बाणस्य पितृवंश:

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्रश्न:-
बाणस्य पितृवंशं स्वशब्दै: वर्णयत
उत्तरम्-
कादम्बर्याः आरम्भे बाणेन स्ववंशः कुबेरतः अग्रे वर्णितः।
१)कुबेरः-
बभूव वात्स्यायनवंशसम्भवो द्विजो जगद्गीतगुणोऽग्रणीः सताम्।
अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयम्भुवः॥१०
उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे।
सरस्वती सोमकषायितोदरे समस्तशास्त्रस्मृतिबन्धुरे मुखे॥११
जगुर्गृहेऽभ्यस्तसमस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः।
निगृह्यमाणा बटवः पदे पदे यजूंषि सामानि च यस्य शङ्किताः॥१२

अयं बाणस्य प्रपितामहः।अयं वात्स्यायनवंशे जातः द्विजः।एषः स्वगुणैः जगति वन्द्यः जातः।सज्जनानां सः अग्रणीः आसीत्।नैके वैश्याः तस्य पादवन्दनं कुर्वन्ति स्म।तस्य वेदपारगत्वम् अत्युत्तमम्।अतः ‘अयं वेदान् आविष्कर्तुः ब्रह्मदेवस्य अंशः’ इति जनाः मन्यन्ते स्म।तस्य मुखे सदैव श्रुतिवचनम् आसीत्।तेन तस्य सर्वाणि पापानि लयं गतानि।सदैव यज्ञपुरोडाशं भक्षयित्वा तस्य ओष्ठौ पूतौ।मुहुः मुहुः सोमपानेन तस्य जिह्वा कषायिता इव।सर्वाणि शास्त्राणि, सर्वाः स्मृतयः तस्य मुखे आसन्।अतः तस्य मुखं शोभते स्म।
तस्य गृहे शिष्याः आसन्।ते यजुर्वेदं सामवेदं च गायन्ति स्म।निरन्तरं वेदश्रवणेन तस्मिन् गृहे पञ्जरस्थाः शुकाः सारिकाः अपि आभ्यस्तवेदाः सञ्जाताः।अतः बटुः वेदोच्चारे दोषं करोति चेत् ते खगाः तत्र एव तं शिष्यम् आक्षिपन्ति स्म।एतेन शिष्याः वेदपठने सदैव शङ्कितचित्ताः आसन् ‘अत्र शुकः माम् आक्षिपेद् वा? इदानीं सारिका मां दूषयेद् वा’ इति।

२) अर्थपतिः-
हिरण्यगर्भो भुवनाण्डकादिव क्षपाकरः क्षीरमहार्णवादिव।
अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः॥१३
विवृण्वतो यस्य विसारिवाङ्मयं दिने दिने शिष्यगणा नवा नवाः।
उषःसु लग्नाः शर्वणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव॥१४
निधानसम्पादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः।
मखैरसङ्ख्येरजयत्सुरालयं सुखेन यो यूपकरैर्गजैरिव॥१५

अयं कुबेरस्य पुत्रः, बाणस्य पितामहः।यथा भुवनाण्डकाद् हिरण्यगर्भः जातः, यथा क्षीरसागरात् चन्द्रः जातः, यथा विनतायाः गरुडः जातः तथा कुबेरात् अर्थपतिः जात:।अयम् अर्थपतिः हिरण्यगर्भः इव वेदपारगः आसीत्, चन्द्र इव आह्लादक आसीत्, गरुड इव विष्णुभक्तः आसीत्। अस्य गृहम् अपि नवाः नवाः शिष्याः विद्याध्ययनाय आगच्छन्ति स्म।प्रतिदिनम् उषःसु अर्थपतिः तान् विविधं वाङ्मयम् अध्यापयति स्म।शिष्याः तद् दक्षतया आकर्णयन्ति स्म।एतादृशैः अध्ययनदक्षैः नवैः नवैः शिष्यैः अर्थपतेः शोभा अवर्धत।कश्चिद् राजा असङ्ख्येयैः पुष्टैः मदोन्मत्तगजैः, तदारूढैः महावीरैः च युद्धं जयति, तथा अयम् अर्थपतिः असङ्ख्येयैः दानसम्पादितैः यज्ञैः स्वर्गम् अजयत्।

३) चित्रभानुः-
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम्।
अवाप मध्ये स्फटिकोपलोपमं क्रमेण कैलासमिव क्षमाभृताम्॥१६
महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः।
द्विषन्मनः प्राविविशुः कृतान्तरा गुणाः नृसिंहस्य नखाङ्कुरा इव॥१७
दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवाः।
चकार यस्याध्वरधूमसञ्चयो मलीमसः शुक्लतरं निजं यशः॥१८
सरस्वतीपाणिसरोजसम्पुटप्रमृष्टहोमश्रमशीकराम्भसः।
यशोंऽशुशुक्लीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत॥१९

अयम् अर्थपतेः पुत्रः, बाणस्य पिता।तदानीं ये श्रुतिशास्त्राणाम् अध्येतारः आसन्, तेषु एषः ‘महात्मा’ इति शोभते स्म।सः क्षमाशीलः आसीत्। स्फटिकवत् निर्मलः आसीत्।कलङ्करहितायाः चन्द्रकलायाः किरणाः सुदूरं निर्गच्छन्ति।तथैव अस्य चित्रभानोः गुणाः सुदूरं गताः, शत्रोः मनसि च प्रविष्टाः।अनेन बहवः यज्ञाः अनुष्ठिताः।तेषां धूमेन दिग्वधूनां केशेषु ननु सीमन्तरचना कृता।स च धूमः वेदत्रयीस्वरूपायाः वध्वाः कर्णे तमालपल्लव इव शोभते स्म।स धूमः मलिनः तथापि तेन चित्रभानोः शुक्लं यशः शुक्लतरं कृतम्।अस्य यज्ञजन्यं श्रमम् अपनेतुं स्वयं सरस्वती अस्य स्वेदक्लिन्नं मुखं मार्जयति स्म।अस्य यशःकिरणैः सप्त भवनानि शुक्लीकृतानि।अस्य सुतो बाणः। एवं बाणेन स्वस्य प्रपितामहः, पितामहः तथा पिता वर्णितः।
. . . . . . . . . . .

कादम्बरीप्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=बाणस्य_पितृवंश:&oldid=6202" इत्यस्माद् पुनः प्राप्तिः