प्राणसङ्ख्याधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

सप्त गतेर्विशेषितत्वाच् च । ब्रसू-२.४.५ ।
प्रस्तावना –
प्राणानाम् उत्पत्तिविषये विचार: कृत:।अथ प्राणसङ्ख्याविषये विचार आरभ्यते।मुख्यप्राणविषये अनन्तरं विचार्यते।
पू.- सम्प्रति इतरप्राणानां सङ्ख्या गण्यते।प्राणसङ्ख्याविषये नाना श्रुतय: सन्ति-
१ सप्त प्राणा: प्रभवन्ति तस्मात् (मुण्ड. २.१.८)
२ अष्टौ ग्रहा: अष्टावतिग्रहा: (बृ. ३.२.१)
३ सप्त वै शीर्षण्या: प्राणा: द्वाववाञ्चौ। (तैत्ति.सं. ५.१.८.१)
४ नव वै पुरुषे प्राणा नाभिर्दशमी।
५ दशेमे पुरुषे प्राणा आत्मैकादश:।(बृ.३.९.४)
६ सर्वेषां स्पर्शानां त्वगेकायनम्।(बृ. २.४.१)
७ चक्षुश्च द्रष्टव्यं च।(बृ. ४.८)
एवं संशये प्राप्ते ब्रूम: यत् सप्त प्राणा: सन्ति।
वे.- कुत:?
पू.- गते:।सप्त प्राणा: प्रभवन्ति तस्मात् (मुण्ड. २.१.८) इति सप्तानां प्राणानाम् अवगति: अस्ति अत: सप्त प्राणा:। तथा च विशेषितत्वादपि सप्त प्राणा:।
वे.- किं नाम विशेषितत्वम्?
पू.- विशेषणसहितत्वम्।‘सप्त वै शीर्षण्या: प्राणा:’ इत्यत्र ‘शीर्षण्या:’ इति प्राणानां विशेषणं श्रूयते अत: सप्त एव प्राणा:।
वे.- ननु प्राणा: गुहाशया निहिता: सप्त सप्त (मुण्ड. २.१.८) इत्यत्र वीप्सा श्रूयते।अत: सप्तभ्योऽपि अधिका: प्राणा: अभ्युपेया:।
पू.- पुरुषभेदाभिप्रायेण एषा वीप्सा।प्रतिपुरुषं सप्त सप्त प्राणा: सन्ति, न तु सप्त सप्त अन्ये अन्ये प्राणा: इति।
वे.- ननु अष्ट प्राणा:, नव प्राणा: इति अन्या: अपि सङ्ख्या: प्राणानाम् उदाहृता:।कथं सप्तानामेव ग्रहणं क्रियते?
पू.- सत्यम् अन्या: अपि सङ्ख्या: उदाहृता:।अत: काचिदेका निश्चेतव्या।कल्पनागौरवं न स्यादिति सप्त सङ्ख्या: अस्मानभि: निश्चिता:।
वे.- तर्हि अन्यासां श्रुतानां सङ्ख्यानां का गति:?
पू.-वृत्तिभेदम् अपेक्ष्य अन्या: सङ्ख्या: श्रुता: इति व्यवस्थापनीयम्।

हस्तादयस्तु स्थितेऽतो नैवम्।२.४.६
वे.- सप्तभ्य: अतिरिक्ता: अपरे हस्तादयस्तु प्राणा: श्रूयन्ते- ‘हस्तो वै ग्रह:, स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति।’(बृ. ३.२.८)एवं सप्तत्वातिरेके उपस्थिते सप्तत्वम् अधिकसङ्ख्यान्तर्गतम् इति भावयितुं शक्यते। हीनाधिकसङ्ख्याविप्रतिपत्तौ अधिका सङ्ख्या ग्राह्या।तत्र हीनान्तर्भवति।न तु हीनसङ्ख्यायाम् अधिका सङ्ख्या अन्तर्भवति। अत: नैवं मन्तव्यं यत् स्तोककल्पनानुरोधात् सप्तैव प्राणा: इति।उत्तरसङ्ख्यानुरोधात् एकादश प्राणा: मन्तव्या:।तथा च श्रुति:- दशेमे पुरुषे प्राणा आत्मैकादश:। (बृ.३.९.४)
पू.- आत्मा प्राणेष्वन्तर्भवति वा?
वे.- आत्मशब्देनात्र अन्त:करणं ग्राह्यम्, करणाधिकारात्।
पू.- उत्तरसङ्ख्यानुरोध: अपेक्षित: चेत् एकादशत: उत्तरा अपि सङ्ख्या प्राणानां श्रूयते द्वादश प्राणा: त्रयोदश प्राणा इति।
वे.- सत्यम्। तथापि कर्माणि एकादश एव सन्ति।तदर्थं करणानि अपि एकादश एव अपेक्षितानि, नाधिकानि।अत: सत्यपि अधिकसङ्ख्याकप्राणश्रवणे एकादश एव प्राणा: गृह्यन्ते, नाधिका:।
पू.- कानि एकादश करणानि?
वे.- शब्दज्ञानाय श्रोत्रेन्द्रियं, स्पर्शज्ञानाय त्वगिन्द्रियं, रूपज्ञानाय चक्षुरिन्द्रियं, रसज्ञानाय रसनेन्द्रियं गन्धज्ञानाय घ्राणेन्द्रियमिति पञ्च ज्ञानेन्द्रियाणि।
वचनाय वागिन्द्रियं, आदानाय हस्तेन्द्रियं, विहरणाय पादेन्द्रियं, विसर्जनाय पाय्विन्द्रियं, आनन्दाय उपस्थेन्द्रियमिति पञ्च कर्मेन्द्रियाणि।
सर्वार्थविषयं त्रैकाल्यं मन: चेति एकादश करणानि।
पू.- अत्र बुद्धे: अहङ्कारस्य, चित्तस्य च समावेश: नास्तीति कथम्?
वे.- मन: एव वृत्तिभेदात् क्वचित् चित्तम् इति भण्यते, क्वचिद् अहङ्कार: इति क्वचिच्च बुद्धिरिति।
पू.- किमत्र प्रमाणम्?
वे.- श्रुति:। ‘..... एतत्सर्वं मन एव।’ (बृ. १.५.३)अत: बुद्ध्यहङ्कारचित्तानां पृथगुल्लेखो न कृत:।
पू.- सप्त शीर्षण्या: प्राणा: स्मृता:। किमर्थं तर्हि सप्त एव प्राणा: न गण्यन्ते?
वे.- के ते सप्त शीर्षण्या: प्राणा:?
पू.- ‘द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके एका वागिति सप्त शीर्षण्या: प्राणा:।
वे.- एते चत्वार एव प्राणा: अभवन्, न सप्त।स्थानभेदादेते चत्वार: एव सप्त भवन्ति।
पू.- भवन्तु तथा।
वे.- तर्हि अन्येषां हस्तादिवृत्तीनां प्राणानां गणना कुत्र?
पू.- एषामेव चतुर्णां वृत्तिभेदा इतरे प्राणा: इति मन्तव्यम्।
वे.- न तदुचितं, यतो हि हस्तादिवृत्तय: प्राणा: श्रोत्रादिवृत्तिप्राणै: अत्यन्तं विजातीया:।
पू.- ‘नव वै पुरुषे प्राणा नाभिर्दशमी’ इत्यत्र दश प्राणा: प्रोक्ता:।तेषां व्यवस्था भवन्मते कथम्?
वे.-नैतद् वचनं प्राणतत्त्वभेदं प्रतिपादयति।अपि तु देहच्छिद्राणि प्रतिपादयति।यतो हि नाभिर्नाम न कश्चित् प्राण: प्रसिद्ध:।नाभिस्तु मुख्यप्राणस्य विशेषं स्थानम्।अत: एतद्वचनं देहच्छिद्राभिप्रायेण बोद्धव्यं, न प्राणभेदाभिप्रायेण।
पू.- प्राणानाम् इतोऽपि भिन्ना: सङ्ख्या: श्रूयन्ते।तेषां वचनानां व्यवस्था एकादशप्राणाङ्गीकारे कथं स्यात्?
वे.- क्वचिदुपासनार्थं कतिपये प्राणा: गण्यन्ते, क्वचित्प्रदर्शनार्थं कतिचित्प्राणा: गण्यन्ते। एवं प्राणगणनापराणि वचनानि विचित्राणि सन्ति।अत: किं गणनावचनं केनाभिप्रायेण वर्तते इति विचिन्त्य एव प्राणसङ्ख्या निर्धारणीया। अस्माभि: एकादशेति प्राणसङ्ख्या निर्धारिता, यतो हि प्राणरूपै: साधनै: सम्पादनीयानि कार्याणि एकादश सन्ति।

सप्त गतेर्विशेषितत्वाच् च । ब्रसू-२,४.५ (२) ।
पू.- सप्त एव प्राणा: स्यु:, गते:। गतिरत्र उत्क्रान्ति:। सप्तानामेवात्र उत्क्रान्ति: श्रूयते- ‘ तमुत्क्रान्तं प्राणोऽनूत्क्रामति, प्राणमनूत्क्रान्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ. ४.४.२) अत: सप्त एव प्राणा:।
वे.- ननु सर्वे प्राणा: इति उक्तम्। सप्त एव किमर्थं गृह्यन्ते?
पू.- विशेषितत्वात्।चक्षुरादय: त्वक्पर्यन्ता: सप्त एव प्राणा: अत्र विशेषिता:।एतेषां विशेषं विवरणमत्र कृतम्।अत: एते सप्त एव ‘सर्वे’ इति पदेन गृह्यन्ते। सर्वशब्द: प्रकृतवाची भवति यथा ‘सर्वे ब्राह्मणा: भोजयितव्या:’ इति उक्ते ये निमन्त्रिता:, प्रकृता:, ते एव सर्वशब्देन गृह्यन्ते, नान्ये।
वे.-प्रकृते अष्टमं विज्ञानमपि उक्तं तस्य समावेश: गणनायां कथं न कृत:?
पू.- मनोविज्ञानयो: तत्त्वत: अभेद:।अत: वृत्तिभेदेऽपि सप्त एव प्राणा: गण्यन्ते।

हस्तादयस्तु स्थितेऽतो नैवम्।२.४.६(२) वे.- हस्तादय: अन्येऽपि सप्तभ्योऽतिरिक्ता: प्राणा: गण्यन्ते- हस्तो वै ग्रह: (बृ.३.३.८) ‘दशेमे पुरुषे प्राणा आत्मैकादश: (बृ. ३.९.४)इत्यत्र ते यदास्मात् शरीरान्मर्त्यादुत्क्रामन्ति अथ रोदयन्ति’ इति एकादशानां प्राणानामुत्क्रान्ति: उक्ता।एवमत्र शब्दप्रमाणेन प्राणानां सङ्ख्या एकादश।सप्तप्राणपक्षे तु सर्वशब्दे श्रुते ‘सर्वे इति कति?’ इति आकाङ्क्षाया: पूरणाय प्रकरणवशेन ‘सप्त’ इति सङ्ख्या सम्बध्यते।प्रकरणात् शब्दो बलीयान्।अत: प्राणा: एकादश मन्तव्या:, न तु सप्त।
‘सर्वे ब्राह्मणा: भोजयितव्या:’ इत्यत्रापि सर्वशब्देन भूतले विद्यमानानां सर्वेषां ब्राह्मणानां ग्रहणं कार्यम्, सर्वशब्दसामर्थ्यात्।सर्वेभ्य: भोजनमसम्भवम् इति अत: निमन्त्रितब्राह्मणवृन्दमात्रे सर्वशब्दस्यार्थ: सङ्कोच्यते।‘सर्वे प्राणा:’ इति वचने सर्वशब्दार्थस्य सङ्कोचे नास्ति किमपि प्रयोजनम्।अत: सर्वशब्देन अशेषाणां प्राणानां ग्रहणं न्याय्यम्।तेषु निदर्शनमात्रं सप्तानाम् उत्क्रमणम् उक्तम्।तस्मात् प्राणा: एकादश सन्ति इति ‘एकादशप्राणा:’ इति अस्मात् शब्दात् सिद्धं तथा प्राणै: सम्पाद्यकार्याणि एकादश सन्ति इति कार्यत: अपि सिद्धम्।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्
"https://sa.wikibooks.org/w/index.php?title=प्राणसङ्ख्याधिकरणम्&oldid=5644" इत्यस्माद् प्रतिप्राप्तम्