प्रवाहिका

विकिपुस्तकानि तः
Jump to navigation Jump to search

विषयः-
१ तस्य रूपाणि- ..... अतिसार्यते सप्रवाहिकम् ...। (च.चि.१९.७)
२ प्रवाहिका वातकृता सशूला...।सु.उ.४३.१३८

विशयः-
चरकवाग्भटयोः प्रवाहिकायाः पृथङ् निर्देशः नास्ति। सश्रुते तु प्रवाहिकायाः पृथग्व्याधित्वेन निर्देशोऽस्ति (उ.४३.१३८)। अतः विद्यते संशयः यत् प्रवाहिका अतीसारभेदः आहोस्वित् स्वतन्त्रः व्याधिः?

पूर्वपक्षः
प्रवाहिका अतीसारभेदः, पृथङ्निर्देशाभावात्।चरकवाग्भटयोः प्रवाहिकायाः पृथङ् निर्देशः नास्ति।चरकेण कफजातीसारे प्रवाहिका प्रतिपादिता ‘सप्रवाहिकम्’ इति (च.चि.१९.७)
उत्तरपक्षः.- तच्चरकवचनम् एवम् – तस्य रूपाणि- ..... अतिसार्यते सप्रवाहिकम् ...। (च.चि.१९.७)
एवं कफातीसारस्य लक्षणत्वेन तत्र प्रवाहिका उक्ता।तेन प्रवाहिकाव्याधेः स्वतन्त्रम् अस्तित्वं कथं विरुद्ध्यते? यद् अन्यव्याधिलक्षणत्वेन उक्तं तस्य स्वतन्त्रव्याधित्वं नास्ति इति नास्ति व्याप्तिः।किं च स्वयं चरकेण उक्तं –
ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि सङ्ग्रहे।व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः। (च.नि.८.४०)
पूर्वपक्षः.- चरकः अतीसारे एव प्रवाहिकां गणयति इत्यत्र अपरं प्रमाणम्- च.सि. ८.२२ इत्यत्र अतीसारस्य ३६भेदाः उक्ताः।तेषामुपद्रवाणां च सङ्ख्यानं कृतम्।तत्र प्रवाहिकायाः अपि गणना कृता।
उत्तरपक्षः.- यदि अतीसारस्य उपद्रवेषु प्रवाहिकासङ्ख्यानं भवति, तर्हि अहो सिद्धः एव प्रवाहिकायाः अतीसाराद् भेदः।
अपरं च सश्रुते प्रवाहिकायाः पृथग्व्याधित्वेन निर्देशोऽस्ति (उ.४३.१३८) ।
पूर्वपक्षः.-सुश्रुते पृथङ् निर्देशे सति अपि (उ.४३.१३८) डह्लणेन अतीसारभेदत्वेन एव प्रवाहिकायाः व्यवस्था दर्शिता।
उत्तरपक्षः.- एवं स्थिते टीकाकारचनं मूलवचनानुसारं नेतव्यं, न तु मूलवचनं टीकाकारवचनानुसारम्। ‘अतीसारभेदः’ इति डह्लणस्य शब्दप्रयोगः गौणः मन्तव्यः।
पूर्वपक्षः- किमर्थं डह्लणस्य शब्दप्रयोगः गौणः मन्तव्यः?
उत्तरपक्षः.- तथा न कृतं चेत् सुश्रुतवचनेन (उ.४३.१३८) विरोधः आपद्यते।अतीसारे प्रवाहिकायां च गुदेन बहु प्रवर्तनरूपं सादृश्यमादाय कृतोऽयं प्रयोगः। एतयोः सादृश्यमादाय एव समाने अधिकरणे उभयोः प्रतिपादनं न्याय्यम् इति उक्तं मधुकोषकारेण-
अथ द्रवसरणादामपक्वलक्षणयोगात् प्रवाहिकातीसारयोः साधर्म्यम्, अतोऽतीसाराधिकारे प्रवाहिकासम्प्राप्तिमाह वायुरित्यादि...।मा.नि. ३.२१ मधुकोषटीका
एतदेव द्रवसरणरूपं सादृश्यमादाय प्रवाहिकायाः निर्देशः ‘अतीसारभेदः’ इति कृतः डह्लणेन।स च गौणः, न मुख्यः।
पूर्वपक्षः.- चरकानुसारिणा वाग्भटेनापि प्रवाहिकायाः उल्लेखः श्लेष्मातीसारे एव कृतः (अ.हृ.नि. ८.९-११)।चिकित्सायामपि प्रवाहिकायाः स्वतन्त्रः अधिकारो न कृतः।प्रवाहिकालक्षणविशिष्टानाम् अतीसाराणां पृथक् पृथक् चिकित्सा उपदिष्टा।यथा सप्रवाहिक: सशूलपिच्छः अतीसारः। (च.चि. १९.३०-३४, ४७-४९.११७) (अ.हृ. ९.३५,३७-४०,११८)
उत्तरपक्षः.- नैतेन प्रवाहिकायाः स्वतन्त्रम् अस्तित्वं बाधितं भवति इति पूर्वं दर्शितम्। श्लेष्मातिसारस्य लक्षणं प्रवाहिका इत्येव सिद्ध्यति।
पूर्वपक्षः-अतीसारप्रवाहिकयोः भेदः अस्ति इत्येतदर्थम् इदमपरं प्रमाणम् –
अथातिसारभेदप्रवाहिकायाः सम्प्राप्तिपूर्वकं लक्षणमाह – भावप्रकाशः
उत्तरपक्षः.- यथा डह्लणस्य वचनस्य व्यवस्था कृता ‘गौणः प्रयोगः’ इति तथैव अस्यापि वचनस्य व्यवस्था कार्या।
पूर्वपक्षः- तर्हि चरकवाग्भटयोः स्वतन्त्रप्रवाहिकायाः वर्णनं कुत्र विद्यते?
उत्तरपक्षः- नास्ति।
पूर्वपक्षः- एतद् न्यूनं पूरयितुम् एव प्रवाहिका अतीसारभेदः इति अस्माभिः उच्यते। अन्यथा चरकवाग्भटयोः न्यूनोक्तिदोषः आपतति।
उत्तरपक्षः.- एकं साधयतः अपरं भवद्धस्तात् च्यवते। चरकवाग्भटयोः न्यूनोक्तिदोषः न स्याद् इति प्रयतमानेन भवता सुश्रुतस्य अत्युक्तिदोषः उद्भावितः।यदि अतिसारभेदः एव प्रवाहिका तर्हि तस्य पृथग्व्याधित्वेन सुश्रुतकृतं वर्णनम् अत्युक्तिदोषावहम्।
अथापि प्रवाहिकायाः अतिसारभेदत्वम् अङ्गीकुर्मः चेदपि तस्याः वातजपित्तजकफजभेदानां व्यवस्था न भवति।
पूर्वपक्षः- प्रवाहिकायाः लक्षणानि दृष्ट्वा तस्य कफजातीसारे व्यवस्था सम्भवति।
उत्तरपक्षः.-तथा सति वातजप्रवाहिका पित्तजप्रवाहिका अपि कफजातिसारे समावेशनीया। तत्तु न सम्भवति। अपरं च प्रवाहिकायाः स्वतन्त्रव्याधित्वेन वर्णनाभावेऽपि चरकवाग्भटयोः न्यूनोक्तिदोषः न सम्भवति।
पूर्वपक्षः-कथमिव?
उत्तरपक्षः- ‘सर्वान् विकारान् व्याख्यास्यामः’ इति प्रतिज्ञाय ग्रन्थकारः कतिपयविकाराणामेव व्यख्यानं करोति चेत् स न्यूनोक्तिदोषः।अत्र तु यथोपचितविकारान् अनुव्याख्यास्यामः।च.नि.१.१५
इति प्रतिजानीते ग्रन्थकारः।
यथोपचितानति ये ये उपचिताः विकाराः शोथार्शःप्रभृतयः, तान्।किं वा यथाचितम् इति पाठः। तत्रापि यथाप्रधानम् इति अर्थः उन्नेयः।- चक्र.
तथा चाह वाग्भटः -प्रायः सारतरोच्चयः।क्रियतेऽष्टाङ्गहृदयं नातिसङ्क्षेपविस्तरम्॥ अ.हृ.सू.१.४,५
अतः प्रवाहिकायाः स्वतन्त्रव्याधित्वेन वर्णनाभावेऽपि चरकवाग्भटयोः न्यूनोक्तिदोषः न सम्भवति।

निर्णयः-अतः प्रवाहिका स्वतन्त्रव्याधिः एव, न त्वतीसारभेदः।



भिषग् भिषजा सह
"https://sa.wikibooks.org/w/index.php?title=प्रवाहिका&oldid=6142" इत्यस्माद् पुनः प्राप्तिः