प्रतिमानाटके द्वितीयाङ्के पद्यानां पदच्छेद

विकिपुस्तकानि तः
Jump to navigation Jump to search

मेरुः चलन् इव युगक्षयसन्निकर्षे शोषं व्रजन् इव महोदधिः अप्रमेय:।
सूर्य: पतन् इव च मण्डलमात्रलक्ष्य:शोकाद् भृशं शिथिलदेहमतिनरेन्द्र:।।२.1।।

नागेन्द्रा यवस-अभिलाष-विमुखा: स-अस्र-ईक्षणाः वाजिनः
हेषाः शून्यमुखा: सवृद्धवनिताबालाः च पौराः जना:।
त्यक्त-आहारकथा: सुदीनवदना: क्रन्दन्त उच्चैः दिशा
रामो याति यया सदारसहजः ताम् एव पश्यन्ति अमी ।।२.2 ।।

पतति उत्थाय च उत्थाय हा हा इति उच्चैः लपन् मुहु:।
दिशं पश्यति ताम् एव यया यातो रघु-उद्वह: ।।२.3 ।।

राजा -हा वत्स! राम! जगतां नयन-अभिराम !
हा वत्स! लक्ष्मण!सुलक्षणसर्वगात्र! ।
हा साध्वि! मैथिलि! पतिस्थितचित्तवृत्ते ।
हा हा गता: किल वनं बत मे तनूजा: ।।२.4 ।।

रामेण अपि परित्यक्तः लक्ष्मणेन च गर्हित:।
अयशोभाजनं लोके परित्यक्तः त्वया अपि अहम् ।।२.5 ।।

सत्यसन्ध! जितक्रोध! विमत्सर! जगत्प्रिय!।
गुरुशुश्रूषणे युक्त! प्रतिवाक्यं प्रयच्छ मे ।।२.6 ।।

सूर्यः इव गतः राम: सूर्यं दिवसः इव लक्ष्मणः अनुगत:।
सूर्यदिवस-अवसाने छाया इव न दृश्यते सीता ।।२.7 ।।

अनपत्याः वयं राम: पुत्रः अन्यस्य महीपते: ।
वने व्याघ्री च कैकेयी त्वया किं न कृतं त्रयम् ।।२.8 ।।

अहं हि दु:खम् अत्यन्तम् असह्यज्वलन-उपमम् ।
न एव सोढुं न संहर्तु शक्नोमि मुषित-इन्द्रिय: ।।२.9 ।।

तव एव पुत्र: सत्पुत्रः येन नक्तन्दिवं वने ।
रामः रघुकुलश्रेष्ठः छायया इव अनुगम्य़ते ।।२.10 ।।

शून्य: प्राप्तः यदि रथः भग्नः मम मनोरथ: ।
नूनं दशरथं नेतुं कालेन प्रेषितो रथ: ।।२.11 ।।

धन्या: खलु वने वाताः तटाक-परिवर्तिन: ।
विचरन्तं वने रामं ये स्पृशन्ति यथासुखम् ।।२.12 ।।

एते भृत्या: स्वानि कर्माणि हित्वा स्नेहाद् रामे जातबाष्पाकुल-अक्षा:।
चिन्तादीना: शोकसंदग्धदेहाः विक्रोशन्तं पार्थिवं गर्हयन्ति ।।२.13 ।।

क्व ते ज्येष्ठः राम: प्रियसुत । सा क्व दुहिता
विदेहानां भर्तुः निरतिशयभक्तिः गुरुजने ।
क्व वा सौमित्रिः मां हतपितृकम् आसन्नमरणं
किम् अपि आहु: किं ते सकलजनशोक-अर्णवकरम् ।।२.14 ।।

रामलक्ष्मणयोः मध्ये तिष्ठतु अत्र अपि मैथिली ।
बहुदोषाणि अरण्यानि सनाथा एषा भविष्यति ।।२.15 ।।

सकृत् स्पृशामि वा रामं सकृत् पश्यामि वा पुन: ।
गतायुः अमृतेन इव जीवामि इति मतिः मम ।।२.16 ।।

कम् अपि अर्थं चिरं ध्यात्वा वक्तुं प्रस्फुरित-अधरा: ।
बाष्पस्तम्भितकण्ठत्वाद् अनुक्त्वा एव वनं गता: ।।२.17 ।।

अङ्गं मे स्पृश कौसल्ये ! न त्वां पश्यामि चक्षुषा।
रामं प्रति गता बुद्धिः अद्यापि न निवर्तते ।।२.18 ।।

इति आदिश्य च ते तपोवनम् इतो गन्तव्यम् इति एतया
कैकेय्या हि तद् अन्यथा कृतम् अहो नि:शेषम् एकक्षणे ।।२. 19 ।।

गतः राम: प्रियं ते अस्तु त्यक्तः अहम् अपि जीवितै: ।
क्षिप्रम् आनीयतां पुत्र: पापं सफलम् अस्तु इति ।।२. 20 ।।

अयम् अमरपते: सखा दिलीपः रघुः अयम् अत्रभवान् अज: पिता मे ।
किम् अभिगमनकारणं भवद्भिः सह वसने समयो मम अपि तत्र।।२.21 ।।


प्रतिमानाटके पद्यानां पदच्छेदः अन्वयः सरलार्थः च