प्रकृतिः (प्रधानम्)

विकिपुस्तकानि तः
Jump to navigation Jump to search

साङ्ख्यैः यानि पञ्चविंशतिः तत्त्वानि गणितानि, तेषु प्रधानम् इति अन्यतमं तत्त्वम्।
मूलप्रकृतिः अविकृतिः।सां.का.३
एषा प्रकृतिः एव प्रधानशब्देन उच्यते।प्रकरोतीति प्रकृतिः।सर्वं प्रपञ्चं करोति अतः प्रकृतिः इति तस्याः नामधेयम्।सत्त्वरजस्तमसां साम्यावस्था इति प्रकृतेः स्वरूपम्।पुरुषसंयोगेन एषा साम्यावस्था नश्यति, ततः महदादिप्रपञ्चः उत्पद्यते।महदादिप्रपञ्चः व्यक्तशब्देन उच्यते।अतः प्रकृतेः अव्यक्तम् इति अपि संज्ञा भवति।

प्रकृतिः (प्रधानम्=अव्यक्तम्=मूलप्रकृतिः) ...... महदादिप्रपञ्चः (व्यक्तम्)
कारणम् ...... कार्यम्

प्रधानधर्माः – [सम्पाद्यताम्]

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥सां.का.१०
अत्र व्यक्तस्य धर्माः कण्ठरवेण उक्ताः।‘तद्विपरीताः अव्यक्तधर्माः’ इति प्रधानधर्माः सूचिताः। तदेवम् –

व्यक्तस्य धर्माः प्रधानस्य धर्माः
हेतुमत्त्वम् हेतुरहितत्वम्
अनित्यत्वम् नित्यत्वम्
अव्यापित्वम् व्यापित्वम्
सक्रियत्वम् अक्रियत्वम्
अनेकत्वम् एकत्वम्
आश्रितत्वम् अनाश्रितत्वम्
लिङ्गत्वम् अलिङ्गत्वम्
सावयवत्वम् निरवयवत्वम्
परतन्त्रत्वम् स्वतन्त्रत्वम्

अग्रिमकारिकायां प्रकृतेः इतोऽपि केचन धर्माः कथिताः -
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानम्सां.का.११
व्यक्तप्रधानयोः समानाः धर्माः अत्र उक्ताः।ते एवम् –
त्रिगुणत्वम्,अविवेकित्वं,विषयत्वं, सामान्यत्वम्,अचेतनत्वं, प्रसवधर्मित्वम्
एतेषां धर्माणां विवरणम् अधुनात्र क्रियते।
==हेतुरहितत्त्वम् – == हेतुः कारणम्।प्रकृतिः हेतुरहिता अस्ति।तस्याः कारणं किमपि न विद्यते।अनादि तत्त्वमिदम्।अतः एवोक्तम् –
मूलप्रकृतिः अविकृतिः।सां.का.३
विकृतिः इति कार्यम्।मूलप्रकृतिः कस्यापि कार्यं नास्ति इति कारिकार्थः।

नित्यत्वम् – [सम्पाद्यताम्]

प्रकृतेः अत्यन्ताभावः कदापि न भवति।प्रलये सर्वः महदादिप्रपञ्चः प्रकृतौ लीनः भवति, परं प्रकृतिः क्वापि न लीयते।अतः नित्यत्वमिति प्रकृतिधर्मः।

व्यापित्वम् –[सम्पाद्यताम्]

व्यापकम् इत्युक्ते विभु।प्रकृतितत्त्वं व्यापकम् अस्ति।सदा कारणं कार्यस्य अपेक्षया व्यापकमस्तीति दृश्यते। यतो हि कार्यस्य लयः कारणे भवति।प्रकृतिः महदादेः सकलस्य प्रपञ्चस्य कारणमस्ति। सर्वः प्रपञ्चः तस्यां लीयते।अतः महदादिप्रपञ्चस्यापेक्षया प्रकृतिः व्यापकं तत्त्वम् इति स्वाभाविकम्।

अक्रियत्वम्- [सम्पाद्यताम्]

प्रकृते क्रिया इत्युक्ते स्पन्दः।अयं स्पन्दः महदादिषु तत्त्वेषु विद्यते, परं प्रकृतौ न विद्यते।अतः अक्रियत्वम् इति प्रकृतिधर्मः।

एकत्वम् [सम्पाद्यताम्]

व्यक्तानि तत्त्वानि बहूनि सन्ति, परम् अव्यक्तं प्रधानम् एकमेव अस्ति।पुरुषाः बहवः सन्ति। प्रतिपुरुषं बुद्धिः भिन्ना, अहङ्कारः भिन्नः, एकादश इन्द्रियाणि भिन्नानि। तथापि सर्वेषां पुरुषाणाम् अर्थसाधिका प्रकृतिः एका एव।

अनाश्रितत्वम् - [सम्पाद्यताम्]

व्यक्तम् अव्यक्तस्याश्रयं कुरुते।परम् अव्यक्तं कस्यापि आश्रयं न कुरुते। कार्यकारणयोः तत्त्वतः अभेदसम्बन्धः अस्ति, परं व्यवहारे तयोः आश्रयाश्रयिभावसम्बन्धः विद्यते।कार्यं कारणस्य आश्रयेण वर्तते।पञ्च भूतानि पञ्चानां तन्मात्राणाम् आश्रयं कुर्वन्ति।पञ्च तन्मात्राणि अहङ्कारम् आश्रयन्ते।अहङ्कारः बुद्धेः आश्रये वर्तते।बुद्धिः प्रधानस्य आश्रयेण वर्तते।प्रधानस्य किमपि कारणं नास्ति अतः प्रधानं कस्यापि आश्रयेण न वर्तते।एतद् एव तस्य अनाश्रितत्वम्।

मूलप्रकृतिः न कस्य अपि आश्रयं करोति
महत् मूलप्रकृतेः आश्रयं करोति
अहङ्कारः महतः आश्रयं करोति
पञ्च तन्मात्राणि अहङ्कारस्य आश्रयं कुर्वन्ति
पञ्च भूतानि तन्मात्राणाम् आश्रयं कुर्वन्ति

अलिङ्गत्वम्-[सम्पाद्यताम्]

लिङ्गस्य भावः लिङ्गत्वम्।न लिङ्गत्वम् अलिङ्गत्वम्।कस्य अपि पदार्थस्य सद्भावं साधयितुं प्रधानं लिङ्गं (हेतुः) न भवतीत्यर्थः।
लिङ्गमिति लक्षणम्,साधकहेतुः।यथा धूमः वह्नेः लक्षणम्।तथैव व्यक्तम् अव्यक्तस्य लक्षणं भवति। व्यक्ताद् अव्यक्तस्य अनुमानं भवति अतः व्यक्तं लिङ्गम् इति उच्यते।परम् अव्यक्तात् कस्यापि तत्त्वान्तरस्य अनुमानं न भवति, अतः अव्यक्तम् अलिङ्गम् ।

निरवयवत्वम् – [सम्पाद्यताम्]

प्रधानस्य अवयवाः न सन्ति अतः तद् निरवयवं तत्त्वम्।ननु सत्त्वं रजः तमः इति त्रयः प्रधानस्य अवयवाः सन्ति।कथमुच्यते निरवयवमिति?
नैवम्।

सत्त्वरजस्तमांसि न कस्यचिद् अवयवाः प्रतिज्ञा
संयोगाभावात् हेतुः
यत्र यत्र संयोगाभावः, तत्र तत्र कस्यचिदवयवाभावः यथा दिक्कालौ उदाहरणम्
सत्त्वरजस्तमांसि संयोगाभाववन्ति उपनयः
तस्मात् न कस्यचिदवयवाः निगमनम्

ननु सत्त्वरजस्तमसां संयोगः अस्ति एव।अतः संयोगाभावात् इति हेतुः आश्रयासिद्धः इति चेत्, न। अप्राप्तिपूर्विका प्राप्तिः संयोगः।संयोगशब्देन अत्र एतादृशी अप्राप्तिपूर्विका प्राप्तिः विवक्षिता।सा च सत्त्वरजस्तमसां नास्ति।यतो हि तेषां कदापि अप्राप्तिः नासीत्।ते परस्परं नित्यप्राप्ताः।अतः प्रधानं निरवयवमिति सिद्धम्।

स्वतन्त्रत्वम् - [सम्पाद्यताम्]

व्यक्तं परतन्त्रम् अस्ति।यतो हि तत् कार्यभूतम्।प्रधानं तु स्वतन्त्रम् अस्ति यतो हि तत् कारणभूतम्।।

त्रिगुणत्वम्- [सम्पाद्यताम्]

सत्त्वं रजः तमः चेति त्रयो गुणाः।ते प्रधाने सन्ति अतः प्रधानं त्रिगुणम् इति उच्यते।

अविवेकित्वम्- [सम्पाद्यताम्]

‘तत्त्वान्तराद् अहं भिन्नः’ इति ज्ञानं विवेकः।अयं विवेकः मुक्तपुरुषे अस्ति।‘प्रकृतेः अहं भिन्नः’ तथा ‘प्रकृतिकार्यात् महदादिप्रपञ्चाद् अहं भिन्नः’ इति ज्ञानं मुक्तपुरुषे विद्यते। अतः पुरुषः विवेकी।पुरुषे विवेकित्वम् इति धर्मः विद्यते।परम् ‘अहं पुरुषाद् भिन्ना’ इति विवेकः प्रकृतौ न विद्यते। अतः अविवेकित्वम् इति तस्याः धर्मः।

विषयत्वम्-[सम्पाद्यताम्]

‘पुरुषः प्रधानं जानाति’।अतः पुरुषः ज्ञाता, प्रधानं ज्ञानस्य विषयः अस्ति।पुरुषः विषयी अस्ति, प्रधानं ज्ञानस्य विषयः।

सामान्यत्वम्-[सम्पाद्यताम्]

पुरुषाः वहवः।तथापि बहूनां पुरुषाणाम् एकमेव प्रधानं विद्यते।अतः सामान्यत्वम् इति प्रधानधर्मः।

अचेतनत्वम्[सम्पाद्यताम्]

चैतन्यं पुरुषधर्मः।स प्रधाने नास्ति।अचेतनत्वम् इति प्रकृतिधर्मः।

प्रसवधर्मित्वम्[सम्पाद्यताम्]

प्रसवः एव धर्मः प्रसवधर्मः।प्रसवधर्मः शीलमस्य इति प्रसवधर्मि।प्रधानस्य विशेषणमिदम्। प्रसवधर्मिणः भावः प्रसवधर्मित्वम्।प्रकृतिः महदादिप्रपञ्चं प्रसूते।एषः प्रसवः तस्याः शीलम् एव। अतः प्रसवधर्मित्वं प्रकृतिधर्मः उच्यते।

अधुना आयुर्वेदे प्रधानविचारं पश्यामः।तत्र सुश्रुताचार्येण साङ्ख्यमतानुसारमेव प्रधानवर्णनं कृतम्-
सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः सम्भवहेतुरव्यक्तं नाम ।तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम्।सु.शा.१.३
अत्र प्रधानस्य एते धर्माः उक्ताः –
सर्वभूतानां कारणम् ,अकारणं,सत्त्वरजस्तमोलक्षणम्, अष्टरूपम् , अखिलस्य जगतः सम्भवहेतुः, एकम् , बहूनां क्षेत्रज्ञानामधिष्ठानम् साङ्ख्योक्तैः प्रधानधर्मैः सह एतेषां धर्माणां तुलना कृता चेदेवं भविष्यति-

सूत्रे अष्टरूपमिति एकं विशेषणं विद्यते अव्यक्तस्य।तस्य त्रयः अर्थाः सम्भवन्ति
अव्यक्तं महानहङ्कारः पञ्चभूतानीत्यष्टौ रूपाणीत्येके;
अन्ये तु धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याण्यष्टौ रूपाण्याहुः;
अपरे तु मनोबुद्ध्यहङ्कारमहाभूतान्याहुः| डह्लणः
साङ्ख्योक्ताःप्रधानस्य धर्माः सुश्रुतोक्ताःप्रधानस्य धर्माः
प्रसवधर्मित्वम् सर्वभूतानां कारणम्
हेतुरहितत्त्वम् अकारणम्
त्रिगुणत्वम् सत्त्वरजस्तमोलक्षणम्
प्रसवधर्मित्वम् अखिलस्य जगतः सम्भवहेतुः
एकत्वम् एकम्
सामान्यत्वम् बहूनां क्षेत्रज्ञानामधिष्ठानम्
पुनर्वसुना अव्यक्तनाम्नि एकस्मिन् एव तत्त्वे प्रकृतिः तथा पुरुषः इति एतयोः उभयोः अपि तत्त्वयोः समावेशः कृतः-
पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः। मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी॥च.शा.१.१७॥
पुरुषः पुनः च धातुभेदेन चतुर्विंशतितत्त्वात्मकः स्मृतः।मनः दश इन्द्रियाणि पञ्च अर्थाः अष्टधातुकी प्रकृतिः इति आहत्य चतुर्विंशतितत्त्वानि।एषः सूत्रार्थः।
…इह प्रकृति-व्यतिरिक्तं च उदासीनं पुरुषम् अव्यक्तत्व-साधर्म्याद् अव्यक्तायां प्रकृतौ एव प्रक्षिप्य अव्यक्तशब्देन एव गृह्णाति...। चक्रपाणिः
साङ्ख्ये तत्त्वसङ्ख्या अस्ति पञ्चविशतिः।अत्र तु चतुर्विंशति-तत्त्वानां गणना कृता सूत्रकारेण।अतः उभयत्र समन्वयं करोति टीकाकारः प्रकृतिव्यतिरिक्तम् इत्यनेन। साङ्ख्यैः प्रकृतिः तथा पुरुषः इति पृथग् द्वे तत्त्वे गणिते।अत्र उभयोः अव्यक्तनाम्नि तत्त्वे समावेशं कृत्वा एकमेव तत्त्वं गणितम्।अतः यद्यपि सङ्ख्या भिन्ना दृश्यते तथापि तत्त्वतः विरोधः नास्ति।
कं समानधर्मम् आदाय प्रकृतिपुरुषयोः एकत्र समावेशः अयं कृतः इत्यपि वदति चक्रपाणिः अव्यक्तत्वसाधर्म्यात् इति।प्रकृतिः अव्यक्ता।पुरुषः अपि अव्यक्तः ।अतः उभयोः एकत्र गणना न दुष्यति इति अभिप्रायः।
भवतु अव्यक्तत्वरूपं साम्यं प्रकृतिपुरुषयोः।तथापि तयोः नैके विशेषधर्माः अपि सन्ति।अतः साङ्ख्यैः द्वे पृथक् तत्त्वे गणिते।तथा अत्र किमिति न क्रियते इति आशङ्कायां वदति टीकाकारः उदासीनस्येत्यादिना।
पुरुषः उदासीनः सूक्ष्मः च साङ्ख्यैः प्रतिपादितः।तादृशं पुरुषं स्वीकृत्य साङ्ख्यानां किमपि प्रयोजनं सिद्ध्यति।तत् सिद्ध्यतु नाम।अस्माकं चिकित्साशास्त्रे तु तस्य पृथग्गणनस्य किमपि विशेषं प्रयोजनं न दृश्यते।अतः प्रयोजनाभावात् पृथग् गणनं न कुर्मः।
प्रकृतिवर्णनाद् अनन्तरं प्रकृतिपुरुषयोः साधर्म्यं किं वैधर्म्यं च किमिति विवृणोति सुश्रुताचार्यः।

प्रकृतिपुरुषयोः समानाः धर्माः[सम्पाद्यताम्]

अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः ।तद्यथा- उभावप्यनादी, उभौ अपि अनन्तौ,उभावप्यलिङ्गौ, उभावपि नित्यौ, उभावप्यनपरौ , उभौ च सर्वगताविति; एका तु प्रकृतिरचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति|- सु.शा.१.९

अनादित्वम्,अनन्तत्वम्, अलिङ्गत्वं,नित्यत्वम्,अनपरत्वं, सर्वगतत्वम्

अनादित्वम्- [सम्पाद्यताम्]

चेतनाधातुरूपः पुरुषः अनादिः।सः कस्यापि कार्यं नास्ति।
प्रभवो न ह्यनादित्वात् विद्यते परमात्मनः। च.शा.१.५३
प्रकृतिः अपि अनादिः।तस्याः अपि कारणं नास्ति।अतः अनादित्वम् इति उभयोः साधर्म्यम्।अत्र अनादित्वम् इति साधर्म्यं प्रकृतेः तथा चेतनाधातुरूपस्य पुरुषस्य अस्ति इति अवधातव्यम्। यतो हि राशिपुरुषः न अनादिः –
पुरुषो राशिसंज्ञस्तु मोहेच्छाद्वेषकर्मजः। च.शा.१.५३

अनन्तत्वम्- [सम्पाद्यताम्]

अन्तरहितत्वं प्रकृतिपुरुषयोः साधर्म्यम्।प्रकृतेः लयः प्रलयेऽपि न भवति।कैवल्ये अपि प्रकृतिः तस्मात् तस्मात् पुरुषात् निवर्तते, न तु नश्यति।
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्।पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥सां.का.५९
तथैव पुरुषस्य अपि विनाशः न भवति।अतः अनन्तत्वमिति उभयोः साधारणधर्मः।

नित्यत्वम्-[सम्पाद्यताम्]

प्रकृतिपुरुषौ अनादी तथा अनन्तौ अतः नित्यौ।

अलिङ्गत्वम्- [सम्पाद्यताम्]

प्रधानस्य विवरणे अलिङ्गत्वधर्मस्य स्वरूपमुक्तम्।प्रकृतिपुरुषौ अलिङ्गौ स्तः।कस्य अपि पदार्थस्य सद्भावं साधयितुं प्रधानं लिङ्गं (हेतुः) न भवति इत्यर्थः।एवमेव कस्यापि पदार्थस्य सद्भावं साधयितुं पुरुषः लिङ्गं न भवति।अतः अलिङ्गत्वमिति उभयोः साधर्म्यम्।

अनपरत्वम् –[सम्पाद्यताम्]

न विद्यतेऽपरो याभ्यां तावनपरौ , यतस्तावेव प्रकृतिपुरुषौ महदादिभ्यः परौ।सु.शा.१.९ डह्लणः
अनपरशब्दस्य अर्थः परः।न परौ अपरौ। न अपरौ अनपरौ।परौ इत्यर्थः।प्रकृतिपुरुषौ सर्वेभ्यः परौ स्तः इति सूत्रार्थः।
परत्वं द्विविधं सम्भवति-दिक्कृतं कालकृतं च।प्रकृते कालकृतं परत्वं विवक्षितम्
ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्।तर्कसङ्ग्रहः११
प्रकृतिपुरुषयोः कालकृतं ज्येष्ठत्वम् अस्तीति सूत्रार्थः निष्पद्यते।स्वाभाविकमेतद्।महदादिप्रपञ्चः प्रकृतिकार्यम्।कारणं सदैव कार्यस्यापेक्षया कालतः ज्येष्ठम् अस्ति।अतः प्रकृतिः महदादिभ्यः परा ज्येष्ठा इति युज्यते।
पुरुषः नित्यः।महदादिप्रपञ्चः प्रकृतिपुरुषसंयोगात् जायते।अतः पुरुषः अपि महदादिप्रपञ्चात् कालतः ज्येष्ठः, परः भवितुमर्हति।

सर्वगतत्वम् – [सम्पाद्यताम्]

साङ्ख्यमतेन प्रकृतिः सर्वगता, पुरुषाः बहवः तथा तेऽपि सर्वगताः।अतः उभयोः अस्मिन् विषये साधर्म्यमस्ति।आयुर्वेदे तु एतत् साधर्म्यं वक्तुं न शक्यते।यतो हि आयुर्वेदे पुरुषः असर्वगतः मतः-
आयुर्वेदशास्त्रेषु असर्वगताः क्षेत्रज्ञाः नित्याः च। सु.शा.१.१६
तथापि सुश्रुताचार्येण एतत् ‘प्रकृतिपुरुषयोः साधर्म्यम्’ इति कथमुक्तम्?अत्रोच्यते।एतत् साधर्म्यवचनं साङ्ख्यमतस्य अनुवादमात्रमस्ति।अतः सर्वगतत्वरूपं साधर्म्यं तत्र वक्तव्यमेव।अग्रे आयुर्वेदस्य मतभेदः आचार्येण स्पष्टमुक्तः।अतो न दोषः।

प्रकृतिपुरुषयोः वैधर्म्यम् -[सम्पाद्यताम्]

रूपविधा प्रकृतेः अष्टरूपाणि आधारवचनम्
अव्यक्तं (१)+ महान् (१) + अहङ्कारः (१) + पञ्चभूतानि (५) अव्यक्तं महानहङ्कारः पञ्चभूतानीत्यष्टौ रूपाणीत्येके;
अथवा
धर्मः (१) + ज्ञानम् (१) + वैराग्यम्(१) + ऐश्वर्यम् (१)+अधर्मः (१)+ अज्ञानम् (१)+ अवैराग्यम्(१) (१) अनैश्वर्यम् (१) अन्ये तु धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याण्यष्टौ रूपाण्याहुः;
अथवा
मनः(१) + बुद्धिः(१)+ अहङ्कारः(१) +महाभूतानि (५) अपरे तु मनोबुद्ध्यहङ्कारमहाभूतान्याहुः

चेतनाचेतनत्वे[सम्पाद्यताम्]

पुरुषः चेतनः।यतो हि सः ज्ञातुं समर्थः।प्रकृतिः अचेतना।तस्याः ज्ञानसामर्थ्यं नास्ति।एतद् उभयोः वैधर्म्यम्।
अत्र केषाञ्चन आक्षेपः अस्ति।प्रकृतिः पुरुषस्य भोगार्थं मोक्षार्थं च प्रवर्तते इति उच्यते। यदि एवं तर्हि प्रकृतिः सचेतना अपि भवितुम् अर्हति।यतो हि व्यवहारे इच्छा, कृतिः तथा चैतन्यम् इति त्रयाणां सामानाधिकरण्यं दृश्यते।
अत्र साङ्ख्यानाम् उत्तरम् एवमस्ति यत् महदादिप्रपञ्चः वस्तुतः चेतनः नास्ति।अस्य प्रपञ्चस्य कारणं प्रकृतिपुरुषसंयोगः।पुरुषः चेतनः अस्ति, अतः तस्य चैतन्यं प्रकृतिकार्ये भासते।न तद् वास्तवम्।
तस्मात् तत्संयोगाद् अचेतनं चेतनवदिव लिङ्गम्।सां.का.२०

त्रिगुणत्व-अगुणत्वे[सम्पाद्यताम्]

प्रकृतिः त्रिगुणा अस्ति।पुरुषे एकोऽपि गुणः नास्ति।अतः सः अगुणः।एतद् उभयोः वैधर्म्यम्।सत्वं, रजः, तमः इति एते प्रकृतिगुणाः।ते पुरुषे न सन्ति।
सर्वमेतद् विवरणं साङ्ख्यमतानुसारम्।पुरुषस्य सर्वगतत्वं विहाय सर्वमन्यत् सुश्रुताचार्येण अङ्गीकृतम्।

बीजधर्मित्व-अबीजधर्मित्वे[सम्पाद्यताम्]

प्रकृतिः बीजधर्मिणी अस्ति, पुरुषः तथा नास्ति इति एतद् उभयोः वैधर्म्यम्।बीजधर्मित्वं नाम किमिति स्पष्टीकृतं डह्लणेन -
.....सत्त्वरजस्तमसां गुणानां साम्यावस्थायां स्थिता सर्वेषां महदादिविकाराणां बीजभावेनावस्थिता बीजधर्मिणीत्युच्यते; गयी तु संहारे भूतेन्द्रियतन्मात्राहङ्कारमहदादीनामाधारभूतेति बीजधर्मिणी।सु.शा.१.९डह्लणः

‘प्रकृतिः बीजधर्मिणी’ इत्वस्य द्वौ अर्थौ अत्र उक्तौ।
प्रकृतिधर्माः पुरुषधर्माः
अचेतनत्वम् चेतनत्वम्
त्रिगुणत्वम् अगुणत्वम्
बीजधर्मित्वम् अबीजधर्मित्वम्
प्रसवधर्मित्वम् अप्रसवधर्मित्वम्
अमध्यस्थधर्मित्वम् मध्यस्थधर्मित्वम्
उभावपि अर्थौ प्रकृते सङ्गच्छेते।
पुरुषे महदादिविकाराणां बीजभावेन अवस्थानं नास्ति।संहारे महदादीनां तत्त्वानाम् आधारः अपि उपर्युक्तयोः एकेनापि अर्थेन पुरुषो बीजधर्मा नास्ति।

प्रसवधर्मित्व-अप्रसवधर्मित्वे[सम्पाद्यताम्]

प्रकृतिः प्रसवधर्मिणी अस्ति, पुरुषः तथा नास्ति इति तयोः वैधर्म्यम्।प्रसवधर्मित्वविषये विवृणोति डह्लणः-
...सैव सिसृक्षुणा विभुना पुरुषेण सार्धं क्षोभमागम्य साम्यावस्थातः प्रच्युता महदहङ्कारादिक्रमेण चराचरस्य जगतः प्रसवित्रीति प्रसवधर्मिणीत्युच्यते।
प्रकृतिः महदादिप्रपञ्चं प्रसूते।अतः सा प्रसवधर्मिणि।पुरुषः तथा महदादिप्रपञ्चं न प्रसूते अतः सः अप्रसवधर्मा ।

मध्यस्थधर्मित्व-अमध्यस्थधर्मित्वे[सम्पाद्यताम्]

पुरुषः मध्यस्थधर्मा, प्रकृतिः अमध्यस्थधर्मिणी।अमध्यस्थधर्मत्वं नाम किमिति डह्लणः वदति-
अमध्यस्थधर्मिणीति सत्त्वादिगुणराशितया सुखादिरूपत्वात्, सुखी हि सुखमभिलिप्सन् दुःखी दुःखं विद्विषन् अमध्यस्थो भवति; प्रकृतिश्च सत्त्वादिरूपा, ततोऽमध्यस्था।... मध्यस्थधर्माण इति प्रीत्यप्रीतिविषादायोगेनेच्छाद्वेषशून्यत्वात्। सु.शा.१.९डह्लणः
प्रकृतिः सत्वरजसतमोराशिरूपा।सत्वेन सुखं, रजसा दुःखम् इति सततं सा दोलमाना।अतः मध्यस्थधर्मः तस्यां न सम्भवति।पुरुषः गुणरहितः।अतः सुखदुःखातीतः।तस्मात् सः मध्यस्थः भवितुम् अर्हति।प्रकृते मध्यस्थत्वं नाम सुखदुःखयोः स्थिरत्वम्।

षट्कारणवादः-[सम्पाद्यताम्]

‘सर्वस्य जगतः कारणं प्रकृतिः’ इति सिद्धान्ते कृते केचन सन्देहाः उद्भवन्ति।ते एवम्-
१ ‘स्वभावः सर्वस्य कारणम्’ इति केचन मन्यन्ते।
“कः कण्टकानां प्रकरोति तैक्ष्ण्यं, चित्रं विचित्रं मृगपक्षिणां च। माधुर्यमिक्षौ, कटुतां मरीचे, स्वभावतः सर्वमिदं प्रवृत्तम्”- इति।–डह्लणः
अत्र सत्वरजस्तमोरूपा प्रकृतिः कारणत्वेन न दृश्यते।स्वभावः एव कारणम् इति दृश्यते।

२ ‘ईश्वरः सर्वस्य कारणम्’ इति केचन मन्यन्ते।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकमेव वा–डह्लणः
अत्र सत्वरजस्तमोरूपा प्रकृतिः कारणत्वेन न दृश्यते।

३ ‘कालः सर्वस्य कारणम्’ इति केचन मन्यन्ते।
प्रभवविरतिमध्यज्ञानवन्ध्या नितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि।
तमहमिह निमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहैः कालमीशम्॥ -डह्लणः
अतः कालः अपि प्रकृतिभिन्नः कश्चन हेतुः अङ्गीकर्तव्यः।

४ जगति कार्यकारणभावे कश्चन नियमः नास्ति।यः यतः उद्भवति, तत् तस्य कारणम् इति मन्तव्यम्। एषः यदृच्छापक्षः। अनया यदृच्छया विश्वं जातम् इति केचन मन्यन्ते।अतः यदृच्छा इत्यपि प्रकृतिभिन्नं किञ्चित् कारणं चिन्तनीयम्।

५ नियतिः जगत्कारणम् इति केचन मन्यन्ते-
पूर्वजन्मार्जितौ धर्माधर्मौ नियतिः, सैव सर्वस्य कारणमिति नियतिवादिनः।डह्लणः
तस्मात् प्रकृतिभिन्नम् इदमपि एकं कारणं गणनीयम्।

६ परिणामः एव सर्वस्य निमित्तम् इति परिणामवादिनः मन्यन्ते-
अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः। – वात्स्यायनः३.२.१६
सत्वरजस्तमसां साम्यावस्था इति प्रकृतेः धर्मः।पुरुषसंयोगेन अस्य पूर्वधर्मस्य निवृत्तिः भवति।ततः अन्यान्यगुणस्य प्राबल्येन महदादीनि तत्त्वानि उत्पद्यन्ते।एषा धर्मान्तरोत्पत्तिः।तदेव वदति डह्लणः
प्रधानमेव महदहङ्कारादिरूपतया परिणतं सर्वस्य निमित्तमिति परिणामवादिनः।

एवं प्रकृति-भिन्नानि एतावन्ति कारणानि पुरतः स्थितानि।यदि प्रकृतिरेव सर्वस्य जगतः कारणं, तर्हि स्वभावादीनि यानि निमित्तानि व्यवहारे दृश्यन्ते तेषां का व्यवस्था इति प्रश्नः।किञ्च आयुर्वेदे अपि एतानि स्वभावादीनि कारणानि तत्र तत्र स्वयं सुश्रुताचार्येण उक्तानि।यथा –

सर्वेषां महदादिविकाराणां बीजभावेन अवस्थिता अतः बीजधर्मिणी
संहारे भूतेन्द्रियतन्मात्राहङ्कारमहदादीनाम् आधारभूता अतः बीजधर्मिणी
अयं च ऋतुचर्याध्याये दोषाणां सञ्चयप्रकोपोपशमद्वारेण हेतुरुक्तः। सम्यक् परिणतस्याहारस्य सारो रसः। (सु.सू.१४)
एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो भवति।(सु.सू.१४) एवं वैद्यकव्यवहारे अपि स्वभावादीनि कारणानि स्वीकृतानि।तर्हि ‘प्रकृतिः मूलकारणम्’ इति सिद्धान्तस्य का गतिः? अत्र सुश्रुताचार्येण समञ्जनं दर्शितम् -
स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा।परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः॥सु.शा.१.११
इत्थमेताः षट्प्रकृतयो वैद्यकानुगता दर्शिताः।..... यत्तु वैद्यके “स्वभावमीश्वरं कालम्”-इत्यादिवाक्येन विपुलदर्शिभिः स्वभावादीनां भिन्नमेव प्रकृतित्वं प्रतिपादितं, तत्तथास्वरूपेण तेषामवभासनात्।परमार्थतस्तु गुणत्रयात्मिका प्रकृतिरेव कारणम्। यतः स्वभावादयश्चत्वारः प्रकृतिपरिणामस्य धर्मविशेषतया प्रकृतावेवान्तर्भवन्ति। -सु.शा.१.११ डह्लणः
स्वभावदयः चत्वारः हेतवः इत्युक्ते स्वभावः कालः यदृच्छा तथा नियतिः।एते प्रकृतौ एव अन्तर्भूताः।कथमेते प्रकृतौ अन्तर्भूताः इति अग्रे विशदयति डह्लणः-
तथाहि - स्वभावस्तावत् सत्त्वरजस्तमसां तद्विकाराणां पृथिव्यादिमहाभूतानां च परिणामस्य तादृशो विशेष इति प्रकृतिपरिणामादन्यो न भवति;नियतेरपि पूर्वकृतसदसत्कर्मरूपाया रजोगुणपरिणाम-लक्षणत्वेन न प्रकृतेरन्यत्वं;कालोऽपि चन्द्रार्कादिगतिक्रियालक्षणः, तत्र च महाभूतानां परिणामविशेषात् शीतोष्णादयो भवन्ति, तदुक्तं-“महाभूतविशेषांस्तु शीतोष्णद्वयभेदतः। कालम् इत्यध्यवस्यन्ति न्यायमार्गानुसारिणः”-इति, क्रियात्वेन रजोगुणपरिणामत्वात् महाभूतपरिणाम-विशेषत्वात् च न कालस्य प्रकृतेरन्यत्वम्;ईश्वरश्च पञ्चविंशतितमः पुरुषः प्रकृतेः क्षोभकतया कारणत्वेनोदाहृत एव;यदृच्छा च कादाचित्कत्वाद् भूतपरिणामविशेषान्नान्या। किञ्चास्मिञ् शास्त्रे प्रकृतिपरिणामात्मकं विश्वं पठ्यते। तथाहि- “सात्त्विकं कायलक्षणं, राजसं कायलक्षणं” (शा.४) तथा ‘सत्त्वबहुलमाकाशं’ इत्यादि।सु.शा.१.११ डह्लणः
अस्याः टीकायाः सारः एवम् -
स्वभावः अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते। (सु.शा.३) सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ।

तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः। (सु.शा.२)
धातुषु क्षीयमाणेषु वर्धेते द्वाविमौ सदा। स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः। (सु.शा.४)
निद्राहेतुस्तमः सत्त्वं बोधने हेतुरुच्यते। स्वभाव एव वा हेतुर्गरीयानपि कीर्त्यते। (सु.शा.४)
स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः। स्वभावाद्गुरवो माषा वराहमहिषादयः (च.सू.२७) ।
तस्माद्रक्तस्य गन्धेन मूर्छन्ति भुविमानवाः॥| द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति।सु. उ. तं. अ. ४६

ईश्वरः जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः।

सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते॥(सु.सू. ३५)
अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्

कालः महाभूतविशेषांस्तु शीतोष्णद्वयभेदतः।

काल इत्यध्यवस्यन्ति न्यायमार्गानुसारिणः

यदृच्छा यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः। (सु.चि.१८)
नियतिः ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः।

कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य सम्भवम्॥(सु.नि.५)
कर्मजा व्याधयः केचित्। (सु.उ.४०)

परिणामः जाठराग्नेस्तु संयोगाद्यदुदेति रसान्तरम्।

रसानां परिणामान्ते स विपाक इति स्मृतः॥(अ.हृ.सू. ९)
ता एवौषध्यः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च।(सु.सू.६)

एवं सकलं विश्वं प्रकृतेः परिणामरूपम् ।अतः यद्यपि स्थाने स्थाने स्वभावादयः पदार्थाः ‘कारणभूताः’ इति उल्लेखाः दृश्यन्ते, ते च स्वभावादयः ‘प्रकृतेः भिन्नाः’ इति भासन्ते, तथापि तेषां स्वभावादीनां कारणत्वं व्यवहारसौकर्याय एव, न वास्तवम्।वास्तवं कारणत्वं तु प्रकृतेः एव इति निष्कर्षः।

साङ्ख्यायुर्वेदयोः

स्वभावः सत्वरजस्तमसां तथा पृथिव्यादीना परिणामविशेषः स्वभावः इति प्रकृतिपरिणामादन्यो न भवति
ईश्वरः पुरुषाख्यः।प्रकृतिक्षोभकः।अतः कारणत्वेन गणितः
कालः कालोऽपि चन्द्रार्कादिगतिक्रियालक्षणः।क्रियेति रजोगुणपरिणामः।अतः न प्रकृतेः अन्यः
यदृच्छा भूतानां कादाचित्कः परिणामविशेषः यदृच्छा।भूतानि च प्रकृतिपरिणामः।अतः यदृच्छा प्रकृतेः भिन्ना न
नियतिः पूर्वकर्मणां परिणामः नियतिः।कर्म च रजोगुणपरिणामः।अतः नियतिः प्रकृतेः अन्या न
"https://sa.wikibooks.org/w/index.php?title=प्रकृतिः_(प्रधानम्)&oldid=6761" इत्यस्माद् प्रतिप्राप्तम्