सामग्री पर जाएँ

प्रमाणासिद्धत्वम् अबाध्यत्वव्याप्यमित्यन्यत्।

विकिपुस्तकानि तः

प्र.- स्पष्टीकुरुत- ‘प्रमाणासिद्धत्वम् अबाध्यत्वव्याप्यमित्यन्यत्।’

उ.-
सन्दर्भ:-
सद्विविक्तत्वं मिथ्यात्वम् इति मिथ्यात्वस्य लक्षणं मूलत: न्यायदीपावलीकृता आनन्दबोधभट्टारकेण प्रस्तुतम्।तत्र तेन-
सत्त्वम् अबाध्यत्वम्। मिथ्या बाध्यम्।
इति लक्षणे उक्ते।सत्त्वस्य अबाध्यत्वम् इति यद् लक्षणं तत्र उक्तं, तदेव अद्वैतसिद्धिकारस्यापि अभिप्रेतं वा इति शङ्का जायते।तस्या: उत्तरम् अद्वैतसिद्धिकार: वदति –
‘प्रमाणासिद्धत्वम् अबाध्यत्वव्याप्यमित्यन्यत्।’

स्पष्टीकरणम्-
अन्यद् इति अबाध्यत्वरूपलक्षणाद् अन्यद् ।
आक्षेप:-
न्यायदीपावल्युक्तस्य मिथ्यात्वस्य लक्षणे न्यायदीपावल्युक्तं पदकृत्यं किमिति न स्वीक्रियते? सत्त्वनिरूपणं प्रकारान्तरेण किमर्थं कृतम्?
समा.-
अत्र ‘प्रमाणसिद्धत्वं सत्त्वम्’ इत्येव वक्तव्यम्।बाध्यत्वघटितलक्षणम् (अबाध्यत्वं सत्त्वम्) अत्र न युज्यते। मिथ्यात्वम् = सद् - विविक्तत्वम्।
= अबाध्यत्व - विविक्तत्वम्।.....१
अत्र अबाध्यत्वम् = बाध्यत्व - भिन्नत्वम्।
=मिथ्यात्व-भिन्नत्वम्।.....२
∴१ तथा २ वचनयो: फलितम् एतत् –
मिथ्यात्वम्= मिथ्यात्व-भिन्न-विविक्तत्वम्।
एकदा मिथ्यात्वं नाम बाध्यत्वम् इत्युक्ते पुन: बाध्यत्व-भिन्न-विविक्तत्वं मिथ्यात्वमिति वचनं व्यर्थं स्यात्।अत: न्यायदीपावलीकृते लक्षणे पदकृत्यं प्रकृते प्रकारान्तरेण कृतम्।

लघूत्तरप्रश्ना:     अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह: