प्रकृत्यधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्।१.४.२३

अभिध्योपदेशाच्च।१.४.२४
वे.- अभिध्येति सृष्टिसङ्कल्प:। आत्मनोऽभिध्याया: उपदेश: श्रुतौ वर्तत अत: तस्य कर्तृत्वं प्रकृतित्वं च।
पू.- कुत्रास्ति एतादृश: उपदेश:?
वे.- सोऽकामयत बहु स्यां प्रजायेयेति तदैक्षत बहु स्यां प्रजायेयेति इति च तत्राभिध्यानपूर्विका स्वतन्त्रा प्रवृत्ति: अस्तीति कर्तृत्वं गम्यते।बहु स्यामिति प्रत्यगात्मविषयत्वाद् बहुभवनाभिध्यानस्य प्रकृतित्वं गम्यते।

साक्षाच्चोभयाम्नानात्।१.४.२५
वे.- जगत: कर्तृत्वं प्रकृतित्वं च ब्रह्मणि विद्यते, यतो हि साक्षाद् उभयो: प्रभवप्रलययो: ब्रह्मैव कारणमादाय आम्नानं कृतम्।
पू.- कुत्रास्त एतदाम्नानम्?
वे.- सर्वाणि ह वेमानि भूतान्याकाशादेव समुत्पद्यन्ते,आकाशं प्रत्यस्तं यन्ति(छा. १.९.१)। यस्मात्प्रभव:, यस्मिंश्च लय:, तत्तस्योपादानं, यथा व्रीहीणां पृथिवी।

आत्मकृते: परिणामात् ।१.४.२६
वे.- जगदुपादानं ब्रह्म यतो हि तत्र कर्तृत्वं कर्मत्वं चेत्युभयं श्रुत्या प्रतिपादितम् – तदात्मानं स्वयमकुरुत। (तैत्ति.२.७) आत्मानम् इति कर्मत्वम्।स्वयमकुरुत इति कर्तृत्वम्।
पू.- नित्यसिद्धस्य सत: ब्रह्मण: कर्तृत्वं सम्भवति, क्रियमाणत्वं कथं शक्यम्?
वे.-परिणामात्।पूर्वसिद्धोऽपि सन्नपि आत्मा आत्मानं विकारात्मना परिणमयति।

योनिश्च हि गीयते।१.४.२७
वे.- वेदान्तेषु ब्रह्म ‘योनि:’ इति गीयते।अतोऽपि ब्रह्म जगत: उपादानम्- कर्तारमीशं पुरुषं ब्रह्म योनिम्- मुण्ड. १.१.६
यद्यपि योनिशब्द: क्वचित् स्थानवचन: तथापि वाक्यशेषात् अत्र तस्य प्रकृतिवचनता ग्राह्या।
पू.- क: वाक्यशेष:? (वाक्यशेष:=कथावसानम्। अपेक्षितगुणसमर्पक:।प्रकृतार्थविधायक:। विध्यर्थसन्देहाधीनाकाङ्क्षाप्रयुक्तप्रयोगविषय:।)
वे.- यथोर्णनाभि: सृजते गृह्णते च... मुण्ड. १.१.७
पू.- ईक्षापूर्वकं कर्तृत्वं लोके निमित्तेष्वेव दृश्यते , नोपादानेषु।
वे.- न ह्ययमनुमानगम्योऽर्थ:।तत्त्वं शब्दैकगम्यम्।अत: यथाशब्दमिह भवितव्यम्।शब्दश्च ईश्वरस्य ईक्षितु: प्रकृतित्वं वदति।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्     प्रथमाध्याये चतुर्थ: पाद:
"https://sa.wikibooks.org/w/index.php?title=प्रकृत्यधिकरणम्&oldid=5592" इत्यस्माद् प्रतिप्राप्तम्