भोक्त्रापत्त्यधिकरणम्

विकिपुस्तकानि तः

भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत्।२.१.१३
पूर्वपक्ष: - यदि ब्रह्मकारणवादोऽभ्युपगम्यते, तर्हि लोकप्रसिद्धो भोक्त्रृभोग्यव्यवहारो व्याहन्यते। अन्य: खलु भोक्ता, अन्ये च भोग्यविषया:।परमकारणाद् ब्रह्मणो यदि जगतोऽनन्यत्वं, तर्हि भोक्तृभोग्यविभागोऽयं नश्यति।अत: अयुक्तो ब्रह्मकारणवाद:।
वेदान्ती - स्याल्लोकवत्।लोके दृश्यते यदस्मत्पक्षेऽपि भोक्तृभोग्यविभाग उपपद्यते।यथा समुद्रादनन्या: फेनबुद्बुदवीचितरङ्गादय:।तेषामितरेतरविभागोऽप्यस्ति।इतरेतरसंश्लेषरूपो व्यवहारोऽप्यस्ति। उदकस्वरूपात्समुद्रात् तेऽनन्या:।तथापि तेषमितरेतरभावापत्ति: नास्ति।न च विभागेऽपि समुद्रादनन्यत्वं भवति। एवमत्रापि भोक्तृभोग्ययो: इतरेतरभावापत्ति: नास्ति। ब्रह्मणोऽनन्यत्वमपि नास्ति।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद: