भवः शर्वो...

विकिपुस्तकानि तः

मूलम्
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्।
तथा भीमेशानाविति यदभिधानाष्टकमिदम्।।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि।
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते।। २८।।

पदच्छेदः-
भवः शर्वः रुद्रः पशुपतिः अथ उग्रः सहमहान्।तथा भीम-ईशानौ इति यद् अभिधानाष्टकम् इदम्।।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिः अपि।प्रियाय अस्मै धाम्ने प्रणिहित-नमस्यः अस्मि भवते।।

अन्वयः-
हे देव, भवः शर्वः रुद्रः पशुपतिः अथ उग्रः सहमहान् तथा भीम-ईशानौ इति यद् इदम् अभिधानाष्टकम् अमुष्मिन् प्रत्येकं श्रुतिः अपि प्रविचरति।अस्मै प्रियाय धाम्ने भवते (अहं) प्रणिहित-नमस्यः अस्मि ।। २८।।

सरलार्थः-
हे देव, भवः ,शर्वः, रुद्रः, पशुपतिः, अथ उग्रः, सहमहान्, तथा भीमः ,ईशानः इति तव अष्टौ नामानि।एतेषु प्रत्येकं नाम्नि श्रुतिः प्रवर्तते।मम प्रियाय चैतन्यरूपिणे तुभ्यम् अहं नमनम् अर्पये॥२८

शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्

"https://sa.wikibooks.org/w/index.php?title=भवः_शर्वो...&oldid=6197" इत्यस्माद् प्रतिप्राप्तम्