प्रारम्भः
आयुर्वेदस्य पाठ्यक्रमे पदार्थविज्ञानम् इति अन्यतमः विषयः विद्यते।तत्र दर्शनानां परिचयमात्रम् अध्ययनम् अपेक्षितम्।अध्येयदर्शनेषु साङ्ख्यदर्शनमपि अस्ति।अस्य दर्शनस्य परिचयः तथा तस्य आयुर्वेदाध्ययनोपकारकत्वम्, आयुर्वेदव्यवहारोपकारकत्वं च अस्य ग्रन्थस्य विषयः।
, प्रयोजनम्
साङ्ख्यशास्त्रस्य प्रयोजनम्।
[सम्पाद्यताम्]दुःखत्रयात् मुक्तिः इति साङ्ख्यशास्त्रस्य प्रयोजनम्।जगति अस्मिन् बहूनि दुःखानि सन्ति। तेषां त्रयः विभागाः सम्भवन्ति - आध्यात्मिकं दुःखं, आधिदैविकं दुःखं तथा आधिभौतिकं दुःखम्। प्रत्येकं जीवः अनेन दुःखत्रयेण त्रस्तः अस्ति। तस्मात् सः मुक्तिम् इच्छति।
दुःखत्रयाभिघातात् जिज्ञासा तदपघातके हेतौ।
दृष्टे सापार्था चेत्, नैकान्तात्यन्तोऽभावात्॥सांका.१
दुःखमुक्तेः लौकिकाः उपायाः -
दुःखमुक्तेः कांश्चन लौकिकान् उपायान् जीवः जानाति अपि।यथा क्षुधाजन्यं दुःखं भोजनेन नश्यति।दारिद्र्यदुःखम् उद्योगेन नश्यति।व्यधिजनितदुःखम् औषधेन नश्यति।परम् एते लौकिकाः उपायाः दोषद्वयेन ग्रस्ताः सन्ति-
१ एतैः उपायैः दुःखनाशः भविष्यति एव इति निश्चयः (एकान्तः) न भवति।
२ एतैः उपायैः दुःखनाशः क्वचिद् भवति चेदपि सः आत्यन्तिकः (पुनर्भवरहितः) न भवति।
दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशययुक्तः।सांका.२
दुःखमुक्तेः वैदिकाः उपायाः -
दुःखमुक्तेः केचन वैदिकोपायाः अपि सन्ति, यथा यागः।तत्रापि त्रयो दोषाः सन्ति –
१ वैदिके कर्मणि पशुहिंसादिकम् अशुद्धं कर्म विद्यते।
२ यागादिजन्यः दुःखनाशः नित्यः नास्ति। पुण्ये क्षीणे सति पुनः दुःखम् आविर्भवति।
३ यागादिजन्ये स्वर्गे पुण्यस्य न्यूनाधिक्यम् अपेक्ष्य सुखस्यापि न्यूनाधिक्यं भवति।तेन अतिशयसुखिनं प्रति न्यूनसुखिनः जीवस्य मात्सर्यादिकाः भावाः जायन्ते, ते अपि दुःखप्रदाः भवन्ति।
दुःखमुक्तेः साङ्योुखक्तः उपायः - तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात्॥सा.का.२
अतः दुःखमुक्तेः एताभ्यामुपायाभ्यां भिन्नः कश्चन निर्दोषः उपायः अपेक्षितः।‘व्यक्त-अव्यक्त-ज्ञ-विज्ञानम्’ इति सः उपायः।सः अस्मिन् साङ्ख्यशास्त्रे उपदिश्यते।अनेन उपायेन दुःखत्रयविनाशरूपं कैवल्यं सिद्ध्यति।अनेन उपायेन लब्धं कैवल्यं निश्चितम् अस्ति, तथा आत्यन्तिकमपि अस्ति।
आयुर्वेदशास्त्रस्य प्रयोजनम्-
[सम्पाद्यताम्]धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्॥च.सू.१.५३
शरीरधारकाः सर्वे अत्र धातुशब्देन उच्यन्ते।तेषां धातूनां साम्यक्रिया आयुर्वेदशास्त्रस्य प्रयोजनम्।
उभयशास्त्रयोः मिथः सम्बन्धः
अ)साङ्ख्यप्रयोजनसिद्ध्यर्थम् आयुर्वेदः
धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम्।
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च॥च.सू.१.१५
प्रादुर्भूतो मनुष्याणाम् अन्तरायो महानयम्॥च.सू.१.१६
धातुसाम्यप्रस्थापनम् इति आयुर्वेदस्य प्रयोजनम्।तदेव आरोग्यम्।तच्च आरोग्यं धर्मस्य मूलम्, अर्थस्य मूलम्, कामस्य मूलम्, मोक्षस्य च मूलम्।एवं चतुर्विधपुरुषार्थस्य उत्तमम् एकं मूलं नाम आरोग्यम्। तदायुर्वेदस्य अनुष्ठानेन लभ्यते।
साङ्ख्यमते व्यक्ताव्यक्तज्ञविज्ञानात् मोक्षः भवति।स मोक्षः एव साङ्ख्यशास्त्रस्य प्रयोजनम्।परं विज्ञानम् इति सत्वगुणस्य धर्मः।यदा सत्वगुणः प्रवृद्धः भवति, रजसः तमसः च ह्रासः भवति, तदा एव एतादृशं व्यक्ताव्यक्तज्ञविज्ञानं सम्भवति।
मोक्षो रजस्तमोऽभावात्....।च.शा.१.१४२
अतः मोक्षार्थम् आदौ रजस्तमसोः क्षयः कार्यः।तदर्थं ये उपायाः, ते एव मोक्षस्य उपायाः। ते च एवम् -
सतामुपासनं सम्यगसतां परिवर्जनम्।व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः।।१४३।।
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः।विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः।।१४४।।
कर्मणामसमारम्भः कृतानां च परिक्षयः।नैष्क्रम्यमनहङ्कारः संयोगे भयदर्शनम्।।१४५।।
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्।तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते।।च.शा.१.१४६।।
,,प्रस्तावात् मोक्षोपायान् आह सतामित्यादि।-चक्रपाणिः
एतान् उपायान् अनुष्ठातुम् आरोग्यं नितराम् आवश्यकम्।अतः यः साङ्ख्यमतानुसारं मोक्षार्थं यतते, सः आयुर्वेदस्य अनुष्ठानं कुर्यादेव।एवं साङ्ख्यशास्त्रप्रयोजनसिद्ध्यर्थम् आयुर्वेदः अपेक्ष्यते।
अधुना आयुर्वेदप्रयोजनसिद्ध्यर्थं साङ्ख्यशास्त्रं चिन्त्यते।
आ)आयुर्वेदप्रयोजनसिद्ध्यर्थं साङ्ख्यशास्त्रम् –
[सम्पाद्यताम्]ननु असिद्धम् एतद्।यतो हि स्वयं सुश्रुताचार्येण उक्तम् –
तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत् ।
तैश्च तल्लक्षणः कृत्स्नो भूतग्रामो व्यजन्यत ।१२।
तस्योपयोगोऽभिहितश्चिकित्सां प्रति सर्वदा ।
भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते॥सु.शा.१.१३
तैश्चेत्यादि। तैराकाशादिभिर्भूतैः, तल्लक्षणो भूतलक्षणः, कृत्स्नः समस्तः, भूतग्रामः स्थावर-जङ्गमात्मकः, व्यजन्यत विविधो जनितः। भूतानां पृथिव्यादीनां पुनर्लक्षणं स्थिरगुरुकठिनत्वम् इत्यादि, तल्लक्षणश्च स्थावरजङ्गमात्मको भूतग्रामः। तस्य पञ्चमहाभूत-आरब्धस्य भूतग्रामस्य परस्परोपकार्योपकारकत्वेन व्यवस्थितस्य, उपयोगः प्रयोजनम्, अभिहितः कथितः, चिकित्सां प्रति रोगापनयनं लक्षीकृत्य, सर्वदा नित्यगे आवस्थिके च काले। कुतः? यस्मात्तेभ्यः पञ्चमहाभूतारब्धभूतग्राम्येभ्यः परं चिकित्सिते चिन्ता नास्ति। - डह्लणः
मनोदोषयोः रजस्तमसोः उद्देशसूत्रं चरके एवमस्ति-
मानसः पुनरुद्दिष्टो रजश्च तम एव च।च.सू.१.५७
अत्र चक्रपाणिना अपि तथैव टीका कृता –
मानसः पुनरित्यादि। पुनःशब्दोऽवधारणे, तेन मानस उद्दिष्ट एव परं न शारीरदोषवत् प्रपञ्चितः, मानसदोषाणामस्मिंस्तन्त्रे कायचिकित्सारूपेऽ प्रास्ताविकत्वादिति भावः। - चक्रपाणिः
अतः आयुर्वेदविषयाणाम् अवबोधार्थं साङ्ख्यशास्त्राध्ययनं नापेक्ष्यते इति पूर्वपक्षः।
अत्रोत्तरमुच्यते-
१ स्वयं सुश्रुताचार्येण स्वीये तन्त्रे पुरुषप्रकृतिमहदहङ्कारतन्मात्राणां प्रतिपादनं कृतम्। यदि नूनं पञ्चमहाभूतेभ्यः परं चिकित्सिते चिन्ता नास्ति, तर्हि तस्य प्रतिपादनस्य वैय्यर्थ्यप्रसङ्गः स्यात्। यतो हि एतानि पुरुषादीनि तत्त्वानि पञ्चभूतेभ्यः परं विद्यन्ते।
२ सत्त्वगुणबाहुल्यात् पुरुषाः सात्त्विकाः भवन्ति, रजोगुणबाहुल्यात् पुरुषाः राजसाः भवन्ति, तमोगुणबाहुल्यात् पुरुषाः तामसाः भवन्ति इति स्वयं सुश्रुताचार्येण निर्दिष्टम् -
सात्त्विकास्तु- आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधास्मृतिर्धृतिरनभिषङ्गश्च;
राजसास्तु- दुःखबहुलताऽटनशीलताऽधृतिरहङ्कार आनृतिकत्वमकारुण्यं दम्भो मानो हर्षः कामः क्रोधश्च;
तामसास्तु-विषादित्वं नास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति। सु.शा.१.१८
त्रिगुणाः भूतेभ्यः परं सन्ति। महत् तत्त्वं (बुद्धिः) भूतेभ्यः परं विद्यते।सात्त्विकबुद्धिः राजसबुद्धिः तथा तामसबुद्धिः इति सर्वः अयं भूतेभ्यः परं विद्यमानः बिषयः।अयं विषयः आचार्येण प्रतिपादितः।यदि भूतेभ्यः परं चिन्ता न कार्या तर्हि तस्य वैय्यर्थ्यं स्यात्।
३ व्याधेः उपचारात् पूर्वं रुग्णस्य केचन भावाः वैद्येन परीक्षणीयाः।ते च आतुरोपक्रमीयाध्याये (सूत्र.३५) सुश्रुताचार्येण सविस्तरमुक्ताः।तत्र सत्त्वमिति अन्यतमो भावः।तद्विषये सः लिखति –
सत्त्ववान् सहते सर्वं, संस्तभ्यात्मानमात्मना।
राजसः स्तभ्यमानोऽन्यैः, सहते नैव तामसः॥सु.सू.३५.३८
...सत्त्वे उत्तमं मनोबलं, रजसि मध्यमं मनोबलं, तमसि मनोदौर्बल्यमिति...।–डह्लणः
सत्त्वरजस्तमोगुणाः भूतेभ्यः परं वर्तन्ते।तेषां प्राबल्येन मनसः परिणामः अत्र उक्तः। यदि भूतेभ्यः परं चिन्ता न करणीया तर्हि एतत् प्रतिपादनं व्यर्थं स्यात् ।
४ ‘पानतो जायते मदः’ इति उपक्रम्य (सु.सू.४५.२०६) त्रिविधः मदः वर्णितः-
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः ।
गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः॥ २०७
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम्।
कलहं सानुबन्धं तु करोति पुरुषे मदः॥ २०८
अशौचनिद्रामात्सर्यागम्यागमनलोलताः।
असत्यभाषणं चापि कुर्याद्धि तामसे मदः॥ सु.सू.४५.२०९
...सात्त्विके सत्त्वप्रकृतिके। ...राजसे रजःप्रकृतिके। ... तामसे तामसप्रकृतिके।…. २०७-२०९-डह्लणः
भूतेभ्यः परं यदि चिन्ता न करणीया तर्हि सत्त्वप्रकृतिकः जनः, रजःप्रकृतिकः जनः तमःप्रकृतिकः जनः इति विभागः कथमिव कार्यः?
५ सुश्रुताचार्येण गर्भव्याकरणशारीराध्यायस्य आरम्भे द्वादश प्राणाः गणिताः –
अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः।सु.शा.४. ३
....सत्त्वरजस्तमांसि तु प्रकृतेरष्टरूपाया गुणाः|… सत्त्वं रजस्तमश्च मनोरूपतया परिणतं भूतात्मनः शरीरान्तरग्रहणमोक्षणे हेतुरिति तदपि प्राणयति... ।डह्लणः
भूतेभ्यः परं चिन्ता यदि वैद्यके न करणीया तर्हि अयमुपदेशः व्यर्थः स्यात्।यतो हि सत्त्वं रजः तथा तमः भूतेभ्यः परं विद्यन्ते।
६ सुश्रुतसंहितायां चिकित्सास्थाने मेधायुष्कामीयरसायनाध्यायः (अ.३८)वर्तते।तत्र बुद्धिमेधाकरो गणः उक्तः –
सतताध्ययनं वादः परतन्त्रावलोकनम्।
तद्विद्याचार्यसेवा च बुद्धिमेधाकरो गणः॥सु.चि.३८.२७
मेधा इति बुद्धेरेव भेदः।एतत् च बुद्धितत्त्वं प्रकृतेः जायते।अतः भूतेभ्यः परम् अस्य स्थितिः।यदि भूतेभ्यः परं चिन्ता न कार्या तर्हि बुद्धिमेधाकर-गणस्य उपदेशः व्यर्थः स्यात्।
७ रक्तस्य गन्धेन मूर्च्छा केषाञ्चित् भवति।तस्य उपपत्तिः सुश्रुताचार्येण उक्ता –
पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ॥९
तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः ।सु.उ.४६.१०
.....पृथ्वी अम्भश्च द्वयमपि तमोरूपं तमोबहुलं; तथा चोक्तं पुरा- ‘तमोबहुला पृथिवी, सत्त्वतमोबहुला आपः’ इति , रक्तगन्धश्च तन्मय इति पृथिव्यम्भःसमुद्भवः; पाञ्चभौतिकेऽपि रक्ते पृथिव्यम्भसोः प्राधान्यात्।...। - डह्लणः
यदि नाम भूतेभ्यः परं वैद्यके चिन्ता नास्ति,तर्हि ‘रक्ते पृथिव्यम्भसोः प्राधान्यात् रक्तगन्धेन मूर्च्छा जायते ’इति एतावदेव वक्तव्यम्।
‘पृथिव्यम्भस्तमोरूपम्’ इति वचनम् अप्रयोजकं स्यात्।
परं तथा न भवति।रक्तस्य तमोरूपत्वप्रतिपादनम् अनिवार्यम्।तद्विना केवलं पाञ्चभौतिकत्वस्य आधारेण रक्तगन्धजन्य-मूर्च्छायाः उपपत्तिः वक्तुं नैव शक्या।तमोगुणः च भूतेभ्यः परं वर्तते।
८ मूर्च्छायाः साध्यासाध्यत्वनिर्णये आचार्यः उपदिशति -
प्रभूतदोषः तमसोऽतिरेकात् सम्मूर्च्छितो नैव विबुध्यते यः॥ सु.उ.४६ २०
सन्न्यासः दुश्चिकित्स्यः भवति।तत्र पञ्चभूतावच्छिन्नं कारणं नोक्तम्।भूतेभ्यः परं विद्यमानस्य तमोगुणस्य अतिरेकः कारणम् इति उक्तम्।
९ मूर्च्छायाः सम्प्राप्तिः एवमुक्ता सुश्रुताचार्येण-
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च |
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥सु.उ.४६.४
अत्र बाह्यकरणानि नाम ज्ञानेन्द्रियाणि तथा कर्मेन्द्रियाणि।आभ्यन्तरकरणानि नाम मनोबुद्ध्यहङ्काराः।मनोबुद्ध्यहङ्काररूपाणि आभ्यन्तरकरणानि तु भूतेभ्यः परं वर्तन्ते।तथापि मूर्च्छासम्प्राप्तिविवेचने आचार्येण तेषां दूष्यत्वेन उल्लेखः कृतः।
एवं भूतेभ्यः परं विद्यमानानां तत्त्वानां बहुत्र उल्लेखः सुश्रुतसंहितायामपि दृश्यते, चरकसंहितायामपि दृश्यते।क्वचित् कारणत्वेन (सु.उ.४६ २०। सु.सू.३५.३८) उल्लेखः अस्ति।क्वचित् कार्यत्वेन (सु.चि.३८.२७) उल्लेखः अस्ति।क्वचित् अधिकरणत्वेन () उल्लेखः अस्ति।क्वचित् दूष्यत्वेन (सु.उ.४६.४) उल्लेखः अस्ति।क्वचित् दोषत्वेन () उल्लेखः अस्ति।क्वचित् प्रयोजकत्वेन (सु.उ.४६.९,१०) उल्लेखः अस्ति।क्वचित् शरीरघटकत्वेन (सु.शा.४. ३) उल्लेखः अस्ति।
अतः ‘भूतेभ्यः परं चिन्ता वैद्यके नास्ति’ इति वचनेन विप्रतिपत्तिः उद्भूता। तस्याः समाधानं चिन्तनीयम्।
,,अत्रेदमुच्यते समाधानम्।‘भूतेभ्यः परं चिन्ता वैद्यके नास्ति’ इति वचने नञ् विद्यते।सः अभावार्थे गृहीतः चेत् विप्रतिपत्तिः सुस्था।अतः सः नञ् इषदर्थे ग्राह्यः।तेन ‘ वैद्यके भूतेभ्यः परं चिन्ता ईषद् अस्ति’ इति अर्थः भवति।अनेन विप्रतिपत्तिः नश्यति।
मानसदोषविषये चक्रपाणिना यदुक्तं -
...मानस उद्दिष्ट एव परं न शारीरदोषवत् प्रपञ्चितः...। च.सू.१.५७चक्रपाणिः
तदपि अभावस्य ईषदर्थे गृहीते सङ्गच्छते।
साङ्ख्यतत्त्वानाम् आयुर्वेदे नैकत्र स्वीकारः दृश्यते।तस्मात् आयुर्वेदस्य अध्ययने साङ्ख्यमतस्य अवलोकनं निश्चयेन उपकारकम्।साङ्ख्यमतस्य अध्ययनेन आयुर्वेदस्थाः साङ्ख्यमतसम्बद्धाः विषयाः सुस्पष्टाः भवन्ति। साङ्ख्यशास्त्राध्ययनेन आयुर्वेदाध्ययने आयुर्वदव्यवहारे सूक्ष्मता तथा सौकर्यं भवेत् इति एतत् प्रयोजनं मनसि कृत्वा विरचितोऽयं ग्रन्थः।
अधिकारी तु वैद्यकस्य छात्रः एव।
सम्बन्धः एवम् –
अधिकारिप्रयोजनसम्बन्धः
आयुर्वेदाध्ययने आयुर्वदव्यवहारे सूक्ष्मता तथा सौकर्यम् अस्य प्रयोजनम्।अधिकारी वैद्यकच्छात्रः।अतः तयोः प्राप्यप्रापकभावसम्बन्धः।
विषयाधिकारिसम्बन्धः
साङ्ख्यशास्त्रस्य आयुर्वेदाध्ययनोपकारकत्वम्, आयुर्वेदव्यवहारोपकारकत्वं च अस्य ग्रन्थस्य विषयः।वैद्यकच्छात्रः एतस्य विषयस्य ज्ञानम् अस्माद् ग्रन्थात् लप्स्यते।अतः विषयाधिकारिणोः ज्ञातृज्ञेयभावसम्बन्धः।
विषयप्रयोजनसम्बन्धः
आयुर्वेदाध्ययने आयुर्वदव्यवहारे सूक्ष्मता तथा सौकर्यम् इति एतत् प्रयोजनं साधयितंअ साङ्ख्यशास्त्रस्य आयुर्वेदाध्ययनोपकारकत्वज्ञानम्, आयुर्वेदव्यवहारोपकारकत्वज्ञानं च साधनं भवति। अतः विषयप्रयोजनयोः साध्यसाधनभावसम्बन्धः।विषयः ज्ञाततया प्रयोजनं साधयति।