प्रमाभ्रमभिन्नं न ज्ञानम्

विकिपुस्तकानि तः

प्र.- ननु प्रमाभ्रमभिन्नं न ज्ञानम्।– स्पष्टीकुरुत।
सन्दर्भ: -
पूर्वपक्ष: आत्मज्ञानविषये आक्षिपति।स: पृच्छति, ‘ आत्मज्ञानं प्रमारूपमथवा भ्रमरूपम्?’ यदि प्रमारूपं तर्हि अविद्यादे: अपि पारमार्थिकत्वम्। यदि आत्मज्ञानं भ्रमरूपं तर्हि दोषजन्यमिति मन्तव्यम्।
अद्वैतसिद्धिकारेण अस्य आक्षेपस्योत्तरमेवं दत्तम् –
ज्ञानं भ्रमप्रमाव्यतिरिक्तमपि सम्भवति।यथा
१ ईश्वरज्ञानं न प्रमारूपं, प्रमाणाजन्यत्वात्। न वा तद् भ्रमरूपम्।
२ नैयायिकमते निर्विकल्पं ज्ञानं स्वीक्रियते। इदं किञ्चित् इत्याकारकमिदं ज्ञानम्। तद् न प्रमारूपं, प्रमाणाजन्यत्वात्।न च भ्रमरूपम्। अत: आक्षेपोऽयं निर्मूल:।
............................... लघूत्तरप्रश्ना: