुद्धेः इन्द्रियाणि बुद्धीन्द्रियाणि।पञ्च अर्थाः इति स्थूलाः आकाशादयः शब्दादिरूपाः; गुणगुणिनोः हि परमार्थतः भेदः नास्ति एव अस्मिन् दर्शने ॥च.शा.१.६३ – ४चक्रपाणिः

विकाराः के? इति प्रश्नस्य उत्तरम् अत्र उक्तम्।सूत्रे एव इति शब्दः विद्यते।तस्य अर्थः अवधारणम्।अवधारणम् इति मर्यादाकरणम्।अन्ययोगव्यवच्छेदः।
अयम् एवकारः सूत्रे चकारेण सह प्रयुक्तः।चक्रपाणिः योगतन्त्रयुक्तेः प्रयोगम् अत्र करोति।सः सूचयति यत् भिन्ने क्रमे एवकारस्य योजना करणीया।विकारशब्दात् अनन्तरं एवकारस्य क्रमः भवतु।तेन ‘विकाराः एव षोडश’ इति अन्वयः भवति।विकाराः इति विशेषणम् अत्र।अर्थापत्त्या तस्य विशेष्यं ‘पदार्थाः’ इति ग्राह्यम्।अतः ‘विकाराः एव पदार्थाः षोडश’ इति अन्वयः जातः।
किम् अनेन सिद्ध्यति? अन्ययोगव्यवच्छेदः सिद्ध्यति।विकाराद् अन्यः इत्युक्ते प्रकृतिपदार्थः तथा प्रकृतिविकृतिरूप-पदार्थाः।तेषां व्यवच्छेदः पृथक्करणम्। ये केवलं विकाररूपाः सन्ति, प्रकृतिरूपाः न सन्ति, प्रकृतिविकृतिरूपाः अपि न सन्ति, तेषां सङ्ख्या षोडश इत्यर्थः।यदि एवकारस्य एवं योजनां न कुर्मः तर्हि महदाद्याः अपि अत्र समावेशनीयाः।यतो हि महदादिषु सप्तसु स्वस्वकारणापेक्षया विकारत्वम् अस्ति।
यदि एतेषु सप्तसु विकारत्वम् अस्ति तर्हि विकारेषु तेषां गणना कुतो न करणीया? पूर्वतनसूत्रे भूतप्रकृतौ एतेषां गणना कृता अस्ति अतः अत्र पुनः तेषां गणना न करणीया।
‘…परं न प्रकृतयः’ इति चक्रपाणिवचनस्य आशयः एवम्- एते षोडश पदार्थाः केवलं विकाररूपाः सन्ति।कस्य अपि तत्त्वान्तरस्य प्रकृतिरूपाः न सन्ति।
प्रकृतिः का विकाराः के इति अग्निवेशस्य प्रश्नौ।पुरुषः न प्रकृतिः, न वा विकृतिः।अतः सः अत्र गणनां नार्हति।अवशिष्टानां तत्त्वानां व्यवस्था एवम्-

साङ्ख्यमतेन पुनर्वसोः उत्तरे सुश्रुतमतम्
प्रकृतिः मूलप्रकृतिः अविकृतिः(अव्यक्तम्)१ खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः।भूतप्रकृतिरुद्दिष्टा(अव्यक्तं, बुद्धिः अहङ्कारः खादीनि) अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयः;॥सु.शा.१.६ (८)
प्रकृतिविकृतयः महदाद्याः प्रकृतिविकृतयः सप्त (बुद्धिः अहङ्कारः खादीनि)७
विकाराः षोडशकस्तु विकारः(५ बुद्धीन्द्रियाणि+५ कर्मेन्द्रियाणि +१ मनः+ ५ अर्थाः) १६ विकाराश्चैव षोडश॥६३॥ बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च।समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः॥६४॥ शेषाः षोडश विकाराः ॥सु.शा.१.६ (१६)
आहत्य २४ २४ २४

उभयत्र तत्त्वानां सङ्ख्या समाना तथापि गणनं भिन्रम्।कुतः अयं भेदः? अग्निवेशप्रश्नात् अयं भेदः जातः।अग्निवेशेन पृष्टं प्रकृतिः का? विकाराः के? एवं प्रकृतिः तथा विकृतिः इति भेदद्वये एव सः तत्त्वानां विभजनं प्रार्थयते।अतः ये प्रकृतिविकृत्युभयस्वरूपाः सप्त पदार्थाः, तेषां प्रकृतिगणे वा विकृतिगणे वा व्यवस्था करणीया पुनर्वसुना।सा व्यवस्था पुनर्वसुना प्रकृतिगणे कृता तावदेव।
एवं तर्हि प्रकृतिविकृत्युभयरूपाणां पदार्थानां समावेशः मुनिना विकृतिगणे कुतो न कृतः? प्रकृतिगणे एव कुतः कृतः?
अशोकवनिकान्यायेन अत्र समाधातव्यम्।रावणः सीताम् अपहृत्य लङ्कां नीतवान्।तत्र कस्मिन् अपि स्थाने तां संस्थापयितुं सः समर्थः आसीत्।तथापि तां सः अशोकवने एव न्यस्तवान्। कुतः? नात्र किमपि विशेषं प्रयोजनं विद्यते।रावणस्य इच्छा एवात्र प्रयोजिका।
एवमेव अत्रापि समाधानम् उच्यते।पुनर्वसुः प्रकृतिविकृतिपदार्थानां समावेशं प्रकृतिगणे किमर्थं कृतवान्? विकृतिगणे किमर्थं न कृतवान्? पुनर्वसोः इच्छा तथा आसीत् अतः।
सूत्रे पञ्च अर्थाः इति प्रयोगः अस्ति।अर्थशब्देन शब्दस्पर्शरूपरसगन्धाः गृह्यन्ते।एते गुणाः। एतेषां गुणानाम् आश्रयः पञ्च स्थूलानि भूतानि।परं साङ्ख्यमते गुणगुणिनोः अभेदः अङ्गीक्रियते। अतः अत्र अर्थशब्देन शब्दस्पर्शरूपरसगन्धाः गुणाः अपि ग्राह्याः, तेषाम् आश्रयस्वरूपाणि स्थूलानि अकाशादीनि भूतानि अपि ग्राह्याणि।
सुश्रुताचार्येण प्रकृतिविकृतिविभागः एवं प्रदर्शितः-

अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयः; शेषाः षोडश विकाराः ॥सु.शा.१.६



साङ्ख्यायुर्वेदयोः 
"https://sa.wikibooks.org/w/index.php?title=प्रकृतिः_का_विकाराः_के&oldid=6782" इत्यस्माद् प्रतिप्राप्तम्