महाभाष्यम् - पस्पशाह्निकम्

विकिपुस्तकानि तः

महाभाष्ये पस्पशाह्निकम्[सम्पाद्यताम्]

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-१/१०) अथ शब्दानुशासनम् ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-२/१०) अथ इति अयम् शब्दः अधिकारार्थः प्रयुज्यते ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-३/१०) शब्दानुशासनम् शास्त्रम् अधिकृतम् वेदितव्यम् ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-४/१०) केषाम् शब्दानाम् ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-५/१०) लौकिकानाम् वैदिकानाम् च ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-६/१०) तत्र लौकिकाः तावत् ॒ गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-७/१०) वैदिकाः खलु अपि ॒ शम् नः देवीः अभिष्टये ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-८/१०) इषे त्वा ऊर्जे त्वा ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-९/१०) अग्निम् ईळे पुरोहितम् ।

(प-१; अकि-१,१.१-५; रो-१,१-४; भा-१०/१०) अग्ने अयाहि वीतये इति ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१/१९) अथ गौः इति अत्र कः शब्दः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-२/१९) किम् यत् तत् सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपम् सः शब्दः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-३/१९) न इति आह ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-४/१९) द्रव्यम् नाम तत् ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-५/१९) यत् तर्हि तत् इङ्गितम् चेष्टितम् निमिषितम् सः शब्दः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-६/१९) न इति आह ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-७/१९) क्रिया नाम सा ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-८/१९) यत् तर्हि तत् शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-९/१९) न इति आह ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१०/१९) गुणः नाम सः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-११/१९) यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः शब्दः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१२/१९) न इति आह ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१३/१९) आकृतिः नाम सा ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१४/१९) कः तर्हि शब्दः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१५/१९) येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः शब्दः ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१६/१९) अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१७/१९) तत् यथा शब्दम् कुरु मा शब्दम् कार्षीः शब्दकारी अयम् माणवकः इति ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१८/१९) ध्वनिम् कुर्वन् एवम् उच्यते ।

(प-२; अकि-१,१.६-१३; रो-१,५-७; भा-१९/१९) तस्मात् ध्वनिः शब्दः ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१/१७) कानि पुनः शब्दानुशासनस्य प्रयोजनानि ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-२/१७) रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-३/१७) रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-४/१७) लोपागमवर्णविकारज्ञः हि सम्यक् वेदान् परिपालयिष्यति ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-५/१७) ऊहः खलु अपि. न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः. ते च अवश्यम् यज्ञगतेन यथायथम् विपरिणमयितव्याः. तान् न अवैयाकरणः शक्नोति यथायथम् विपरिणमयितुम्. तस्मात् अध्येयम् व्याकरणम् ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-६/१७) आगमः खलु अपि ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-७/१७) ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-८/१७) प्रधानम् च षट्सु अङ्गेषु व्याकरणम् ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-९/१७) प्रधाने च कृतः यत्नः फलवान् भवति ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१०/१७) लघ्वर्थम् च अध्येयम् व्याकरणम्. ब्राह्मणेन अवश्यम् शब्दाः ज्ञेयाः इति ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-११/१७) न च अन्तरेण व्याकरणम् लघुना उपायेन शब्दाः शक्याः ज्ञातुम् ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१२/१७) असन्देहार्थम् च अध्येयम् व्याकरणम् ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१३/१७) याज्ञिकाः पठन्ति ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१४/१७) स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१५/१७) तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१६/१७) ताम् न अवैयाकरणः स्वरतः अध्यवस्यति ।

(प-३; अकि-१,१.१४-२.२; रो-१,८-१४; भा-१७/१७) यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः. अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-१/८) इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-२/८) ते असुराः , दुष्टः शब्दः , यत् अधीतम् , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , दशम्याम् पुत्रस्य , सुदेवः असि वरुण इति ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-३/८) ते असुराः ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-४/८) ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-५/८) तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-६/८) म्लेच्छः ह वै एषः यत् अपशब्दः ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-७/८) म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् ।

(प-४.१; अकि-१,२.३-९; रो-१,११-१२; भा-८/८) ते असुराः

(प-४.२; अकि-१,२.१०-१४; रो-१,१२-१३; भा-१/५) दुष्टः शब्दः ।

(प-४.२; अकि-१,२.१०-१४; रो-१,१२-१३; भा-२/५) दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह ।

(प-४.२; अकि-१,२.१०-१४; रो-१,१२-१३; भा-३/५) सः वाग्वज्रः यजमानम् हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात् ।

(प-४.२; अकि-१,२.१०-१४; रो-१,१२-१३; भा-४/५) दुष्टान् शब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् ।

(प-४.२; अकि-१,२.१०-१४; रो-१,१२-१३; भा-५/५) दुष्टः शब्दः ।

(प-४.३; अकि-१,२.१४-१७; रो-१,३; भा-१/३) यत् अधीतम् ।

(प-४.३; अकि-१,२.१४-१७; रो-१,३; भा-२/३) यत् अधीतम् अविज्ञातम् निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत् ज्वलति कर्हि चित् ।

(प-४.३; अकि-१,२.१४-१७; रो-१,३; भा-३/३) तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम्. यत् अधीतम् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१/२७) यः तु प्रयुङ्क्ते ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२/२७) यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-३/२७) कः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-४/२७) वाग्योगवित् एव ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-५/२७) कुतः एतत् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-६/२७) यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-७/२७) यथा एव हि शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-८/२७) अथ वा भूयान् अधर्मः प्राप्नोति ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-९/२७) भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१०/२७) एकैकस्य हि शब्दस्य बहवः अपशब्दाः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-११/२७) तत् यथा गौः इति अस्य शब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१२/२७) अथ यः अवाग्योगवित् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१३/२७) अज्ञानम् तस्य शरणम् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१४/२७) न अत्यन्ताय अज्ञानम् शरणम् भवितुम् अर्हति ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१५/२७) यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात्. एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१६/२७) कः. अवाग्योगवित् एव ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१७/२७) अथ यः वाग्योगवित् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१८/२७) विज्ञानम् तस्य शरणम् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-१९/२७) क्व पुनः इदम् पठितम् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२०/२७) भ्राजाः नाम श्लोकाः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२१/२७) किम् च भोः श्लोकाः अपि प्रमाणम् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२२/२७) किम् च अतः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२३/२७) यदि प्रमाणम् अयम् अपि श्लोकः प्रमाणम् भवितुम् अर्हति ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२४/२७) यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२५/२७) प्रमत्तगीतः एषः तत्रभवतः ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२६/२७) यः तु अप्रमत्तगीतः तत् प्रमानम् ।

(प-४.४; अकि-१,२.१८-३.५; रो-१,१३-१५; भा-२७/२७) यस् तु प्रयुङ्क्ते ।

(प-४.५; अकि-१,३.६-९; रो-१,१५; भा-१/४) अविद्वांसः ।

(प-४.५; अकि-१,३.६-९; रो-१,१५; भा-२/४) अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् ।

(प-४.५; अकि-१,३.६-९; रो-१,१५; भा-३/४) अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् ।

(प-४.५; अकि-१,३.६-९; रो-१,१५; भा-४/४) अविद्वांसः

(प-४.६; अकि-१,३.१०-११; रो-१,१६; भा-१/३) विभक्तिम् कुर्वन्ति ।

(प-४.६; अकि-१,३.१०-११; रो-१,१६; भा-२/३) याज्ञिकाः पठन्ति ॒ प्रयाजाः सविभक्तिकाः कार्याः इति ।

(प-४.६; अकि-१,३.१०-११; रो-१,१६; भा-३/३) न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः शक्याः कर्तुम्. विभक्तिम् कुर्वन्ति

(प-४.७; अकि-१,३.१२-१३; रो-१,१६; भा-१/४) यः वै इमाम् ।

(प-४.७; अकि-१,३.१२-१३; रो-१,१६; भा-२/४) यः वै इमाम् पदशः स्वरशः अक्षरशः वाचम् विदधाति सः आर्त्विजीनः ।

(प-४.७; अकि-१,३.१२-१३; रो-१,१६; भा-३/४) आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् ।

(प-४.७; अकि-१,३.१२-१३; रो-१,१६; भा-४/४) यः वै इमाम् ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१/२९) चत्वारि ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२/२९) चत्वरि शृङ्गा त्रयः अस्य पदा द्वे शीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् अ विवेश ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-३/२९) चत्वारि शृङ्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-४/२९) त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-५/२९) द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यः च ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-६/२९) सप्त हस्तासः अस्य सप्त विभक्तयः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-७/२९) त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसि इति ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-८/२९) वृषभः वर्षणात् ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-९/२९) रोरवीति शब्दम् करोति ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१०/२९) कुतः एतत् ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-११/२९) रौतिः शब्दकर्मा ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१२/२९) महः देवः मर्त्यान् आविवेश इति ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१३/२९) महान् देवः शब्दः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१४/२९) मर्त्याः मरणधर्माणः मनुष्याः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१५/२९) तान् आविवेश ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१६/२९) महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१७/२९) अपरः आह ॒ चत्वरि वक् परिमिता पदनि तनि विदुः ब्राह्मण ये मनीषिणः गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१८/२९) चत्वारि वाक् परिमिता पदानि ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-१९/२९) चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२०/२९) तानि विदुः ब्राह्मणाः ये मनीषिणः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२१/२९) मनसः ईषिणः मनीषिणः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२२/२९) गुहा त्रीणि निहिता न इङ्गयन्ति ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२३/२९) गुहायाम् त्रीणि निहितानि न इङ्गयन्ति ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२४/२९) न चेष्टन्ते ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२५/२९) न निमिषन्ति इति अर्थः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२६/२९) तुरीयम् वाचः मनुष्याः वदन्ति ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२७/२९) तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२८/२९) चतुर्थम् इति अर्थः ।

(प-४.८; अकि-१,३.१४-२९; रो-१,१६-१८; भा-२९/२९) चत्वारि ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-१/११) उत त्वः ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-२/११) उत त्वः पश्यन् न ददर्श वचम् उत त्वः श्र्ण्वन् न शृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाय इव पत्ये उशती सुवसाः ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-३/११) अपि खलु एकः पश्यन् अपि न पश्यति वाचम् ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-४/११) अपि खलु एकः श्र्ण्वन् अपि न श्र्णोति एनाम् ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-५/११) अविद्वांसम् आह अर्धम् ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-६/११) उतो त्वस्मै तन्वम् विसस्रे ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-७/११) तनुम् विवृणुते ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-८/११) जाया इव पत्ये उशती सुवासाः ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-९/११) तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-१०/११) वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् ।

(प-४.९; अकि-१,४.५-८; रो-१,१८-१९; भा-११/११) उत त्वः ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१/१७) सक्तुम् इव ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-२/१७) सक्तुम् इव तितौना पुनन्तः यत्र धीराः मनसा वचम् अक्रत अत्रा सखायः सख्यनि जानते भद्र एषाम् लक्ष्मीः निहिता अधि वाचि ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-३/१७) सक्तुः सचतेः दुर्धावः भवति ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-४/१७) कसतेः वा विपरीतात् विकसितो भवति ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-५/१७) तितौ परिपवनम् भवति ततवत् वा तुन्नवत् वा ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-६/१७) धीराः ध्यानवन्तः मनसा प्रज्ञानेन वाचम् अक्रत वाचम् अकृषत ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-७/१७) अत्रा सखायः सख्यानि जानते ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-८/१७) सायुज्यानि जानते ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-९/१७) क्व ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१०/१७) यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-११/१७) के पुनः ते ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१२/१७) वैयाकरणाः ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१३/१७) कुतः एतत् ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१४/१७) भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१५/१७) एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१६/१७) लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति ।

(प-४.१०; अकि-१,४.९-१८; रो-१,१९-२०; भा-१७/१७) सक्तुम् इव ।

(प-४.११; अकि-१,४.१९-२१; रो-१,२१; भा-१/३) सारस्वतीम्. याज्ञिकाः पठन्ति ॒ आहिताग्निः अपशब्दम् प्रयुज्य प्रायश्चित्तीयाम् सारस्वतीम् इष्टिम् निर्वपेत् इति ।

(प-४.११; अकि-१,४.१९-२१; रो-१,२१; भा-२/३) प्रायश्चित्तीयाः मा भूम इति अध्येयम् व्याकरणम् ।

(प-४.११; अकि-१,४.१९-२१; रो-१,२१; भा-३/३) सारस्वतीम् ।

(प-४.१२; अकि-१,४.२२-२५; रो-१,२१; भा-१/६) दशम्याम् पुत्रस्य ।

(प-४.१२; अकि-१,४.२२-२५; रो-१,२१; भा-२/६) याज्ञिकाः पठन्ति ॒ दशम्युत्तरकालम् पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् ।

(प-४.१२; अकि-१,४.२२-२५; रो-१,२१; भा-३/६) तत् हि प्रतिष्ठिततमम् भवति ।

(प-४.१२; अकि-१,४.२२-२५; रो-१,२१; भा-४/६) द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति ।

(प-४.१२; अकि-१,४.२२-२५; रो-१,२१; भा-५/६) न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा शक्याः विज्ञातुम् ।

(प-४.१२; अकि-१,४.२२-२५; रो-१,२१; भा-६/६) दशम्याम् पुत्रस्य ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-१/११) सुदेवः असि ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-२/११) सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिरम् इव ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-३/११) सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-४/११) अनुक्षरन्ति काकुदम् ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-५/११) काकुदम् तालु ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-६/११) काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-७/११) सूर्म्यम् सुषिराम् इव ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-८/११) तद् यथा शोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः प्रविश्य दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-९/११) तेन असि सत्यदेवः ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-१०/११) सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् ।

(प-४.१३; अकि-१,४.२६-५.४; रो-१,२१-२२; भा-११/११) सुदेवः असि ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-१/८) किम् पुनः इदम् व्याकरनम् एव अधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते न पुनः अन्यत् अपि किम् चित् ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-२/८) ओम् इति उक्त्वा वृत्तान्तशः शम् इति एवमादीन् शब्दान् पठन्ति ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-३/८) पुराकल्पे एतत् आसीत् ॒ संस्कारोत्तरकालम् ब्राह्मणाः व्याकरणम् स्म अधीयते ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-४/८) तेभ्यः तत्र स्थानकरणानुप्रदानज्ञेभ्यः वैदिकाः शब्दाः उपदिश्यन्ते ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-५/८) तत् अद्यत्वे न तथा ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-६/८) वेदम् अधीत्य त्वरिताः वक्तारः भवन्ति ॒ वेदात् नः वैदिकाः शब्दाः सिद्धाः लोकात् च लौकिकाः ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-७/८) अनर्थकम् व्याकरणम् इति ।

(प-५; अकि-१,५.५-११; रो-१,२२-२३; भा-८/८) तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदम् शास्त्रम् अन्वाचष्टे ॒ इमानि प्रयोजनानि अध्येयम् व्याकरणम् इति ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१/२०) उक्तः शब्दः ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-२/२०) स्वरूपम् अपि उक्तम् ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-३/२०) प्रयोजनानि अपि उक्तानि ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-४/२०) शब्दानुशासनम् इदानीम् कर्तव्यम् ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-५/२०) तत् कथम् कर्तव्यम् ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-६/२०) किम् शब्दोपदेशः कर्तव्यः आहोस्वित् अपशब्दोपदेशः आहोस्वित् उभयोपदेशः इति ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-७/२०) अन्यतरोपदेशेन कृतम् स्यात् ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-८/२०) तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-९/२०) पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एतत् ॒ अतः अन्ये अभक्ष्याः इति ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१०/२०) अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-११/२०) तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एतत् ॒ आरण्यः भक्ष्यः इति ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१२/२०) एवम् इह अपि ॒ यदि तावत् शब्दोपदेशः क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् ॒ गाव्यादयः अपशब्दाः इति ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१३/२०) अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् ॒ गौः इति एषः शब्दः इति ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१४/२०) किम् पुनः अत्र ज्यायः ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१५/२०) लघुत्वात् शब्दोपदेशः ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१६/२०) लघीयान् शब्दोपदेशः गरीयान् अपशब्दोपदेशः ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१७/२०) एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१८/२०) तत् यथा ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-१९/२०) गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः ।

(प-६; अकि-१,५.११-२२; रो-१,२३-२४; भा-२०/२०) इष्टान्वाख्यानम् खलु अपि भवति ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१/२१) अथ एतस्मिन् शब्दोपदेशे सति किम् शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः ॒ गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति एवमादयः शब्दाः पठितव्याः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-२/२१) न इति आह ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-३/२१) अनभ्युपायः एषः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-४/२१) एवम् हि श्रूयते ॒ बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् शब्दानाम् शब्दपारायणम् प्रोवाच न अन्तम् जगाम ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-५/२१) बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-६/२१) किम् पुनः अद्यत्वे ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-७/२१) यः सर्वथा चिरम् जीवति सः वर्षशतम् जीवति ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-८/२१) चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-९/२१) तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१०/२१) तस्मात् अनभ्युपायः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-११/२१) कथम् तर्हि इमे शब्दाः प्रतिपत्तव्याः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१२/२१) किम् चित् सामन्यविशेषवत् लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः शब्दौघान् प्रतिपद्येरन् ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१३/२१) किम् पुनः तत् ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१४/२१) उत्सर्गापवादौ ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१५/२१) कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१६/२१) कथञ्जातीयकः पुनः उत्सर्गः कर्तव्यः कथञ्जातीयकः अपवादः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१७/२१) सामन्येन उत्सर्गः कर्तव्यः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१८/२१) तत् यथा कर्मणि अण् ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-१९/२१) तस्य विशेषेण अपवादः ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-२०/२१) तत् यथा ।

(प-७; अकि-१,५.२३-६.७; रो-१,२४-२५; भा-२१/२१) आतः अनुपसर्गे कः ।

(प-८; अकि-१,६.८-११; रो-१,२५-२६; भा-१/६) किम् पुनः आकृतिः पदार्थः आहोस्वित् द्रव्यम् ।

(प-८; अकि-१,६.८-११; रो-१,२५-२६; भा-२/६) उभयम् इति आह ।

(प-८; अकि-१,६.८-११; रो-१,२५-२६; भा-३/६) कथम् ज्ञायते ।

(प-८; अकि-१,६.८-११; रो-१,२५-२६; भा-४/६) उभयथा हि आचार्येण सूत्राणि पठितानि ।

(प-८; अकि-१,६.८-११; रो-१,२५-२६; भा-५/६) आकृतिम् पदार्थम् मत्वा जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उच्यते ।

(प-८; अकि-१,६.८-११; रो-१,२५-२६; भा-६/६) द्रव्यम् पदार्थम् मत्वा सरूपाणाम् एकशेषः एकविभक्तौ इति एकशेषः आरभ्यते ।

(प-९; अकि-१,६.१२-१४; रो-१,२६-२७; भा-१/४) किम् पुनः नित्यः शब्दः आहोस्वित् कार्यः ।

(प-९; अकि-१,६.१२-१४; रो-१,२६-२७; भा-२/४) सङ्ग्रहे एतत् प्राधान्येन परीक्षितम् नित्यः वा स्यात् कार्यः वा इति ।

(प-९; अकि-१,६.१२-१४; रो-१,२६-२७; भा-३/४) तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि ।

(प-९; अकि-१,६.१२-१४; रो-१,२६-२७; भा-४/४) तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणम् प्रवर्त्यम् इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१/३३) कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२/३३) सिद्धे शब्दार्थसम्बन्धे ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-३/३३) सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-४/३३) अथ सिद्धशब्दस्य कः पदार्थः ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-५/३३) नित्यपर्यायवाची सिद्धशब्दः ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-६/३३) कथम् ज्ञायते ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-७/३३) यत् कूटस्थेषु अविचालिषु भावेषु वर्तते ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-८/३३) तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् आकाशम् इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-९/३३) ननु च भोः कार्येषु अपि वर्तते ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१०/३३) तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-११/३३) यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः सिद्धशब्दः इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१२/३३) सङ्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१३/३३) इह अपि तत् एव ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१४/३३) अथ वा सन्ति एकपदानि अपि अवधारणानि ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१५/३३) तत् यथा ॒ अब्भक्षः वायुभक्षः इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१६/३३) अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१७/३३) एवम् इह अपि सिद्धः एव न साध्यः इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१८/३३) अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः ॒ अत्यन्तसिद्धः सिद्धः इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-१९/३३) तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२०/३३) अथ वा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२१/३३) किम् पुनः अनेन वर्ण्येन ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२२/३३) किम् न महता कण्ठेन नित्यशब्दः एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२३/३३) मङ्गलार्थम् ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२४/३३) माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् सिद्धशब्दम् आदितः प्रयुङ्क्ते ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२५/३३) मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२६/३३) अध्येतारः च सिद्धार्थाः यथा स्युः इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२७/३३) अयम् खलु अपि नित्यशब्दः न अवश्यम् कूटस्थेषु अविचालिषु भावेषु वर्तते ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२८/३३) किम् तर्हि ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-२९/३३) आभीक्ष्ण्ये अपि वर्तते ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-३०/३३) तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-३१/३३) यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-३२/३३) पश्यति तु आचार्यः मङ्गलार्थः च एव सिद्धशब्दः आदितः प्रयुक्तः भविष्यति शक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति ।

(प-१०.१; अकि-१,६.१४-७.७; रो-१,२७-३०; भा-३३/३३) अतः सिद्धशब्दः एव उपात्तः न नित्यशब्दः

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१/४७) अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२/४७) आकृतिम् इति आह ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३/४७) कुतः एतत् ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४/४७) आकृतिः हि नित्या ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-५/४७) द्रव्यम् अनित्यम् ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-६/४७) अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-७/४७) सिद्धे शब्दे अर्थसम्बन्धे च इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-८/४७) नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-९/४७) अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति. द्रव्यम् हि नित्यम् आकृतिः अनित्या ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१०/४७) कथम् ज्ञायते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-११/४७) एवम् हि दृश्यते लोके ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१२/४७) मृत् कया चित् आकृत्या युक्ता पिण्डः भवति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१३/४७) पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१४/४७) घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१५/४७) तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१६/४७) पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१७/४७) रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१८/४७) कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-१९/४७) पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२०/४७) आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२१/४७) आकृत्युपमर्देन द्रव्यम् एव अवशिष्यते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२२/४७) आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२३/४७) ननु च उक्तम् आकृतिः अनित्या इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२४/४७) न एतत् अस्ति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२५/४७) नित्या आकृतिः ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२६/४७) कथम् ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२७/४७) न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२८/४७) द्रव्यान्तरस्था तु उपलभ्यते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-२९/४७) अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३०/४७) तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३१/४७) किम् पुनः तत्त्वम् ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३२/४७) तद्भावः तत्त्वम् ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३३/४७) आकृतौ अपि तत्त्वम् न विहन्यते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३४/४७) अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३५/४७) यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३६/४७) कथम् पुनः ज्ञायते सिद्धः शब्दः अर्थः सम्बन्धः च इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३७/४७) लोकतः ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३८/४७) यत् लोके अर्थम् उपादाय शब्दान् प्रयुञ्जते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-३९/४७) न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४०/४७) ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४१/४७) तत् यथा ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४२/४७) घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४३/४७) कार्यम् अनेन करिष्यामि इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४४/४७) न तद्वत् शब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४५/४७) कुरु शब्दान् ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४६/४७) प्रयोक्ष्ये इति ।

(प-१०.२; अकि-१,७.८-८.१; रो-१,३०-३२; भा-४७/४७) तावति एव अर्थम् उपादाय शब्दान् प्रयुञ्जते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१/३५) यदि तर्हि लोकः एषु प्रमाणम् किम् शास्त्रेण क्रियते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२/३५) लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-३/३५) लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-४/३५) किम् इदम् धर्मनियमः इति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-५/३५) धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-६/३५) यथा लौकिकवैदिकेषु ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-७/३५) प्रियतद्धिताः दाक्षिणात्याः ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-८/३५) यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्जते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-९/३५) अथ वा युक्तः एव तद्धितार्थः ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१०/३५) यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-११/३५) लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उच्यते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१२/३५) भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१३/३५) शक्यम् च अनेन श्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१४/३५) तत्र नियमः क्रियते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१५/३५) इदम् भक्ष्यम् ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१६/३५) इदम् अभक्ष्यम् इति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१७/३५) तथा खेदात् स्त्रीषु प्रवृत्तिः भवति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१८/३५) समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-१९/३५) तत्र नियमः क्रियते ॒ इयम् गम्या इयम् अगम्या इति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२०/३५) वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः वैश्यः इति उच्यते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२१/३५) व्रतम् च नाम अभ्यवहारार्थम् उपादीयते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२२/३५) शक्यम् च अनेन शालिमांसादीनि अपि व्रतयितुम् ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२३/३५) तत्र नियमः क्रियते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२४/३५) तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२५/३५) यूपः च नाम पश्वनुबन्धार्थम् उपादीयते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२६/३५) शक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा पशुः अनुबन्द्धुम् ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२७/३५) तत्र नियमः क्रियते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२८/३५) तथा अग्नौ कपालानि अधिश्रित्य अभिमन्त्रयते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-२९/३५) भृगूणाम् अङ्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-३०/३५) अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-३१/३५) तत्र नियमः क्रियते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-३२/३५) एवम् क्रियमाणम् अभ्युदयकारि भवति इति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-३३/३५) एवम् इह अपि समानायाम् अर्थगतौ शब्देन च अपशब्देन च धर्मनियमः क्रियते ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-३४/३५) शब्देन एव अर्थः अभिधेयः न अपशब्देन इति ।

(प-११; अकि-१,८.१-२२; रो-१,३२-३५; भा-३५/३५) एवम् क्रियमाणम् अभ्युदयकारि भवति इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१/६२) अस्ति अप्रयुक्तः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२/६२) सन्ति वै शब्दाः अप्रयुक्ताः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३/६२) तत् यथा ऊष तेर चक्र पेच इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४/६२) किम् अतः यत् सन्ति अप्रयुक्ताः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५/६२) प्रयोगात् हि भवान् शब्दानाम् साधुत्वम् अध्यवस्यति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-६/६२) ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-७/६२) इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै शब्दाः अप्रयुक्ताः इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-८/६२) यदि सन्ति न अप्रयुक्ताः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-९/६२) अथ अप्रयुक्ताः न सन्ति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१०/६२) सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-११/६२) प्रयुञ्जानः एव खलु भवान् आह सन्ति शब्दाः अप्रयुक्ताः इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१२/६२) कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१३/६२) न एतत् विप्रतिषिद्धम् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१४/६२) सन्ति इति तावत् ब्रूमः यत् एतान् शास्त्रविदः शास्त्रेण अनुविदधते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१५/६२) अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१६/६२) यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१७/६२) न ब्रूमः अस्माभिः अप्रयुक्ताः इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१८/६२) किम् तर्हि ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-१९/६२) लोके अप्रयुक्ताः इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२०/६२) ननु च भवान् अपि अभ्यन्तरः लोके ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२१/६२) अभ्यन्तरः अहम् लोके न तु अहम् लोकः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२२/६२) अस्ति अप्रयुक्तः इति चेत् न अर्थे शब्दप्रयोगात् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२३/६२) अस्ति अप्रयुक्तः इति चेत् तत् न ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२४/६२) किम् कारणम् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२५/६२) अर्थे शब्दप्रयोगात् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२६/६२) अर्थे शब्दाः प्रयुज्यन्ते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२७/६२) सन्ति च एषाम् शब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२८/६२) अप्रयोगः प्रयोगान्यत्वात् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-२९/६२) अप्रयोगः खलु एषां शब्दानाम् न्याय्यः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३०/६२) कुतः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३१/६२) प्रयोगान्यत्वात् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३२/६२) यत् एतेषाम् शब्दानाम् अर्थे अन्यान् शब्दान् प्रयुञ्जते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३३/६२) तत् यथा ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३४/६२) ऊष इति एतस्य शब्दस्य अर्थे क्व यूयम् उषिताः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३५/६२) तेर इति अस्य अर्थे किम् यूयम् तीर्णाः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३६/६२) चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३७/६२) पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३८/६२) अप्रयुक्ते दीर्घसत्त्रवत् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-३९/६२) यदि अपि अप्रयुक्ताः अवश्यम् दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४०/६२) तत् यथा ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४१/६२) दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४२/६२) न च अद्यत्वे कः चित् अपि व्यवहरति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४३/६२) केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा याज्ञिकाः शास्त्रेण अनुविदधते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४४/६२) सर्वे देशान्तरे ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४५/६२) सर्वे खलु अपि एते शब्दाः देशान्तरे प्रयुज्यन्ते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४६/६२) न च एते उपलभ्यन्ते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४७/६२) उपलब्धौ यत्नः क्रियताम् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४८/६२) महान् हि शब्दस्य प्रयोगविषयः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-४९/६२) सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५०/६२) एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५१/६२) एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः दृश्यन्ते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५२/६२) तत् यथा ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५३/६२) शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५४/६२) विकारे एनम् आर्याः भाषन्ते शवः इति ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५५/६२) हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५६/६२) दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५७/६२) ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः दृश्यते ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५८/६२) क्व ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-५९/६२) वेदे ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-६०/६२) यत् वः रेवतीः रेवत्यम् तत् ऊष ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-६१/६२) यत् मे नरः श्रुत्यम् ब्रह्म चक्र ।

(प-१२; अकि-१,८.२३-१०.३; रो-१,३५-३९; भा-६२/६२) यत्र नः चक्र जरसम् तनुनाम् इति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१/५४) किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२/५४) कः च अत्र विशेषः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३/५४) ज्ञाने धर्मः इति चेत् तथा अधर्मः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४/५४) ज्ञाने धर्मः इति चेत् तथा अधर्मः प्राप्नोति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-५/५४) यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-६/५४) यथा एव शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-७/५४) अथ वा भूयान् अधर्मः प्राप्नोति ।भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-८/५४) एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-९/५४) तत् यथा ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१०/५४) गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-११/५४) आचारे नियमः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१२/५४) आचारे पुनः ऋषिः नियमम् वेदयते ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१३/५४) ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१४/५४) अस्तु तर्हि प्रयोगे ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१५/५४) प्रयोगे सर्वलोकस्य ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१६/५४) यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१७/५४) कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१८/५४) न खलु कः चित् मत्सरः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-१९/५४) प्रयत्नानर्थक्यम् तु भवति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२०/५४) फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२१/५४) ननु च ये कृतप्रयत्नाः ते साधीयः शब्दान् प्रयोक्ष्यन्ते ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२२/५४) ते एव साधीयः अभ्युदयेन योक्ष्यन्ते ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२३/५४) व्यतिरेकः अपि वै लक्ष्यते ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२४/५४) दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२५/५४) तत्र फलव्यतिरेकः अपि स्यात् ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२६/५४) एवम् तर्हि न अपि ज्ञाने एव धर्मः न अपि प्रयोगे एव ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२७/५४) किम् तर्हि शास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् वेदशब्देन ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२८/५४) शास्त्रपूर्वकम् यः शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-२९/५४) तत् तुल्यम् वेदशब्देन ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३०/५४) वेदशब्दाः अपि एवम् अभिवदन्ति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३१/५४) यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३२/५४) यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३३/५४) अपरः आह ॒ तत् तुल्यम् वेदशब्देन इति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३४/५४) यथा वेदशब्दाः नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः शास्त्रपूर्वकम् शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते इति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३५/५४) अथ वा पुनः अस्तु ज्ञाने एव धर्मः इति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३६/५४) ननु च उक्तम् ज्ञाने धर्मः इति चेत् तथा अधर्मः इति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३७/५४) न एषः दोषः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३८/५४) शब्दप्रमाणकाः वयम् ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-३९/५४) यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४०/५४) शब्दः च शब्दज्ञाने धर्मम् आह न अपशब्दज्ञाने अधर्मम् ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४१/५४) यत् च पुनः अशिष्टाप्रतिषिद्धम् न एव तत् दोषाय भवति न अभ्युदयाय ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४२/५४) तत् यथा ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४३/५४) हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४४/५४) अथ वा अभ्युपायः एव अपशब्दज्ञानम् शब्दज्ञाने ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४५/५४) यः अपशब्दान् जानाति शब्दान् अपि असौ जानाति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४६/५४) तत् एवम् ज्ञाने धर्मः इति ब्रुवतः अर्थात् आपन्नम् भवति अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः इति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४७/५४) अथ वा कूपखानकवत् एतत् भवति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४८/५४) तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु सञ्जातासु ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि अपशब्दज्ञाने अधर्मः तथा अपि यः तु असौ शब्दज्ञाने धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-४९/५४) यत् अपि उच्यते आचारे नियमः इति याज्ञे कर्मणि सः नियमः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-५०/५४) एवम् हि श्रूयते ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-५१/५४) यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः परापरज्ञाः विदितवेदितव्याः अधिगतयाथातथ्याः ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-५२/५४) ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति प्रयुञ्जते याज्ञे पुनः कर्मणि न अपभाषन्ते ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-५३/५४) तैः पुनः असुरैः याज्ञे कर्मणि अपभाषितम् ।

(प-१३; अकि-१,१०.४-११.१४; रो-१,३९-४२; भा-५४/५४) ततः ते पराबभूताः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१/५९) अथ व्याकरणम् इति अस्य शब्दस्य कः पदार्थः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२/५९) सूत्रम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३/५९) सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४/५९) सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५/५९) किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-६/५९) शब्दाप्रतिपत्तिः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-७/५९) शब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् शब्दान् प्रतिपद्यामहे इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-८/५९) न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-९/५९) किम् तर्हि ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१०/५९) व्याख्यानतः च ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-११/५९) ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१२/५९) न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१३/५९) किम् तर्हि ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१४/५९) उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१५/५९) एवम् तर्हि शब्दः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१६/५९) शब्दे ल्युडर्थः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१७/५९) यदि शब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१८/५९) न हि शब्देन किम् चित् व्याक्रियते ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-१९/५९) केन तर्हि ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२०/५९) सूत्रेण ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२१/५९) भवे ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२२/५९) भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२३/५९) न हि शब्दे भवः योगः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२४/५९) क्व तर्हि ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२५/५९) सूत्रे ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२६/५९) प्रोक्तादयः च तद्धिताः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२७/५९) प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , आपिशलम् , काशकृत्स्नम् इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२८/५९) न हि पाणिनिना शब्दाः प्रोक्ताः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-२९/५९) किम् तर्हि ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३०/५९) सूत्रम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३१/५९) किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३२/५९) पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३३/५९) ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३४/५९) न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३५/५९) अयम् तावत् अदोषः यत् उच्यते शब्दे ल्युडर्थः इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३६/५९) न अवश्यम् करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३७/५९) तत् यथा प्रस्कन्दनम् प्रपतनम् इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३८/५९) अथ वा शब्दैः अपि शब्दाः व्याक्रियन्ते ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-३९/५९) तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न अश्वः न गर्दभः इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४०/५९) अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४१/५९) एवम् तर्हि लक्ष्यलक्षणे व्याकरणम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४२/५९) लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४३/५९) किम् पुनः लक्ष्यम् लक्षणम् च ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४४/५९) शब्दः लक्ष्यम् सूत्रम् लक्षणम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४५/५९) एवम् अपि अयम् दोषः समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे न उपपद्यते ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४६/५९) सूत्राणि च अधीयानः इष्यते वैयाकरणः इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४७/५९) न एषः दोषः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४८/५९) समुदायेषु हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-४९/५९) तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५०/५९) एवम् अयम् समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे अपि वर्तते ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५१/५९) अथ वा पुनः अस्तु सूत्रम् ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५२/५९) ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५३/५९) न एष दोषः ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५४/५९) व्यपदेशिवद्भावेन भविष्यति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५५/५९) यत् अपि उच्यते शब्दाप्रतिपत्तिः इति न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५६/५९) ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५७/५९) अविजानतः एतत् एवम् भवति ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५८/५९) सूत्रतः एव हि शब्दान् प्रतिपद्यन्ते ।

(प-१४; अकि-१,११.१४-१२.२७; रो-१,४२-४७; भा-५९/५९) आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१/८०) अथ किमर्थः वर्णानाम् उपदेशः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२/८०) वृत्तिसमवायार्थः उपदेशः । वृत्तिसमवायार्थः वर्णानाम् उपदेशः कर्तव्यः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३/८०) किम् इदम् वृत्तिसमवयार्थः इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४/८०) वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५/८०) का पुनः वृत्तिः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६/८०) शास्त्रप्रवृत्तिः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७/८०) अथ कः समवयः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-८/८०) वर्णानाम् आनुपूर्व्येण सन्निवेशः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-९/८०) अथ कः उपदेशः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१०/८०) उच्चारणम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-११/८०) कुतः एतत् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१२/८०) दिशिः उच्चारणक्रियः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१३/८०) उच्चार्य हि वर्णान् आह ॒ उपदिष्टाः इमे वर्णाः इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१४/८०) अनुबन्धकरणार्थः च । अनुबन्धकरणार्थः च वर्णानाम् उपदेशः कर्तव्यः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१५/८०) अनुबन्धान् आसङ्क्ष्यामि इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१६/८०) न हि अनुपदिश्य वर्णान् अनुबन्धाः शक्याः आसङ्क्तुम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१७/८०) सः एषः वर्णानाम् उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१८/८०) वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-१९/८०) प्रत्याहारः वृत्त्यर्थः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२०/८०) इष्टबुद्ध्यर्थः च ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२१/८०) इष्टबुद्ध्यर्थः च वर्णानाम् उपदेशः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२२/८०) इष्टान् वर्णान् भोत्स्ये इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२३/८०) इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः । इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः कर्तव्यः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२४/८०) एवङ्गुणाः अपि हि वर्णाः इष्यन्ते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२५/८०) आकृत्युपदेशात् सिद्धम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२६/८०) आकृत्युपदेशात् सिद्धम् एतत् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२७/८०) अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२८/८०) तथा इवर्णकुलाकृतिः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-२९/८०) तथा उवर्णकुलाकृतिः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३०/८०) आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३१/८०) आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३२/८०) के पुनः संवृतादयः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३३/८०) संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३४/८०) अपरः आह ॒ ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३५/८०) अतः अन्ये व्यञ्जनदोषाः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३६/८०) न एषः दोषः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३७/८०) गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३८/८०) अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-३९/८०) किम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४०/८०) समुदायानाम् साधुत्वम् यथा स्यात् इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४१/८०) एवम् तर्हि अष्टादशधा भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४२/८०) सा तर्हि वक्तव्या ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४३/८०) लिङ्गार्था तु प्रत्यापत्तिः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४४/८०) लिङ्गार्थ सा तर्हि भविष्यति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४५/८०) तत् तर्हि वक्तव्यम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४६/८०) यदि अपि एतत् उच्यते अथ वा एतर्हि अनुबन्धशतम् न उच्चार्यम् इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४७/८०) यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४८/८०) सिध्यति एवम् अपाणिनीयम् तु भवति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-४९/८०) यथान्यासम् एव अस्तु ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५०/८०) ननु च उक्तम् आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति ।परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५१/८०) ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५२/८०) किम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५३/८०) समुदायानाम् साधुत्वम् यथा स्यात् इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५४/८०) एवम् तर्हि उभयम् अनेन क्रियते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५५/८०) पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५६/८०) कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५७/८०) लभ्यम् इति आह ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५८/८०) कथम् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-५९/८०) द्विगताः अपि हेतवः भवन्ति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६०/८०) तत् यथा ॒ आम्राः च सिक्ताः पितरः च प्रीणिताः इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६१/८०) तथा वाक्यानि अपि ड्विष्ठानि भवन्ति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६२/८०) श्वेतः धावति , अलम्बुसानाम् याता इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६३/८०) अथ वा इदम् तावत् अयम् प्रष्टव्यः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६४/८०) क्वे इमे संवृतादयः श्रूयेरन् इति ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६५/८०) आगमेषु ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६६/८०) आगमाः शुद्धाः पठ्यन्ते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६७/८०) विकारेषु तर्हि ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६८/८०) विकाराः शुद्धाः पठ्यन्ते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-६९/८०) प्रत्ययेषु तर्हि ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७०/८०) प्रत्ययाः शुद्धाः पठ्यन्ते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७१/८०) धातुषु तर्हि ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७२/८०) धातवः अपि शुद्धाः पठ्यन्ते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७३/८०) प्रातिपदिकेषु तर्हि ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७४/८०) प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७५/८०) यानि तर्हि अग्रहणानि प्रातिपदिकानि ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७६/८०) एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७७/८०) शशः षषः इति मा भूत् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७८/८०) पलाशः पलाषः इति मा भूत् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-७९/८०) मञ्चकः मञ्जकः इति मा भूत् ।

(प-१५; अकि-१,१३.१-१४.२२; रो-१,४७-५३; भा-८०/८०) आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः ।