प्रदानाधिकरणम्...

विकिपुस्तकानि तः

प्रदानाधिकरणम् (३.३.४३)
प्रदानवदेव तदुक्तम्।(३.३.४३)
सङ्गति:-
फलभेदानुसारं कर्माङ्गभूता उपासनापि नित्या वा अनित्या वा भवति इति पूर्वाधिकरणे उक्तम्।अत्र वायुप्राप्तिरूपं फलं समानमत: ध्यानप्रयोगस्य अभेदो मन्तव्य: इति प्रत्युदाहरणसङ्गत्या तृतीयाध्याये तृतीयपादे इदमधिकरणम् आरभ्यते।
विषय: -
वायुर्वाव संवर्ग:।(छा.४.३.१) प्राणो वाव संवर्ग:(४.३.२)
विशय: -
एतौ वायुप्राणौ पृथग् उपगन्तव्यौ अथवा अपृथक्?
पूर्वपक्ष:-
अपृथग् उपगन्तव्यौ, यतो हि उभयो: तत्त्वत: अभेद:।तथा अध्यात्माधिभूतयो: तत्त्वाभेद:। श्रुतौ -‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐत.२.४) एकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च। (बृ.१.५.२३)
इति प्राणव्रतेन एकेनैव उपसंहार: कृत:। अत: अपृथक्त्वमुभयो: मन्तव्यम्।
उत्तरपक्ष:-
यदा इन्द्राय एकादशकपाल: पुरोडाश: अभिगम्यते तदा तत्र इन्द्राय अधिराजात स्वराजे इति त्रिपुरोडाश: दीयते।इन्द्राभेदेऽपि राजादिगुणभेदात् पृथक् प्रदानं भवति ।अत्रापि प्राणवाय्वो: तत्त्वाभेदे सत्यपि अध्येयांशस्य पृथक्त्वात् आध्यानपृथक्त्वम्।
इह विद्याभेदो नास्ति। तथापि अध्यात्माधिदैवभेदात् प्रवृत्तिभेदो मन्तव्य:। यथा प्रातरग्निहोत्रं सायमग्निहोत्रं च।
निर्णय:-
प्रकृते आध्येयभेदाद् आध्यानभेद:।

३.३ ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:

"https://sa.wikibooks.org/w/index.php?title=प्रदानाधिकरणम्...&oldid=5719" इत्यस्माद् प्रतिप्राप्तम्