मधुररसविज्ञानम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

॥ मधुररसः ॥

षट्सु रसेषु अयं रसः प्रमुखः।यतो हि आबाल्यात् अयम् अभ्यस्तः।शिशुः स्तन्यं पिबति।स्तन्यं मधुरम्।अतः अयं रसः आबाल्यात् सात्म्यः।
==लक्षणम्==
मधुररसः सर्वेषां परिचितः।द्रव्यं जिह्वायां स्थापितं चेत् अनुक्षणं मधुररसः ज्ञायते। अनेन रसेन मनसि आह्लादः जायते।इन्द्रियाणि प्रसन्नानि भवन्ति।मधुरद्रव्यं मुखे ईषत् पिच्छिलतां जनयति।
==पाञ्चभौतिकत्वम्== –
मधुरद्रव्ये पृथिव्याः तथा जलस्य प्राधान्यं वर्तते।अस्य वचनस्य किञ्चिद् विवरणम् आवश्यकम्। आयुर्वेदे सर्वं द्रव्यं पाञ्चभौतिकम् इति सिद्धान्तः अस्ति।पृथिवी, जलं, तेजः, वायुः आकाशः इति पञ्चभूतानि ।एतैः भूतैः सर्वं जगत् जायते।अतः प्रत्येकं द्रव्ये एतेषां महाभूतानाम् अंशाः सन्ति। यद्यपि सर्वेषु द्रव्येषु पञ्चानाम् अपि महाभूतानाम् अंशाः सन्ति, तथापि तेषाम् अनुपातः विभिन्नः अस्ति। क्वचिद् द्रव्ये पृथ्वी अधिकया मात्रया अस्ति। क्वचिद् द्रव्ये जलम् अधिकम् अस्ति इति। तथा तथा तस्य द्रव्यस्य निर्देशः भवति।यथा इदं दव्यं पार्थिवम्, इदं तैजसम् इत्यादि। इदं द्रव्यं पार्थिवं नाम अस्मिन् द्रव्ये पृथिवीतरमहाभूतानाम् अभावः अस्ति इति न। पार्थिवे द्रव्ये पञ्च अपि महाभूतानि सन्ति तथापि तेषु पृथिवी महाभूतं प्रबलं विद्यते, अन्यानि चत्वारि महाभूतानि गौणानि सन्ति इति।
मधुरद्रव्ये पृथिवीजलयोः प्राधान्यं वर्तते।अतः पृथिव्याः गुरुत्वं , स्थिरत्वं मधुरद्रव्ये अस्ति।जलस्य मृदुत्वं, शैत्यं, पिच्छिलत्वं, स्निग्धत्वम् अपि मधुरद्रव्ये अस्ति।
==विपाकः==-
मधुरद्रव्यस्य विपाकः मधुरः भवति।द्रव्यस्य पचनाद् अनन्तरं तस्य रसः परिवर्तते। अयं परिवर्तितः रसः विपाकः इति उच्यते। मधुररसस्य पचनानन्तरं मधुरः एव रसः जायते।अतः मधुररसस्य विपाकः मधुरः।
==वीर्यम्= =–
सम्पूर्णस्य जगतः उष्णशीतयोः भेदयोः व्यवस्थापनं शक्यम्। तथा आयुर्वेदे कृतमपि। तदनुसारं कतिचन द्रव्याणि शीतवीर्याणि सन्ति, कतिचन द्रव्याणि उष्णवीर्याणि सन्ति।मधुरद्रव्याणि प्रायशः शीतवीर्याणि सन्ति।
==कार्याणि==
मधुररसः शरीरे कानि कार्याणि करोति, तद् इदानीं पश्यामः।मधुरद्रव्यं वातदोषं शमयति, पित्तदोषं शमयति, परं कफदोषं वर्धयति।रसः, रक्तम्, मांसम्, मेदः, अस्थि, मज्जा, शुक्रम् इति सप्त धातवः शरीरे सन्ति।एषां सर्वेषां धातूनां बलाधानं कर्तुं मधुरद्रव्यं समर्थम्।अतः ये दुर्बलाः , येषां देहभारः न्यूनः, तेषां बलाधानाय वैद्याः मधुरद्रव्याणाम् औषधानि कल्पयन्ति, मधुरप्रचुरम् आहारम् अपि उपदिशन्ति।उपर्युक्तानां सप्तानां धातूनां यः सारभागः, सः ओजः इति कथ्यते।सप्तधातवः यदा वर्धन्ते, तदा ओजः अपि वर्धते।गर्भिण्याः स्तन्यं नाम तस्याः रसधातोः उपधातुः। रसे वृद्धे स्तन्यम् अपि वर्धते।मधुरद्रव्यं नेत्रस्य बलं वर्धयते।उचितमात्रया सेवितो मधुरः रसः केशबृद्धिं करोति। शरीरस्य वर्णः मधुरद्रव्येण उज्ज्वलः जायते। स्वरः स्निग्धः भवति।स्वरगता कर्कशता न्यूना भवति।वार्धक्यं नाम देहधातूनां क्षयस्य कालः।वयसः परिणामतः सर्वे धातवः क्षयम् उपयान्ति।तदा अयं मधुरः रसः उपकारकः भवति। धातुक्षयस्य गतिं सः मन्दीकरोति।अन्यैः अपि कारणैः येषा धातुक्षयः सम्भवति, तेषां कृते मधुरः रसः अन्ने औषधे च प्रयुज्यते।यथा कासमानस्य क्वचिद् रक्तनिष्ठीवनं भवति, तदा तस्य पूर्त्यर्थं मधुरद्रव्यम् उपकारकम्।अतिश्रमः अतिव्यायामः अतिप्रवासः इति एतैः कारणैः मांसमेदसोः क्षयः जायते। तयोः पूरणं मधुररसेन कर्तुं शक्यते। अतिमैथुनेन शुक्रक्षयः भवति। क्षीणस्य शुक्रस्य आप्यायनं मधुरद्रव्येण भवति।अस्थि भग्नं भवति तदा अस्थिसन्धानकरै: औषधै: सह मधुरस्य सेवनं करणीयम्। तेन अस्थिसन्धानं शीघ्रं भवति।पित्तव्याधिषु नैकवारं दाहः भवति, भ्रमः भवति, मूर्च्छा अपि सम्भवति। एषु व्याधिषु मधुरद्रव्यं प्रयोक्तव्यम्।शरीर-इन्द्रिय-सत्व-आत्मसंयोगः नाम आयुः।अस्मिन् संयोगे आत्म-व्यतिरिक्तानां त्रयाणां पोषणाय मधुररसः अलम्!तेन अयं रसः ‘आयुष्यः’(आयुषे हितकरः) इति उच्यते।
==अतियोगः== –
अति सर्वत्र वर्जयेत् इति वदन्ति।मधुररसः हितकरः अस्ति, परम् अतिमात्रया भक्षितः मधुरः रसः हानिकरः सम्पद्यते।मधुरस्य अतिसेवनेन कफः वर्धते, ततः कफविकाराः प्रादुर्भवन्ति।अग्नौ कफस्य आवरणं भवति। अग्निः मन्दः जायते।तेन अन्नस्य जरणं सम्यक् न भवति।उदरं सततं पूर्णम् अस्ति इति भावना जायते।निद्रा वर्धते। अलसः वर्धते।निद्रातः उत्थाने अपि कार्येषु उत्साहः न भवति।देहे शनैः शनैः स्थूलता जायते।देहभारः वर्धते।अग्रे मधुमेहसदृशाः विकाराः भवन्ति।क्वचित् शरीरे स्थाने स्थाने ग्रन्थयः उद्भवन्ति। अतिमधुरेण बुद्धिः मन्दा भवति।
==द्रव्याणि==
– दुग्धं, घृतं, नवनीतं, गुडः, शर्करा, खण्डशर्करा, इक्षुः, कदली, चिकूफलं, सेवफलं, पक्वाम्रं, पनसं, नारिकेलं, मधु एतानि मधुरद्रव्याणां कतिचन निदर्शनानि।
==अपवादाः==
– मधुरद्रव्याणि पृथ्वीजलबहुलानि सन्ति अतः कफं वर्धयन्ति इति पूर्वम् उक्तम्।तथापि अपवादभूतानि कानिचित् मधुरद्रव्याणि सन्ति। तानि मधुराणि परं न कफवर्धकानि।यथा जीर्णा शालिः, मुद्गं, गोधूमं, मधु, खण्डसिता।
कदाचिद् अत्र सन्देहः स्यात् यत् शाल्यादीनां मधुरः रसः न प्रतीयते।कथं तेषां मधुरद्रव्येषु गणना उचिता? तत्र उत्तरम् एतद् यद् एतेषु द्रव्येषु मधुरः रसः अस्ति परम् अव्यक्तः अस्ति।द्रष्टारः ऋषयः तं जानन्ति।अस्माकं रसनेन्द्रियस्य सामर्थ्यम् अल्पम् अतः वयं तम् अव्यक्तरसं न अनुभवामः।
==ऋतुसम्बन्धः= =
– आवर्षं षड् ऋतवः जायन्ते। तेषु वसन्तः कफप्रकोपस्य कालः।अतः तत्र मधुररसः आहारे न्यून: भवेत्।हेमन्तः तथा शिशिरः इति द्वौ शीतौ ऋतू।तत्र कालस्वभावतः जाठराग्निः प्रदीप्तः अस्ति।तस्मै यदि गुरु अन्नं दीयते, तर्हि सः देहधातून् अपि पचति। अतः एतयोः ऋत्वोः मधुरद्रव्याणाम् आहारे समावेशः विपुलं कार्यः। मधुरद्रव्याणि पृथ्वीजलबहुलानि सन्ति।तेषां जरणकर्मणि प्रदीप्तः अग्निः कृतकार्यः भवति।ग्रीष्मे वर्षासु तथा शरदि मधुररसस्य प्रयोगः आहारे कर्तुं शक्यते।
==भोजने ==
- मधुरद्रव्यं गुरु।तस्य जरणार्थम् अधिकः कालः आवश्यकः।अतः भोजने मधुरद्रव्यं प्रथमं खादनीयम्।भोजनान्ते अधुना मधुरद्रव्यस्य प्रयोगः जनैः क्रियते स्वीटडिश् इति रूपेण।स च शास्त्रविरुद्धः।भोजनान्ते मधुररसः न भक्षणीयः।भक्षितः चेत् कफवृद्धिः, मेदोवृद्धिः, आलस्यं देहे गौरवम् इत्यादयः विकाराः कालेन उत्पद्यन्ते।

षड्रसविज्ञानम्
"https://sa.wikibooks.org/w/index.php?title=मधुररसविज्ञानम्&oldid=6230" इत्यस्माद् पुनः प्राप्तिः