प्राणश्रैष्ठ्याधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

श्रेष्ठश्च । ब्रसू-२,४.८।
वे.- मुख्यश्च प्राण: इतरप्राणवद् ब्रह्मविकार:।
पू.- कुत्र आम्नात: अयं श्रेष्ठ: प्राण:?
वे.- १ एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च।(मुण्ड.२.१.३) इत्यत्र मनस: सर्वेन्द्रियेभ्य: च पृथक् प्राणस्य उत्पत्ति: श्रुता।अत: अयं मुख्य: प्राण:।
पू.-पूर्वम् इतरप्राणानां ब्रह्मविकारत्वं साधितम्।तेनैव अस्यापि मुख्यप्राणस्य ब्रह्मविकारत्वं सिद्धम्।किमर्थं तर्हि अयम् अतिदेश:?
वे.-अधिकाशङ्कापाकरणार्थ:।
पू.-कीदृशी अधिकाशङ्का?
वे.- नासदासीये सूक्ते एवं श्रूयते-
‘न मृत्युरासीदमृतं न तर्हि रात्र्या अह्न आसीत् प्रकेत:।
आनीदवातं स्वधयो तदेकं तस्माद् हान्यन्न पर: किंचनास॥(ऋ. सं.८.७.१७ )’
अत्र आनीत् (चेष्टां कृतवान्)इति पदं श्रूयते।तत् च प्राणकर्म।अत: प्रागुत्पत्ते: प्राणसद्भाव: द्योत्यते।तस्मादज: प्राण: इति कस्यचिन्मति: सम्भवति।ताम् अपाकर्तुमिदं सूत्रम्।
पू.- कथं तर्हीयमाशङ्का निराक्रियते?
वे.-अत्र चेष्टावाचकोऽपि ‘आनीत्’ शब्द: प्रागुत्पत्ते: प्राणसद्भावं सूचयितुम् अशक्त:, यतो हि ‘अवातम्’ इति विशेषणं तत्र प्रयुक्तम्।एतद् विशेषणं मूलप्रकृते: युज्यते ‘अप्राणो ह्यमना: शुभ्र:’ इति वचनात्।अस्मिन्वचने मूलप्रकृति: प्राणादिसमस्तविशेषरहिता अस्ति इति दर्शितम्।अत: आनीत् इति शब्द: कारणसद्भावं सूचयति, न तु प्राणसद्भावम्।
पू.- ‘श्रेष्ठ:’ इति प्राणस्य विशेषणम् अत्र प्रयुक्तं, तस्य किं स्वारस्यम्?
वे.- शुक्रनिषेककालादारभ्य य: वर्तते, स: प्राण: श्रेष्ठ: प्राण:।यदि स: तदानीं तत्र न भवति, तर्हि निषिक्तं शुक्रं विफलं भवेत्।इतरे श्रोत्रादिवृत्तय: प्राणा: कार्यादिविभागनिष्पत्तौ कार्यं लभन्ते अत: ते न श्रेष्ठा:।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्