महत्-तत्त्वम्

विकिपुस्तकानि तः

साङ्खमते यानि पञ्चविंशतिः तत्त्वानि गणितानि, तेषु अन्यतमम् इदं तत्त्वं ‘महद् ‘ इति।

महतः कारणम् [सम्पाद्यताम्]

प्रकृतिपुरुषसंयोगात् सर्गः आरभ्यते।तत्र प्रथमम् उत्पद्यमानं तत्त्वं महत्।
प्रकृतेर्महान्...। सां.का.२२

महतः कार्यम् [सम्पाद्यताम्]

...ततोऽहङ्कारः...। सां.का.२२
महत्तत्वात् अहङ्कारः जायते।

कारणम्..... कार्यम्.....
प्रकृतिपुरुष-संयोगः महान् ..... अहङ्कारः.....
कारणम् कार्यम्

महतः स्वरूपम् [सम्पाद्यताम्]

अध्यवसायो बुद्धिः ...। सां.का.२३
अध्यवसायः निश्चयः।निश्चयः इति बुद्धेः कार्यम्।तथापि क्रिया-क्रियाश्रययोः अभेदं मत्त्वा एतदुक्तम् ‘अध्यवसायः बुद्धिः’ इति।बुद्धेः सात्त्विकं रूपं विद्यते, तथा तामसमपि रूपं विद्यते।उभयत्र रजोगुणस्य साहाय्यम् अस्ति।ते द्वे बुद्धिरूपे एवम्
...धर्मो ज्ञानं विराग ऐश्वर्यम्।सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्॥सां.का.२३

बुद्धे: सात्त्विकं रूपम् बुद्धेः तामसं रूपम्
धर्मः अधर्मः
ज्ञानम् अज्ञानम्
विरागः अवैराग्यम्
ऐश्वर्यम् अनैश्वर्यम्

धर्मः अधर्मः च [सम्पाद्यताम्]

वेदविहितकर्मजन्योः धर्मः।सः द्विविधः।प्रवृत्तिलक्षणो निवृत्तिलक्षणः च।तत्र यज्ञः, दानं, तपः इत्येवमादिः प्रवृत्तिलक्षणो धर्मः।तस्य अनुष्ठानस्य फलम् अभ्युदयः।योगशास्त्रोक्तानां यमनियमानां पालनं निवृत्तिलक्षणो धर्मः।तस्य फलं निःश्रेयसः।अयमुभयविधो धर्मः सात्त्विकबुद्धौ विद्यते।
वेदनिषिद्धकर्मजन्यः अधर्मः।तस्य फलं दुःखम्।अयं तामसबुद्धौ विद्यते।
ज्ञानम् अज्ञानं च। एवं तत्त्वाभ्यासात् नास्मि, न मे नाहमित्यपरिशेषम्।अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥सां.का.६४
दीर्घकालं तत्त्वाभ्यासः भवति चेत् विशुद्धं ज्ञानं बुद्धौ उत्पद्यते।अहं (क्रियावान्) नास्मि, मम (स्वामिता) नास्ति, तथा अहं (कर्ता) न इति तस्य विशुद्धज्ञानस्य स्वरूपम्।एतत् ज्ञानं सात्त्विकबुद्धौ उत्पद्यते।
ज्ञानविरुद्धं सर्वम् अज्ञानम्।यथा ‘अहं क्रियावान् अस्मि’, ‘इदं मम अस्ति’, ‘अहं कर्ता अस्मि’ इति ।एतद् अज्ञानं तामसबुद्धौ उत्पद्यते।

विरागः अवैराग्यम् [सम्पाद्यताम्]

दृष्टानुश्रविकवितृष्णस्य वशीकारसंज्ञा वैराग्यम्।योगदर्शनम् १.१५
इहलोके भुज्यमानाः विषयाः दृष्टविषयाः।परलोके भुज्यमानाः विषयाः आनुश्रविकबिषयाः। एतेषु सर्वेषु विषयेषु तृष्णा विषयिणां जनानां विद्यते।सा यदा नष्टा भवति, तदा तद् विषय-वैतृष्ण्यम् उच्यते एतद् विषयवैतृष्ण्यं नाम बुद्धेः विरागः।अयं धर्मः सात्त्विकबुद्धौ एव सम्भवति। दृष्टविषयेषु तथा पारलौकिकविषयेषु तृष्णा नाम अवैराग्यम्।‘अयं विषयो मेऽस्तु’ ‘अयं विषयो मेऽस्तु’ इति तस्य अवैराग्यस्य स्वरूपम्।इदम् अवैराग्यं तामसबुद्धेः धर्मः।

ऐश्वर्यम् अनैश्वर्यं च-[सम्पाद्यताम्]

सात्त्विकबुद्धेः धर्मः ऐश्वर्यम्। तद् अष्टविधं भवति-
अणिमा महिमा मूर्तेर्लघिमाप्राप्तिरिन्द्रियैः।प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता।
गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति॥गौडपादाचार्यः

१ आणिमा २ महिमा ३ लघिमा ४ गरिमा ५ प्राप्तिः ६ प्राकाम्यं ७ वशित्वं ८ ईशित्वं
परमाणुवत् परमसूक्ष्मस्वरूपेणअवस्थानम् विभुत्वप्राप्तिः कार्पासवत् लघुभवनम् मेरुपर्वतवत् गुरुत्वभवनम् अङ्गुल्या चन्द्रमण्डलस्पर्शनम् सत्यसङ्कल्पत्वम् सर्वप्राणिनियन्तृत्वम् सर्वभूतोत्पादन-शक्तिमत्त्वम्

अनैश्वर्यम् एतस्मात् विरुद्धम्।तच्च तामसबुद्धेः धर्मः।
एतद् बुद्धेः ऐश्वर्यम् आयुर्वेदे अपि ‘आवेशश्चेतसः’ इत्यादिना प्रतिपादितम्-
आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया। दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्।।१४०।।
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्।शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते।।'च.शा.१.१४१।।

परशरीरप्रवेशः,परचित्तस्य ज्ञानम् ,स्वेच्छया अर्थसाधनं, अतीन्द्रियदर्शनं, अतीन्द्रियश्रवणं, स्मरणं, अमानुषं तेजः,स्वेच्छया दर्शनम् अदर्शनं वा इति अष्टविधं योगिजनानाम् ऐश्वरं बलम् उच्यते। तत् सर्वं शुद्धचित्तस्य आत्मनि स्थिरीकरणात् भवति।
आवेश इत्यादि। आवेशः परपुरप्रवेशः। चेतसः ज्ञानम् इति परचित्तज्ञानम्। अर्थानां छन्दतः क्रिया इति अर्थानाम् इच्छातः करणम्। दृष्टिः अतीन्द्रियदर्शनम्। श्रोत्रम् अतीन्द्रिय-श्रवणम्। स्मृतिः सर्वभावतत्त्वस्मरणम्। कान्तिः अमानुषी कान्तिः। इष्टतः च अपि अदर्शनम् इति यदा इच्छति तदा दर्शनयोग्य एव न दृश्यते, यदा च इच्छति तदा दृश्यते। किंवा, आवेशः चेतसः इति परचेतसः प्रवेशः, ज्ञानम् इति सर्वम् अतीत-अनागत-आदिज्ञानं, शेषं पूर्ववत्। ऐश्वरमिति योगप्रभावाद् उपपन्नैश्वर्यकृतम्। शुद्धसत्त्वसमाधानाद् इति नीरजस्तमस्कस्य मनसः आत्मनि सम्यग् आधानात्। - चक्रपाणिः
ऐश्वरपदस्य अर्थं प्रतिपादयति चक्रपाणिः - ‘ऐश्वरमिति योगप्रभावाद् उपपन्नैश्वर्यकृतम् इति ।
अध्यवसायो बुद्धिः धर्मो ज्ञानं विराग ऐश्वर्यम्। –साङ्ख्यकारिका २३
योगिनां वुद्धेः विशेषः ऐश्वर्यम् इति उच्यते।योगप्रभावात् एतद् ऐश्वर्यं प्राप्यते। ‘तस्माद् ऐश्वर्यात् उत्पन्नं बलम्’ इति ऐश्वरशब्दस्य अर्थः।चक्रपाणिना प्रतिपादितः अर्थः अयमेव। आवेशः चेतसाम् इत्यादिभिः उक्तं यद् ऐश्वरं बलं, तत् कथं जायते इति आकाङ्क्षायां वदति मुनिः
शुद्धसत्त्वसमाधानात् तत् सर्वम् उपजायते
इति। अत्र सत्त्वं मनः।शुद्धम् इति रजस्तमोरहितं सत्त्वमात्रम्।तादृशस्य रजस्तमोरहितस्य मनसः आत्मनि स्थिरीकरणं शुद्धसत्त्वसमाधानम्।तस्मात् समाधानात् एतद् ऐश्वरं बलमुपजायते इत्यर्थः।
याज्ञवल्क्येन मुनिना ऐश्वरं बलमेवम् अभिहितम्
अन्तर्ध्यानं स्मृतिः कान्तिः दृष्टिः श्रोत्रज्ञता तथा।निजं शरीरमुत्सृज्य परकायप्रवेशनम्॥२०२
अर्थानां छन्दतः सृष्टिः योगसिद्धेश्च लक्षणम्।सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते॥२०३याज्ञ.स्मृति: यतिधर्मप्र.
एवं सात्त्विकबुद्धेः यद् ऐश्वर्यं तत् साङ्ख्यशास्त्रे आयुर्वदे च समानमेव अभिहितम्।

महतः प्रामुख्यम् – [सम्पाद्यताम्]

सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्।तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि।सां.का.३५
अन्तःकरणमत्र मनः तथा अहङ्कारः।एताभ्यां सहिता बुद्धिः सान्तःकरणा बुद्धिः।सा सर्वस्य विषयस्य निश्चयं कुरुते। अतः मनः , बुद्धिः तथा अहङ्कारः इति एतेषां त्रयाणां करणानां ‘द्वारि’ इति संज्ञा भवति। द्वारि इत्युक्ते द्वारेण युक्तम्।तर्हि द्वारं किम्? बाह्येन्द्रियाणि द्वाराणि।एवं बाह्येन्द्रियाणाम् अपेक्षया मनोबुद्ध्यहङ्काररूपम् अन्तःकरणं प्रमुखम् इति सूचितम्।
एवं बाह्येन्द्रियाणाम् अपेक्षया अन्तःकरणस्य प्रामुख्यम् उक्तम्।मनः बुद्धिः अहङ्कारः इति अन्तःकरणे अपि बुद्धिः एव मनोऽहङ्कारापेक्षया मुख्या अस्ति
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः।कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति॥सां.का.३६
बाह्यानि इन्द्रियाणि, मनः, बुद्धिः तथा अहङ्कारः इति एते गुणविशेषाः।त्रिगुणानाम् एते विशेषाः इत्यर्थः।सत्त्वरजस्तमांसि वस्तुतः परस्परं विलक्षणाः गुणाः।तेषाम् एते विशेषाः अपि परस्परं विलक्षणाः।तथापि ते पुरुषस्य सकलम् अर्थं साधयन्ति।पुरुषस्य अर्थ इत्युक्ते भोगः मोक्षः च।
अत्र प्रदीपस्य दृष्टान्तः अनुसन्धेयः।प्रदीपे तैलं वर्तिः तथा अग्निः इति त्रयः पदार्थाः सन्ति। ते परस्परं विलक्षणाः सन्ति।तथापि परस्परं विरोधं विस्मृत्य ते पदार्थं प्रकाशयन्ति। एवमेव इन्द्रियादयः गुणविशेषाः परस्परं वैरं विस्मृत्य पुरुषस्य अर्थं साधयन्ति।
एते इन्द्रियादयः गुणविशेषाः किं स्वतन्त्ररीत्या पुरुषस्य अर्थं साधयन्ति? न। एते स्वीयं स्वीयमर्थं प्रकाशयन्ति, बुद्धिं प्रति यच्छन्ति च।बाह्येन्द्रियं प्रथमं विषयालोचनं करोति।ततः मनः तद्विषये सङ्कल्पयति।अहङ्कारः तद्विषये ‘इदं मम’ इति अभिमानं धारयते।विषयालोचनं, सङ्कल्पः तथा अभिमननम् इति एते त्रयः अपि व्यापाराः अग्रे परिणताः भवन्ति, बुद्धिं प्रति गच्छन्ति च। ततः बुद्धिः पुरुषस्य अर्थं साधयति। अतः अत्रापि बुद्धेः एव प्रामुख्यं वर्तते।
एवं बाह्यकरणानाम् अपेक्षया मनोबुद्ध्यहङ्काररूपम् अन्तःकरणं प्रामुख्येन वर्तते। मनोबुद्ध्यहङ्काररूपे अन्तःकरणे अपि बुद्धिः एव प्रामुख्येन वर्तते।
सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः।सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम्॥सां.का.३७
एवं पुरुषस्य प्रत्येकम् उपभोगं बुद्धिः एव साधयति।सा एव प्रधानपुरुषयोः विद्यमानं सूक्ष्मम् अन्तरं स्पष्टीकरोति।अतः सा मुख्यमन्तःकरणम्।

बुद्धेः परिणामविशेषाः साङ्ख्यमते[सम्पाद्यताम्]

महत्तत्त्वम् इन्द्रियद्वारेण बहिः विषयं प्रति गच्छति।विषयं गत्वा विषयाकारं भवति।तदा घटः पटः इत्यादिः तस्य महतः आकारः भवति।एषः बुद्धेः परिणामः वृत्तिः इति उच्यते। इष्टविषयं बुद्ध्वा बुद्धिः सुखाकारा भवति।अयं बुद्धेः परिणामः सुखवृत्तिः।अनिष्टं विषयं प्राप्य बुद्धिः दुःखाकारा भवति।एषः परिणामः बुद्धेः दुःखवृत्तिः।एवं ज्ञानं, सुखं, दुःखं, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, संस्कारः धृतिः इति एते सर्वे बुद्धेः परिणामाः एव।
धृतिरपि वृत्तिविशेषः एव बुद्धेः। भ.गीता १८- ३० शाङ्करभाष्यम्

बुद्धेः त्रैविध्यम् - [सम्पाद्यताम्]

सत्त्वरजस्तमोगुणेषु यस्य गुणस्य प्राबल्यं बुद्धौ भवति, तथा तथा सा भवति।सत्त्वप्राबल्यात् बुद्धिः सात्त्विकी भवति, रजःप्राबल्यात् सा राजसी भवति, तमःप्राबल्यात् सा तामसी भवति।तासां लक्षणानि एवम्

सात्त्विकी बुद्धिः -[सम्पाद्यताम्]

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ भ.गीता १८- ३०॥
कस्मिन् कार्ये प्रवर्तनं, कस्मात् कार्यात् निवर्तनम् इति सात्त्विकी बुद्धिः जानाति।किं करणीयं, किं न करणीयम् इति सा जानाति।भयकारणं किम् अभयकारणं किम् इति सा जानाति।बन्धः केन भवति, मोक्षः केन भवति इति अपि सा जानाति।

राजसी बुद्धिः -[सम्पाद्यताम्]

यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ भ.गीता १८- ३१॥
राजसी बुद्धिः धर्मम् अधर्मं कार्यम् अकार्यं वा यथावत् न जानाति।सर्वतः न जानाति, अंशतः जानाति इत्यर्थः।

तामसी बुद्धिः - [सम्पाद्यताम्]

अधर्मं धर्ममिति या मन्यते तमसावृता ।सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ भ.गीता १८- ३२॥
तामसी बुद्धिः अधर्मं धर्मत्वेन जानाति, धर्मं च अधर्मत्वेन जानाति।एवं सर्वान् अर्थान् सा विपरीतं जानाति।

धृतेः त्रैविध्यम् [सम्पाद्यताम्]

धृतिः अपि बुद्धेः एव परिणामविशेषः इति पूर्वम् उक्तम्।सापि त्रिविधा भवति। सत्त्वप्राबल्यात् धृतिः सात्त्विकी भवति, रजःप्राबल्यात् राजसी भवति, तमःप्राबल्यात् च तामसी भवति।तासां लक्षणानि इत्थम् -

सात्त्विकी धृतिः - [सम्पाद्यताम्]

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ भ.गीता १८- ३३॥
मनसः प्राणानाम् इन्द्रियाणां नानाविधाः क्रियाः सर्वदा घटन्ते।तासु क्रियासु काश्चन शास्त्रीयमार्गेण प्रवृत्ताः भवन्ति, कदाचित् काश्चित् क्रियाः अशास्त्रीयमार्गेण अपि प्रवृत्ताः भवन्ति।यदि धृतिः सात्विकी अस्ति, तर्हि मनःप्राणेन्द्रियक्रियाः अशास्त्रीयमार्गेण न प्रवर्तन्ते। सात्त्विकी धृतिः ताः क्रियाः अशास्त्रीयमार्गात् धारयते रक्षति इत्यर्थः।

राजसी धृतिः [सम्पाद्यताम्]

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ भ.गीता १८- ३४॥
राजसी धृतिः धर्मकार्यम् अर्थकार्यम् कामकार्यं वा मनसि कर्तव्यतया धारयते।परं तत्र फलाकाङ्क्षा विद्यते।धर्मस्य वा अर्थस्य वा कामस्य वा प्रसङ्गेन तत् तत् फलं सः पुरुषः इच्छति।

तामसी धृतिः [सम्पाद्यताम्]

यया स्वप्नं भयं शोकं विषादं मदमेव च ।न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ भ.गीता १८- ३५॥
धृतिः यदि तामसी अस्ति, तर्हि सः पुरुषः स्वप्नं, भयं, शोकं, विषादं तथा मदं नैव त्यजति, सततं धारयति एव।

अधुना आयुर्वेदे महत्तत्वस्य विचारं पश्यामः।

बुद्धेः परिणामविशेषाः आयुर्वेदमते [सम्पाद्यताम्]

ज्ञानं, सुखं, दुःखं, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, संस्कारः धृतिः इति एते सर्वे बुद्धेः परिणामाः एव इति साङ्ख्यमतं पूर्वम् उद्धृतम्।चरकसंहितायां बुद्धेः परिणामाः एवमुक्ताः -

या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते। याति सा तेन निर्देशं मनसा च मनोभवा॥च.शा.१.३२॥
मनुष्यस्य या बुद्धिः यद् इन्द्रियम् आश्रित्य ज्ञानग्रहणे प्रवर्तते,सा बुद्धिः तेन इन्द्रियेण निर्देशं लभते। या बुद्धिः मनसा ज्ञानग्रहणे प्रवर्तते, सा बुद्धिः मनोभवा बुद्धिः इति निर्देशं लभते।अयं सूत्रार्थः।

सम्प्रति प्रकृतिगणप्रविष्टायाः बुद्धेः उपदर्शनार्थं तस्याः बुद्धेः वृत्तिभेदात् ज्ञानविशेषरूपाणि आह - या इत्यादि। यद् इन्द्रियम् आश्रित्य इति यदिन्द्रियप्रणालिकाम् आश्रित्य महत्-शब्द-आख्यस्य बुद्धितत्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानि इन्द्रियप्रणालिकया भवन्ति, तदिन्द्रिय-जन्यत्वेन एव तानि व्यपदिश्यन्ते- चक्षुर्बुद्धिः, श्रोत्रबुद्धिः इत्यादिव्यपदेशेन।मनो-भवा च बुद्धिः चिन्त्यादिविषया मनसा निर्दिश्यते; मनोबुद्धिः इति व्यपदिश्यते इत्यर्थः।- च.शा.१.३२ चक्रपाणिः
टीकायाः आशयः एषः

बुद्धिःश्रोत्रेन्द्रियद्वारा शब्दं गृह्णाति अतः शब्दज्ञानं = श्रोत्रबुद्धिः
बुद्धिःस्पर्शनेन्द्रियद्वारा स्पर्शं गृह्णाति अतः स्पर्शज्ञानं= स्पार्शनबुद्धिः
बुद्धिःचक्षुरिन्द्रियद्वारा रूपं गृह्णाति अतः रूपज्ञानं = चाक्षुषबुद्धिः
बुद्धिःरसनेन्द्रियद्वारा रसं गृह्णाति अतः रसज्ञानं = रासनबुद्धिः
बुद्धिः घ्राणेन्द्रियद्वारा गन्धं गृह्णाति अतः गन्धज्ञानं= घ्राणबुद्धिः
बुद्धिः मनोद्वारा चिन्त्यं गृह्णाति अतः चिन्त्यज्ञानं = मनोभवा बुद्धिः

यदिन्द्रियम् आश्रित्य, यदिन्द्रियप्रणालिकाम् आश्रित्य तथा यदिन्द्रियद्वारा इति एतेषां शब्दप्रयोगाणाम् अर्थः समानः।
बुद्धेः परिणामविशेषाः इतोऽपि सन्ति-
भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः।'च.शा.१.३३
कार्यस्य, इन्द्रियार्थस्य च नाना भेदाः भवन्ति।तदनुसारं बुद्धयः अपि नैकाः सम्भवन्ति।एषः सूत्रार्थः।
इन्द्रियमनोभेदेन षट्त्वं बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्राह- भेदाद् इत्यादि। कार्यस्य इन्द्रियार्थस्य च भेदात् तत्सम्बन्धेन भिद्यमाना बह्व्यो बुद्धयः भवन्ति; कार्यं सुखदुःखभेदाः; सुख-दुःखप्रपञ्चेन हि तत्कार्येण कारणं ज्ञानमपि बहु भवति।-च.शा.१.३३ चक्रपाणिः
टीकायाः आशयः एवम् - पूर्वतनवचने बुद्धेः षड् भेदाः प्रतिपादिताः।तत्र भेदकोपाधिः आसीत् आश्रयभूतं करणम्। अधुना अपरं भेदकोपाधिम् आदाय बुद्धेः भेदान् प्रतिपादयति सूत्रकारः।
प्रथमः भेदकोपाधिः अस्ति कार्यम्।सुखं वा दुःखं वेति ज्ञानस्य कार्यम्।यद् ज्ञानं सुखं जनयति, तत् सुखबुद्धिः इति व्यपदिश्यते।यद् ज्ञानं दुःखं जनयति, तद् दुःखबुद्धिः इति व्यपदिश्यते। मिष्टान्नं दृष्ट्वा क्षुधितस्य सुखं जायते।अतः मिष्टान्नदर्शनं चाक्षुषबुद्धिः सुखबुद्धिः च। रिक्तपात्रं दृष्ट्वा तस्य एव क्षुधितस्य दुःखं भवति।रिक्तपात्रदर्शनम् इति चाक्षुषबुद्धिः दुःखबुद्धिः च।
एवं सुखदुःखयोः विस्तरः सम्भवति।सुखदुःखविस्तरः इत्युक्ते सुखदुःखप्रपञ्चः।सः सुखदुःखप्रपञ्चः ज्ञानस्य कार्यम्।तेन ज्ञानकार्येण वुद्धिः अपि बहुविधा भवतीति विवृणोति चक्रपाणिः सुखदुःखप्रपञ्चेन इति वचने।
अपरः भेदकोपाधिः अत्र उक्तः इन्द्रियार्थाः।नैके भवन्ति इन्द्रियार्थाः।तदनुसारं बुद्धिः अपि भवति बहुविधा।कोकिलरवः इति शब्दः श्रोत्रेन्द्रियस्य अर्थः।तस्य श्रवणम् इति शाब्दबुद्धिः। श्रोत्रेन्द्रियेण स शब्दः गृहीतः अतः सा श्रोत्रबुद्धिः अपि।स शब्दः सुखं जनयति अतः सुखबुद्धिः अपि भवति।मयूरनृत्यं दृष्टं चेत् सा रूपबुद्धिः। चक्षुषा रूपज्ञानं जातम् अतः सा चाक्षुषबुद्धिः अपि। मयूरनृत्यदर्शनेन सुखं भवतीति सा सुखबुद्धिः अपि।
बुद्धेः वैविध्यस्य कानिचन उदाहरणानि प्रकोष्ठे संस्थाप्य प्रदर्श्यन्ते

ज्ञानम् इन्द्रियार्थानुसारं निर्देशः इन्द्रियानुसारं निर्देशः सुखदुःखानुसारं निर्दशः
दमयन्त्याः नलनामश्रवणम् शाब्दबुद्धिः श्रोत्रबुद्धिः सुखबुद्धिः
शकुन्तलायाः शापवाणीश्रवणम् शाब्दबुद्धिः श्रोत्रबुद्धिः दुःखबुद्धिः
संसारतप्तस्य पुत्रगात्रसंस्पर्शः स्पर्शबुद्धिः स्पार्शनबुद्धिः सुखबुद्धिः
ग्रीष्मतप्तस्य उष्णोदकस्पर्शः स्पर्शबुद्धिः स्पार्शनबुद्धिः दुःखबुद्धिः
क्षुधितस्य अन्नदर्शनम् रूपबुद्धिः चाक्षुषबुद्धिः सुखबुद्धिः
क्षुधितस्य रिक्तपात्रदर्शनम् रूपबुद्धिः चाक्षुषबुद्धिः दुःखबुद्धिः
निम्बस्वरसास्वादः रसबुद्धिः रासनबुद्धिः सुखबुद्धिः
आम्ररसास्वादः रसबुद्धिः रासनबुद्धिः दुःखबुद्धिः
सुरभिगन्धः गन्धबुद्धिः घ्राणबुद्धिः सुखबुद्धिः
असुरभिगन्धः गन्धबुद्धिः घ्राणबुद्धिः दुःखबुद्धिः
रोगमुक्तस्य कर्तव्यचिन्तनम् चिन्त्यबुद्धिः मनोभवा बुद्धिः सुखबुद्धिः
रुग्णस्य कर्तव्यचिन्तनम् चिन्त्यबुद्धिः मनोभवा बुद्धिः दुःखबुद्धिः

प्रज्ञापराधः [सम्पाद्यताम्]

प्रज्ञा इति बुद्धिः।तया कृतः अपराधः प्रज्ञापराधः।रोगाणां मुख्यभूताः ये त्रयः हेतवः सन्ति तेषु अन्यतमः हेतुः प्रज्ञापराधः ।
धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्।असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः॥च.शा.१.९८॥
धीधृतिस्मृतयः प्रज्ञाभेदाः।एते च शिष्यव्युत्पत्त्यर्थं प्रज्ञाभेदत्वेन अन्यथा व्युत्पाद्य इह उच्यन्ते। - चक्रपाणिः

स्वस्थस्य स्वास्थ्यरक्षणार्थम् एतेषां दुःखहेतूनां परिहारः आवश्यकः।एतेषु प्रज्ञापराधस्य परिहारे बुद्धेः साहाय्यम् भवति।

तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिर्हेतुभिः; तद्यथा - सात्म्येन्द्रियार्थसंयोगेन बुद्ध्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक् प्रतिपादनेन..। - च.सू.८.१७
...बुद्ध्या सम्यगिदं मम हितमिदं ममाहितमित्यवेक्ष्यावेक्ष्य। कर्मणां प्रवृत्तीनां सम्यक् प्रतिपादनेनेति अहितकर्मपरित्यागेन हितकर्माचरणेन च। एतेन प्रज्ञापराधमूलाहितप्रवृत्तिनिषेधेन हितार्थप्रवृत्त्युपदेशः कृतो भवति। एतेन चासात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिहाराभ्यामनागताबाध-प्रतिषेधरूपा चेष्टोक्ता भवति...। -चक्रपाणिः।
अध्यवसायः बुद्धेः कर्म इति साङ्ख्यैः उक्तम्। तदेव अभ्युपगम्यते आयुर्वेदे। अध्यवसायः निश्चयः।अतः बुद्धिः यदि सम्यक् अध्यवसायं करोति, तर्हि प्रज्ञापराधस्य सम्भवः नास्ति।बुद्धिः यदि सम्यक् अध्यवसायं न करोति, तर्हि प्रज्ञापराधः सुनिश्चितः।प्रज्ञापराधे सति रोगोत्पत्तिः अपि ध्रुवा।अतः स्वास्थ्यं रक्षणीयं चेत् प्रज्ञापराधः मास्तु।तदर्थं प्रज्ञायाः कार्यं सम्यक् भवितुम् अर्हति।
बुद्धेः अपराधः नाम धीविभ्रंशः, धृतिविभ्रंशः, स्मृतिविभ्रंशः च।एतेषु प्रत्येकं विवृणोति पुनर्वसुः मुनिः।

धीविभ्रंशः –[सम्पाद्यताम्]

विषमाभिनिवेशो यो नित्यानित्ये हिताहिते। ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति॥च.शा.१.९९॥
नित्यं किम् अनित्यं किम् हितं किम् अहितं किम् इति अस्मिन् विषये यः अथार्थः निश्चयः, सः एव बुद्धेः भ्रंशः।यतो हि समा बुद्धिः यथार्थं निश्चयं करोति।अयं सूत्रार्थः।
धीविभ्रंशं विवृणोति विषमेत्यादि।विषमाभिनिवेशः अयथाभूतत्वेन अध्यवसानं नित्ये अनित्यम् इति, एवं हिते अहितम् अहिते वा हितम् इति या बुद्धिः सः बुद्धिभ्रंशः। अथ कथम् अयं बुद्धिविभ्रंशशब्देन उच्यते इति आह समं बुद्धिः हि पश्यति उचिता बुद्धिः समं यथाभूतं यस्मात् पश्यति, तस्माद् असमदर्शनं बुद्धिविभ्रंशः उचितः एव इति अर्थः।।च.शा.१.९९ चक्रपाणिः

धीभ्रंशस्य एकमुदाहरणम् अत्रोच्यते।यथा कश्चन वातलः देवदत्तः ‘अभ्यङ्गः मदर्थम् अहितकरः’ इति मन्यते।हितविषये अहितनिश्चयं कुर्वन्ती तस्य एषा बुद्धिः सापराधा।
स एव वातलः देवदत्तः ‘‘कलायः मदर्थं हितकरः’ इति मन्यते। अहितविषये हितनिश्चयं कुर्वन्ती एषा अपि तस्य बुद्धिः सापराधा एव।
विषमाभिनिवेशः अधः कोष्ठके स्पष्टः भविष्यति

समाभिनिवेशः = बुद्धिसाम्यम् नित्ये नित्यत्वदर्शनम् अनित्ये अनित्यत्वदर्शनम् हिते हितत्वदर्शनम् अहिते अहितत्वदर्शनम्
विषमाभिनिवेशः=बुद्धिविभ्रंशः नित्ये अनित्यत्वदर्शनम् अनित्ये नित्यत्वदर्शनम् अहिते हितत्वदर्शनम् हिते अहितत्वदर्शनम्

धृतिविभ्रंशः - [सम्पाद्यताम्]

विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते।नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका॥च.शा.१.१००॥
यदा धृतिभ्रंशः भवति, तदा विषयासक्तं चित्तम् अहिताद् विषयात् व्यावर्तयितुं न शक्यते यतो हि धृतिः नियमनस्वरूपा अस्ति।एषः सूत्रार्थः।
धृतिभ्रंशम् आह- विषयेत्यादि। विषयप्रवणं विषयेषु प्रसज्जत्। नियन्तुम् इति व्यावर्तयितुम्। धृतिः हि नियमात्मिका इति यस्माद् धृतिः अकार्यप्रसक्तं मनः निवर्तयति स्वरूपेण, तस्मात् मनो-नियमं कर्तुम् अशक्ता धृतिः स्वकर्मभ्रष्टा भवति इति अर्थः॥ -च.शा.१.१०० चक्रपाणिः

धृतिभ्रंशस्य इदमुदाहरणम्।यथा वातलः देवदत्तः ‘कलायो मदर्थम् अहितकरः’ इति जानन् अपि कलायास्वादलुब्धः सन् कलायं भक्षयितुं प्रवर्तते।यदि धृतिः समा, तर्हि सा तस्य मनः कलायात् निवर्तयति।यदि धृतिः भ्रष्टा, तर्हि सा देवदत्तस्य चित्तं नियमयितुम् असमर्था। अस्याम् अवस्थायां प्रज्ञापराधः ध्रुवं भविष्यति।
‘कलायो मदर्थम् अहितकरः’ इति अहितविषये अहितनिश्चयः देवदत्तस्य अस्ति अतः अयं धीभ्रंशः न।अयं धृतिभ्रंशः एव।

समा धृतिः ‘कलायो मदर्थम् अहितकरः’ इति जानन् देवदत्तः प्रियादपि कलायात् निवर्तते।
भ्रष्टा धृतिः ‘कलायो मदर्थम् अहितकरः’ इति जानन् अपि देवदत्तः कलायास्वादलुब्धः सन् कलायं भक्षयितुं प्रवर्तते।

स्मृतिभ्रंशः [सम्पाद्यताम्]

तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः।भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्॥च.शा.१.१०१॥
यस्य मनः रजोगुणेन मोहेन वा आवृतं भवति, तेन तत्त्वज्ञानविषये स्मृतिः न भवति, तस्य तद् अस्मरणं नाम स्मृतिभ्रंशः य़तो हि स्मरणं स्मृतिकार्यम्।सूत्रार्थः अयम्।
सूत्रे तत्त्वज्ञाने इति सप्तम्यन्तं पदं विद्यते।विषयसप्तमी एषा।तत्त्वज्ञानविषये इति अर्थः। हितविषयस्य हितप्रकारकज्ञानं तथा अहितविषयस्य अहितप्रकारकं ज्ञानम् अत्र तत्त्वज्ञानम्।

स्मृतिभ्रंशं विवेचयति तत्त्वेत्यादि।तत्त्वज्ञाने स्मृतिः यस्य भ्रश्यते इति योजना। स्मर्तव्यं हि स्मृतौ स्थितम् इति स्मर्तव्यत्वेन सम्मतस्य अर्थस्य स्मरणं प्रशस्तस्मृतिधर्मः। तत्र च तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन सम्मतस्य यदस्मरणं, तत् स्मृति-अपराधाद् भवतीति अर्थः। - च.शा.१.१०१ चक्रपाणिः
अस्यैतद् उदाहरणम्।वातलेन देवदत्तेन ‘कलायः ते अहितकरः’ इति कुतश्चिद् आप्तात् अवगतम्। कलायात् चित्तं निवर्तयितुं सः धृत्या समर्थः।तथापि कलायभोजने प्राप्ते यदि स आप्तवाक्यं न स्मरति तर्हि सः कलायं भक्षयति इति ध्रुवम्।यदि तदा देवदत्तः आप्तोपदेशं स्मरेत् , तर्हि कलायात् मनः निवर्तयेदपि।अतः अयं न धीभ्रंशः, न वा धृतिभ्रंशः।अयं स्मृतिभ्रंशः।यत् स्मरणीयं, तत् काले यदि न स्मर्यते तर्हि सः स्मृत्यपराधः मन्तव्यः। अतः एव उपदिश्यते तस्मादात्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम्।- च.सू.८.१७ तस्मात् कारणादात्महितं कर्तुमिच्छता, स्मृतिमास्थायावधानेन सद्वृत्तोपदेशं स्मृत्वेत्यर्थः, सतां वृत्तमनुष्ठानं देहवाङ्मनःप्रवृत्तिरूपं सद्वृत्तमनुष्ठेयम्। च.सू.८.१७ चक्रपाणिः

समा स्मृतिः कलाये पुरतः उपस्थिते,‘कलायभक्षणं मे अहितम्’ इति देवदत्तः स्मरति।
भ्रष्टा स्मृतिः कलाये पुरतः उपस्थिते,‘कलायभक्षणं मे अहितम्’ इति देवदत्तः न स्मरति।

सङक्षेपतः
धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्। प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्॥च.शा.१.१०२॥
य़स्य धीः भ्रष्टा भवति, धृतिः भ्रष्टा भवति अथवा स्मृतिः भ्रष्टा भवति, सः नरः अशुभं कर्म आचरति।सः प्रज्ञापराधः।एषः सर्वदोषाणां प्रकोपं करोति।एषः सूत्रस्य अर्थः। एवं बुद्धि-आदिभ्रंश-त्रयरूप-प्रज्ञापराध-जन्यं कर्म प्रज्ञापराधत्वेन दर्शयन् आह धी-इत्यादि। सर्वदोष-शब्देन वातादयः रजस्तमसी च गृह्यन्ते।- च.शा.१.१०२ चक्रपाणिः

प्रज्ञापराधशब्दस्य अर्थः-[सम्पाद्यताम्]

बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्।प्रज्ञापराधं जानीयात् ॥च.शा.१.१०९॥
बुद्ध्याः विषमं ज्ञानं तथा विषमं वर्तनम् इति एतद् उभयम् अपि प्रज्ञापराधसंज्ञकम्।अयं सूत्रार्थः।अस्मात् अर्थात् सन्देहः उत्पद्यते - प्रज्ञापराधशब्दस्य अर्थः कः? धीधृतिस्मृतिविभ्रंशः अथवा धीधृतिस्मृतिविभ्रंशजन्यम् अशुभं कर्म?अथवा उभयमपि?एतं सम्भाव्यं सन्देहं निराकरोति चक्रपाणिः बुद्ध्यादिवचनेन।
एवं बुद्धि-आदिभ्रंश-त्रयरूप-प्रज्ञापराध-जन्यं कर्म प्रज्ञापराधत्वेन दर्शयन् आह धी-इत्यादि। च.शा.१. १०२ चक्रपाणिः
अग्रे अपि अमुमेव अर्थं प्रतिपादयति चक्रपाणिः –
सङ्क्षेपेण प्रज्ञापराध-लक्षणम् आह बुद्ध्या इत्यादि । विषमम् इति अनुचितं, विषमविज्ञानं स्वरूपतः एव प्रज्ञापराधः। विषमप्रवर्तनं च प्रज्ञापराध-कार्यत्वेन प्रज्ञापराधशब्देन उच्यते।' -च.शा.१.१०९ चक्रपाणिः

एवमत्र निर्धार्यते- प्रज्ञापराधशब्दस्य मुख्यः अर्थः धीधृतिस्मृतिविभ्रंशः। धीधृतिस्मृति-विभ्रंशजन्ये अशुभे कर्मणि अपि ‘प्रज्ञापराधः’ इति शब्दः प्रयुज्यते।परं न स अस्य शब्दस्य मुख्यार्थः। ‘धीधृतिस्मृतिविभ्रंशजन्यम् अशुभं कर्म’ इति तस्य गौणः अर्थः। धीधृतिस्मृतिविभ्रंशः इति कारणम्।अशुभं कर्म कति कार्यम्। कार्यकारणयोः अभेदं मत्त्वा कार्यस्य उल्लेखः अपि कारणवाचकेन शब्देन क्रियते इति चक्रपाणेः आशयः।

प्रज्ञापराधशब्दस्य मुख्यः अर्थः----- धीधृतिस्मृतिविभ्रंशः (कारणम्)
प्रज्ञापराधशब्दस्य गौणः अर्थः----- धीधृतिस्मृतिविभ्रंशजन्यम् अशुभं कर्म (कार्यम्)

‘उदीरणं गतिमताम्’ इत्यादीनि अस्मिन् सूत्रे अग्रे उक्तानि कर्माणि नाम प्रज्ञापराधजन्यम् अशुभं कर्म।तथापि तेषामत्र उल्लेखः ‘प्रज्ञापराधः’ इत्येव क्रियते इति चक्रपाणेः आशयः।
ननु प्रज्ञापराधात् रजस्तमसोः प्रकोपः भवति इति चक्रपाणिः वदति।
सर्वदोष-शब्देन वातादयः रजस्तमसी च गृह्यन्ते।- च.शा.१.१०२ चक्रपाणिः
अनेन वचनेन अन्योन्याश्रयः दोषो जायते ।यतो हि
...कर्म रजो-मोह-समुत्थितम्।प्रज्ञापराधं तं शिष्टाः ब्रुवते...। च.शा.१.१०८
रजस्तमोभ्यां प्रज्ञापराधः भवति इति मुनिवचनम्।प्रज्ञापराधात् रजस्तमसोः प्रकोपः भवतीति चक्रपाणिः वदति। अनेन प्रज्ञापराधात् रजस्तमसोः प्रकोपः तथा रजस्तमसोः प्रकोपात् प्रज्ञापराधः इति अन्योन्याश्रयः दोषः।

कारणम् ….. कार्यम्
प्रज्ञापराधः ….. रजस्तमसोः प्रकोपः
कार्यम् ….. कारणम्
                   अन्योन्याश्रयः

एवं प्राप्ते ब्रूमः। बीजवृक्षन्यायेन अदोषम् इदम्।कस्माच्चिद् बीजाद् वृक्षः, तस्माद् वृक्षाद् अपरं बीजम् इति अत्र अन्योन्याश्रयदोषः न दीयते, तत्परम्परायाः अनादित्वात्।अत्र प्रज्ञापराधात् रजस्तमःप्रकोपः, रजस्तमःप्रकोपात् नवीनः प्रज्ञापराधः इति एषा अपि परम्परा अनादिः, तस्माद् अत्र अन्योन्याश्रयदोषः न शङ्कनीयः।

कारणम् कार्यम्
प्रज्ञापराधः रजस्तमसोः प्रकोपः नूतनः प्रज्ञापराधः
कारणम् कार्यम्
                  अन्योन्याश्रयदोषः न

प्रज्ञापराधस्य विस्तरः[सम्पाद्यताम्]

प्रज्ञापराधस्य कतिपयानि उदाहरणानि पुनर्वसुना उक्तानि यथा -
उदीरणं गतिमतामुदीर्णानां च निग्रहः।सेवनं साहसानां च नारीणां चातिसेवनम्॥१०३॥
कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्।विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्॥१०४॥
ज्ञातानां स्वयमर्थानामहितानां निषेवणम् |परमौन्मादिकानां च प्रत्ययानां निषेवणम्॥१०५॥
अकालादेशसञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः।इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्॥१०६॥
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः।तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च॥ च.शा.१.१०७॥
अग्रे उक्तम् -
यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्। प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् ॥च.शा.१.१०८॥
यच्च अन्यद् ईदृशं रजोमोहसमुत्थितं कर्म इति सङ्क्षेपतः मुनिना उक्तम्।कानि कर्माणि रजःसमुत्थितानि, कानि च तमःसमुत्थितानि इति तु शास्त्रान्तराद् अवगन्तव्यम्।महाभारतात् सङ्कलितानि कानिचन कर्माणि दिङ्मात्रम् अत्र लिख्यन्ते।एतानि प्रज्ञापराधे अन्तर्भवन्ति
प्रज्ञापराधः

१ रजोदुष्ट-बुद्ध्या विनिश्चितानि कायकर्माणि[सम्पाद्यताम्]

कर्म सन्दर्भः
अत्यशनम् शान्ति३०१.२१
अतिव्यायामः आश्व.३७.३
धर्मार्थकामपरत्वं आश्व.३७.१४
दान-प्रतिग्रह-जप-होमपरत्वं आश्व.३७.१६
चलत्वम् आश्व.३७.३
स्तेनकर्म आश्व.३७.१२
प्रमादः आश्व.३७.७
व्यूहवत्त्वं आश्व.३७.७
परिग्रहः आश्व.३७.७
प्रजागरूकत्वं आश्व.३७.१२

२ रजोदुष्ट-बुद्ध्या विनिश्चितानि मनःकर्माणि[सम्पाद्यताम्]

कर्म सन्दर्भः
अकारुणिकत्वं (शान्ति३०१.२१)
कामः (शान्ति३०१.२३)
क्रोधः (शान्ति३०१.२३)
ममता (आश्व.३७.३,११)
अतुष्टिः (शान्ति२१२.२७)
असत्कारः (शान्ति३०१.२२)
ईप्सा (आश्व.३७.३)
चिन्ताकुलता (शान्ति३०१.२२)
परितापः (शान्ति२१२.२७)
वैरोपसेवा (शान्ति३०१.२२)
दर्पः (शान्ति३०१.२३)
अनार्जवं (शान्ति३०१.२३)
निर्लज्जता (शान्ति३०१.२३)
मानः (आरण्यक२०३.६),
शोकः (शान्ति२१२.२७)
अनुरागः (आरण्य.२०३.६)
अभिद्रोहः (आश्व.३७.११)
आक्रोशः (आश्व.३७.५)
तृष्णाकुलत्वं (आश्व.३७.७)
मत्सरः (आश्व.३७.६)
चलत्वं (आश्व.३७.३)
ईर्ष्यालुत्वं (आश्व.३७.३)
अभ्यसूया (आरण्यक२०३.६)
प्रशंसाप्रियत्वं (आश्व.३७.६,९)
शूरता (आश्व.३७.३,६)
अनयः (आश्व.३७.७)
क्रयविक्रय-शीलं (आश्व.३७.३)
नृत्तवादित्रगीतप्रीतिः (आश्व.३७.१३),
द्यूतप्रीतिः (आश्व.३७.१३)
प्रेत्यलौकिकभावेच्छा (आश्व.३७.१६)
हरणशीलत्वं (शान्ति३०१.२३)

३ रजोदुष्ट-बुद्ध्या विनिश्चितानि वाक्कर्माणि[सम्पाद्यताम्]

कर्म सन्दर्भः
परमर्मावकर्तिवचनं (आश्व.३७.४)
वाचि प्रमादः (आश्व.३७.७)
विवादः (शान्ति३०१.२२)
विग्रहि वचनम् (शान्ति३०१.२१)
मृषावादित्वं (शान्ति२३९.२४),
निन्दा (आश्व.३७.६)
व्यूहयुतं वचनं (आश्व.३७.७),
पिशुनत्वं (आश्व.३७.३)
भेदि वचनम् (शान्ति३०१.२२)
चला वाणी (आश्व.३७.३)

४ तमोदूष्टबुद्ध्या विनिश्चितानि कायकर्माणि[सम्पाद्यताम्]

कर्म सन्दर्भः
अलसः (आरण्य.२०३.५),
भोजनेऽतृप्तिः (शान्ति३०१.२५),
स्वप्नशीलता (शान्ति३०१.२५),
प्रमादः (शान्ति२१२.२८),
वृथाभक्षणं (आश्व.३६.१९)
वृथारम्भः (आश्व.३६.१९),
भिन्नमर्यादं वर्तनम् (आश्व.३६.२०)

५ तमोदुष्टबुद्ध्या विनिश्चितानि मनःकर्माणि[सम्पाद्यताम्]

कर्म !सन्दर्भः
नास्तिक्यं आश्व.३६.१३
अविद्याबहुलत्वं आरण्य.२०३.५
भीरुता आश्व.३६.१२
अस्मृतिः आश्व.३६.१३
अकृते कृतमानिता आश्व.३६.१४
अक्षमा आश्व.३६.१८
अतितिक्षा आश्व.३६.२०
भिन्नमर्यादं चिन्तनम् आश्व.३६.२०
अत्यागः आश्व.३६.१८
मैत्रीराहित्यं आश्व.३६.१४
जघन्यगुणवृत्तिः आश्व.३६.१३
प्रमादः शान्ति२१२.२८
लोभः आश्व.३६.१२
नृत्तवादित्र-गीतश्रद्धा शान्ति३०१.२७
वृथादानं आश्व.३६.१९
अभिमानः आश्व.३६.१८

६ तमोदुष्टबुद्ध्या विनिश्चितानि वाक्कर्माणि[सम्पाद्यताम्]

कर्म सन्दर्भः
अतिवादः आश्व.३६.२०
वाचि प्रमादः शान्ति२१२.२८
सुकृतदूषणं आश्व.३६.१२
भिन्नमर्यादं वचनम् आश्व.३६.२०

एतानि सर्वाणि कर्माणि प्रज्ञापराधे अन्तर्भवन्ति।महत-तत्वस्य अपराधात् एतानि भचन्ति।
बुद्धेः अपराधाः दृष्टाः।इदानीं विविधेषु रोगेषु बुद्धितत्त्वस्य दुष्टिं पश्यामः।

बुद्धिः विविधरोगेषु[सम्पाद्यताम्]

१ बुद्धिः उन्मादे-[सम्पाद्यताम्]

उन्मादस्य सम्प्राप्तिः एषा
भीरूणामुपक्लिष्टसत्त्वानाम् ..........मनस्युपहते बुद्धौ च प्रचलितायाम् अभ्युदीर्णा दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम्।च.नि.७.४
उपक्लिष्टसत्त्वानामिति रजस्तमोभ्यामुपहतचेतसाम्।-चक्रपाणिः
अत्र रजः तमः च दोषौ ।तत्रापि रजः प्रधानदोषः।अतः बुद्धिविभ्रमः अस्मिन् रोगे जायते। बुद्धिः मनः च दूष्ये। उन्मादस्य सम्प्राप्तिः चिकित्सास्थाने अपि मुनिना उक्ता।तत्रापि अयमेवाशयः - तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य।स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः॥च.चि.९.५
तैरित्यादिना सम्प्राप्तिमाह। अल्पसत्त्वस्य अल्पसत्त्वगुणस्य। हृदयं यद्यपि बुद्धिनिवासत्वेनार्थेदश-महामूलीयादौ प्रतिपादितमेव; तथाऽपि बुद्धिनिवासत्वोपदर्शनमिह कृतं, हृदयोपघाताद्बुद्ध्युपघातो वक्ष्यमाणो युक्त एव; आश्रयोपघातेनाश्रितस्योपघातः सिद्ध एव।.....च.चि.९.५चक्रपाणिः

बुद्धेर्निवासं हृदयमित्यनेन हृदयस्य आश्रयस्य दुष्ट्या तदाश्रयस्य ज्ञानस्यापि दुष्टिर्भवतीति दर्शयति। – मा.नि.१० मधुकोशः

उन्मादलक्षणे अपि बुद्धेः दूष्यत्वम् उक्तम् -
उन्मादं पुनर्मनोबुद्धिसञ्ज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात्।च.नि.७.५
.....विभ्रममिति मनःप्रभृतिभिः प्रत्येकं सम्बध्यते। अत्र मनोविभ्रमात् चिन्त्यान् अर्थान्न चिन्तयते, अचिन्त्यांश्च चिन्तयते; उक्तं हि- “मनसश्च चिन्त्यमर्थः” (सू.८अ.इति)। बुद्धिविभ्रमात्तु नित्यम् अनित्यमिति, प्रियं चाप्रियमिति पश्यति…..।-चक्रपाणिः
समुद्भ्रमं बुद्धिमनःस्मृतीनामुन्मादमागन्तुनिजोत्थमाहुः।-च.चि.९.८
वातजोन्मादसम्प्राप्तौ बुद्धिः वातदुष्टा भवति -
रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः।चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम्॥ च.चि.९.९
कफजोन्मादसम्प्राप्तिः एषा।अत्र अपि बुद्धिः कफेन दुष्यति -
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः।बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम्॥च.चि.९.१३
मधुकोशकारेण अपि बुद्धेः दूष्यत्वमेवं प्रतिपादितम् -
धीविभ्रमः सत्त्वपरिप्लवश्च ...। मा.नि.१०
.६ धीविभ्रमो भ्रान्तज्ञानत्वम्।सत्त्वपरिप्लवः मनसश्चलत्वम्। मा.नि.१०.६ मधुकोशः

२ वुद्धिःअपस्मारे-[सम्पाद्यताम्]

अपस्मारलक्षणमिदं द्रष्टव्यम्।अत्र बुद्धिःदूष्यम्।तमः च प्रधानदोषः।तमोदोषेण बुद्धिः लिप्ता इव भवति।
अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसम्प्लवाद्बीभत्सचेष्टमावस्थिकं तमः प्रवेशमाचक्षते।च.नि.८.५ अपस्मारप्रत्यात्मलक्षणमाह- अपस्मारं पुनरित्यादि। सम्प्लवादिति विकृतिगमनात्। बीभत्सा फेनवमनाङ्गभङ्गादिरूपा चेष्टा यस्मिन् तद्बीभत्सचेष्टम्। आवस्थिकं तमःप्रवेशमिति कादाचित्कं तमःप्रवेशं; तमःप्रवेशोऽज्ञानसाधर्म्यात्, अपस्मारवेगवान् हि तमःप्रवेशे इव न किञ्चिद्बुध्यते॥ -च.नि.८.५ चक्रपाणिः
स मूढचेता न सुखं न दुःखं नाचारधर्मौ कुत एव शान्तिम्।विन्दति अपास्तस्मृतिबुद्धिसञ्ज्ञो भ्रमत्ययं चेत इतस्ततश्च॥च.चि.९.७

३ बुद्धिः अत्त्वाभिनिवेशे [सम्पाद्यताम्]

अतत्त्वाभिनिवेशो नाम मानसब्याधिः।तत्र अपि बुद्धिः दूष्या, रजः तमः च दोषौ-
विषमां कुरुते बुद्धिं नित्यानित्ये हिताहिते।अतत्त्वाभिनिवेशं तम् आहुराप्ता महागदम्॥'च.चि.१०.६०
एवं महत्-तत्त्वस्य दूष्यत्वेन चिन्तनम् आयुर्वेदे विद्यते।

बुद्धिगतं पूर्वरूपम्-[सम्पाद्यताम्]

हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञादौर्बल्यमेव च। सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ॥मा.नि.१७.६
सञ्ज्ञादौर्बल्यमसम्यग्ज्ञानता। मधुकोशः,आतङ्कदर्पणः
सर्वासां मूर्च्छानां पूर्वरूपे बुद्धेः दुष्टिः भवति इत्यर्थः।

दुष्टबुद्धेः चिकित्सा -[सम्पाद्यताम्]

अस्याः दुष्टायाः बुद्धेः पुनः प्रसादनाय युक्तिव्यपाश्रयचिकित्सा, दैवव्यपाश्रयचिकित्सा तथा सत्त्वावजयचिकित्सा इति त्रयः अपि चिकित्साविशेषाः उपयुज्यन्ते।तत्र -

दुष्टबुद्धेः युक्तिव्यपाश्रयचिकित्सा यथा-[सम्पाद्यताम्]

हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः।मनःप्रसादमाप्नोति स्मृतिं संज्ञां च विन्दति॥च.चि.९.२८
महापैशाचिकं नाम घृतमेतद् यथामृतम्।बुद्धिस्मृतिकरं चैव.....॥ च.चि.९.४८
घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम्।त्यक्त्वा मतिस्मृतिभ्रंशं संज्ञां लब्ध्वा प्रमुच्यते।च.चि.९.७८

दुष्टबुद्धेः सत्त्वावजयचिकित्सा यथा-[सम्पाद्यताम्]

प्रयोक्तव्यं मनोबुद्धिस्मृतिसंज्ञाप्रबोधनम्।च.चि.९.३२
आश्वासयेत् सुहृद् वा तं वाक्यैर्धर्मार्थसंहितैः॥च.चि.९.७९
सत्याचारतपोदानप्रदाननियमव्रतैः। (आगन्तुः प्रशमं याति।)च.चि.९.९३
सुहृदश्चानुकूलास्तं स्वाप्ता धर्मार्थवादिनः।संयोजयेयुर्विज्ञानधैर्यस्मृतिसमाधिभिः॥ च.चि.१०.६३

दुष्टबुद्धेः दैवव्यपाश्रयचिकित्सा यथा - [सम्पाद्यताम्]

मन्त्रादिश्चेष्यते बिधिः।च.चि.९.३३
पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा। च.चि.९.८९
शान्तिकर्मेष्टिहोमांश्च जपस्वस्त्ययनानि च॥वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत्। च.चि.९.९०

बुद्धिः तथा मद्यपानम् – [सम्पाद्यताम्]

मद्यं बुद्धेः लोपं करोति।तथापि तत्र अपि कश्चन निश्चितः क्रमः अस्ति।सः एवम् – पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः।प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे॥च.चि.२४.४१

प्रथमः मदः –[सम्पाद्यताम्]

पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः।प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे॥४१
प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः।वाद्यगीतप्रहासानां कथानां च प्रवर्तकः॥४२
न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः।सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः॥ च.चि.२४.४३

द्वितीयः मदः -[सम्पाद्यताम्]

मुहुः स्मृतिर्मुहुर्मोहो(ऽ)व्यक्ता सज्जति वाङ्मुहुः।युक्तायुक्तप्रलापश्च प्रचलायनमेव च॥४४
स्थानपानान्नसाङ्कथ्ययोजना सविपर्यया।लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे॥४५

तृतीयः मदः-[सम्पाद्यताम्]

मध्यमं मदमुत्क्रम्य मदमाप्राप्य चोत्तमम्।न किञ्चिन्नाशुभं कुर्युर्नरा राजसतामसाः॥४६
को मदं तादृशं विद्वानुन्मादमिव दारुणम्।गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः॥४७
तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः।मदमोहावृतमना जीवन्नपि मृतैः समः॥४८
रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम्।यदर्थं पीयते मद्यं रतिं तां च न विन्दति॥४९
कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम्।यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः॥५०
स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च।व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते॥५१
अस्य विवरणस्य सारः अधः कोष्ठके संस्थाप्यते-

प्रथम-मदः द्वितीय-मदः तृतीय-मदः
प्रहर्षः,प्रीतिः,वाद्यगीतप्रहास्यकथानां प्रवृत्तिः ,बुद्धिः स्वस्था,स्मृतिः स्वस्था,विषयसेवनं शक्यम्, सुखनिद्रा,सुखप्रबोधः,सुखकरः परिणामः मुहुः स्मृतिः, मुहुः मोहः,वाक् अव्यक्ता,वाक् मुहुः सज्जति,क्वचिद् युक्तः प्रलापः ,क्वचिदयुक्तः प्रलापः,प्रचलायनम् ,स्थानयोजना क्वचित् सम्यक् भवति, क्वचित् न,पानयोजना क्वचित् सम्यक् भवति, क्वचित् न ,अन्नयोजना क्वचित्सम्यक् भवति, क्वचित् न,कथायोजना क्वचित् सम्यक् भवति, क्वचित् न भग्नदारु इव निष्क्रियः,मदमोहावृतं मनः ,जीवन् अपि मृतैः समः,रमणीयान् विषयान्न वेत्ति , सुहृज्जनं न वेत्ति,मद्यजन्यां रतिं न प्राप्नोति,कार्याकार्यं न जानाति,सुखं दुःखं न जानाति,हिताहितं न जानाति
साङ्ख्यायुर्वेदयोः 
"https://sa.wikibooks.org/w/index.php?title=महत्-तत्त्वम्&oldid=7243" इत्यस्माद् प्रतिप्राप्तम्