प्रस्तावना

विकिपुस्तकानि तः

भेत्ता हि भेद्यम् अन्यथा भिनत्ति
इति चरकवचनं प्रसिद्धम्।भेत्ता स्वप्रयोजनानुसारं पदार्थभेदान् कल्पयति। तथा सर्वशास्त्रेषु अनुमन्यते अपि।तेन एकस्य एव पदार्थस्य भेदकोपाधिम् अनुसृत्य नाना भेदा: सम्भवन्ति।अध्येयविषयस्य कति भेदा: कथं सम्भवन्ति इति जिज्ञासा यदि भवति तर्हि तस्या: पूर्त्यर्थं पदार्थभेदानां सङ्कलनम् आवश्यकम्।एतत् सङ्कलनम् एव अस्य पुस्तकस्य विषय:
एतादृशी जिज्ञासा यस्य अस्ति स: अधिकारी। अनेन सङ्कलनेन सर्वेषाम् आयुर्वेदपदार्थानाम् अल्पश्रमेण अल्पकालेन च ज्ञानं तस्य जिज्ञासो: भविष्यति। एतदेव अस्य पुस्तकस्य प्रयोजनम्
वस्तुत: सर्वेषाम् आयुर्वेदग्रन्थानाम् आलोडनं कृत्वा तादृश: वृहत्कोश: निर्मातव्य:।परं ‘बिन्दुश: पूर्यते सिन्धु:’ इति न्यायेन अस्मिन् पुस्तके अष्टाङ्गहृदये सूत्रस्थाने विद्यमानानाम् एव पदार्थभेदानां कोश: उररीक्रियते।

अष्टाङ्गहृदये सूत्रस्थाने पदार्थभेदकोश: अकारादिक्रमेण पदार्थभेदकोश: पाठक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=प्रस्तावना&oldid=5445" इत्यस्माद् प्रतिप्राप्तम्