भर्जनं ... गर्जनम्

विकिपुस्तकानि तः

मूलम्
भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥

पदच्छेदः
भर्जनं भवबीजानाम् अर्जनं सुखसंपदाम् । तर्जनं यमदूतानां राम राम इति गर्जनम् ॥३६॥

अन्वयः
‘राम राम’ इति गर्जनं भवबीजानां भर्जनं, सुखसंपदाम् अर्जनं, यमदूतानां तर्जनम् अस्ति। ॥३६॥

सरलार्थः
राम राम इति नाम्नः गर्जनेन संसारबीजं दग्धं भवति, सुखानि,सम्पदः च लभ्यन्ते तथा यमदूतानां पराभवः भवति॥३६

सन्धिविग्रहः ३६

सन्धिः विग्रहः सूत्रम्
रामरामेति रामराम इति आद्गुणः।६.१.८६

समासविग्रहः ३६
भवबीजानाम्
भवस्य बीजानि।... षष्ठी।२.२.८

सुखसंपदाम्
सुखानि च सम्पदः च सुखसम्पदः तासाम्।...चार्थे द्वन्द्वः।२.२.२९

यमदूतानाम्
यमस्य दूताः यमदूताः, तेषाम्।...षष्ठी।२.२.८


रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=भर्जनं_..._गर्जनम्&oldid=7205" इत्यस्माद् प्रतिप्राप्तम्