भूमज्यायस्त्वाधिकरणम्...

विकिपुस्तकानि तः

भूमज्यायस्त्वाधिकरणम् आरचयत। (३.३.५७)
भूम्न: क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति।३.३.५७
सङ्गति:-
विषय:-
समस्ता व्यस्ता च वैश्वानरोपासना।(छा.५.११.१)
विशय:-
किमत्र व्यस्तोपासना विवक्षिता अथवा समस्ता?
पूर्वपक्ष:-
व्यस्ता-
१ प्रत्येकं फलविधानात्।
२ प्रत्यवयवम् ‘आस्से’ इति क्रियापदश्रवणात्।
उत्तरपक्ष: -
समस्ता।भूम्न: एवोपासनस्य ज्यायस्त्वम्।यथा क्रतुषु क्रत्वङ्गानां पृथग् अनुष्ठानं न विवक्षितं तद्वत्। तथा हि श्रुति: दर्शयति।षड् ऋषय: पृथगुपासनां चक्रु:।तां निषिध्य श्रुति: समस्तामुपासनाम् अन्ववर्तयामास। एवं सति फलान्यपि परस्या: समस्ताया: उपासनाया: इत्यवगन्तव्यम्।प्रत्यवयवं क्रियापदश्रवणमपि पराभिप्रायमिति मन्तव्यम्।
निर्णय:-
समस्तोपासना विवक्षिता।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह: