प्राणाणुत्नाधिकरणम्

विकिपुस्तकानि तः

अणवश्च।२.४.७
वे.- अणव: च एते प्राणा:।
पू.- किं नाम अणुत्वम्?
वे.- सौक्ष्म्यपरिच्छेदौ अणुत्वम्।सौक्ष्म्यं नाम अनुद्भूतरूपस्पर्शत्वम्।परिच्छेदो नाम अल्पत्वम्।
पू.- सौक्ष्म्यं परमाणुतुल्यत्वं वा?
वे.- न।तथा सति कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्ग:।
पू.- ननु अणुशब्देन परिच्छेद: अपि उक्त:। स: किमर्थम्?
वे.- यदि प्राणा: न परिच्छिन्ना:, तर्हि सर्वगता: स्यु:।यदि सर्वगता:, तर्हि उक्रान्तिगत्यागतीनाम् असम्भव:।तत्प्रतिपादिका श्रुति: व्याकुप्येत्।तद्गुणसार: जीव: इति उक्तम्।प्राणा: यदि सर्वगता:, तर्हि जीवानां तद्गुणसारत्वं न सिदध्येत्।तस्मात् सूक्ष्मा: परिच्छिन्नाश्च प्राणा:।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्
"https://sa.wikibooks.org/w/index.php?title=प्राणाणुत्नाधिकरणम्&oldid=5645" इत्यस्माद् प्रतिप्राप्तम्