महद्द्दीर्घाधिकरणम्

विकिपुस्तकानि तः

महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्।२.२.११
पू.(वैशेषिका:) – कारणद्रव्यसमवायनो गुणा: कार्यद्रव्ये समानजातीये गुणान्तरमारम्भन्ते।यथा शुक्लेभ्य: तन्तुभ्य: शुक्लपट। तथैव चेतनाद् ब्रह्मण: जायमाने जगति चैतन्यं समवेयात्।न च दृश्यते।अत: जडस्य जगत: चेतनं ब्रह्म कारणं भवितुं नार्हति।
वे.-
१ परिमण्डलात्परमाणो: अणु ह्रस्वं च द्व्यणुकं जायते, न परिमण्डलम्।महद् दीर्घं च त्र्यणुकादि जायते। न परिमण्डलम्
२ अणुपरिमाणाद् ह्रस्वाच्च द्व्यणुकाद् महद् दीर्घं च त्र्यणुकं जायते, नाणु न ह्रस्वम्।
एवमेव चेतनाद् ब्रह्मण: अचेतनं जगद् जनिष्यते चेत् किमर्थम् आक्षिप्यते?

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये द्वितीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=महद्द्दीर्घाधिकरणम्&oldid=5614" इत्यस्माद् प्रतिप्राप्तम्