भट्टिकाव्यं प्रकीर्ण-काण्डः

विकिपुस्तकानि तः
Jump to navigation Jump to search

सर्ग १[सम्पाद्यताम्]


भका१.१-१ अभून् नृपो विबुध-सखः परं-तपः श्रुताऽन्वितो दश-रथ इत्युदाहृतः,
भका१.१-२ गुणैर् वरं भुवन-हितच्-छलेन यं सना-तनः पितरमुपागमत् स्वयम्.
भका१.२-१ सोऽध्यैष्ट वेदांस्, त्रि-दशानयष्ट, पितॄनपारीत्, सममंस्त बन्धून्,
भका१.२-२ व्यजेष्ट षड्-वर्गमरंस्त नीतौ, स-मूल-घातं न्यवधीदरींश् च.
भका१.३-१ वसूनि तोयं घन-वद् व्यकारीत्, सहाऽऽसनं गोत्र-भिदाऽध्यवात्सीत्,
भका१.३-२ न त्र्यम्बकादन्यमुपास्थिताऽसौ, यशांसि सर्वेषु-भृतां निरास्तत्.
भका१.४-१ पुण्यो महा-ब्रह्म-समूह-जुष्टः संतर्पणो नाक-सदां वरेण्यः
भका१.४-२ जज्वाल लोक-स्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः.
भका१.५-१ स पुण्य-कीर्तिः शत-मन्यु-कल्पो महेन्द्र-लोक-प्रतिमां समृद्ध्या
भका१.५-२ अध्यास्त सर्वर्तु-सुखामयोध्या- मध्यासितां ब्रह्मभिरिद्ध-बोधैः.
भका१.६-१ निर्माण-दक्षस्य समीहितेषु सीमेव पद्माऽऽसन-कौशलस्य
भका१.६-२ ऊर्ध्व-स्फुरद्-रत्न-गभस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः.
भका१.७-१ सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि विचित्र-धातूनि स-काननानि
भका१.७-२ स्त्रीभिर् युतान्यप्सरसामिवौघैर् मेरोः शिरांसीव गृहाणि यस्याम्.
भका१.८-१ अन्तर्-निविष्टोज्ज्वल-रत्न-भासो गवाक्ष-जालैरभिनिष्पतन्त्यः
भका१.८-२ हिमाऽद्रि-टङ्कादिव भान्ति यस्यां गङ्गाऽम्बु-पात-प्रतिमा गृहेभ्यः
भका१.९-१ धर्म्यासु कामाऽर्थ-यशस्-करीषु मतासु लोकेऽधिगतासु काले
भका१.९-२ विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु.
भका१.१०-१ पुत्रीयता तेन वराऽङ्गनाभि- रानायि विद्वान् क्रतुषु क्रियावान्
भका१.१०-२ विपक्त्रिम-ज्ञान-गतिर् मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः
भका१.११-१ ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्र-फलं मुनीन्द्रम्,
भका१.११-२ ज्ञानाऽऽशयस् तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम्.
भका१.१२-१ रक्षांसि वेदीं परितो निरास्थ- दङ्गान्ययाक्षीद्भितः प्रधानम्,
भका१.१२-२ शेषाण्यहौषीत् सुत-संपदे च, वरं वरेण्यो नृपतेरमार्गीत्.
भका१.१३-१ निष्टां गते दक्त्रिम-सभय-तोषे विहित्रिमे कर्मणि राज-पत्न्यः
भका१.१३-२ प्राशुर् हुतोच्छिष्टमुदार-वंश्यास् तिस्रः प्रसोतुं चतुरः सु-पुत्रान्.
भका१.१४-१ कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयी-तो भरतस् ततोऽभूत्,
भका१.१४-२ प्रासोष्ट शत्रु-घ्नमुदार-चेष्ट- मेका सुमित्रा सह लक्ष्मणेन.
भका१.१५-१ आर्चीद् द्वि-जातीन् परमाऽर्थ-विन्दा- नुदेजयान् भूत-गणान् न्यषेधीत्,
भका१.१५-२ विद्वानुपानेष्ट च तान् स्व-काले यतिर् वशिष्टो यमिनां वरिष्ठः.
भका१.१६-१ वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि,
भका१.१६-२ ते भिन्न-वृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः,
भका१.१७-१ ततो-भ्यगाद् गाधि-सुतः क्षितीन्द्रं रक्षोभिरभ्याहत-कर्म-वृत्तिः
भका१.१७-२ रामं वरीतुं परिरक्षणा-र्थं, राजाऽऽजिहत् तं मधुपर्क-पाणिः.
भका१.१८-१ ऐषीः पुनर्-जन्म-जयाय यत् त्वं, रूपाऽऽदि-बोधान् न्यवृतच् च यत् ते,
भका१.१८-२ तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस् तच्छिवमित्यवादीत्.
भका१.१९-१ आख्यन् मुनिस् तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च,
भका१.१९-२ तानि द्विषद्-वीर्य-निराकरिष्णुस् तृणेढु रामः सह लक्ष्मणेन.
भका१.२०-१ स शुश्रुवांस्तद्-वचनं मुमोह राजाऽसहिष्णुः सुत-विप्रयोगम्,
भका१.२०-२ अहंयुनाऽथ क्षिति-पः शुभंयु- रूचे वचस् तापस-कुञ्जरेण.
भका१.२१-१ मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्म-वृद्ध्यै,
भका१.२१-२ क्षत्रं द्विज-त्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणु-स्व-सूनुम्.
भका१.२२-१ घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात्,
भका१.२२-२ मा मां महाऽऽत्मन् परिभूर्-योग्ये न मद्-विधो न्यस्यति भारमग्र्यम्.
भका१.२३-१ क्रुध्यन् कुलं धक्ष्यति विप्र-वह्निर्, यास्यन् सुतस् तप्स्यति मां स-मन्युम्,
भका१.२३-२ इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य.
भका१.२४-१ आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय,
भका१.२४-२ तं पृष्ठ-तः प्रष्ठमियाय नम्रो हिंस्रेषु-दीप्ताऽऽप्त-धनुः कुमारः.
भका१.२५-१ प्रयास्यतः पुण्य-वनाय जिष्णो- रामस्य रोचिष्णु-मुखस्य घृष्णुः
भका१.२५-२ त्रै-मातुरः कृत्स्न-जिताऽस्त्र-शस्त्रः सध्र्यङ् रतः श्रेयसि लक्ष्मणोऽभूत्.
भका१.२६-१ इषु-मति रघु-सिंहे दन्दशूकाञ् जिघांसौ धनुररिभिर-सह्यं मुष्टि-पीडं दधाने
भका१.२६-२ व्रजति, पुर-तरुण्यो बद्ध-चित्राऽङ्गुलित्रे कथमपि गुरु-शोकान् मा रुदन् माङ्गलिक्यः
भका१.२७-१ अथ जगदुरनीचै-राशिषस् तस्य विप्रास्, तुमुल-कल-निनादं तूर्यमाजघ्नुरन्ये,
भका१.२७-२ अभिमत-फल-शंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश् चाऽनुकूलाः.

सर्ग २[सम्पाद्यताम्]


भका२.१-१ वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च
भका२.१-२ निर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श.
भका२.२-१ तरङ्ग-सङ्गाच् चपलैः पलाशैर् ज्वाला-श्रियं साऽतिशयां दधन्ति
भका२.२-२ स-धूम-दीप्ताऽग्नि-रुचीनि रेजुस् ताम्रोत्पलान्याकुल-षट्-पदानि.
भका२.३-१ बिम्बाऽऽगतैस् तीर-वनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः
भका२.३-२ कूलानि साऽऽमर्षतयेव तेनुः सरोज-लक्ष्मीं स्थल-पद्म-हासैः.
भका२.४-१ निशा-तुषारैर् नयनाऽम्बु-कल्पैः पत्रा-ऽन्त-पर्यागलदच्छ-बिन्दुः
भका२.४-२ उपारुरोदेव नदत्-पतङ्गः कुमुद्वतीं तीर-तरुर् दिनाऽऽदौ.
भका२.५-१ वनानि तोयानि च नेत्र-कल्पैः पुष्पैः सरोजैश् च निलीन-भृङ्गैः
भका२.५-२ परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवाऽऽदरेण.
भका२.६-१ प्रभात-वाताहऽऽति-कम्पिताऽऽकृतिः कुमुद्वती-रेणु-पिशङ्ग-विग्रहम्
भका२.६-२ निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहते ऽन्य-सङ्गमम्.
भका२.७-१ दत्ताऽवधानं मधु-लेहि-गीतौ प्रशान्त-चेष्टं हरिणं जिघांसुः
भका२.७-२ आकर्णयन्नुत्सुक-हंस-नादान् लक्ष्ये समाधिं न दधे मृगावित्.
भका२.८-१ गिरेर् नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम्
भका२.८-२ सरिन्-मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्.
भका२.९-१ गर्जन् हरिः साऽम्भसि शैल-कुञ्जे प्रतिध्वनीनात्म-कृतान् निशम्य
भका२.९-२ क्रमं बबन्ध क्रमितुं स-कोपः प्रतर्कयन्नन्य-मृगेन्द्र-नादान्.
भका२.१०-१ अदृक्षता ऽम्भांसि नवोत्पलानि, रुतानि चा ऽश्रोषत षट्-पदानाम्,
भका२.१०-२ आघ्रायि वान् गन्ध-वहः सु-गन्धस् तेनाऽरविन्द-व्यतिषङ्ग-वांश् च.
भका२.११-१ लताऽनुपातं कुसुमान्यगृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च,
भका२.११-२ कुतूहलाच्, चारु-शिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त.
भका२.१२-१ तिग्मांशु-रश्मिच्-छुरितान्य-दूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत्
भका२.१२-२ गभस्ति-धाराभिरिव द्रुतानि तेजांसि भानोर् भुवि संभृतानि.
भका२.१३-१ दिग्-व्यापिनीर् लोचन-लोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः
भका२.१३-२ ऋज्वाऽऽयताः शस्य-विशेष-पङ्क्तीस् तुतोष पश्यन् वितृणाऽन्तरालाः.
भका२.१४-१ वियोग-दुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः
भका२.१४-२ आहार्य-शोभा-रहितैरमायै- रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान्
भका२.१५-१ स्त्री-भूषणं चेष्टितम-प्रगल्भं चारूण्य-वक्राण्यपि वीक्षितानि
भका२.१५-२ ऋजूंश्च विश्वास-कृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य.
भका२.१६-१ विवृत्त-पार्श्वं रुचिराऽङ्गहारं समुद्वहच्-चारु-नितम्ब-रम्यम्
भका२.१६-२ आमन्द्र-मन्थ-ध्वनि-दत्त-तालं गोपाऽङ्गना-नृत्यमनन्दयत् तम्.
भका२.१७-१ विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्य
भका२.१७-२ मेघाऽत्ययोपात्त-वनोपशोभं कदम्बकं वातमजं मृगाणाम्.
भका२.१८-१ सिताऽरविन्द-प्रचयेषु च लीनाः संसक्त-पेणेषु च सैकतेषु
भका२.१८-२ कुन्दाऽवदाताः कलहंस-मालाः प्रतीयीरे श्रोत्र-सुखैर् निनादैः.
भका२.१९-१ न तज् जलं, यन् न सु-चारु-पङ्कजं, न पङ्कजं तद्, यद-लीन-षट्-पदम्,
भका२.१९-२ न षट्-पदोऽसौ, न जुगुञ्ज यः कलं॑ न गुञ्जितं तन्, न जहार यन् मनः.
भका२.२०-१ तं यायजूकाः सह भिक्षु-मुख्यैस् तपः-कृशाः शान्त्युदकुम्भ-हस्ताः,
भका२.२०-२ यायावराः पुष्प-फलेन चा ऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम्.
भका२.२१-१ विद्यामथैनं विजयां जयां च रक्षो-गणं क्षिप्नुम-विक्षताऽऽत्मा
भका२.२१-२ अध्यापिपद् गाधि-सुतो यथावन् निघातयिष्यन् युधि यातुधानान्.
भका२.२२-१ आयोधने स्थायुकमस्त्रजात- ममोघमभ्यर्ण-महाऽऽहवाय
भका२.२२-२ ददौ वधाय क्षणदाŌचराणां तस्मै मुनिः श्रेयसि जागरूकः
भका२.२३-१ तं विप्र-दर्शं कृत-घात-यत्ना यान्तं वने रात्रिŌचरी डुढौके,
भका२.२३-२ जिघांसु-वेदं धृत-भासुराऽस्त्रम् तां ताडकाऽऽख्यां निजघान रामः.
भका२.२४-१ अथा ऽऽलुलोके हुत-धूम-केतु- शिखाऽञ्जन-स्निग्ध-समृद्ध-शाखम्
भका२.२४-२ तपोŌवनं प्राध्ययनाऽभिभूत- समुच्चरच्-चारु-पतक्त्रि-शिञ्जम्.
भका२.२५-१ क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा, विशश्वसे पक्षि-गणैः समन्तात्,
भका२.२५-२ नन्नम्यमानाः फल-दित्सयेव चकाशिरे तत्र लता विलोलाः.
भका२.२६-१ अपूपुजन् विष्टर-पाद्य-माल्यै- रातिथ्य-निष्णा वन-वासि-मुख्याः,
भका२.२६-२ प्रत्यग्रहीष्टां मधुपर्क-मिश्रं तावासनाऽऽदि क्षिति-पालŌपुत्रौ.
भका२.२७-१ दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर् भुवनस्य भारम्,
भका२.२७-२ हवींषि संप्रत्यपि रक्षतं, तौ तपोŌधनैरित्थमभाषिषाताम्.
भका२.२८-१ तान् प्रत्यवादीदथ राघ्वोऽपि--, यथेप्सितं प्रस्तुत कर्म धर्म्यम्,
भका२.२८-२ तपो-मरुद्धिर् भवतां शराऽग्निः संधुक्ष्यतां नोऽरि-समिन्धनेषु.
भका२.२९-१ प्रतुष्टुवुः कर्म ततः प्रक्wxलॄॠप्तैस् ते यज्ञियैर् द्रव्य-गणैर् यथावत्,
भका२.२९-२ दक्षिण्य-दिष्टं कृतमार्त्विजीनैस् तद् यातुधानैश् चिचिते प्रसर्पत्.
भका२.३०-१ आपिङ्ग-रूक्षोर्ध्व-शिरस्य-बालैः शिराल-जङ्घैर् गिरि-कूट-दघ्नैः
भका२.३०-२ ततः क्षपाऽटैः पृथु-पिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः.
भका२.३१-१ अधिŌज्य-चापः स्थिर-बाहु-मुष्टि- रुदञ्चिताऽक्षोऽञ्चित-दक्षिणोरुः
भका२.३१-२ तान् लक्ष्मणः सन्नत-वाम-जङ्घो जघान शुद्धेषुर-मन्द-कर्षी.
भका२.३२-१ गाधेय-दिष्टं विŌरसं रसन्तं रामो ऽपि मायाŌचणमस्त्रŌचुञ्चुः
भका२.३२-२ स्थास्नुं रणे स्मेर-मुखो जगाद मारीचमुच्चैर् वचनं महाऽर्थम्.
भका२.३३-१ आत्मंŌभरिस् त्वंपिशितैर् नराणां फलेŌग्रहीन् हंसि वनस्Ōपतीनाम्,
भका२.३३-२ शौवस्तिकŌत्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्.
भका२.३४-१ अद्मो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेत-नराऽधिवासम्,
भका२.३४-२ धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेद-वृत्ते.
भका२.३५-१ धर्मोऽस्ति सत्यं तव राक्षसाऽय- मन्यो व्यतिस्ते तु ममाऽपि धर्मः,
भका२.३५-२ ब्रह्म-द्विषस् ते प्रणिहन्मि येन, राजन्य-वृत्तिर् धृत-कार्मुकेषुः.
भका२.३६-१ इत्थं-प्रवादं युधि संप्रहारं प्रचक्रतू राम-निशा-विहारौ,
भका२.३६-२ तृणाय मत्वा रघु-नन्दनो ऽथ बाणेन रक्षः प्रधनान् निरास्थत्.
भका२.३७-१ जग्मुः प्रसादं द्विज-मानसानि, द्यौर् वर्षुका पुष्प-चयं बभूव,
भका२.३७-२ निर्-व्याजमिज्या ववृते।
वचश् च भूयो बभाषे मुनिना कुमारःŌ
भका२.३८-१ महीय्यमाना भवता ऽतिमात्रं सुराऽध्वरे घस्मर-जित्वरेण
भका२.३८-२ दिवोऽपि वज्राऽऽयुध-भूषणाया ह्रिणीयते वीर-वती न भूमिः.
भका२.३९-१ बलिर् बबन्धे, जलधिर् ममन्थे, जह्रेऽमृतं, दैत्य-कुलं विजिग्यो,
भका२.३९-२ कल्पाऽन्त-दुःस्था वसुधा तथोहे येनैष भारोऽति-गुरुर् न तस्य.
भका२.४०-१ इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन् मैथिल-यज्ञ-भूमिम्
भका२.४०-२ रामं मुनिः प्रीत-मना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्.
भका२.४१-१ एतौ स्म मित्रा-वरुणौ किमेतौ, किमश्विनौ सोम-रसं पिपासू,
भका२.४१-२ जनं समस्तं जनकाऽऽश्रम-स्थं रूपेण तावौजिहतां नृ-सिंहौ.
भका२.४२-१ अजिग्रहत् तं जनको धनुस् तद् "येनाऽर्दिदद् दैत्य-पुरं पिनाकी",
भका२.४२-२ जिज्ञासमानो बलमस्य बाह्वोर्।
हसन्नभाङ्क्ष्वीद् रघु-नन्दनस् तत्.
भका२.४३-१ ततो नदी-ष्णान् पथिकान् गिरि-ज्ञा- नाह्वायकान् भूमि-पतेरयोध्याम्
भका२.४३-२ दित्सुः सुतां योध-हरैस् तुरङ्गैर् व्यसर्जयन् मैथिल-मर्त्य-मुख्यः.
भका२.४४-१ क्षिप्रं ततो ऽध्वन्य-तुरङ्ग-यायी यविष्ठ-वद् वृद्ध-तमो ऽपि राजा
भका२.४४-२ आख्यायकेभ्यः श्रुत-सूनु-वृत्ति- र-ग्लान-यानो मिथिलामगच्छत्.
भका२.४५-१ वृन्दिष्ठमार्चीद् वसुधा-धिपानां तं प्रेष्ठमेतं गुरु-वद् गरिष्ठम्
भका२.४५-२ सदृङ्-महान्तं सुकृताऽधिवासं बंहिष्ठ-कीर्तिं यशसा वरिष्ठम्.
भका२.४६-१ त्रि-वर्ग-पारीणमसौ भवन्त- मध्यासयन्नासनमेकमिन्द्रः
भका२.४६-२ विवेक-दृश्व-त्वमगात् सुराणां, तं मैथिलो वाक्यमिदं बभाषे.
भका२.४७-१ हिरण्मयी साल-लतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिर-प्रभा
भका२.४७-२ शशाङ्कं-कान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली.
भका२.४८-१ लब्धा ततो विश्वजनीन-वृत्तिस्- तामात्मनीनामुदवोढ रामः
भका२.४८-२ सद्-रत्न-मुक्ता-फल-भर्म-शोभां संबंहयन्तीम् रघु-वर्ग्य-लक्ष्मीम्.
भका२.४९-१ सु-प्रातमासादित-संमदं तद् वन्दारुभिः संस्तुतमभ्ययोध्यम्
भका२.४९-२ अश्वीय-राजन्यक-हास्तिकाऽऽढ्य- मगात् स-राजं बलमध्वनीनम्.
भका२.५०-१ विशङ्कटो वक्षसि बाण-पाणिः संपन्न-ताल-द्वयसः पुरस्तात्
भका२.५०-२ भीष्मो धनुष्मानुपजान्वरत्नि- रैति स्म रामः पथि जामदग्न्यः.
भका२.५१-१ उच्चैरसौ राघवमाह्वतेदं धनुः स-बाणं कुरु, साऽतियासीः.
भका२.५१-२ पराक्रम-ज्ञः प्रिय-सन्ततिस् तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूचे.
भका२.५२-१ अनेक-शो निर्जित-राजकस् त्वं, पित् नतार्प्सीर् नृप-रक्त-तोयैः,
भका२.५२-२ संक्षिप्य संरम्भम-सदू-विपक्षं, का ऽऽस्था ऽर्भके ऽस्मिंस्तव राम ! रामे.
भका२.५३-१ अजीगणद् दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारः
भका२.५३-२ धनुर् व्यकार्क्षीद् गुरु-बाण-गर्भं, लोकानलावीद् विजितांश्च तस्य.
भका२.५४-१ जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्य-शनैर्-शङ्कम्
भका२.५४-२ वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेक-मुखानि मार्गान्.
भका२.५५-१ अथ पुरु-जव-योगान् नेदयद् दूर-संस्थं दवयदति-रयेण प्राप्तमुर्वी-विभागम्
भका२.५५-२ क्लम-रहितमचेतन् नीरजीकारित-क्ष्मां, बलमुपहित-शोभां तूर्णमायादयोध्याम्.


सर्ग ३[सम्पाद्यताम्]


भका३.१-१ वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्या ऽभिभवेन चैव
भका३.१-२ आढ्यंभविष्णुर् यशसा कुमारः प्रियंभविष्णुर् न स यस्य नाऽऽसीत्.
भका३.२-१ ततः सुचेतीकृत-पौर-भृत्यो "राज्ये ऽभिषेक्ष्ये सुतमित्य-नीचैः
भका३.२-२ आघोषयन् भूमि-पतिः समस्तं भूयोऽपि लोकं सुमनीचकार.
भका३.३-१ आदिक्षदादीप्त-कृशानु-कल्पं सिंहासनं तस्य स-पाद-पीठम्
भका३.३-२ सन्तप्त-चामीकर-वल्गु-वज्रं विभाग-विन्यस्त-महार्घ-रत्नम्.
भका३.४-१ प्रास्थापयत् पूग-कृतान् स्व-पोषं पृष्टान् प्रयत्नाद् दृढ-गात्र-बन्धान्
भका३.४-२ स-भर्म-कुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थ-जलाऽर्थमाशु.
भका३.५-१ उक्षान् प्रचक्रुर् नगरस्य मार्गान्, ध्वजान् बबन्धुर्, मुमुचुः ख-धूपान्,
भका३.५-२ दिशश्च पुष्पैश्चकरुर् विचित्रै- रर्थेषु राज्ञा निपुणा नियुक्ताः
भका३.६-१ मातामहाऽऽवासमुपेयिवांसं मोहाद-पृष्ट्वा भरतं तदानीम्
भका३.६-२ तत् केकयी सोढुम-शक्नुवाना ववार रामस्य वन-प्रयाणम्.
भका३.७-१ कर्णे-जपैराहित-राज्य-लोभा स्त्रैणेन नीता विकृतिं लघिम्ना
भका३.७-२ राम-प्रवासे व्यमृशन् न दोषं जनाऽपवादं स-नरेन्द्र-मृत्युम्
भका३.८-१ वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एव
भका३.८-२ तया ऽवजज्ञे, भरताऽभिशेको विषाद-शङ्कुश्च मतौ निचख्ने.
भका३.९-१ ततः प्रविव्राजयिषुः कुमार- मादिक्षदस्या ऽभिगमं वनाय
भका३.९-२ सौमित्रि-सीताऽनुचरस्य राजा सुमन्त्र-नेत्रेण रथेन शोचन्.
भका३.१०-१ केचिन् निनिन्दुर् नृपम-प्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः,
भका३.१०-२ ऊचुस् तथा ऽन्ये भरतस्य मायां, धिक् केकयीमित्यपरो जगाद.
भका३.११-१ "गतो वनं श्वो भवितेति रामः," शोकेन देहे जनता ऽतिमात्रम्,
भका३.११-२ धीरास् तु तत्र च्युत-मन्यवो ऽन्ये दधुः कुमाराऽनुगमे मनांसि.
भका३.१२-१ प्रस्थास्यमानावुपसेदुषस् तौ शोशुच्यमानानिदमूचतुस् तान्,
भका३.१२-२ "किं शोचतेहा ऽभ्युदये बता ऽस्मान् नियोग-लाभेन पितुः कृताऽर्थान्,
भका३.१३-१ असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदा ऽस्मानपुषत् स्व-पोषम्,
भका३.१३-२ महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः,
भका३.१४-१ विद्युत्-प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्व-शोषं तृण-वद् विशुष्कः,
भका३.१४-२ अर्थे दुरापे किमुत प्रवासे न शासने ऽवास्थित यो गुरूणाम्.
भका३.१५-१ पौरा ! निवर्तध्वमिति न्यगादीत्, "तातस्य शोकाऽपनुदा भवेत,
भका३.१५-२ मा दर्शताऽन्यं भरतं च मत्तो," निवर्तयेत्याह रथं स्म सूतम्
भका३.१६-१ ज्ञात्वेङ्गितैर् गत्वरतां जनाना- मेकां शयित्वा रजनीं स-पौरः
भका३.१६-२ रक्षन् वने-वास-कृताद् भयात् तान् प्रातश् छलेना ऽपजगाम रामः
भका३.१७-१ अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर् न्यश्वसिषुः कपोष्णम्,
भका३.१७-२ हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्-मुखैस् ते न्यवृतन् मनोभिः
भका३.१८-१ सूतो ऽपि गङ्गा-सलिलैः पवित्वा सहाऽऽश्वमात्मानमनल्प-मन्युः
भका३.१८-२ स-सीतयो राघवयोरधीयन् श्वसन् कदुष्णं पुरमाविवेश.
भका३.१९-१ प्रतीय सा पूर् ददृशे जनेन द्यौर् भानु-शीतांशु-विनाकृतेव
भका३.१९-२ राजन्य-नक्षत्र-समन्विता ऽपि शोकाऽन्धकार-क्षत-सर्व-चेष्टा.
भका३.२०-१ विलोक्य रामेण विना सुमन्त्र- मच्योष्ट सत्वान् नृ-पतिश् च्युताऽऽशः
भका३.२०-२ मधूनि नैषीद् व्यलिपन् न गन्धैर्, मनो-रमे न व्यवसिष्ट वस्त्रे.
भका३.२१-१ आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षिति-पाल-भाग्-भ्यः,
भका३.२१-२ स चन्दनोशीर-मृणाल-दिग्धः शोका-ग्निना ऽगाद् द्यु-निवास-भूयम्.
भका३.२२-१ विचुक्रुशुर् भूमि-पतेर् महिष्यः, केशांल् लुलुञ्चुः, स्व-वपूंषि जघ्नुः,
भका३.२२-२ विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर् वलयानि चैव.
भका३.२३-१ ताः सान्त्वयन्ती भरत-प्रतीक्षा तं बन्धु-ता न्यक्षिपदाशु तैले,
भका३.२३-२ दूतांश्च राजाऽऽत्मजमानिनीषून् प्रास्थापयन् मन्त्रि-मतेन यूनः.
भका३.२४-१ "सुप्तो नभस्तः पतितं निरीक्षां- चक्रे विवस्वन्तमधः स्फुरन्तम्,"
भका३.२४-२ आख्यद् वसन् मातृ-कुले सखिभ्यः पश्यन् प्रमादं भरतो ऽपि राज्ञः.
भका३.२५-१ अशिश्रवन्नात्ययिकं तमेत्य दूता यदा ऽर्थं प्रयियासयन्तः,
भका३.२५-२ आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा- वुत्कण्ठमानो भरतो गुरूणाम्.
भका३.२६-१ बन्धूनशाङ्किष्ट समाकुलुत्वा- दासेदुषः स्नेह-वशादपायम्,
भका३.२६-२ गोमायु-सारङ्ग-गणाश् च सम्यङ् ना ऽयासिषुर्, भीममरासिषुश्च.
भका३.२७-१ स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघ-जन्यम्,
भका३.२७-२ आकर्णयामास न वेद-नादान्, न चोपलेभे वणिजां पणाऽयान्.
भका३.२८-१ चक्रन्दुरुच्चैर् नृ-पतिं समेत्य तं मातरो ऽभ्यर्णमुपागताऽस्राः,
भका३.२८-२ पुरोहिताऽमात्य-मुखाश् च योधा विवृद्ध-मन्यु-प्रतिपूर्ण-मन्या.
भका३.२९-१ दिदृक्षमाणः परितः स-सीतं रामं यदा नैक्षत लक्ष्मणं च,
भका३.२९-२ रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै.
भका३.३०-१ आबद्ध-भीम-भ्रुकुटी-विभङ्गः शेश्वीयमानाऽरुण-रौद्र-नेत्रः
भका३.३०-२ उच्चैरुपालब्ध स केकयीं च, शोके मुहुश् चाविरतं न्यमाङ्क्षीत्.
भका३.३१-१ नृपाऽऽत्मजौ चिक्लिशतुः स-सीतौ, ममार राजा, वि-धवा भवत्यः,
भका३.३१-२ शोच्या वयं, भूर-नृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्.
भका३.३२-१ नैतन् मतं मत्कमिति ब्रुवाणः सहस्र-शो ऽसौ शपथानशप्यत्
भका३.३२-२ उद्वाश्यमानः पितरं स-रामं लुठ्यन् स-शोको भुवि रोरुदा-वान्.
भका३.३३-१ तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्
भका३.३३-२ अन्त्याऽऽहुतिं हावयितुं स-विप्राश् चिचीषयन्तोऽध्वर-पात्र-जातम्.
भका३.३४-१ उदक्षिपन् पट्ट-दुकूल-केतू- नवादयन् वेणु-मृदङ्ग-कांस्यम्,
भका३.३४-२ कम्बूंश् च तारानधमन् समन्तात्, तथाऽऽनयन् कुङ्कुम-चन्दनानि.
भका३.३५-१ श्रोत्राऽक्षि-नासा-वदनं स-रुक्मं कृत्वाऽजिने प्राक्-शिरसं निधाय
भका३.३५-२ सञ्चित्य पात्राणि यथा-विधान- मृत्विग् जुहाव ज्वलितं चिताऽग्निम्
भका३.३६-१ कृतेषु पिण्डोदक-सञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः
भका३.३६-२ प्रत्यानिनीषुर् विनयेन रामं प्रायादरण्यं भरतः स-पौरः.
भका३.३७-१ शीघ्रायमाणैः ककुभोऽश्नुवानैर् जनैर-पन्थानमुपेत्य सृप्तैः
भका३.३७-२ शोकाद-भूषैरपि भूश् चकासा- ञ्चकार नागेन्द्र-रथाऽश्व-मिश्रैः.
भका३.३८-१ उच्चिक्यिरे पुष्प-फलं वनानि, सस्नुः पित् न् पिप्रियुरापगासु,
भका३.३८-२ आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च.
भका३.३९-१ संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बु-सम्पर्क-विशुद्धि-भाजः
भका३.३९-२ विगाहितुं यामुनमब्मु पुण्यं ययुर् निरुद्ध-श्रमवृत्तयस् ते.
भका३.४०-१ ईयुर् भरद्वाज-मुनेर् निकेतं, यस्मिन् विशश्राम समेत्य रामः
भका३.४०-२ च्युताऽशनायः फलवद्-विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः.
भका३.४१-१ वाचं-यमान् स्थण्डिल-शायिनश् च युयुक्षमाणाननिशं मुमुक्षून्
भका३.४१-२ अध्यापयन्तं विनयात् प्रणेमुः पद्गा भरद्वाज-मुनिः स-शिष्यं.
भका३.४२-१ आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्प-द्रुमा योग-बलेन फेलुः,
भका३.४२-२ धाम-प्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिम-वन्त्युदूहुः
भका३.४३-१ आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः स-हावम्,
भका३.४३-२ स-विभ्रमं नेमुरुदारमुचुस् तिलोत्तमाऽऽद्या वनिताश्च तस्मिन्.
भका३.४४-१ वस्त्राऽन्न-पानं शयनं च नाना कृत्वाऽवकाशे रुचि-संप्रक्wxलॄॠप्तम्
भका३.४४-२ तान् प्रीति-मानाह मुनिस् ततः स्म "निवध्वमाध्वं, पिबताऽत्त शेध्वम्.
भका३.४५-१ ते भुक्तवन्तः सु-सुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते
भका३.४५-२ द्रुतं समध्वा रथ-वाजि-नागैर् मन्दाकिनीं रम्य-वनां समीयुः.
भका३.४६-१ वैखानसेभ्यः श्रुत-राम-वार्तास् ततो विशिञ्जान-पतक्त्रि-सङ्घम्
भका३.४६-२ अभ्रं-लिहाऽग्रं रवि-मार्ग-भङ्गम् आनंहिरे ऽद्रिं प्रति चित्र-कूटम्.
भका३.४७-१ दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य
भका३.४७-२ तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षि-भ्रुवमुज्जिहानः
भका३.४८-१ शुक्लोत्तरासङ्ग-भृतो वि-शस्त्रान् पादैः शनैरापततः प्र-मन्यून्
भका३.४८-२ औहिष्ट तान् वीत-विरुद्ध-बुद्धीन् विवन्दिषून् दाशरथिः स्व-वर्ग्यान्
भका३.४९-१ स-मूल-काषं चकषू रुदन्तो रामाऽन्तिकं बृंहित-मन्यु-वेगाः
भका३.४९-२ आवेदयन्तः क्षिति-पालमुच्चैः- कारं मृतं राम-वियोग-शोकात्
भका३.५०-१ चिरं रुदित्वा करुणं स-शब्दं गोत्राऽभिधायं सरितं समेत्य
भका३.५०-२ मध्ये-जलाद् राघव-लक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्.
भका३.५१-१ "अरण्य-याने सु-करे पिता मा प्रायुङ्क्त, राज्ये बत दुष्-करे त्वाम्,
भका३.५१-२ मा गाः शुचं वीर !, भरं वहा ऽमुम्," आभाषि रामेण वचः कनीयान्.
भका३.५२-१ "कृती श्रुती वृद्ध-मतेषु धीमांस् त्वं पैतृकं चेद् वचनं न कुर्याः,
भका३.५२-२ विच्छिद्यमाने ऽपि कुले परस्य पुंसः कथं स्यादिह पुत्र-काम्या.
भका३.५३-१ अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च,
भका३.५३-२ जिह्रेष्य-तिष्ठन् यदि तात-वाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्."
भका३.५४-१ "वृद्धौरसां राज्य-धुरां प्रवोढुं कथं कनीयानहमुत्सहेय,
भका३.५४-२ मा मां प्रयुक्थाः कुल-कीर्ति-लोपे," प्राह स्म रामं भरतोऽपि धर्य्मम्.
भका३.५५-१ "ऊर्जस्-वलं हस्ति-तुरङ्गमेतद्, अमूनि रत्नानि च राज-भाञ्जि,
भका३.५५-२ राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामिति शान्तमैतत्."
भका३.५६-१ इति निगदितवन्तं राघवस् तं जगादŌ "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये,
भका३.५६-२ च्युत-निखिल-विशङ्कः पूज्यमानो जनौघैः सकल-भुवन-राज्यं कारया ऽस्मन्-मतेन"

सर्ग ४[सम्पाद्यताम्]


भका४.१-१ निवृत्ते भरते धी-मानत्रे रामस् तपो-वनम्
भका४.१-२ प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमीयिवान्.
भका४.२-१ अटाट्यमानो ऽरण्यानीं स-सीतः सह-लक्ष्मणः
भका४.२-२ बलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा.
भका४.३-१ अवाक्-शिरसमुत्-पादं कृतान्तेना ऽपि दुर्-दमम्
भका४.३-२ भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः.
भका४.४-१ आंहिषातां रघु-व्याघ्रौ शरभङ्गाऽऽश्रमं ततः
भका४.४-२ अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्.
भका४.५-१ पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः
भका४.५-२ शरभङ्गः प्रदिश्याऽऽरात् सुतीक्ष्ण-मुनिः-केतनम्
भका४.६-१ "यूयं समैष्यथेत्यस्मिŌ न्नासिष्महि वयं वने,
भका४.६-२ दृष्टाः स्थ, स्वस्ति वो, यामः स्व-पुण्य-विजितां गतिम्"
भका४.७-१ तस्मिन् कृशानु-साद्-भूते सुतीक्ष्ण-मुनि-सन्निधौ
भका४.७-२ उवास पर्ण-शालायां भ्रमन्ननिशमाऽऽश्रमान्,
भका४.८-१ वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः
भका४.८-२ शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे
भका४.९-१ ऋग्-यजुषमधीयानान् सामान्यांश्च समर्चयन्
भका४.९-२ बुभुजे देव-सात्-कृत्वा शूल्यमुख्यं च हेम-वान्.
भका४.१०-१ वसानस् तन्त्रक-निभे सर्वाङ्गीणे तरु-त्वचौ
भका४.१०-२ काण्डीरः खाड्गकः शार्ङ्गी रक्षन् विप्रांस्तनुत्र-वान्
भका४.११-१ हित्वाऽऽशितङ्गवीनानि फलैर् येष्वाशितम्भवम्,
भका४.११-२ तेष्वसौ दन्दशूकाऽरिर् वनेश्वानभ्र निर्-भयः.
भका४.१२-१ व्रातीन-व्याल-दीप्राऽस्त्रः सुत्वनः परिपूजयन्
भका४.१२-२ पर्षद्वलान् महा-ब्रह्मैराट नैकटिकाऽऽश्रमान्.
भका४.१३-१ परेद्यव्यद्य पूर्वेद्युरन्येद्युश् चाऽपि चिन्तयन्
भका४.१३-२ वृद्धि-क्षयौ मुनीन्द्राणां प्रियं-भावुक-तामगात्.
भका४.१४-१ आ-तिष्ठद्-गु जपन् सन्ध्या प्रक्रान्तामायतीगवम्
भका४.१४-२ प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्.
भका४.१५-१ ददृशे पर्ण-शालायां राक्षस्या ऽभीकया ऽथ सः,
भका४.१५-२ भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ.
भका४.१६-१ दधाना वलि-भं मध्यं कर्ण-जाह-विलोचना
भका४.१६-२ वाक-त्वचेनाऽति-सर्वेण चन्द्र-लेखेव पक्षतौ
भका४.१७-१ सु-पाद् द्वि-रद्-नासोरूर् मृदु-पाणि-तलाऽङ्गुलिः
भका४.१७-२ प्रथिमानं दधानेन जघनेन घनेन सा
भका४.१८-१ उन्-नसं दधती वक्त्रं शुद्ध-दल्-लोल-कुण्डलम्
भका४.१८-२ कुर्वाणा पश्यतः शंयून् स्रग्विणी सु-हसाऽऽनना
भका४.१९-१ प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्
भका४.१९-२ अनुका प्रार्थयाञ्चक्रे प्रिया-कर्तुं प्रियं-वदा.
भका४.२०-१ "सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर् वशं-वदाम्
भका४.२०-२ त्वद्-भोगीनां सह-चरीम-शङ्कः पुरुषाऽऽयुषम्."
भका४.२१-१ तामुवाच स-"गौष्ठीने वने स्त्री-पुंस-भीषणे
भका४.२१-२ अ-सूर्यं-पश्य-रूपा त्वं किम-भीरुररार्यसे.
भका४.२२-१ मानुषानभिलष्यन्ती रोचिष्णुर् दिव्य-धर्मिणी
भका४.२२-२ त्वमप्सरायमाणेह स्व-तन्त्रा कथमञ्चसि.
भका४.२३-१ उग्रं-पश्याऽऽकुलो ऽरण्ये शालीन-त्व-विवर्जिता
भका४.२३-२ कामुक-प्रार्थना-पट्वी पतिवत्नी कथं न वा.
भका४.२४-१ राघवं पर्ण-शालायामिच्छा ऽनुरहसं पतिम्,
भका४.२४-२ यः स्वामी मम कान्ता-वानौपकर्णिक-लोचनः
भका४.२५-१ वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,
भका४.२५-२ संग्रामे सर्व-कर्मीणौ पाणी यस्यौपजानुकौ.
भका४.२६-१ बद्धो दुर्-बल-रक्षाऽर्थमसिर् येनोपनीविकः,
भका४.२६-२ यश् चापमाश्मन-प्रख्यं सेषुं धत्तेऽन्य-दुर्-वहम्.
भका४.२७-१ जेता यज्ञ-द्रुहां संख्ये धर्म-सन्तान-सूर् वने
भका४.२७-२ प्राप्य दार-गवानां यः मुनीनाम-भयं सदा"
भका४.२८-१ ततो वावृत्यमाना ऽसौ राम-शालां न्यविक्षत,
भका४.२८-२ "मामुपायंस्त रामे"ति वदन्ती साऽऽदरं वचः
भका४.२९-१ "अ-स्त्रीको ऽसावहं स्त्री-मान्, स पुष्यति-तरां तव
भका४.२९-२ पतिर्"इत्यब्रवीद् रामस्Ō"तमेव व्रज, मा मुचः."
भका४.३०-१ लक्ष्मणं ऽसा वृषस्यन्ती महोक्षं गौरिवा ऽगमत्
भका४.३०-२ मन्मथाऽऽयुध-सम्पात-व्यथ्यमान-मतिः पुनः.
भका४.३१-१ तस्याः सासद्यमानाया लोलूया-वान् रघूत्तमः
भका४.३१-२ असिं कौक्षेयमुद्यम्य चकाराऽप-नसं मुखम्.
भका४.३२-१ "अहं शूर्प-णखा नाम्ना नूनं ना ऽज्ञायिषि त्वया,
भका४.३२-२ दण्डो ऽयं क्षेत्रियो येन मय्यपाती"ति सा ऽब्रवीत्.
भका४.३३-१ पर्यशाप्सीद् दिवि-ष्ठा ऽसौ संदर्श्य भय-दं वपुः
भका४.३३-२ अपिस्फवच् च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः
भका४.३४-१ खर-दूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः,
भका४.३४-२ विजिग्राहयिषू रामं दण्डकारण्य-वासिनोः
भका४.३५-१ "कृते सौभागिनेयस्य भरतस्य विवासितौ
भका४.३५-२ पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः.
भका४.३६-१ मम रावण-नाथाया भगिन्या युवयोः पुनः
भका४.३६-२ अयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम्.
भका४.३७-१ अ-संस्कृत्रिम-संव्यानावनुप्त्रिम-फलाशिनौ
भका४.३७-२ अ-भृत्रिम-परीवारौ पर्यभूतां तथापि माम्."
भका४.३८-१ "श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि साŌ
भका४.३८-२ प्राणिवस् तव मानाऽर्थं, व्रजाऽऽश्वसिहि, मा रुदः.
भका४.३९-१ जक्षिमो ऽनपराधेऽपि नरान् नक्तं-दिवं वयम्,
भका४.३९-२ कुतस्-त्यं भीरु ! यत् तेभ्यो द्रुह्यद्भ्यो ऽपि क्षमामहे."
भका४.४०-१ तौ चतुर्दश-साहस्रबलौ निर्ययतुस् ततः
भका४.४०-२ पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ.
भका४.४१-१ अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ
भका४.४१-२ बहु-मूर्ध्नो द्वि-मूर्धांश्च त्रि-मूर्धाश् चा ऽहतां मृधे.
भका४.४२-१ तैर् वृक्ण-रुग्ण-सम्भुग्न-क्षुण्ण-भिन्न-विपन्न-कैः.
भका४.४२-२ निमग्नोद्विग्न-संह्रीणैः पप्रे दीनैश् च मेदिनी.
भका४.४३-१ के-चिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्,
भका४.४३-२ स-रक्तं वमथुं केचिद्, भ्राजथुं न च के-चन.
भका४.४४-१ मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाह-वतीं मरावुदन्यन्,
भका४.४४-२ रघु-तनयमुपाययौ त्रि-मूर्धो, विशभृदिवोग्र-मुखं पतत्रि-राजम्,
भका४.४५-१ शित-विशिख-निकृत्तकृत्स्न-वक्त्रः क्षिति-भृदिव क्षिति-कम्प-कीर्ण-शृङ्गः
भका४.४५-२ भयमुपनिदधे स राक्षसानाम् अ-खिल-कुल-क्षय-पूर्व-लिङ्ग-तुल्यः.


सर्ग ५[सम्पाद्यताम्]


भका५.१-१ निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्
भका५.१-२ उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ.
भका५.२-१ तौ खड्ग-मुसल-प्रास-चक्र-बाण-गदा-करौ
भका५.२-२ अकार्ष्टामायुध-च्छायं रजः-सन्तमसे रणे.
भका५.३-१ अथ तीक्ष्णाऽऽयसैर् बानैरधि-मर्म रघूत्तमौ
भका५.३-२ व्याधं व्याधम-मूढौ तौ यम-साच्-चक्रतुर् द्विषौ.
भका५.४-१ हत-बन्धुर् जगामा ऽसौ ततः शूर्प-णखा वनात्
भका५.४-२ पारे-समुद्रं लङ्कायां वसन्तं रावणां पतिम्.
भका५.५-१ संप्राप्य राक्षस-सभं चक्रन्द क्रोध-विह्वला,
भका५.५-२ नाम-ग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके.
भका५.६-१ "दण्डकानध्यवात्तां यौ वीर ! रक्षः-प्रकाण्डकौ,
भका५.६-२ नृभ्यां संख्येऽकृशातां तौ स-भृत्यौ भूमि-वर्ध्नौ.
भका५.७-१ विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा
भका५.७-२ सार्धं कुमार-सेनान्या, शून्यश् चाऽसीति को नयः
भका५.८-१ यद्यहं नाथ ! ना ऽयास्यं वि-नासा हत-बान्धवा,
भका५.८-२ ना ऽज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चार-दुर्-बलः.
भका५.९-१ करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,
भका५.९-२ अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान्.
भका५.१०-१ वृतस् त्वं पात्रे-समितैः खट्वाऽऽरूढः प्रमाद-वान्
भका५.१०-२ पान-शौण्डः श्रियं नेता ना ऽत्यन्तीन-त्वमुन्मनाः
भका५.११-१ अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान्
भका५.११-२ अत्तुं महेन्द्रियं भागमेति दुश्च्यवनो ऽधुना,
भका५.१२-१ आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथौषधम्
भका५.१२-२ हविर् हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः
भका५.१३-१ युव-जानिर् धनुश्-पाणिर् भूमि-ष्ठः ख-विचारिणः
भका५.१३-२ रामो यज्ञ-द्रुहो हन्ति काल-कल्प-शिलीमुखः
भका५.१४-१ मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः
भका५.१४-२ अश्नन्ति, रामाद् रक्षांसि बिभ्यश्रुवते दिशः
भका५.१५-१ कुरु बुद्धिं कुशाऽग्रियामनुकामीन-तां त्यज,
भका५.१५-२ लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय.
भका५.१६-१ सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम्
भका५.१६-२ श्रियमाशासते, लोलां तां हस्ते-कृत्य मा श्वसीः
भका५.१७-१ लक्ष्मीः पुं-योगमाशंसुः कुलटेव कुतूहलात्
भका५.१७-२ अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते.
भका५.१८-१ योषिद्-वृन्दारिका तस्य दयिता हंस-गामिनी
भका५.१८-२ दूर्वा-काण्डमिव श्यामा न्यग्रोध-परिमण्डला.
भका५.१९-१ नाऽऽस्यं पश्यति यस् तस्या, निंस्ते दन्त-च्छदं न वा,
भका५.१९-२ संशृणोति न चोक्तानि, मिथ्याऽऽसौ निहितेन्द्रियः.
भका५.२०-१ सारो ऽसाविन्द्रियाऽर्थानां, यस्या ऽसौ तस्य नन्दथुः,
भका५.२०-२ तल्पे कान्ताऽन्तरैः सार्धं मन्ये ऽहं धिङ् निमज्जथुम्.
भका५.२१-१ न तं पश्यामि, यस्या ऽसौ भवेन् नोदेजया मतेः
भका५.२१-२ त्रैलोक्येनाऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव.
भका५.२२-१ नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,
भका५.२२-२ वरुणानी न, ना ऽग्नायी तस्याः सीमन्तिनी समा."
भका५.२३-१ प्रत्यूचे राक्षसेन्द्रस् ताम्Ō "आश्वसिहि, बिभेषि किम्,
भका५.२३-२ त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्.
भका५.२४-१ मामुपास्त दिदृक्षा-वान् याष्टीक-व्याहतो हरिः
भका५.२४-२ आज्ञा-लाभोन्मुखो दूरात् काक्षेणा ऽनादरेक्षितः
भका५.२५-१ विरुग्णो-दग्र-घाराऽग्नः कुलिशो मम वक्षसि
भका५.२५-२ अ-भिन्नं शत-धा ऽऽत्मानं मन्यते बलिनं बली.
भका५.२६-१ कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम्
भका५.२६-२ बन्धने ऽनुपयोगि-त्वान् नतं तृण-वदत्यजम्.
भका५.२७-१ आहोपुरुषिकां पश्य मम, सद्-रत्न-कान्ति-भिः
भका५.२७-२ ध्वस्ताऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा.
भका५.२८-१ हृत-रत्नश् च्युतोद्योगो रक्षोभ्यः कर-दो दिवि
भका५.२८-२ पूतक्रतायीमभ्येति स-त्रपः किं न गोत्र-भित्.
भका५.२९-१ अ-तुल्य-महसा सार्धं रामेण मम विग्रहः
भका५.२९-२ त्रपा-करस्, तथाप्येष यतिष्ये तद्-विनिग्रहे."
भका५.३०-१ उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र-भृत्
भका५.३०-२ समुद्र-सविधाऽऽवासं मारीचं प्रति चक्रमे.
भका५.३१-१ सम्पत्य तत्-सनीडे-सौ तं वृत्तान्तमषिष्रवत्,
भका५.३१-२ त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः.
भका५.३२-१ "अन्तर्धत्स्व रघु-व्याघ्रात् तस्मात् त्वं राक्षसेश्वर !,
भका५.३२-२ यो रण्ने दुरुपस्थानो हस्त-रोधं दधद् धनुः,
भका५.३३-१ भवन्तं कार्तवीर्यो यो हीन-सन्धिमचीकरत्,
भका५.३३-२ जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्.
भका५.३४-१ यमाऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम्.
भका५.३४-२ शूरं-मन्यो रणाच् चाऽहं निरस्तः सिंह-नर्दिना.
भका५.३५-१ न त्वं तेना ऽन्वभाविष्ठा, ना ऽन्वभावि त्वया ऽप्यसौ,
भका५.३५-२ अनुभूतो मया चा ऽसौ, तेन चा ऽन्वभविष्यहम्,
भका५.३६-१ अध्यङ् शस्त्र-भृतां रामो, न्यञ्चस् तं प्राप्य मद्-विधाः,
भका५.३६-२ स कन्या-शुल्कमभनङ् मिथिलायां मखे धनुः
भका५.३७-१ सं-वित्तः सह-युध्वानौ तच्-छक्तिं खर-दूषणौ,
भका५.३७-२ यज्वानश् च स-सुत्वानो, यानगोपीन् मखेषु सः.
भका५.३८-१ सुख-जातः सुरा-पीतो नृ-जग्धो माल्य-धारयः
भका५.३८-२ अधि-लङ्कं स्त्रियो दीव्य, मा ऽऽरब्धा बलि-विग्रहम्."
भका५.३९-१ तंभीतं-कारमाक्रुश्य रावणः प्रत्यभाषतŌ
भका५.३९-२ "यात-यामं विजितवान् स रामं यदि, किं ततः
भका५.४०-१ अघानि ताडका तेन लज्जा-भय-विभूषणा,
भका५.४०-२ स्त्री-जने यदि तच् छ्लाघ्यं, धिग् लोकं क्षुद्र-मानसम्.
भका५.४१-१ यद् गेहे-नर्दिनमसौ शरैर् भीरुमभाययत्
भका५.४१-२ कु-ब्रह्म-यज्ञ-के रामो भवन्तं, पौरुषं न तत्.
भका५.४२-१ चिर-कालोषितं जीर्णं कीट-निष्कुषितं धनुः
भका५.४२-२ किं चित्रं यदि रामेण भग्नं क्षत्रिय-काऽन्तिके.
भका५.४३-१ वन-तापस-के वीरौ विपक्षे गलिताऽऽदरौ
भका५.४३-२ किं चित्रं यदि साऽवज्ञौ मम्रतुः खर-दूषणौ.
भका५.४४-१ त्वं च भीरुः सु-दुर्बुद्धे ! नित्यं शरण-काम्यसि,
भका५.४४-२ गुणांश् चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश् च नः सदा.
भका५.४५-१ शीर्षच्-छेद्यमतोऽहं त्वा करोमि क्षिति-वर्धनम्,
भका५.४५-२ कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ.
भका५.४६-१ तमुद्यत-निषाताऽसिं प्रत्युवाच जिजीविषुः
भका५.४६-२ मारीचो ऽनुनयंस् त्रासाद् "अभ्यमित्र्यो भवामि ते.
भका५.४७-१ हरामि राम-सौमित्री मृगो भूत्वा मृग-द्युवौ,
भका५.४७-२ उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सं-तनु."
भका५.४८-१ ततश् चित्रीयमाणो ऽसौ हेम-रत्न-मयो मृगः
भका५.४८-२ यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्.
भका५.४९-१ तेना ऽदुद्यूषयद् रामं मृगेण मृग-लोचना
भका५.४९-२ मैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्.
भका५.५०-१ योग-क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः
भका५.५०-२ मृगस्याऽनुपदी रामो जगाम गज-विक्रमः
भका५.५१-१ स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्
भका५.५१-२ वीक्षमाणो मृगं रामश् चित्र-वृत्तिं विसिष्मिये.
भका५.५२-१ चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-प्लवम्
भका५.५२-२ शब्दायमानमव्यात्सीत् भय-दं क्षणदा-चरम्.
भका५.५३-१ श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी
भका५.५३-२ मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत्.
भका५.५४-१ "एष प्रावृषि-जाऽम्भो-द- नादी भ्राता विरौति ते,
भका५.५४-२ ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्."
भका५.५५-१ "राम-संघुषितं नैतन्, मृगस्यैव विवञ्चिषोः
भका५.५५-२ राम-स्वनित-सङ्काशः स्वान्", इत्यवदत् स ताम्.
भका५.५६-१ "आप्यान-स्कन्ध-कण्ठांऽसं रुषितं सहितुं रणे
भका५.५६-२ प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः
भका५.५७-१ देहं बिभ्नक्षुर-स्त्राऽग्नौ मृगः प्राणैर् दिदेविषन्
भका५.५७-२ ज्या-घृष्ट-कठिनाऽङ्गुष्ठं राममायान् मुमूर्षया.
भका५.५८-१ शत्रून् भीषयमाणं तं रामं विस्मापयेत कः,
भका५.५८-२ मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः"
भका५.५९-१ "यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च,
भका५.५९-२ इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया.
भका५.६०-१ मृषोद्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः
भका५.६०-२ निरगात् "शत्रु-हस्तं त्वं यास्यसी"ति शपन् वशी.
भका५.६१-१ गते तस्मिन्, जल-शुचिः शुद्ध-दन् रावणः शिखी
भका५.६१-२ जञ्जपूको ऽक्ष-माला-वान् धारयो मृदलाबुनः
भका५.६२-१ कमण्डलु-कपालेन शिरसा च मृजा-वता
भका५.६२-२ संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान्
भका५.६३-१ अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम्
भका५.६३-२ वदन् बह्वङ्गुलि-स्फोटं भ्रू-क्षेपं च विलोकयन्
भका५.६४-१ संदिदर्शयिषुः साम निजुह्नूषुः क्षपाट-ताम्
भका५.६४-२ चंक्रमा-वान् समागत्य सीतामूचेŌ"सुखाभव."
भका५.६५-१ सायं-तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम्
भका५.६५-२ कान्तिं कान्त्या सदा-तन्या ह्रेपयन्ती शुचि-स्मिता.
भका५.६६-१ का त्वमेकाकिनी भीरु ! निरन्वय-जने वने,
भका५.६६-२ क्षुध्यन्तो ऽप्यघसन् व्यालास् त्वाम-पालां कथं न वा.
भका५.६७-१ हृदयं-गम-मूर्तिस् त्वं सुभगं-भावुकं वनम्
भका५.६७-२ कुर्वाणा भीममप्येतद् वदा ऽभ्यैः केन हेतुना.
भका५.६८-१ सुकृतं प्रिय-कारी त्वं कं हरस्युपतिष्ठसे,
भका५.६८-२ पुण्य-कृच् चाटु-कारस् ते किङ्करः सुरतेषु कः.
भका५.६९-१ परि-पर्युदधे रूपमा-द्यु-लोकाच् च दुर्-लभम्.
भका५.६९-२ भावत्कं दृष्टवत्स्वेतदस्मास्वधि सु-जीवितम्.
भका५.७०-१ आपीत-मधुका भृङ्गैः सुदिवेवाऽरविन्दिनी
भका५.७०-२ सत्-परिमल-लक्ष्मीका ना ऽ-पुंस्काऽसीति मे मतिः.
भका५.७१-१ मिथ्यैव श्रीः श्रियं-मन्या, श्रीमन्-मन्यो मृषा हरिः,
भका५.७१-२ साक्षात्-कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः
भका५.७२-१ नोदकण्ठिष्यता ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः,
भका५.७२-२ खेलायन्ननिशं नापि सजूः-कृत्य रतिं वसेत्,
भका५.७३-१ वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,
भका५.७३-२ कान्तिं नाऽभिमनायेत को वा स्थाणु-समो ऽपि ते.
भका५.७४-१ दुःखायते जनः सर्वाह्, स एवैकः सुखायते,
भका५.७४-२ यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके.
भका५.७५-१ कः।
पण्डितायमानस् त्वा- मादायाऽऽमिष-सन्निभाम्
भका५.७५-२ त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्."
भका५.७६-१ ओजायमाना तस्या ऽर्ध्यं प्रणीय जनकाऽऽत्मजा
भका५.७६-२ उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः
भका५.७७-१ "महा-कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम
भका५.७७-२ पितुः प्रियं-करो भर्ता क्षेमं-कारस् तपस्विनाम्.
भका५.७८-१ निहन्ता वैर-काराणां सतां बहु-करः सदा
भका५.७८-२ पारश्वधिक-रामस्य शक्तेरन्त-करो रणे
भका५.७९-१ अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा
भका५.७९-२ पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम्
भका५.८०-१ पितत्रि-क्रोष्टु-जुष्टानि रक्षांसि भय-दे वने
भका५.८०-२ यस्य बाण-निकृत्तानि श्रेणी-भूतानि शेरते.
भका५.८१-१ दीव्यमानं शितान् बाणानस्यमानं महा-गदाः
भका५.८१-२ निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि.
भका५.८२-१ भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ,
भका५.८२-२ एषितुं प्रेषितो यातो मया तस्या ऽनु-जो वनम्
भका५.८३-१ अथा ऽऽयस्यन् कषायाऽक्षः स्यन्न-स्वेद-कणोल्बणः
भका५.८३-२ संदर्षिताऽऽन्तराकूतस् तामवादीद् दशाननः,
भका५.८४-१ "कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्
भका५.८४-२ को नग्न-मुषित-प्रख्यं बहु मन्येत राघवम्.
भका५.८५-१ राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान्
भका५.८५-२ यद्यसौ कूप-माण्डूकि ! तवैतावति कः स्मयः
भका५.८६-१ मत्-पराक्रम-संक्षिप्त-राज्य-भोग-परिच्छदः
भका५.८६-२ युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः
भका५.८७-१ निर्-लङ्को विमदः स्वामी धनानां हृत-पुष्पकः
भका५.८७-२ अध्यास्ते ऽन्तर्-गिरं यस्मात्, कस् तन् ना ऽवैति कारणम्.
भका५.८८-१ भिन्न-नौक इव ध्यायन् मत्-तो बिभ्यद् यमः स्वयम्
भका५.८८-२ कृष्णि-मानं दधानेन मुखेना ऽऽस्ते निरुद्यतिः
भका५.८९-१ समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी
भका५.८९-२ रत्न-पारायणं नाम्ना लङ्केति मम मैथिलि !
भका५.९०-१ आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता
भका५.९०-२ आर्पितोरु-सुगन्धि-स्रक् तस्यां वस मया सह.
भका५.९१-१ संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !
भका५.९१-२ राघवः प्रोष्य-पापीयान्, जहीहि तम-किं-चनम्.
भका५.९२-१ अश्नीत-पिबतीयन्ती प्रसिता स्मर-कर्मणि
भका५.९२-२ वशे-कृत्य दश-ग्रीवं मोदस्व वर-मन्दिरे.
भका५.९३-१ मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,
भका५.९३-२ उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव."
भका५.९४-१ तां प्रातिकूलिकीं मत्वा जिहीर्षुर् भीम-विग्रहः
भका५.९४-२ बाहूपपीडमाश्लिष्य जगाहे द्यां निशा-चरः
भका५.९५-१ त्रस्यन्तीं तां समादाय यतो रात्रिं-चराऽऽलयम्
भका५.९५-२ तूष्णीं-भूय भयादासांचक्रिरे मृगपक्षिणः
भका५.९६-१ उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ
भका५.९६-२ जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्.

इति प्रकीर्ण-काण्डः प्रथमः समाप्तः