प...

विकिपुस्तकानि तः
Jump to navigation Jump to search

पदम् =
शब्दः । यथा कलशः इति घटपदस्य< घटशब्दस्य वा अर्थः।।
यथा धारि आयुः इति पर्यायपदे, पर्यायशब्दौ वा।

पदार्थः =
अभिधेयः । ज्ञेयः । प्रमेयम्।
यथा घटः पदार्थः अभिधेयः, ज्ञेयः, प्रमेयं वा ।
यथा कफः अभिधेयः, ज्ञेयः, पदार्थः, प्रमेयं वा।।

परजातिः=
व्यापकजातिः।
द्रव्यत्व-पार्थिवत्वयोः द्रव्यत्वम् इति परजातिः, व्यापकजातिः वा।
पुरुषत्व-समधातुत्वयोः पुरुषत्वम् इति परजातिः व्यापकजातिः वा।

परमाणुः=
पीलुः।
पृथ्वीपरमाणुः, पृथ्वीपीलुः वा गन्धवान्।।

परमात्मा =
ईश्वरः।
परमात्मा, ईश्वरः वा सर्वेषां कार्याणां साधारणकारणम्।।

परिमाणम् =
मानम्।
अणुपरिमाणम्, अणुमानं वा मनः।
अर्धाञ्जलिः इति ओजसः परिमाणं,, मानं वा

परिष्कारः=
निष्कर्षः।
‘भूतले घटः’ इत्यस्य भूतलनिष्ठाधिकरणतानिरूपकाधेयतावान् घटः इति परिष्कारः, निष्कर्षः वा।

‘रक्ते पित्तम्’ इत्यस्य ‘रक्तनिष्ठाधिकरणतानिरूपकाधेयतावत् पित्तम्’ इति निष्कर्षः परिष्कारः वा।।

पर्यवसन्नम्=
फलितम्।
यथा काष्ठद्वैधीभावः छेदनक्रियायाः पर्यवसन्नं, फलितं वा ।
यथा रक्तपित्तम् इति ज्वरसन्तापस्य पर्यवसन्नं, फलितं वा।

पाकः =
विजातीयतेजःसंयोगः।
रूपादिचतुष्टयं पृथिव्यां पाकजं , विजातीयतेजःसंयोगजं वा।
अन्ने पाकात्, विजातीयतेजःसंयोगाद् वा रसान्तरम् उदेति।

पीलुः=
परमाणुः।
पृथ्वीपीलुः, पृथ्वीपरमाणुः वा गन्धवान्।

प्रतिपाद्यः=
प्रतीतिविषयः ।गम्यः।
सप्त पदार्थाः इति तर्कसङ्ग्रहस्य प्रतिपाद्यः, प्रतीतिविषयः, गम्यः वा ।
‘दन्तधावनोपयोगीनि द्रव्याणि’ इति ‘अर्कन्यग्रोधखदिरकरञ्जककुभादिजम् इत्यादेः सूत्रस्य प्रतिपाद्यः, प्रतीतिविषयः, गम्यः वा ।

प्रतियोगित्वम् =
अभावाभावत्वम्।
भूतले विद्यमाने घटे घटाभावप्रतियोगित्वं, घटाभावाभावः वा विद्यते।
गोदुग्धे रसायनत्वाभाव-प्रतियोगित्वं , रसायनत्वाभावाभावः वा विद्यते।।

प्रतीतिः =
ग्रहः।ज्ञानम्।धी:।प्रत्ययः।बुध्दिः ।बोधः ।संवित्।
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटप्रतीतिः,घटग्रहः, घटज्ञानम् , घटधीः, घटप्रत्ययः, घटबुध्दिः, घटबोधः, घटसंवित् वास्ति ।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरप्रतीतिः, शरीरग्रहः, शरीरज्ञानम् , शरीरधीः, घटप्रत्ययः, शरीरबुध्दिः, शरीरबोधः, शरीरसंवित् वास्ति ।।

प्रतीतिविषयः =
प्रतिपाद्यः।गम्यः।
सप्त पदार्थाः इति तर्कसङ्ग्रहस्य प्रतीतिविषयः, प्रतिपाद्यः, गम्यः वा ।
‘दन्तधावनोपयोगीनि द्रव्याणि’ इति ‘अर्कन्यग्रोधखदिरकरञ्जककुभादिजम् इत्यादेः सूत्रस्य प्रतीतिविषयः, प्रतिपाद्यः, गम्यः वा ।।

प्रत्यक्षः =
प्रत्यक्षज्ञानविषयः। अपरोक्षज्ञानविषयः। साक्षात्कृतः। साक्षात्कारविषयः। उपलब्धः। उपलब्धिविषयः।
स्फीतालोकवर्ती घटः प्रत्यक्षः, प्रत्यक्षज्ञानविषयः, अपरोक्षज्ञानविषयः, साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धः, उपलब्धिविषयः वा अस्ति।
देहसन्तापः प्रत्यक्षः, प्रत्यक्षज्ञानविषयः अपरोक्षज्ञानविषयः,साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धः, उपलब्धिविषयः वा अस्ति।।

प्रत्यक्षज्ञानविषयः =
प्रत्यक्षः। अपरोक्षज्ञानविषयः। साक्षात्कृतः। साक्षात्कारविषयः। उपलब्धः। उपलब्धिविषयः।
स्फीतालोकवर्ती घटः प्रत्यक्षज्ञानविषयः, प्रत्यक्षः, अपरोक्षज्ञानविषयः, साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धः, उपलब्धिविषयः वा अस्ति।
देहसन्तापः, प्रत्यक्षज्ञानविषयः, प्रत्यक्षः, अपरोक्षज्ञानविषयः, साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धः, उपलब्धिविषयः वा अस्ति।।

प्रत्यक्षप्रमाणम् =
इन्द्रियम्।प्रत्यक्षम्।
यथा पुरोवर्ती घटः प्रत्यक्षप्रमाणेन इन्द्रियेण, प्रत्यक्षेण, वा गृह्यते ।
यथा रुग्णस्य वर्णः प्रत्यक्षप्रमाणेन इन्द्रियेण, प्रत्यक्षेण, वा गृह्यते ।

प्रत्यक्षम् =
इन्द्रियम्। प्रत्यक्षप्रमाणम्।
यथा पुरोवर्ती घटः इन्द्रियेण, प्रत्यक्षेण, प्रत्यक्षप्रमाणेन वा गृह्यते ।
यथा रुग्णस्य वर्णः इन्द्रियेण, प्रत्यक्षेण, प्रत्यक्षप्रमाणेन वा गृह्यते ।

प्रत्यक्षम् =
अपरोक्षम्।साक्षात्कारः।उपलब्धिः।अध्यक्षम्।उपलम्भः
स्फीतालोकवर्तिनः घटस्य प्रत्यक्षम्, अपरोक्षं, साक्षात्कारः,उपलब्धिः, अध्यक्षम्, उपलम्भः वा चक्षुषा भवति।
व्रणगतपूयगन्धस्य प्रत्यक्षम्, अपरोक्षं, साक्षात्कारः, उपलब्धिः, अध्यक्षम् , उपलम्भः वा घ्राणेन्द्रियेण भवति। ।

प्रत्ययः =
ग्रहः ।ज्ञानम् ।धी: ।प्रतीतिः ।बुध्दिः ।बोधः ।संवित्
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटप्रत्ययः,घटग्रहः, घटज्ञानम् , घटधीः, घटप्रतीतिः, घटबुध्दिः, घटबोधः, घटसंवित् वा अस्ति ।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरप्रत्ययः,शरीरग्रहः, शरीरज्ञानम् , शरीरधीः, शरीरप्रतीतिः, शरीरबुध्दिः, शरीरबोधः, शरीरसंवित् वास्ति ।

प्रत्यासत्तिः =
सन्निकर्षः।
प्रत्यक्षज्ञानं प्रति इन्द्रियार्थयोः प्रत्यासत्तिः ,सन्निकर्षः वा हेतुः।

प्रध्वंसाभावः=
ध्वंसः। नाशः। निवृत्तिः। विनाशः।
यथा दण्डाघाताद् घटस्य प्रध्वंसाभावः,ध्वंसः, नाशः, निवृत्तिः, विनाशः वा ।
यथा उष्णेन कफस्य प्रध्वंसाभावः< ध्वंसः, नाशः, निवृत्तिः, , विनाशः वा।

प्रमेयम् =
अभिधेयः । ज्ञेयः । पदार्थः।
यथा घटः प्रमेयम्, अभिधेयः, ज्ञेयः, पदार्थः वा।
यथा कफः अभिधेयः, ज्ञेयः, पदार्थः प्रमेयं वा।।

प्रयत्नः =
कृतिः।कर्तृत्वम्।
प्रयत्नः, कृतिः, कर्तृत्वं वात्मगुणः।
यथाकालं मलानां शोधनं प्रति प्रयत्नः, कृतिः, कर्तृत्वं वा शास्त्रेण विधीयते।।

प्रयोजकत्वम् (व्यवहितकारणे) =
व्यवहितकारणत्वम् ।व्यवहितहेतुत्वम्।व्यवहितजनकत्वम् ।
पटं प्रति कार्पासस्य प्रयोजकत्वं,व्यवहितकारणत्वं, व्यवहितहेतुत्वं, व्यवहितजनकत्वं वा विद्यते।
अन्नरसं प्रति पञ्चभूतानां प्रयोजकत्वं, व्यवहितकारणत्वं, व्यवहितहेतुत्वं, व्यवहितजनकत्वं वा विद्यते।।

प्रयोज्यत्वम् (व्यवहितकार्ये) =
व्यवहितकार्यत्वम्।व्यवहितहेतुमत्त्वम्।व्यवहितजन्यत्वम्।
यथा पटे तन्तोः प्रयोज्यत्वं(व्यवहितकार्यत्वं), व्यवहितकार्यत्वं , व्यवहितहेतुमत्त्वं, व्यवहितजन्यत्वं वा विद्यते।।

यथा अन्नरसे पञ्चभूतानां प्रयोज्यत्वं, (व्यवहितकार्यत्वं), व्यवहितकार्यत्वं ,व्यवहितहेतुमत्त्वं, व्यवहितजन्यत्वं वा विद्यते।।

प्रागभाव-अप्रतियोगित्वम् =
अनादित्वम्।उत्पत्तिशून्यत्वम् ।
यथा आत्मनि प्रागभाव-अप्रतियोगित्वम्, अनादित्वम् , उत्पत्तिशून्यत्वं वा विद्यते।।

प्रागभाव-प्रतियोगित्वम् =
सादित्वम्।कार्यत्वम्।उत्पत्तिमत्त्वम्।
यथा घटे प्रागभावप्रतियोगित्वं, सादित्वं, कार्यत्वम्, उत्पत्तिमत्त्वं वा विद्यते।
यथा शरीरे प्रागभावप्रतियोगित्वं, सादित्वं, कार्यत्वम्, उत्पत्तिमत्त्वम् वा विद्यते।।


न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=प...&oldid=6463" इत्यस्माद् प्रतिप्राप्तम्