भू सत्तायाम्।वर्तमाने लट्

विकिपुस्तकानि तः

भू- तिप्[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८..... भू- शप् (अ)-ति
सार्वधातुकार्धधातुकयो:।७.३.८४..... भो-शप् (अ)-ति
एचोऽयवायाव:।.... भ्-अव्-अ-ति
भवति।।

भू-तस्[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८..... भू-शप् (अ)-तस्
सार्वधातुकार्धधातुकयो:।७.३.८४..... भो-शप् (अ)-तस्
एचोऽयवायाव:।..... भ्-अव्-अ-तस्
ससजुषो रु:। ८.२.६६..... भवतरु
खरवसानयोर्विसर्जनीय:।८.३.१५ .....भवत:

भू-झि[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८ ..... भू-शप् (अ)-झि
सार्वधातुकार्धधातुकयो:।७.३.८४..... भो-शप् (अ)-झि
एचोऽयवायाव:।..... भू अव् अ झ् इ
झोन्त:।७.१.३..... भ् अव् अ अन्ति
अतो गुणे।६.१.६७ ..... भव् अन्ति
भवन्ति।

भू-सिप्[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८ ..... भू-शप् (अ)-सि
सार्वधातुकार्धधातुकयो:।७.३.८४..... भो- शप्(अ)सि
एचोऽयवायाव:।..... भ् अव् अ सि
भवसि।

भू-थस्[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८..... भू-शप्(अ) - थस्
सार्वधातुकार्धधातुकयो:।७.३.८४..... भो-शप् (अ)- थस्
एचोऽयवायाव:।.. ... भ् अव् अ थस्
ससजुषो रु:। ८.२.६६….. भवथरु
खरवसानयोर्विसर्जनीय:।८.३.१५….. भवथ:

भू-थ[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८..... भू-शप् (अ)थ
सार्वधातुकार्धधातुकयो:।७.३.८४..... भो-शप् (अ)- थ
एचोऽयवायाव:। ..... भ् अव् अ थ
भवथ।

भू-मिब्[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८ ….. भू-शप् (अ) मि
सार्वधातुकार्धधातुकयो:।७.३.८४….. भो-शप् (अ)-मि
एचोऽयवायाव:। ….. भ् अव् अ मि
अतो दीर्घो यञि।७.३.१०१ ….. भ् अव् आ मि
भवामि।

भू-वस्[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८ ….. भू-शप् (अ)-वस्
सार्वधातुकार्धधातुकयो:।७.३.८४….. भो-शप् (अ)- वस्
एचोऽयवायाव:। ….. भ् अव् अ वस्
अतो दीर्घो यञि।७.३.१०१ ….. भ् अव् आ वस्
ससजुषो रु:। ८.२.६६….. भवा वरु
खरवसानयोर्विसर्जनीय:।८.३.१५….. भवाव:

भू-मस्[सम्पाद्यताम्]

कर्तरि शप्।३.१.६८ ….. भू-शप् (अ)-मस्
सार्वधातुकार्धधातुकयो:।७.३.८४….. भो-शप् (अ)- मस्
एचोऽयवायाव:। ….. भ् अव् अ मस्
अतो दीर्घो यञि।७.३.१०१ ….. भ् अव् आ मस्
ससजुषो रु:। ८.२.६६….. भवा मरु
खरवसानयोर्विसर्जनीय:।८.३.१५….. भवाम:।

प्रयुक्तानि सूत्राणि[सम्पाद्यताम्]

एचोऽयवायाव:। एच: क्रमाद् अय् अव् आय् आव् इति एते स्यु: अचि।
कर्तरि शप्।३.१.६८ कर्त्रर्थे सार्वधातुके परे शप्।
सार्वधातुकार्धधातुकयो:।७.३.८४ अनयो: परयो: इगन्ताङ्गस्य गुण:।
खरवसानयोर्विसर्जनीय:।८.३.१५ खरि अवसाने च पदान्तस्य रेफस्य विसर्ग:।
अतो गुणे।६.१.६७ अपदान्तादतो गुणे पररूपमेकादेश:।
अतो दीर्घो यञि।७.१.१०१ अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके।
झोऽन्त:।७.१.३ प्रत्ययावयवस्य झस्य अन्तादेश:।
ससजुषो रु:।८.२.६६ पदान्तस्य सस्य सजुषश्च रु: स्यात्।


 तिङन्तरूपसिद्धि:        भ्वादिगणधातु-रूपसिद्धि:   भ्वादिगण-परस्मैपदधातु-रूपसिद्धि: