सामग्री पर जाएँ

प्राणोत्पत्त्यधिकरणम्

विकिपुस्तकानि तः

तथा प्राणाः । ब्रसू-२,४.१ ।
पू.- श्रुतिषु क्वचित् प्राणानामुत्पत्ति: आम्नाता, यथा –
१ यथाग्नेर्ज्वलत: क्षुद्रा: विस्फुलिङ्गा व्युच्चरन्ति एवमेवैतस्मादात्मन: सर्वे प्राणा:।
२ एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च।(मुण्ड.२.१.३)
३ सप्त प्राणा: प्रभवन्ति तस्मात्।( मुण्ड.२.१.८)
४ स प्राणानसृजत (प्र.६.४)
क्वचिच्च प्राणानामुत्पत्ति: नोक्ता, यथा –
१ तत्तेजोऽसृजत इत्यादौ (छान्दो. ६.२.३) २ तस्माद्वैतस्मादात्मन: आकाश: संभूत:।(तैत्ति.२.१.१)
अत: विप्रतिपत्ति: ।तत्र प्राणोत्पत्तिश्रुति: गौणी इति मन्तव्यं, प्रागुत्पत्ते: प्राणसद्भावश्रवणात्।
वे.- कुत्र विद्यते प्रागुत्पत्ते: प्राणसद्भावश्रवणम्?
पू.- ‘असद्वा इदमग्र आसीत् ।तदाहु: किं तदसदासीदित्यृषयो वाव तेऽग्रेऽसदासीत्।तदाहु: के ते ऋषय: इति। प्राणा वाव ऋषय:’ (तैत्ति. २.७) इत्यत्र प्रागुत्पत्ते: प्राणानां सद्भाव: श्रूयते।
वे.- यथा वियदादयो ब्रह्मविकारा: तथा प्राणा: अपि ब्रह्मविकारभूता:।
पू.- ‘तथा प्राणा:’ इत्यत्र प्राणा: उपमेयम्।तदर्थम् उपमानं वियदादय: इति कुत: स्वीकृतम्? सूत्रे तु एतदुपमानं नास्ति।
वे.- सूत्रे उपमानं नास्ति।अत: कुतश्चित्पूर्वसूत्रादनुवर्तनीयम्।पूर्वपादस्यान्ते सर्वगतात्मबहुत्ववाद: खण्डित:।तत्र तु उपमानं नास्ति यतो हि सादृश्ये सति उपमानोपमेयभावस्य सम्भव:।अत: पादादौ ये वियदादयो ब्रह्मणो विकारा: उक्ता:, तेऽत्र उपमानत्वेनाङ्गीकृता:।
पू.- एवं बहुसूत्रव्यवहितस्य शब्दस्य उपमानत्वेन स्वीकार: न न्याय्य:।
वे.- पानव्यापच्च तद्वत् (जै. अ. ३.४.१५)इत्यत्र एवमेव बहुसूत्रव्यवहितस्यापि उपमानस्य आश्रय: कृत:।अत: अत्रापि तथा दूरान्वय: कृत:।
पू.-‘अदृष्टानियमात्’(२.३.५१) इत्येतत् सूत्रं समीपे वर्तते।तत: अदृष्टपदस्य अनुवर्तनमुपानलाभाय किमिति न कृतम्?
वे.- तस्योपमानरूपेणाङ्गीकारे अन्वय: नोपपद्यते।
पू.- ‘यथा अदृष्टं सर्वेषामात्मनां कृते अनियतम्, तथा प्राणा: अपि सर्वेषामात्मनां कृते अनियता:’ इति अन्वय: भवेत्।
वे.-तेन पुनरुक्तदोष: भवति।सर्वात्मनां कृते देहानियम: तु प्रोक्त:।तेनैव प्राणानामप्यनियम उक्त: भवति। अदृष्टोपमानेन तदेव किमर्थमुच्येत ?अत: अदृष्टस्य समीपतरोक्तस्यापि उपमानत्वेनाङ्गीकारो न युज्यते। व्यवहितमपि वियदादि तस्मादुपमानत्वेन अङ्गीकरणीयम्।
पू.-‘प्राणा: ब्रह्मणो विकारभूता:’ इति प्रतिज्ञामात्रमिदम्।तेषां विकारत्वे हेतु: क:?
वे.- श्रुतत्वमेव हेतु:।
पू.- परं कुत्रचित् प्राणोत्पत्ति: न श्रूयते।
वे.- कुत्रचिदश्रवणम् अन्यत्र श्रुतं निवारयितुं न शक्नोति।अत: आकाशादिवत् प्राणा: अपि उत्पद्यन्ते इति सूक्तम्।

गौण्यसंभवात् । ब्रसू-२,४.२ ।
पू.- उत्पत्ते: पूर्वमपि प्राणानां सद्भाव: श्रूयते- यथा असद्वा इदमग्र आसीत् (तैत्ति. २.७)तदाहु: किं तदसदासीद् इति ऋषयो वाव तेऽग्रेऽ सदासीत्।तदाहु: के ते ऋषय: इति प्राणा वाव ऋषय:। एवं स्थते प्राणोत्पत्तिश्रुति: गौणी मन्तव्या।
वे.- गौण्या: असम्भव:, यतो हि प्राणोत्पत्तिश्रुति: गौणी मता चेत् प्रतिज्ञाहानिप्रसङ्ग: आपतति।‘ कस्मिन् नु खलु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मुण्ड. १.१.३) इत्यनेन एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम्।तस्या: साधनाय अग्रे उच्यते- एतस्माज्जायते प्राण: (मुण्ड. २.१.३) इत्यादि।प्राणादि समस्तं विकारजातं ब्रह्मणो विकारभूतं भवति चेदेवैषा प्रतिज्ञा सेत्स्यति।यदि प्राणोत्पत्ति: श्रुति: गौणी मता, तर्हि उत्पत्तिपूर्वप्राणसद्भावश्रुत्या प्राणानां ब्रह्मविकारत्वं निराक्रियते।तथा भवति चेत्, ब्रह्मविज्ञानेन प्राणविज्ञानं न सम्भवति।अत: ‘ब्रह्मविज्ञानेन सर्वविज्ञानम्’ इति प्रतिज्ञा हीयते।
पू.- एवं तर्हि प्रागुत्पत्ते: प्राणानां सद्भावं प्रतिपादयन्त्या: श्रुते: गति: का?
वे.- प्राणानाम् अवान्तरकारणत्वं तत्र प्रतिपिपादयिषितं मन्तव्यं, न मूलकारणत्वम्।यतो हि मूलकारणं प्राणादिसमस्तविशेषविवर्जितमस्ति।
पू.-किमत्र प्रमाणम्?
वे.-अप्राणो ह्यमना: शुभ्रो ह्यक्षरात्परत: पर:।(मुण्ड.२.१.२)
पू.- यदि ब्रह्मैव मूलकारणं श्रुतेरभिमतं तर्हि प्राणानां कारणत्वं किमर्थं प्रतिपादयेत् श्रुति:?
वे.- श्रुतौ स्मृतौ च व्याकृतेषु नैकेषु पदार्थेषु प्रकृतिविकारभाव: प्रतिपाद्यते।तथैव प्राणानां स्वविकारापेक्षया प्रागुत्पत्ते: सद्भाव: प्रतिपादित: इति मन्तव्यम्।
पू.- वियदधिकरणे एवमेव सूत्रमासीत् ‘गौण्यसम्भवात् (२.३.२) ’ इति।तत्र तु ‘गौणी जन्मश्रुति:, असम्भवात्’ इति व्याख्यातम्। अत्र ‘गौण्या: असम्भवात् जन्मश्रुति: गौणी न’ इति व्याख्यायते। कुतोऽयं भेद:?
वे.- वियदधिकरणे ‘गौण्यसम्भवात् (२.३.२) ’ इति पूर्वपक्षसूत्रमासीत्।अत: वियदुत्पत्तिश्रुति: गौणी , असम्भवात्’ इति व्याख्यातम्।इहैतत् सिद्धान्तसूत्रम्।अत: ‘गौण्या: जन्मश्रुते: असम्भवाद्’ इति व्याख्यायते।
पू.- पूर्ववदेवात्र व्याख्यानं कृतं चेत्?
वे.-प्रतिज्ञाहानि: भविता।प्राणजन्मश्रुति: गौणी इति अङ्गीकृतं चेत् कथं प्रतिज्ञाहानि: भवतीति पूर्वं दर्शितम्।अत: प्राणा: ब्रह्मविकारभूता:।

तत्प्राक् श्रुतेश्च ब्रसू-२,४.३ ।
वे.- जायते इति पदमत्र तत् इति सर्वनाम्ना परामृश्यते।जायते इति पदस्य प्राक् श्रवणात् प्राणादीनामपि मुख्यैव जन्मश्रुति:।
पू.- जायते इत्यस्य प्राक् श्रवणेन प्राणजन्मश्रुते: मुख्यत्वं कथं सिद्ध्यति?
वे.- ‘एतस्माज्जायते प्राण:’ (मु.२.१.३)इत्यत्र जायते इति पदं श्रूयते।ततोऽग्रे आकाशादिषु एतदेव पदमनुवर्तते।आकाशादिषु ‘जायते’ इति पदं मुख्यवृत्त्या अन्वेति इति पूर्वं प्रतिष्ठापितम्। अत: प्राक् श्रुतं तदेव ‘जायते’ इति पदं प्राणेषु एव केवलं गौणवृत्त्या कथमिव अन्वियात्?अत: तत्रापि जायते इति पदस्य मुख्य: एव अर्थ: ग्राह्य:।
एकस्मिन् प्रकरणे, एकस्मिन् वाक्ये सकृदुच्चारित: परं बहुभि: सम्बध्यमान:शब्द: एकत्र मुख्यवृत्त्या सम्बद्ध्यते, अन्यत्र गौणवृत्त्या इति वचनं न युक्तम्।अत: प्राणस्योत्पत्तिश्रुति: मुख्या एव मन्तव्या, न गौणी।
पू.- एतादृशं स्थलमन्यत्रापि विद्यते वा क्वचित्?
वे.- विद्यते।‘स प्राणमसृजत, प्राणात् श्रद्धाम्’(प्रश्नो.६.४)इत्यत्रापि सृजति: प्राणविषये श्रुत:।स च अग्रे श्रद्धादिषु अपि अनुवर्तते।एवमेव ‘सर्वाणि भूतानि व्युच्चरन्ति’ इत्यत्र योजनीयम्।
पू.- परं ‘सर्वाणि भूतानि व्युच्चरन्ति’ इत्यत्र ‘व्युच्चरन्ति’ इति उत्पत्तिवाचक: शब्द:।स तु अन्ते श्रूयते, नादौ।
वे.- तत्रापि अयमेव न्याय:।उत्तरत्र श्रुत: उत्पत्तिवाचक: शब्द: मुख्यश्चेत्, स च पूर्वै: पदै: अन्वीयते चेत् मुख्यार्थबोधकत्वेन अन्वीयते।

तत्पूर्वकत्वाद् वाचः । ब्रसू-२,४.४ ।
पू.- तत्तेजोऽसृजत (छा.६.२.३) इत्यत्र प्राणानाम् उत्पत्ति: ब्रह्मणो जाता इति न पठितम्।केवलं तेजोबन्नानां त्रयाणामेव भूतानाम् उत्पत्ति: पठिता। अत: प्राणानां ब्रह्मण: उत्पत्ति: नास्ति।
वे.- तत्तेजोऽसृजत इत्यत्र ब्रह्मण: तेजोबन्नानाम् उत्पत्ति: श्रुता।अनन्तरं –
तेजस: वाच:
अद्भ्य: प्राणस्य
अन्नात् मनस: उत्पत्ति: श्रुता।
एवं परम्परया प्राणप्रकृति: ब्रह्म।‘अन्नमयं हि सोम्य मन:, आपोमय: प्राण:,तेजोमयी वाक्’। (छा.६.५.२)
पू.- यदि प्रकृते वाक्प्राणमनसां तेजोबन्नमयत्वं भाक्तं (गौणं) विद्यते, तर्हि?
वे.- तर्हि
१ नामरूपव्याक्रिया ब्रह्मकर्तृका इति श्रूयते।
२ येनामतं मतं भवति इति उपक्रमात्
३ ऐतदात्म्यमिदं सर्वम् इति उपसंहारात्
४ श्रुत्यन्तरप्रसिद्धेश्च
वाक्प्राणमनसां ब्रह्मकार्यत्वं सिद्धम्।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्