महासुभाषितसंग्रह ३००१-४०००

विकिपुस्तकानि तः
Jump to navigation Jump to search

३०००-१ अर्थिनो जठरज्वालादग्धा वाक्कंचिदञ्चति ।
३०००-२ तां चाशमयतो वित्तं किन्निमित्तं न विद्महे ।।

३००१-१ अर्थिप्रत्यर्थिलक्षैरप्यपराङ्मुखचेतसं ।
३००१-२ त्वां पराङ्मुखतां निन्युः केवलं परयोषितः ।।

३००२-१ अर्थिभुक्तावशिष्टं यत्तदश्नीयान्महाशयः ।
३००२-२ श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ।।

३००३-१ अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिता राशयो वादे वादिविषाणिनां प्रतिहताः शास्त्रोक्तिगर्वा गिरः ।
३००३-२ उत्खातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयं ।।

३००४-१ अर्थिभ्यश्च द्विषद्भ्यश्च वैमुख्यं यस्य नास्त्यसौ ।
३००४-२ महोदारः सदा शान्तः कृतज्ञः कोऽपि दुर्लभः ।।

३००५-१ अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः ।
३००५-२ आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचक- श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ।।

३००६-१ अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च ।
३००६-२ नष्टधनश्च सशोकः सुखमास्ते निःस्पृहः पुरुषः ।।

३००७-१ अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
३००७-२ तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ।।

३००८-१ अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं लुब्धोऽकीर्तिमसंगरः परिभवं दुष्टोऽन्यदोषे रतिं ।
३००८-२ निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः संशयं दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ।।

३००९-१ अर्थेन किं कृपणहस्तगतेन तेन रूपेण किं गुणपराक्रमवर्जितेन ।
३००९-२ मित्रेण किं व्यसनकालपराङ्मुखेन ज्ञानेन किं बहुशठाधिकमत्सरेण ।।

३०१०-१ अर्थेन परिहीणं तु नरमस्पृश्यतां गतं ।
३०१०-२ त्यजन्ति बान्धवाः सर्वे मृतं सत्त्वमिवासवः ।।

३०११-१ अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति ।
३०११-२ अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयं ।।

३०१२-१ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
३०१२-२ व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ।।

३०१३-१ अर्थेन हीनः पुरुषस्त्यज्यते मित्रबान्धवैः ।
३०१३-२ त्यक्तलोकक्रियाहारः परासुरिव निष्प्रभः ।।

३०१४-१ अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः ।
३०१४-२ को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ।।

३०१५-१ अर्थेनोपार्ज्यते धर्मो धर्मेणार्थ उपार्ज्यते ।
३०१५-२ अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनं ।।

३०१६-१ अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणां ।
३०१६-२ भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यतां ।।

३०१७-१ अर्थे प्रत्युपलब्धे च परदोषे च कीर्तिते ।
३०१७-२ आत्मानं साधु कर्तव्यं शीलवृत्तमभीप्सितं ।।

३०१८-१ अर्थेभ्यो हि विवृत्तेभ्यः संभृतेभ्यस्ततस्ततः ।
३०१८-२ क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ।।

३०१९-१ अर्थेषु काममुपलभ्य मनोरथो मे स्त्रीणां धनेष्वनुचितं प्रणयं करोति ।
३०१९-२ माने च कार्यकरणे च विलम्बमानो धिग्भोः कुलं च पुरुषस्य दरिद्रतां च ।।

३०२०-१ अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमुपायवत्सु ।
३०२०-२ जितेन्द्रियं नानुतपन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवं ।।

३०२१-१ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
३०२१-२ ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ।।

३०२२-१ अर्थैरनेकैर्जननीममुष्याश्चित्तं च दत्त्वा चिरकालचिन्त्यं ।
३०२२-२ संतोषयेयं सहसैव भद्रे न चेत्कथं स्यादिह नः प्रवेशः ।।

३०२३-१ अर्थैरर्था निबघ्यन्ते गजैरिव महागजाः ।
३०२३-२ न ह्यनर्थवता शक्यं वाणिज्यं कर्तुमीहया ।।

३०२४-१ अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः ।
३०२४-२ धर्मार्थविद्यार्जनतो मतिर्यस्य निवर्तते ।।

३०२५-१ अर्थो गिरामपिहितः पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाभः ।
३०२५-२ नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः ।।

३०२६-१ अर्थोत्कण्ठावकुण्ठप्रमुषितविनयैर्लुठ्यतां नाकिशुण्ठैः प्रत्नो रत्नोच्चयः किं त्वतिविषमदशां तामनुध्याय खिद्ये ।
३०२६-२ सिन्धो मन्थाद्रिमन्थात्तरलतरबृहद्भङ्गसंघातघात- प्रभ्रश्यन्मूलवेलागिरिगणपतनोद्दामधामन्धमीका ।।

३०२७-१ अर्थो नराणां पतिरङ्गनानां वर्षा नदीनामृतुराट्तरूणां ।
३०२७-२ स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ।।

३०२८-१ अर्थो न संभृतः कश्चिन्न विद्या काचिदर्जिता ।
३०२८-२ न तपः संचितं किंचिद्गतं च सकलं वयः ।।

३०२९-१ अर्थो नाम जनानां जीवितमखिलक्रियाकलापश्च ।
३०२९-२ तमपि हरन्त्यतिधूर्ताः छगलगला गायना लोके ।।

३०३०-१ अर्थोपचयविज्ञानं अस्ति यस्य स पण्डितः ।
३०३०-२ सरः सलिलसंपूर्णं आश्रयन्ति विहङ्गमाः ।।

३०३१-१ अर्थोपार्जनदक्षश्च क्षान्तिशीलः सदा भवेत् ।
३०३१-२ न तत्र परकार्याणि विद्वानापि विशेषयेत् ।।

३०३२-१ अर्थोऽप्यर्थेन चेत्साध्यः का वार्ता धर्मकामयोः ।
३०३२-२ अर्थः सर्वजगन्मूलं अनर्थोऽर्थविपर्ययः ।।

३०३३-१ अर्थो विनैवार्थनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः ।
३०३३-२ मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ।।

३०३४-१ अर्थोष्मा पितृलालनं विटघटामेलः प्रियंमन्यता तारुण्यं नगरे स्थितिस्तरलता धीः कामशास्त्रं प्रति ।
३०३४-२ संगीतं रजनी विधुर्मधुमदः स्पर्धा सपत्नैस्तथा वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकं ।।

३०३५-१ अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या ।
३०३५-२ साप्यस्ति चेन्न नववक्रगतिस्तदेतद्व्यर्थं विना रसमहो गहनं कवित्वं ।।

३०३६-१ अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः ।
३०३६-२ जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ।।

३०३७-१ अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते ।
३०३७-२ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलं ।।

३०३८-१ अर्थौचित्यवता सूक्तिरलंकारेण शोभते ।
३०३८-२ पीनस्तनस्थितेनेव हारेण हरिणेक्षणा ।।

३०३९-१ अर्धं कलङ्करहिता करुणैव शंभोरर्धं गुणास्तदितरे सकलाः समेताः ।
३०३९-२ इत्यम्ब संप्रति किल स्फुरितं रहस्यं संपश्यतो मम भवन्मयमैशमर्धं ।।

३०४०-१ अर्धं जितं त्रिपुरमम्ब तव स्मितं चेदर्धान्तरेण च तथा भवितव्यमेव ।
३०४०-२ तच्चिन्तये जननि कारणसूक्ष्मरूप- स्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ।।

३०४१-१ अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपादेकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
३०४१-२ एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं तुल्यानिच्छाविधित्सा तनुरवतु स वो यस्य संध्याविधाने ।।

३०४२-१ अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले पुरहराभावे समुन्मीलति ।
३०४२-२ गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां तु भिक्षाटनं ।।

३०४३-१ अर्धं नीत्वा निशायाः सरभससुरतायाससंश्लेषयोगैः प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
३०४३-२ संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दभाग्यः ।।

३०४४-१ अर्धं प्रेमनिबद्धमर्धमपरं लज्जाश्रितं मानसं एवं नेत्रसरोरुहं प्रियमुखे चान्यद्गवाक्षेऽर्पितं ।
३०४४-२ पर्यङ्के पदमेकमेव धरणौ पृष्ठे च कृत्वापरं स्थातुं गन्तुमपि प्रभातसमये शक्नोति नैवाबला ।।

३०४५-१ अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।
३०४५-२ भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ।।

३०४६-१ अर्धं सज्जनसंपर्कादविद्याया विनश्यति ।
३०४६-२ चतुर्भागस्तु शास्त्रार्थैश्चतुर्भागं स्वयत्नतः ।।

३०४७-१ अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्नर्धं पुमांस इति दर्शयितुं भवत्या ।
३०४७-२ स्त्रीपुंसलक्षणमिदं वपुरादृतं यत्तेनासि देवि विदिता त्रिजगच्छरीरा ।।

३०४८-१ अर्धचन्द्रं च चक्रं च शकटं मकरं तथा ।
३०४८-२ कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ।।

३०४९-१ अर्धचन्द्रवदाकारं स्त्रीनामार्थं च त्र्यक्षरं ।
३०४९-२ नकारादि रिकारान्तं यो जानाति स पण्डितः ।।

३०५०-१ अर्धचन्द्रसमायुक्तं पुंनाम चतुरक्षरं ।
३०५०-२ ककारादि लकारान्तं इह जानाति पण्डितः ।।

३०५१-१ अर्धचन्द्राकृतिर्यस्मिन्खङ्गे स्वाभाविकी भवेत् ।
३०५१-२ अपि दोषसहस्राणि हन्ति चन्द्रस्तमो यथा ।।

३०५२-१ अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितं ।
३०५२-२ तद्विज्ञेयं धनुर्दिव्यं शंकरेण धृतं पुरा ।।

३०५३-१ अर्धपीतमदिरा मणिपारी शोभतां कथमतीव तरुण्याः ।
३०५३-२ चुम्बितैरधिकपाटलभासा पूरिताधरमयूखभरेण ।।

३०५४-१ अर्धपीतस्तनं मातुरामर्दाक्लिष्टकेसरं ।
३०५४-२ प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ।।

३०५५-१ अर्धपुरुषे च मत्स्यः पारावतसंनिभश्च पाषाणः ।
३०५५-२ मृद्भवति तत्र नीला दीर्घं कालं च बहुतोयं ।।

३०५६-१ अर्धप्रोथस्थिता रेखा दृश्यन्ते यस्य वाजिनः ।
३०५६-२ तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरं ।।

३०५७-१ अर्धप्लुष्टं बहुभ्यः शवपिशितमुपाहृत्य हृष्टश्चिताभ्यो जातग्रासातिरेकः स्फुटतरधमनीनद्धशुष्कार्द्रकायः ।
३०५७-२ प्रेतः संतर्ज्य दृष्ट्या कुटिलपरुषया मज्जनिष्कर्षशुष्कैराहन्त्याहारलुब्धान्मुहुरभिपततो जम्बुकानस्थिखण्डैः ।।

३०५८-१ अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा ।
३०५८-२ यन्मुहूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः ।।

३०५९-१ तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकं ।
३०५९-२ तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाति चापलं ।।

३०६०-१ अर्धरात्रे दिनस्यार्धे त्वर्धचन्द्रेऽर्धभास्करे ।
३०६०-२ रावणेन हृता सीता कृष्णपक्षे सिताष्टमी ।।

३०६१-१ अर्धसिद्धेषु कार्येषु आत्मगुह्यं प्रकाशयेत् ।
३०६१-२ स एव निधनं याति बकः कर्कटकाद्यथा ।।

३०६२-१ अर्धस्मितेन विनिमन्त्र्य दशार्धबाणं अर्धं विधूय वसनाञ्चलमर्धमार्गे ।
३०६२-२ अर्धेन नेत्रविशिखेन निवृत्य सार्धं अर्धार्धमेव तरुणी तरुणं चकार ।।

३०६३-१ अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः ।
३०६३-२ ततो हस्तेन हीनश्च हीन एव स्मृतो हयः ।।

३०६४-१ अर्धाङ्गनापुंवपुषः पुरारेर्मूर्त्तिः श्रियं नौरिव वस्तनोतु ।
३०६४-२ प्रेमातिभारादपरं यदर्धं ममज्ज शृङ्गाररसाम्बुराशौ ।।

३०६५-१ अर्धाङ्गाहितपौर्वकीर्तिवनितादीव्यत्सितांशुप्रभं कैलासीकृतदिक्करीन्द्रशिरसि न्यस्तस्वपादाम्बुजं ।
३०६५-२ विश्वव्याप्यविनाशि शंकरपदं यायात्त्वदीयं यशो न स्यादस्य यदि क्षितीश भवतो दानादिकेभ्यो जनिः ।।

३०६६-१ अर्धाङ्गुलपरीणाहजिह्वाग्रायासभीरवः ।
३०६६-२ सर्वाङ्गक्लेशजननं अबुधाः कर्म कुर्वते ।।

३०६७-१ अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
३०६७-२ कस्याश्चिदासीद्रशना तदानीं अङ्गुष्ठमूलार्पितसूत्रशेषा ।।

३०६८-१ अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः ।
३०६८-२ ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ।।

३०६९-१ अर्धासने समधिरोप्य सुरद्विपस्य शक्रोऽपि यद्युधि शचीं कवचीकरोति ।
३०६९-२ धीरस्य तस्य सहते दशकन्धरस्य कः साहसैकरसिकः करवालधारां ।।

३०७०-१ अर्धेन जलदश्यामं अर्धेनातपपिङ्गलं ।
३०७०-२ अर्धनारीश्वराकारं न को मन्येत वासरं ।।

३०७१-१ अर्धोक्ते भयमागतोऽसि किमिदं कण्ठश्च किं गद्गदश्चाटोरस्य न च क्षणोऽयमनुपक्षिप्तेयमास्तां कथा ।
३०७१-२ ब्रूहि प्रस्तुतमस्तु संप्रति महत्कर्णे सखीनां मुखैस्तृप्तिर्निर्भरमेभिरक्षरपदैः प्रागेव मे संभृता ।।

३०७२-१ अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण ।
३०७२-२ पिबति निदाघज्वरिता घनधारां करपुटेनैव ।।

३०७३-१ अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं सद्यः प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जतः ।
३०७३-२ मात्रा चाङ्गुलिलालितस्य वदने स्मेरायमाने मुहुर्विष्णोः क्षीरकणोरुधामधवला दन्तद्युतिः पातु वः ।।

३०७४-१ अर्पयति प्रतिदिवसं प्रियस्य पथि लोचने बाला ।
३०७४-२ निक्षिपति कमलमालाः क्ॐअलमिव कर्तुमध्वानं ।।

३०७५-१ अर्पयन्त्यर्थिने प्राणान्न प्रणाममरातये ।
३०७५-२ न नास्तीत्युत्तरं जातु सुहृदे सुमनोजनाः ।।

३०७६-१ अर्पितं रसितवत्यपि नाम- ग्राहमन्ययुवतेर्दयितेन ।
३०७६-२ उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ।।

३०७७-१ अर्पिताः प्रथमतस्त्वयि गावो गोपशावक इति प्रणयेन ।
३०७७-२ दीयते पुनरिदं धनहीनैर्वेतनं गरुडकेतन चेतः ।।

३०७८-१ अर्वागभ्येत्य गर्वादिव सरिदवरा सेयमित्युद्दिधीर्षाः कालिन्दीं कोपवेगाकलितहलहठोत्क्षेपिणः क्षेमहेतुः ।
३०७८-२ तालाङ्कस्याशु दालारसविवशहृदः स्रंसदंसोत्तरीयं तिर्यग्व्यस्ताड्घ्रि भूयः सुवलनमथ लघूत्थानमाधावनं तत् ।।

३०७९-१ अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो गम्भीरं कविपुङ्गवस्य किमहो सर्वस्वमुद्धाट्यते ।
३०७९-२ व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे कोऽयं नाम सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकां ।।

३०८०-१ अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां नित्यापर्णोऽपि तापत्रितयमपनयन्स्थाणुरव्यादपूर्वः ।
३०८०-२ यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः पाथोभिर्लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजां ।।

३०८१-१ अलंकरोति यः श्लोकं शुक एव न मध्यमः ।
३०८१-२ अलं करोति यः श्लोकं शुक एव नमध्यमः ।।

३०८२-१ अलंकरोति हि जरा राजामात्यभिषग्यतीन् ।
३०८२-२ विडम्बयति पण्यस्त्रीमल्लगायनसेवकान् ।।

३०८३-१ अलंकर्तुं कर्णौ भृशमनुभवन्त्या नवरुजं ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः ।
३०८३-२ कराब्जव्यापारानतिसुकृतसारान्रसयतो जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ।।

३०८४-१ अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
३०८४-२ अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ।।

३०८५-१ अलंकारप्रियो विष्णुर्जलधाराप्रियः शिवः ।
३०८५-२ नमस्कारप्रियो भानुर्ब्राह्मणो भोजनप्रियः ।।

३०८६-१ अलंकारभृतो रीतिमन्तः सिद्धा रसोन्नतौ ।
३०८६-२ लक्षणैर्लक्षितात्मानः कृतिनो ननु केचन ।।

३०८७-१ अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।
३०८७-२ दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः ।।

३०८८-१ यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
३०८८-२ क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः ।।

३०८९-१ क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।।

३०९०-१ अलंकृतः काञ्चनकोटिमूल्यैर्महार्हरत्नैर्गजवाजिवाहैः ।
३०९०-२ निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ।।

३०९१-१ अलंक्रियन्ते शिखिनः केकया मदरक्तया ।
३०९१-२ वाचा विपश्चितोऽत्यर्थं माधुर्यगुणयुक्तया ।।

३०९२-१ अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलशक्तिरग्र्या ।
३०९२-२ व्यापाददावानलवारिधारा प्रत्येह च क्षान्तिरनर्थशान्तिः ।।

३०९३-१ अलं त्रिदिववार्तया किमिति सार्वभ्ॐअश्रिया विदूरतरवर्तिनी भवतु मोक्षलक्ष्मीरपि ।
३०९३-२ कलिन्दगिरिनन्दिनीतटनिकुञ्जपुञ्जोदरे मनो हरति केवलं नवतमालनीलं महः ।।

३०९४-१ अलं नलं रोद्धुममी किलाभवन्गुणा विवेकप्रमुखा न चापलं ।
३०९४-२ स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिसर्ग ईदृशः ।।

३०९५-१ अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
३०९५-२ कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ।।

३०९६-१ अलं वा बहु यो ब्रूते हितवाक्यावमानिनः ।
३०९६-२ स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ।।

३०९७-१ अलं वा बहुवादेन यत्र यत्रानुरज्यसे ।
३०९७-२ तत्र तत्रैव ते दुःखदावपावकपङ्क्तयः ।।

३०९८-१ अलं विलङ्घ्य प्रियविज्ञ याच्ञां कृत्वापि वाम्यं विविधं विधेये ।
३०९८-२ यशःपथादाश्रवतापदोत्थात्खलु स्खलित्वास्तखलोक्तिखेलात् ।।

३०९९-१ अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः ।
३०९९-२ गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमर्तिः ।।

३१००-१ अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः ।
३१००-२ ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ।।

३१०१-१ अलं स्थित्वा श्मशानेऽस्मिन्गृध्रग्ॐआयुसंकुले ।
३१०१-२ कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ।।

३१०२-१ न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।
३१०२-२ प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ।।

३१०३-१ अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन ।
३१०३-२ अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ।।

३१०४-१ अलकतमः परिपीतं सुस्मितसुषमापुरस्कृतं मधुरं ।
३१०४-२ को न सुधानिधिसहजं सुमुखि मुखं हन्त संमनुतां ।।

३१०५-१ अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैर्धृताः ।
३१०५-२ उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रतां ।।

३१०६-१ अलकेषु चूर्णभासः स्वेदलवाभान्कपोलफलकेषु ।
३१०६-२ नवघनकौतुकिनीनां वारिकणान्पश्यति कृतार्थः ।।

३१०७-१ अलक्तको यथा रक्तो नरः कामी तथैव च ।
३१०७-२ हृतसारस्तथा सोऽपि पादमूले निपात्यते ।।

३१०८-१ अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा ।
३१०८-२ अबलाभिर्बलाद्रक्तः पादमूले निपात्यते ।।

३१०९-१ अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु ।
३१०९-२ स्मरेणापि सरोजाक्षी न लक्ष्यीक्रियते शरैः ।।

३११०-१ अलक्षितगतागतैः कुलवधूकटाक्षैरिव क्षणानुनयशीतलैः प्रणयकेलिकोपैरिव ।
३११०-२ सुवृत्तमसृणोन्नतैर्मृगदृशामुरोजैरिव त्वदीयतुरगैरिदं धरणिचक्रमाक्रम्यते ।।

३१११-१ अलक्ष्मीराविशत्येनं शयानमलसं नरं ।
३१११-२ निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ।।

३११२-१ अलघुता जठरस्य कुचौ गता चरणचञ्चलता नयने गता ।
३११२-२ सखि विलोकय मे तनुचेष्टितं विनिमयप्रगतं नवयौवनं ।।

३११३-१ अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
३११३-२ अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ।।

३११४-१ अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृतां ।
३११४-२ प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ।।

३११५-१ अलङ्घ्यं सर्वेषामिह खलु फलं कर्मजनितं विपत्कर्मप्रैष्या व्यथयति न जातासि हृदयं ।
३११५-२ यदज्ञाः कुर्वन्ति प्रसभमुपहासं धनमदादिदं त्वन्तर्गाढं परमपरितापं जनयति ।।

३११६-१ अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
३११६-२ रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ।।

३११७-१ अलब्धदुग्धादिरसो रसावहं तदुद्भवो निम्बरसं कृमिर्यथा ।
३११७-२ अदृष्टजैनेन्द्रवचोरसायनस्तथा कुतत्त्वं मनुते रसायनं ।।

३११८-१ अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
३११८-२ रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ।।

३११९-१ अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
३११९-२ पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ।।

३१२०-१ अलब्धलिप्सा न्यायेन लब्धस्य च विवर्धनं ।
३१२०-२ परिवृद्धस्य विधिवत्पात्रे संप्रतिपादनं ।।

३१२१-१ अलब्धवेतनो लुब्धो मानी चाप्यवमानितः ।
३१२१-२ क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः ।।

३१२२-१ यथाभिलषितैः कामैर्भिन्द्यादेतांश्चतुर्विधान् ।
३१२२-२ परपक्षे स्वपक्षे च यथावत्प्रशमं नयेत् ।।

३१२३-१ अलब्धान्तः प्रवेशस्य तारमाक्रन्दतो बहिः ।
३१२३-२ प्रभो करुणया कर्णे क्रियन्तां कृपणोक्तयः ।।

३१२४-१ अलब्धे रागिणो लोका अहो लब्धे विरागिणः ।
३१२४-२ हेमन्ते तापमीहन्ते हन्त ग्रीष्मे हिमं पुनः ।।

३१२५-१ अलब्ध्वापि धनं राज्ञः संश्रिता यान्ति संपदं ।
३१२५-२ महाह्रदसमीपस्थं पश्य नीलं वनस्पतिं ।।

३१२६-१ अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः ।
३१२६-२ आनन्तर्यं चारभते न प्राणानां धनायते ।।

३१२७-१ अलभन्त नभःक्षेत्रे तारास्तरलकान्तयः ।
३१२७-२ त्विषं तुषारबीजानां नूतनाङ्कुरशालिनां ।।

३१२८-१ अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरं ।
३१२८-२ जिगीषुणा ह्रियं त्यक्त्वा कार्यं कोलाहलो महान् ।।

३१२९-१ अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी ।
३१२९-२ अलब्धेषु मनस्तापः संचितार्थो विनश्यति ।।

३१३०-१ अलभ्यलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय च ।
३१३०-२ यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय ।।

३१३१-१ अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्संगमेनाङ्गनायाः ।
३१३१-२ इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ।।

३१३२-१ अलमथवा बहुवादैर्विरचय लोकानुरागनिर्बन्धं ।
३१३२-२ तत्रैकत्र समग्रं तन्निहितं यन्न जातु संनिहितं ।।

३१३३-१ अलमन्ध भुजायष्टिभ्रान्त्या भ्रातर्जडस्य ते ।
३१३३-२ दंशाय दंदशूकोऽयं दंशमुद्रां न मुञ्चति ।।

३१३४-१ अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदं ।
३१३४-२ प्रायः समानविद्याः परस्परयशःपुरोभागाः ।।

३१३५-१ अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः ।
३१३५-२ पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ।।

३१३६-१ अलमप्रियाण्युदित्वा रुचिरार्थाः किमिह न स्थिता वाचः ।
३१३६-२ अमृतमिति वचसि सत्यपि विषमिति हि किमुच्यते वारि ।।

३१३७-१ अलमभिमुखैर्बद्धैर्भोगैरलं भ्रमिभिर्दृशोरलमविरलैर्गर्जोद्गारैरलं विषवृष्टिभिः ।
३१३७-२ किमिह भुजगाः कोपावेगैरमीभिरमुद्रितैर्ननु भगवतस्तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ।।

३१३८-१ अलमलमघृणस्य तस्य नाम्ना पुनरपि सैव कथा गतः स कालः ।
३१३८-२ कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयं ।।

३१३९-१ अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनं ।
३१३९-२ चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ।।

३१४०-१ अलमलमतिवृद्ध्या स्थीयतां तस्य पश्यस्यकरुण करभोरोर्भज्यते मध्यमेतत् ।
३१४०-२ इति गुरुजघनाज्ञाचोदिता र्ॐअराजिः स्तनयुगमसिताक्ष्या वक्तुमारोहतीव ।।

३१४१-१ अलमलमनुगम्य प्रस्थितं प्राणनाथं प्रथमविरहशोके न प्रतीकार एषः ।
३१४१-२ सपदि रमणयात्रा श्रेय इत्यारटन्त्या चरणपतनपूर्वं सा निरुद्धेव काञ्च्या ।।

३१४२-१ अलमलमियमेव प्राणिनां पातकानां निरसनविषये या कृष्ण कृष्णेति वाणी ।
३१४२-२ यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा विलुठति चरणाब्जे मोक्षसाम्राज्यलक्ष्मीः ।।

३१४३-१ अलमात्मीयं विदितं विदितं धनिकस्य याचकोऽवहितः ।
३१४३-२ चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमना ।।

३१४४-१ अलमादिवराहेण वटुदासं परं स्तुमः ।
३१४४-२ जगदुद्धरता येन न वक्रीकृतमाननं ।।

३१४५-१ अलमुदकेन तृणैर्वा मनस्विना प्राणधारणा कार्या ।
३१४५-२ नासंस्कृतश्च पुरुषः प्राकृतसत्त्वः प्रणयितव्यः ।।

३१४६-१ अललितगतिरुच्चैः स्थूलवक्राङ्गुलीकं वहति चरण युग्मं कन्धरां ह्रस्वपीनां ।
३१४६-२ कपिलकचकलापा क्रूरचेष्टातिपीना द्विरदमदविगन्धिः स्वाङ्ककेऽनङ्कके च ।।

३१४७-१ द्विगुणकटुकषायप्रायभुग्वीतलज्जा लुलदतिविपुलोष्ठी दुःखसाध्या प्रयोगे ।
३१४७-२ बहिरपि बहुर्ॐआत्यन्तमन्तर्विशालं वहति जघनरन्ध्रं हस्तिनी गद्गदोक्तिः ।।

३१४८-१ अलसं मुखरं स्तब्धं क्रूरं व्यसनिनं शठं ।
३१४८-२ असंतुष्टमभक्तं च त्यजेद्भृत्यं नराधिपः ।।

३१४९-१ अलसं वपुषि श्लथं दुकूले चपलं चेतसि धूसरं कपोले ।
३१४९-२ चकितं नयने स्तने विलोलं तव नामश्रवणं तनूदरीणां ।।

३१५०-१ अलसं विक्रमश्रान्तं विहतोपायचेष्टितं ।
३१५०-२ क्षयव्ययप्रवासैश्च श्रमेण विपरिद्रुतं ।।

३१५१-१ भीरुं मूर्खं स्त्रियं बालं धार्मिकं दुर्जनं पशुं ।
३१५१-२ मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ।।

३१५२-१ अलसभुजलताभिर्नादृतो नागरीभिर्भवनदमनकानां नातिथिर्वा बभूव ।
३१५२-२ त्वदरिनगरमध्ये संचरंश्चैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः ।।

३१५३-१ अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागता किसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः ।
३१५३-२ त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः प्रकृतिसुभगा गर्भेणासौ किमप्युपपादिता ।।

३१५४-१ अलसमुकुलिताक्षं वक्त्रमालोक्य तस्या मयि विलुलितचित्ते मूकभावं प्रपन्ने ।
३१५४-२ श्रवणकुवलयान्तश्चारिणा षट्पदेन क्षणमनुगतनादं गीतमन्तः स्मरामि ।।

३१५५-१ अलसयति गात्रमधिकं भ्रमयति चेतस्तनोति संतापं ।
३१५५-२ मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः ।।

३१५६-१ अलसलुलितमुग्धान्यध्वसंपातखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
३१५६-२ परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ।।

३१५७-१ अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
३१५७-२ हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ।।

३१५८-१ अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरीं अदनकदनस्विन्नं धन्यं महद्वदनाम्बुजं ।
३१५८-२ तरुणमरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरं जयति विजयश्रेणीमेणीदृशां मदयन्महः ।।

३१५९-१ अलसविलसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानां ।
३१५९-२ प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानां ।।

३१६०-१ अलसस्य कुतो विद्या अविद्यस्य कुतो धनं ।
३१६०-२ अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखं ।।

३१६१-१ अलसस्याल्पदोषस्य निर्विद्यस्याकृतात्मनः ।
३१६१-२ प्रदानकाले भवति मातापि हि पराङ्मुखी ।।

३१६२-१ अलसानपि न्न्रक्षेन्न कृतघ्नान्कदाचन ।
३१६२-२ द्विषतोऽपि गुणाः काम्याः सुहृदोऽपि न दुर्गुणाः ।।

३१६३-१ अलसारुणलोचनारविन्दां परिभोगोचितधूसरैकचेलां ।
३१६३-२ शिथिलाकुलवेणिबन्धरम्यां अबलामन्तिकशायिनीं दिदृक्षे ।।

३१६४-१ अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः ।
३१६४-२ अलघुप्रसारितविलोचनाञ्जलि- द्रुतपीतमाधवरसौघनिर्भरैः ।।

३१६५-१ अलसो मन्दबुद्धिश्च सुखी च व्याधिपीडितः ।
३१६५-२ निद्रालुः कामुकश्चैव षडेते शास्त्रवर्जिताः ।।

३१६६-१ अलाबुं वर्तुलाकारं वार्ताकं कुन्दसंनिभं ।
३१६६-२ प्राणान्तेऽपि न चाश्नीयान्मसूरान्नं सवल्कलं ।।

३१६७-१ अलाबुबीजं त्रपुसस्य बीजं तस्यैव तोयेन च तन्निषिक्तं ।
३१६७-२ आलेपनाद्यैर्विधिवत्प्रयुक्तं हन्याद्विषं तक्षकसंभवं च ।।

३१६८-१ अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।
३१६८-२ वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ।।

३१६९-१ अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी ।
३१६९-२ किशलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ।।

३१७०-१ अलिनीलालकलतं कं न हन्ति घनस्तनि ।
३१७०-२ आननं नलिनच्छायनयनं शशिकान्ति ते ।।

३१७१-१ अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीं ।
३१७१-२ मृगमदपरिमललहरीं समीर पामरपुरे किरसि ।।

३१७२-१ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
३१७२-२ न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ।।

३१७३-१ अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे ।
३१७३-२ विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथं ।।

३१७४-१ अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिं ।
३१७४-२ निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ।।

३१७५-१ अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः ।
३१७५-२ विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ।।

३१७६-१ अलिर्मृगो वा नेत्रं वा यत्र किंचिद्विभासते ।
३१७६-२ अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ।।

३१७७-१ अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते ।
३१७७-२ भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ।।

३१७८-१ अलीक एव त्वद्भावो मद्भावोऽलीक एव च ।
३१७८-२ अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा ।।

३१७९-१ अलीकरूपो यदि मध्यभागः पयोधराकारभृतश्च केशाः ।
३१७९-२ उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य शोभां कलयेन्न कस्मात् ।।

३१८०-१ अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषादुदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः ।
३१८०-२ अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो मुखेन्दुर्गौराङ्ग्या गलितमृगज्ञक्ष्मा विजयते ।।

३१८१-१ अलीनां मालाभिर्विरचितजटाभारमहिमा परागैः पुष्पाणामुपरचितभस्मव्यतिकरः ।
३१८१-२ वनानामाभोगे कुसुमवति पुष्पोच्चयपरो मरुन्मन्दं मन्दं विचरति परिव्राजक इव ।।

३१८२-१ अलुप्तसत्त्वकोशानां महत्त्वं महतां हि किं ।
३१८२-२ आकर्णितां परस्यार्तिं न चेच्छिन्दन्ति तत्क्षणं ।।

३१८३-१ अलुब्धैः सह सौहार्दं पण्डितैः सह संकथा ।
३१८३-२ उत्तमैः सह सङ्गश्च विधेयाः सुखमिच्छता ।।

३१८४-१ अलोभः परमं वित्तं अहिंसा परमं तपः ।
३१८४-२ अमाया परमा विद्या निरवद्या मनीषिणां ।।

३१८५-१ अल्ॐअशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि ।
३१८५-२ जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ।।

३१८६-१ अलौकिकमहालोकप्रकाशितजगत्त्रयः ।
३१८६-२ स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ।।

३१८७-१ अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पं ।
३१८७-२ कान्तिः प्रसादः स्वरस्ॐयता च योगप्रवृत्तेः प्रथमं हि चिह्नं ।।

३१८८-१ अल्पं किंचिच्छ्रियं प्राप्य नीचो गर्वायते लघु ।
३१८८-२ पद्मपत्रतले भेको मन्यते दण्डधारिणं ।।

३१८९-१ अल्पं दर्पबलं दैत्य स्थिरमक्रोधज बलं ।
३१८९-२ हतस्त्वं दर्पजैर्दोषैर्हित्वा यो भाषसे क्षमां ।।

३१९०-१ अल्पं निर्मितमाकाशं अनालोच्यैव वेधसा ।
३१९०-२ इदमेवंविधं भावि भवत्याः स्तनजृम्भनं ।।

३१९१-१ अल्पतोऽधिकतः साध्यं लघुनैव प्रसाधयेत् ।
३१९१-२ भूप्रदक्षिणतोऽहल्यां गौतमः कपिलां भ्रमन् ।।

३१९२-१ अल्पतोयश्चलत्कुम्भो ह्यल्पदुग्धाश्च धेनवः ।
३१९२-२ अल्पविद्यो महागर्वी कुरूपी बहुचेष्टितः ।।

३१९३-१ अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनं ।
३१९३-२ अनुग्रहमजामूल्यं निग्रहं प्राणसंकटं ।।

३१९४-१ अल्पमप्यवमन्येत न शत्रुर्बलदर्पितः ।
३१९४-२ रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ।।

३१९५-१ अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः ।
३१९५-२ सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ।।

३१९६-१ अल्पसारोऽपि यो मोहाद्विस्तारं कर्तुमिच्छति ।
३१९६-२ पश्चाच्छोचति दुर्बुद्धिर्नालिकेरबको यथा ।।

३१९७-१ अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।
३१९७-२ बहुवचनमल्पसारं यः कथयति विप्रलापी सः ।।

३१९८-१ अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
३१९८-२ तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ।।

३१९९-१ अल्पापकारमपि पार्श्वगतं निहन्ति नीचो न दूरमसमागसमप्यरातिं ।
३१९९-२ श्वा निर्दशत्युपलमन्तिकमापतन्तं तत्त्यागिनं न तु विदूरगमुग्ररोषः ।।

३२००-१ अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
३२००-२ हर्षो योधगणस्यैको जयलक्षणमुच्यते ।।

३२०१-१ अल्पाश्च गुणाः स्फीता भवन्ति गुणसमुदितेषु पुरुषेषु ।
३२०१-२ श्वेतगिरिशिखरकेष्विव निशासु चन्द्रांशवः पतिताः ।।

३२०२-१ अल्पाश्रयं समासाद्य महानप्यल्पको भवेत् ।
३२०२-२ गजेन्द्रः पर्वताकारो यथा दर्पणमाश्रितः ।।

३२०३-१ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।
३२०३-२ हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ।।

३२०४-१ अल्पीयसामेव निवासभूमि- त्यागाद्विपत्तिर्महतां न जातु ।
३२०४-२ रत्नाकरात्सन्मणयोऽभियान्ति राज्ञां शिरः काकमुखानि भेकाः ।।

३२०५-१ अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।
३२०५-२ ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिं ।।

३२०६-१ अल्पेच्छुर्धृतिमान्प्राज्ञश्छायेवानुगतः सदा ।
३२०६-२ आदिष्टो न विकल्पेत स राजवसतिं वसेत् ।।

३२०७-१ अल्पेन विभवेनैव व्ययाधिक्यं न युक्तितः ।
३२०७-२ क्षीणेन वाससाच्छन्ने पादविस्तारणं यथा ।।

३२०८-१ अल्पेनापि सुरक्तेन साधनेन प्रयोजनं ।
३२०८-२ ओष्ठद्वयसहायेन कान्तास्येन जगज्जितं ।।

३२०९-१ अल्पेनैव गुणेन हि कश्चिल्लोके प्रसिद्धिमुपयाति ।
३२०९-२ एकेन करेण गजः करी न सूर्यः सहस्रेण ।।

३२१०-१ अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
३२१०-२ उत्थायाशीर्देया क्वचिदुपविश्यापि परिषदौचित्यात् ।।

३२११-१ अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति ।
३२११-२ तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः ।
३२११-३ निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ।।

३२१२-१ अल्पे वयसि हे बाले कुचयोः पतनः कुतः ।
३२१२-२ अधस्तात्खनने मूढ गिरयो न पतन्ति किं ।।

३२१३-१ अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः ।
३२१३-२ वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ।।

३२१४-१ अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः ।
३२१४-२ अधनी हि धनं प्राप्य तृणवन्मन्यते जगत् ।।

३२१५-१ अवकाशः सुवृत्तानां हृदयान्तर्न योषितां ।
३२१५-२ इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ।।

३२१६-१ अवकेशिनोऽस्य युक्तं जानामि तरोरशोक इति नाम ।
३२१६-२ फलपाकविधुरितात्मा यतोऽन्यथासौ सशोकः स्यात् ।।

३२१७-१ अवक्रस्तारकाधीशः परिपूर्णप्रियोदयः ।
३२१७-२ प्राचीं दिशमतिक्रम्य पतनं प्रतिपद्यते ।।

३२१८-१ अवक्रे मांसहीने च वाजिजङ्घे सुशोभने ।
३२१८-२ कूर्चं समं सुसंधि स्याद्ग्रन्थिव्रणविवार्जितं ।।

३२१९-१ अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितं ।
३२१९-२ स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतं ।।

३२२०-१ अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
३२२०-२ बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ।।

३२२१-१ अवचनं वचनं प्रियसंनिधावनवलोकनमेव विलोकनं ।
३२२१-२ अवयवावरणं च यदञ्चल- व्यतिकरेण तदङ्गसमर्पणं ।।

३२२२-१ अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि ।
३२२२-२ अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ।।

३२२३-१ अवचितकुसुमा विहाय वल्लीर्युवतिषु क्ॐअलमाल्यमालिनीषु ।
३२२३-२ पदमुपदधिरे कुलान्यलीनां नपरिचयो मलिनात्मनां प्रधानं ।।

३२२४-१ अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ।
३२२४-२ गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ।।

३२२५-१ अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
३२२५-२ श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ।।

३२२६-१ अवज्ञया दीयते यत्तथैवाश्रद्धयापि च ।
३२२६-२ तदाहुरधमं दानं मुनयः सत्यवादिनः ।।

३२२७-१ अवज्ञया न दातव्यं कस्य चिल्लीलयापि वा ।
३२२७-२ अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ।।

३२२८-१ अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।
३२२८-२ रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिं ।।

३२२९-१ अवज्ञातोऽपि दुष्टेन गुणो दोषो न मन्यते ।
३२२९-२ नहि चम्पकसौगन्ध्यं पूतिर्भृङ्गावहेलया ।।

३२३०-१ अवज्ञानसहस्रैस्तु दोषाः कष्टतरा धने ।
३२३०-२ धने सुखकला या च सापि दुःखैर्विधीयते ।।

३२३१-१ अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः ।
३२३१-२ संधिं न याति स्फुटितं लाक्षालेपेन मौक्तिकं ।।

३२३२-१ अवतारा ह्यसंखेया हरेः सत्त्वनिधेर्द्विजाः ।
३२३२-२ यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ।।

३२३३-१ अवति निखिललोकं यः पितेवादृतात्मा दहति दुरितराशिं पावको वेन्धनौकं ।
३२३३-२ वितरति शिवसौख्यं हन्ति संसारशत्रुं विदधतु शुभबुद्ध्या तं बुधा धर्ममत्र ।।

३२३४-१ अवतु वः सवितुस्तुरगावली स्फुरति मध्यगतारुणनायका ।
३२३४-२ समभिलम्भिततुङ्गपयोधरा मरकतैकलतेव नभःश्रियः ।।

३२३५-१ अवद्यजम्बालगवेषणाय कृतोद्यमानां खलसैरिभाणां ।
३२३५-२ कवीन्द्रवाङ्निर्जरनिर्झरिण्यां संजायते व्यर्थमनोरथत्वं ।।

३२३६-१ अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः ।
३२३६-२ स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परं ।।

३२३७-१ अवधानेन मौनेन काषायेण जटाजिनैः ।
३२३७-२ विश्वासयित्वा द्वेष्टारं अवलुम्पेद्यथा वृकः ।।

३२३८-१ अवधारय धर्मेषु प्रधानमवधानतः ।
३२३८-२ निर्भरानन्दकन्दाय गोविन्दाय मनोऽर्पय ।।

३२३९-१ अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसंतमसं ।
३२३९-२ सुतनोः स्तनौ च दयितोपगमे तनुर्ॐअराजिपथवेपथवे ।।

३२४०-१ अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः ।
३२४०-२ दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ।।

३२४१-१ अवधिदिवसः प्राप्तश्चायं तनोर्विरहस्य वा रविरयमुपैत्यस्तं सख्यो ममापि च जीवितं ।
३२४१-२ तदलमफलैराशाबन्धैः प्रसीद नमोऽस्तु ते हृदय सहसा पाकोत्पीडं विडम्बय दाडिमं ।।

३२४२-१ अवधिदिवसः सोऽयं नात्रागतः किमियत्क्षणं वितर नयने पश्यैतन्मे पुरः सखि साहसं ।
३२४२-२ इयमियमहं रूढज्वालाकरालितरोदसीं मलयजरसाभ्यक्तैरङ्गैः पताम्यभि क्ॐउदीं ।।

३२४३-१ अवधीरणां कृतवती भवती मयि यत्कुकर्ममहिमा स हि मे ।
३२४३-२ यदि चातको न लभतेऽम्बु घनाद्वचनीयता भवति काम्बुमुचः ।।

३२४४-१ अवधीरय धनविकलं कुरु गौरवमकृशसंपदः पुंसः ।
३२४४-२ अस्मादृशं हि मुग्धे धनसिद्ध्यै रूपनिर्माणं ।।

३२४५-१ अवधूतप्रणिपाताः पश्चात्संतप्यमानमनसोऽपि ।
३२४५-२ निभृतैर्व्यपत्रपन्ते दयितानुनयैर्मनस्विन्यः ।।

३२४६-१ अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तितां ।
३२४६-२ अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनां ।।

३२४७-१ अवधेहि क्षणमेहि भ्रातर्भावज्ञ भावय गिरं नः ।
३२४७-२ चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ।।

३२४८-१ अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना ।
३२४८-२ अवलोक्य समागतं तदा मां अथ रामा विकसन्मुखी बभूव ।।

३२४९-१ अवध्यं वाथवागम्यं अकृत्यं नास्ति किंचन ।
३२४९-२ लोके बुद्धिमतामत्र तस्मात्तां योजयाम्यहं ।।

३२५०-१ अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः ।
३२५०-२ येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ।।

३२५१-१ अवध्यैरिन्दुपादानां असाध्यैश्चन्दनाम्भसां ।
३२५१-२ देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ।।

३२५२-१ अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् ।
३२५२-२ येषां चान्नानि भुक्तानि ये च स्युः शरणं गताः ।।

३२५३-१ अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् ।
३२५३-२ विहिता व्यङ्गिता तेषां अपराधे गरीयसि ।।

३२५४-१ अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
३२५४-२ अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ।।

३२५५-१ अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः ।
३२५५-२ मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ।।

३२५६-१ अवनम्य वक्षसि निमग्नकुच- द्वितयेन गाढमुपगूढवता ।
३२५६-२ दयितेन तत्क्षणचलद्रशना- कलकिंकिणीरवमुदासि वधूः ।।

३२५७-१ अवनौ शनैः शनैस्त्वं निदधासि पदद्वयं स्वस्य ।
३२५७-२ लक्ष्यं पश्यसि न वदसि भजसि जलं बक ततोऽसि सितः ।।

३२५८-१ अवन्तिः काव्यमानर्च भर्चोर्मौखरिशेखरः (?) ।
३२५८-२ शिष्यो बाणश्च संक्रान्तकान्तवेद्यवचाः कविः ।।

३२५९-१ अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
३२५९-२ आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ।।

३२६०-१ अवन्ति ये जनकसमा मुनीश्वराश्चतुर्विधं गणमनवद्यवृत्तयः ।
३२६०-२ स्वदेहवद्दलितमदाष्टकारयो भवन्तु ते मम गुरवो भवान्तकाः ।।

३२६१-१ अवन्ध्यं दिवसं कुर्याद्धर्मतः कामतोऽर्थतः ।
३२६१-२ गते हि दिवसे तस्मिंस्तदूनं तस्य जीवितं ।।

३२६२-१ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
३२६२-२ अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ।।

३२६३-१ अवमानहतं यच्च दत्तमश्रद्धया धनं ।
३२६३-२ ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ।।

३२६४-१ अवमानारणिमथितं दुर्वागिन्धनविवर्धितज्वालं ।
३२६४-२ सत्पुरुषाः कोपाग्निं ज्ञानाम्बुघटैः प्रशमयन्ति ।।

३२६५-१ अवमानेन महतां प्रहर्षक्रोधविस्मयैः ।
३२६५-२ तपांसि क्षयमायान्ति यशांसीव सुदुर्नयैः ।।

३२६६-१ अवमुक्तमपक्रान्तमुख्यं तन्न क्षमं युधि ।
३२६६-२ पितृपैतामहं मौलं तत्क्रुद्धं सान्त्वितं क्षमं ।।

३२६७-१ अवयः केवलकवयः कीराः स्युः केवलं धीराः ।
३२६७-२ वीराः पण्डितकवयस्तानवमन्ता तु केवलं गवयः ।।

३२६८-१ अवयवेषु परस्परबिंबितेष्वतुलनिर्मलकान्तिषु तत्तनोः ।
३२६८-२ अयमयं प्रविभाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः ।।

३२६९-१ अवलम्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः ।
३२६९-२ पत्रमयोऽपि पदार्थः पतङ्गतामेति गुणयोगात् ।।

३२७०-१ अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
३२७०-२ तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ।।

३२७१-१ अवलेपमनङ्गस्य वर्धयन्ति बलाहकाः ।
३२७१-२ कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः ।।

३२७२-१ अवलोकनमपि सुखयति कुवलयदलचारुचपलनयनायाः ।
३२७२-२ किं पुनरलकचलद्द्युति- सरभसमालिङ्गनं तन्व्याः ।।

३२७३-१ अवलोकितमनुमोदित- मालिङ्गितमङ्गनाभिरनुरागैः ।
३२७३-२ अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ।।

३२७४-१ अवलोक्य नर्तितशिखण्डिमण्डलैर्नवनीरदैर्निचुलितं नभस्तलं ।
३२७४-२ दिवसेऽपि वञ्जुलनिकुञ्जमित्वरी विशति स्म वल्लभवतंसितं रसात् ।।

३२७५-१ अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।
३२७५-२ निःश्वस्य रोदिति क्लिष्टा कुतो व्याधकटुम्बिनी ।।

३२७६-१ अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
३२७६-२ दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ।।

३२७७-१ अवश्यं कोपाग्निस्तव सुतनु निर्वास्यति चिरात्स्वशोभामारूढं मुखमपि च ते हास्यति शुचं ।
३२७७-२ भवद्गोष्ठीशून्या मम तु दिवसा यान्ति य इमे न तेषामावृत्तिः पुनरपि मनो दूयत इति ।।

३२७८-१ अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।
३२७८-२ अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ।।

३२७९-१ अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
३२७९-२ नहि केतकवृक्षस्य भवत्यामलकीफलं ।।

३२८०-१ ... ... ... ... ... ... ।
३२८०-२ अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलं ।।

३२८१-१ अवश्यं भाविनं नाशं भावित्वाद्विध्युपस्थितं ।
३२८१-२ अयमेव हि ते कालः पूर्वमासीदनागतः ।।

३२८२-१ अवश्यं भाविनो भावा भवन्ति महातमपि ।
३२८२-२ नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ।।

३२८३-१ अवश्यंभाविभावानां प्रतीकारो भवेद्यद ।
३२८३-२ तदा दुःखैर्न बाध्यन्ते नलरामयुधिष्ठिराः ।।

३२८४-१ अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वममून् ।
३२८४-२ व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ।।

३२८५-१ अवश्यं लभते कर्ता फलं पापस्य कर्मणः ।
३२८५-२ घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवं ।।

३२८६-१ अवश्यकारणैः प्राणान्धारयत्येव चातकः ।
३२८६-२ प्रार्थनाभङ्गभीतोऽपि शक्रादपि न याचते ।।

३२८७-१ अवश्यगत्वरैः प्राणैर्मृत्युकाले महात्मनां ।
३२८७-२ परोपकारश्चेत्कश्चित्सिध्येत्तदमृतं मृतं ।।

३२८८-१ अवश्यनिष्पत्तिमहाफलाढ्यां अदीर्घसूत्रां परिणामकल्यां ।
३२८८-२ कामं व्ययायासकरीमुपेयान्न त्वेव जातु क्षयदोषयुक्तां ।।

३२८९-१ अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ।
३२८९-२ तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ।।

३२९०-१ अवश्यमायान्ति वशं विपश्चितां उपायसंदंशबलेन संपदः ।
३२९०-२ भवत्युदारं विधिवत्प्रयोजिते फलं हि राज्ञां क्वचिदर्थसिद्धये ।।

३२९१-१ अवश्यमिन्द्रियैस्तात वर्तितव्यं स्वगोचरे ।
३२९१-२ चण्डरागस्तु यस्तत्र तं बुधः परिवर्जयेत् ।।

३२९२-१ अवश्यमेव भोक्तव्यं कर्मणां त्वक्षयं फलं ।
३२९२-२ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।।

३२९३-१ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभं ।
३२९३-२ कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ।।

३२९४-१ अवश्यायकणैः प्राणान्संधारयति तित्तिरिः ।
३२९४-२ याच्ञाभङ्गभयाद्भीतो न दैवमपि याचते ।।

३२९५-१ अवसरपठितं सर्वं सुभाषितत्वं प्रयाति यत्किंचित् ।
३२९५-२ चाषः प्रयाणसमये खरनिनदो मङ्गलो भवति ।।

३२९६-१ अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।
३२९६-२ क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु ।।

३२९७-१ अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसां ।
३२९७-२ रतिसमये रमणीनां भूषणहानिस्तु भूषणं भवति ।।

३२९८-१ अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः ।
३२९८-२ अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसंपदोऽङ्गनासु ।।

३२९९-१ अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मरभासितं ।
३२९९-२ न समदाः प्रमदा हतसंमदाः पुरहितं विहितं न समीहितं ।।

३३००-१ अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः ।
३३००-२ व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ।।

३३०१-१ अवस्कन्दभयाद्राजा प्रजागरकृतश्रमं ।
३३०१-२ दिवासुप्तं सदा हन्यान्निद्राव्याकुलसैनिकं ।।

३३०२-१ अवस्था पूज्यते राजन्न शरीरं शरीरिणां ।
३३०२-२ तदा वनचरो राम इदानीं नृपतां गतः ।।

३३०३-१ अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ।
३३०३-२ पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतं ।।

३३०४-१ अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं पतेत् ।
३३०४-२ यः प्रश्नं वितथं ब्रूयात्पृष्टः सन्धर्मनिश्चये ।।

३३०५-१ अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
३३०५-२ निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किं ।।

३३०६-१ अवाप सापत्रपतां स भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।
३३०६-२ असंवरे शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ।।

३३०७-१ अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ।
३३०७-२ पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ।।

३३०८-१ अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ।
३३०८-२ अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ।।

३३०९-१ अवाप्तैर्द्राघिम्णा परिचयमुदन्वत्तटभुवां असौ भाति श्यामद्युतिभिरुदकैर्मेखलभुवः ।
३३०९-२ अगस्त्यस्याकार्षीद्वचनमिति कोपादुदधिना गृहीतः केशेषु प्रसभमिव विन्ध्यक्षितिधरः ।।

३३१०-१ अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः ।
३३१०-२ यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यं ।।

३३११-१ अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन ।
३३११-२ प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ।।

३३१२-१ अवामभागेन यदा वलित्वा श्वा पृष्ठकण्डूतिमपाकरोति ।
३३१२-२ तदह्नि तत्रैव कृतान्तगेहे रोगाभिभूतो नियतं प्रयाति ।।

३३१३-१ अवालुकाश्लक्ष्णमृदा पूरिते गर्तशोधनं ।
३३१३-२ कोदण्डार्धमिते खाते जलसिक्ते वपेत्तरुं ।
३३१३-३ कदलीक्षीरिणौ रोप्यौ मूले दत्त्वा तु ग्ॐअयं ।।

३३१४-१ अवाहिता विनश्यन्ति सर्वकर्मक्षमा अपि ।
३३१४-२ कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात् ।।

३३१५-१ अविकारिणमपि सज्जनं अनिशमनार्यः प्रबाधतेऽत्यर्थं ।
३३१५-२ कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ।।

३३१६-१ अविकृतकृतभ्ॐअरवा सुस्थानस्था सुचेष्टिता वामे ।
३३१६-२ यात्रासु दृष्टमात्रा दुर्गा दुर्गाणि तारयति ।।

३३१७-१ अविक्रियां चैव समाश्रिताः समं हरन्ति जालं मम पक्षिणो ह्यमी ।
३३१७-२ विवादमेष्यन्ति परस्परं यदा समागमिष्यन्ति च मद्वशं तदा ।।

३३१८-१ अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च ।
३३१८-२ तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश्च ।।

३३१९-१ अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।
३३१९-२ तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ।।

३३२०-१ अविचारयतो युक्तिकथनं तुषखण्डनं ।
३३२०-२ नीचेषूपकृतं राजन्बालुकास्विव मूत्रितं ।।

३३२१-१ अविचारेण यत्कर्म कृतं तन्मर्मकृन्तनं ।
३३२१-२ प्रसह्य सीताहरणादतीता रावणश्रियः ।।

३३२२-१ अविजित्य य आत्मानं अमात्यान्विजिगीषते ।
३३२२-२ अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ।।

३३२३-१ अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि ।
३३२३-२ व्रजत्यफलतामेव नयद्रुह इवेहितं ।।

३३२४-१ अविज्ञातप्रयुक्तेन धर्षिता मम वाससा ।
३३२४-२ संवृता शरदभ्रेण चन्द्रलेखेव शोभते ।।

३३२५-१ अविज्ञातविशेषस्य सर्वतेजोऽपहारिणः ।
३३२५-२ स्वामिनो निर्विवेकस्य तमसश्च किमन्तरं ।।

३३२६-१ अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः ।
३३२६-२ आरम्भः कर्मणां शश्वदारब्धस्यान्तदर्शनं ।।

३३२७-१ अविज्ञातस्य विज्ञानं विज्ञातस्य विनिश्चयः ।
३३२७-२ अर्थद्वैधस्य संदेहच्छेदनं शेषदर्शनं ।।

३३२८-१ अविज्ञातावसक्तेन दूषिता मम वाससा ।
३३२८-२ छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ।।

३३२९-१ अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
३३२९-२ विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।।

३३३०-१ अविज्ञातो धृतः खङ्गः शुभसंपत्तिनाशकः ।
३३३०-२ विज्ञातः सकलैश्वर्यदायको भवति प्रभोः ।
३३३०-३ तस्मात्तेषां गुणान्वक्ष्ये यथोक्तं मुनिपुंगवैः ।।

३३३१-१ अविज्ञानाद्राज्ञो भवति मतिहीनः परिजनस्ततस्तत्प्राधान्याद्भवति न समीपे बुधजनः ।
३३३१-२ बुधैस्त्यक्ते राज्ये भवति हि न नीतिर्गुणवती प्रनष्टायां नीतौ सनृपमवशं नश्यति कुलं ।।

३३३२-१ अविज्ञाय फलं यो हि कर्म त्वेवानुधावति ।
३३३२-२ स शोचेत्फलवेलायां यथा किंशुकसेचकः ।।

३३३३-१ अविज्ञायान्यसामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत् ।
३३३३-२ उपहासमवाप्नोति तथैवायमिहाचलः ।।

३३३४-१ अवितथमनोरथपथ- प्रथनेषु प्रगुणगरिमगीतश्रीः ।
३३३४-२ सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वर न कस्य ।।

३३३५-१ अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
३३३५-२ अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसंपदः ।।

३३३६-१ अविदग्धः पतिः स्त्रीणां प्रौढाणां नायको गुणी ।
३३३६-२ गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत् ।।

३३३७-१ अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।
३३३७-२ अपमृत्युरुपक्रान्तः कामिव्याजेन मे रात्रौ ।।

३३३८-१ अविदितगुणान्तराणां नो दोषः प्राप्तदेशवासानां ।
३३३८-२ स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ।।

३३३९-१ अविदितगुणापि सत्कवि- भणितिः कर्णेषु वमति मधुधारां ।
३३३९-२ अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ।।

३३४०-१ अविदितपरमानन्दो वदति जनो विषयमेव रमणीयं ।
३३४०-२ तिलतैलमेव मिष्टं येन न दृष्टं घृतं क्वापि ।।

३३४१-१ अविदितपरवेदनो मनोभूर्ध्रुवमयमेवमनङ्ग एव नित्यं ।
३३४१-२ यदि पुनरभविष्यदस्य चाङ्गं न खलु तदा व्यथयिष्यदन्यदेहं ।।

३३४२-१ अविदितशषसविशेषा वाणी निःसरति वक्त्रतो येषां ।
३३४२-२ गुदवदनविवरभेदो रदनैरनुमीयते तेषां ।।

३३४३-१ अविदितसुखदुःखं निर्गुणं वस्तु किंचिज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे ।
३३४३-२ मम तु मतमनङ्गस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ।।

३३४४-१ अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः ।
३३४४-२ गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ।।

३३४५-१ अविद्यं जीवनं शून्यं दिक्शून्या चेदबान्धवा ।
३३४५-२ पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता ।।

३३४६-१ अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजं ।
३३४६-२ निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकं ।।

३३४७-१ अविद्याकामकर्मादिपाशबन्धं विमोचितुं ।
३३४७-२ कः शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ।।

३३४८-१ अविद्यानाशिनी विद्या भावना भवनाशिनी ।
३३४८-२ दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनं ।।

३३४९-१ अविद्याबीजविध्वंसादयमार्षेण चक्षुषा ।
३३४९-२ कालौ भूतभविष्यन्तौ वर्तमानमवीविशत् ।।

३३५०-१ अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
३३५०-२ प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।।

३३५१-१ अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
३३५१-२ प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगं ।।

३३५२-१ अविद्वानपि भूपालो विद्यावृद्धोपसेवया ।
३३५२-२ परां श्रियमवाप्नोतिजलासन्नतरुर्यथा ।।

३३५३-१ अविधेये जने पुंसां कोपः किमुपजायते ।
३३५३-२ विधेयेऽपि च कः कोपस्तन्निवेशितजीविते ।।

३३५४-१ अविधेयो भृत्यजनः शठानि मित्राण्यदायकः स्वामी ।
३३५४-२ विनयरहिता च भार्या मस्तकशूलानि चत्वारि ।।

३३५५-१ अविनयभुवामज्ञानानां शमाय भवन्नपि प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये ।
३३५५-२ फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको भयं तु भृशायते ।।

३३५६-१ अविनयरतमादरादृते वशमवशं हि नयन्ति विद्विषः ।
३३५६-२ श्रुतविनयनिधिं समाश्रितस्तनुरपि नैति पराभवं क्वचित् ।।

३३५७-१ अविनाशि तु तद्विद्धि येन सर्वमिदं ततं ।
३३५७-२ विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ।।

३३५८-१ अविनाशिनमग्राम्यं अकरोत्सातवाहनः ।
३३५८-२ विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ।।

३३५९-१ अविनीतः सुतो जातः कथं न दहनात्मकः ।
३३५९-२ विनीतस्तु सुतो जातः कथं न पुरुषोत्तमः ।।

३३६०-१ अविनीतस्य या विद्या सा चिरं नैव तिष्ठति ।
३३६०-२ मर्कटस्य गले बद्धा मणीनां मालिका यथा ।।

३३६१-१ अविनीतो भृत्यजनो नृपतिरदाता शठानि मित्राणि ।
३३६१-२ अविनयवती च भार्या मस्तकशूलानि चत्वारि ।।

३३६२-१ अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
३३६२-२ उदिते दिशः प्रकटयत्यमुना यदधर्मधाम्नि धनुराचकृषे ।।

३३६३-१ अविभाव्यतारकमदृष्टहिम- द्युतिबिम्बमस्तमितभानु नभः ।
३३६३-२ अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ।।

३३६४-१ अविभ्रमालोकनदुर्भगाणि प्रव्यक्तवक्त्रस्तनमण्डलानि ।
३३६४-२ अङ्गानि रे पामरकामिनीनां अपुण्यतारुण्य किमाश्रितानि ।।

३३६५-१ अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिं ।
३३६५-२ भववीतये नहि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ।।

३३६६-१ अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतं ।
३३६६-२ अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ।।

३३६७-१ अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठं ।
३३६७-२ विपुलतरनिरन्तरावलग्न- स्तनपिहितप्रियवक्षसा ललम्बे ।।

३३६८-१ अविरततरुणीसहस्रमध्य- स्थितिविगलत्पुरुषव्रता इवैते ।
३३६८-२ प्रतिपदमतिकातराः क्षितीशाः परिकलयन्ति भयं समन्ततोऽपि ।।

३३६९-१ अविरतमक्लममुद्धृत- धरातलं सुस्मितोल्लसद्वदनं ।
३३६९-२ जगदानन्दविधायिनं उपैमि शरणं प्रभुं शेषं ।।

३३७०-१ अविरतमधुपानागारमिन्दिन्दिराणां अभिसरणनिकुञ्जं राजहंसीकुलस्य ।
३३७०-२ प्रविततबहुशालं सद्म पद्मालयाया वितरति रतिमक्ष्णोरेष लीलातडागः ।।

३३७१-१ अविरतमिदमम्भः स्वेच्छयोच्चालयन्त्या विकचकमलकान्तोत्तानपाणिद्वयेन ।
३३७१-२ परिकलित इवार्घ्यः कामबाणातिथिभ्यः सलिलमिव वितीर्णं बाललीलासुखानां ।।

३३७२-१ अविरतरतलीलायासजातश्रमाणां उपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानां ।
३३७२-२ पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ।।

३३७३-१ अविरतविरुतकपोतीं अर्पितरसमावृणोति घनवलनः ।
३३७३-२ नवलतिकामतिकातर- तरलितमदिरद्वयीं मुदिरः ।।

३३७४-१ अविरताम्बुजसंगतिसंगलद्- बहलकेसरसंवलितेव या ।
३३७४-२ ललितवस्तुविधानसुखोल्लसत्- तनुरुहा तनुरात्मभुवोऽवतात् ।।

३३७५-१ अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः ।
३३७५-२ रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ।।

३३७६-१ अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
३३७६-२ ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ।।

३३७७-१ अविरलधारानिकरं जलदैर्जलमुत्सृजद्भिरतिमात्रं ।
३३७७-२ मानिवधूहृदयेभ्यः कालुष्यमशेषतो मृष्टं ।।

३३७८-१ अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया वचनविषयः संदेशोऽन्यस्तया विहितो न ते ।
३३७८-२ मनसि किमपि ध्यायन्त्या तु क्षणं तव कान्तया पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ।।

३३७९-१ अविरलपरागसैकत- मकरन्दतरङ्गिणीमनुवनान्तं ।
३३७९-२ पिकयुवतिजानुदघ्नीं गाहन्ते मधुपयोषितस्तृषिताः ।।

३३८०-१ अविरलपरिवाहैरश्रुणः सारणीनां स्मरदहनशिखोष्णश्वासपूरैश्च तस्याः ।
३३८०-२ सुभग बत कृशाङ्ग्याः स्पर्धयान्योन्यमेभिः क्रियत इव पुरो भूः पङ्किला पांसुला च ।।

३३८१-१ अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
३३८१-२ घटितविघटितः प्रियस्य वक्षस्- तटमुवि कन्दुकविभ्रमं बभार ।।

३३८२-१ अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
३३८२-२ गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ।।

३३८३-१ अविरलमदजलनिवहं भ्रमरकुलानीकसेवितकपोलं ।
३३८३-२ अभिमतफलदातारं कामेशं गणपतिं वन्दे ।।

३३८४-१ अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः ।
३३८४-२ त्रिभुवनजनविघ्नध्वान्तविध्वंसदक्षो वितरतु गजवक्त्रः संततं मङ्गलं वः ।।

३३८५-१ अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
३३८५-२ कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ।।

३३८६-१ अविरलविगलन्मदजल- कपोलपालीनिलीनमधुपकुलः ।
३३८६-२ उद्भिन्ननवश्मश्रु- श्रेणिरिव द्विपमुखो जयति ।।

३३८७-१ अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
३३८७-२ अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ।।

३३८८-१ अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् ।
३३८८-२ जन्मजन्मान्तरे दुःखी स नरः स्यादसंशयं ।।

३३८९-१ अविलम्बि सुवृत्तं च उदरं चातिपूजितं ।
३३८९-२ नातिदीर्घं समं पृष्ठं किंचिच्च विनतं शुभं ।।

३३९०-१ अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः ।
३३९०-२ विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनं ।।

३३९१-१ अविविक्तावतिस्तब्धौ स्तनावाढ्याविवादृतौ ।
३३९१-२ विविक्तावानतावेव दरिद्राविव गर्हितौ ।।

३३९२-१ अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।
३३९२-२ यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ।।

३३९३-१ अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागं ।
३३९३-२ विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तं ।।

३३९४-१ अविवेकि कुचद्वंद्वं हन्तु नाम जगत्त्रयं ।
३३९४-२ श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणं ।।

३३९५-१ अविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः ।
३३९५-२ प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः ।।

३३९६-१ अविवेकिनि भूपे यः करोत्याशां समृद्धये ।
३३९६-२ यास्याम्यहमनेनेति करोत्याशां स मृद्धये ।।

३३९७-१ अविवेको हि सर्वेषां आपदां परमं पदं ।
३३९७-२ विवेकरहितो लोके पशुरेव न संशयः ।।

३३९८-१ अविशदचलं नेत्रप्रान्तावलोकनमस्फुटं चकितचकिता वाचः स्पर्शः क्वचिज्जनसंकुले ।
३३९८-२ इति तव मया प्रेमारम्भे य एव निरीक्षिताः कठिनमनसो दृष्टा भावास्त एव विरज्यतः ।।

३३९९-१ अविशीर्णकान्तपात्रे नव्यदशे सुमुखि संभृतस्नेहे ।
३३९९-२ मद्गेहदीपकलिके कथमुपयातासि निर्वाणं ।।

३४००-१ अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।
३४००-२ क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ।।

३४०१-१ अविश्रान्तो वातो दहन इव सोयं जनयति प्रसक्तं सातत्याद्दलयति कुलाद्रीनपि जलं ।
३४०१-२ प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवां ।।

३४०२-१ अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति ।
३४०२-२ ससंतोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ।।

३४०३-१ अविश्राममपाथेयं अनालम्भमदेशकं ।
३४०३-२ तमःकान्तारमध्वानं कथमेको गमिष्यसि ।।

३४०४-१ अविश्वसन्धूर्तधुरंधरोऽपि नरः पुरंध्रीपुरतोऽन्ध एव ।
३४०४-२ अशेषशिक्षाकुशलोऽपि काकः प्रतार्यते किं न पिकाङ्गनाभिः ।।

३४०५-१ अविश्वस्ता स्त्रियः सर्वा अधमोत्तममध्यमाः ।
३४०५-२ यः कश्चिद्विश्वसेत्तासां पश्चात्तापैः स दह्यते ।।

३४०६-१ अविश्वासं सदा तिष्ठेत्संधिना विग्रहेण च ।
३४०६-२ द्वैधीभावं समाश्रित्य पापे शत्रौ बलीयसि ।।

३४०७-१ अविश्वासविधानाय महापातकहेतवे ।
३४०७-२ पितापुत्रविरोधाय हिरण्याय नमोऽस्तु ते ।।

३४०८-१ अविषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
३४०८-२ विषं हन्ति किलैकं च ब्रह्मस्वं पुत्रपौत्रकं ।।

३४०९-१ अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
३४०९-२ अपि संक्षीणकोशोऽपि लभते परिवारणं ।।

३४१०-१ अविसंवादनं दानं समयस्याव्यतिक्रमः ।
३४१०-२ आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ।।

३४११-१ अविसृष्टोऽपि सन्प्राज्ञः सर्वेण च समं व्रजेत् ।
३४११-२ प्रविशेदप्यनाहूतस्त्वन्यदा भर्त्तुराज्ञया ।।

३४१२-१ अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नतां ।
३४१२-२ हत्वोपकारिणं विप्रो नाडीजङ्घमधश्च्युतः ।।

३४१३-१ अवीरोऽपि चमूवीरसाहाय्येन द्विषो जयेत् ।
३४१३-२ चमूसाहाय्यशून्यानां जयश्रीर्व्याकुलायते ।।

३४१४-१ अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
३४१४-२ हन्ति नितयं क्षमा क्रोधं आचारो हन्त्यलक्षणं ।।

३४१५-१ अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत् ।
३४१५-२ त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत् ।।

३४१६-१ अवृत्तिकं प्रभुं भृत्या अपुष्पं भ्रमरास्तरुं ।
३४१६-२ अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितं ।।

३४१७-१ अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयं ।
३४१७-२ उत्तमानां तु मर्त्यानां अवमानात्परं भयं ।।

३४१८-१ अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः ।
३४१८-२ आत्मवत्सततं पश्येदपि कीटपिपीलकाः ।।

३४१९-१ अवेक्श्य स्वात्मानं विगुणमपरानिच्छति तथा फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः ।
३४१९-२ निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततोऽप्यहो नीचे रम्या सगुणविजिगीषा विधिकृता ।।

३४२०-१ अवेमव्यापाराकलनमतुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् ।
३४२०-२ विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां निर्माणं पतगपतिकेतोरवतु नः ।।

३४२१-१ अवैति तत्त्वं सदसत्त्वलक्षणं विना विशेषं विपरीतरोचनः ।
३४२१-२ यदृच्छया मत्तवदस्तचेतनो जनो जिनानां वचनात्पराङ्मुखः ।।

३४२२-१ अवैतु शास्त्राणि नरो विशेषतः करोतु चित्राणि तपांसि भावतः ।
३४२२-२ अतत्त्वसंसक्तमनास्तथापि नो विमुक्तिसौख्यं गतबाधमश्नुते ।।

३४२३-१ अवैमि चैनामनघेति किं तु लोकापवादो बलवान्मतो मे ।
३४२३-२ छाया हि भूमेः शशिनो मलत्वे- नारोपिता शुद्धिमतः प्रजाभिः ।।

३४२४-१ अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
३४२४-२ व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ।।

३४२५-१ अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ।
३४२५-२ मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।।

३४२६-१ अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
३४२६-२ करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ।।

३४२७-१ अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।
३४२७-२ उड्डीय युक्तं पतिताः स्रवन्ती- वेशन्तपूरं परितः प्लवन्ते ।।

३४२८-१ अवैष्णवो हतो विप्रो हतं श्राद्धमदक्षिणं ।
३४२८-२ अब्रह्मण्यं हतं क्षेत्रं अनाचारं कुलं हतं ।।

३४२९-१ अव्यक्तमक्षरमुपास्य बभूव कश्चित्स्वं लब्धवर्णमवगत्य कृतार्थमानी ।
३४२९-२ सद्यस्त्रिभङ्गललितस्फुरणादमन्द- नन्दोत्थया जडतयैव वयं कृतार्थाः ।।

३४३०-१ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
३४३०-२ अव्यक्तनिधनान्येव तत्र का परिदेवना ।।

३४३१-१ अव्ययवतोऽपि धनिनः स्वजनसहस्रं भवेत्पदस्थस्य ।
३४३१-२ भ्रष्टधनस्य हि सततं बन्धुरपि मुखं न दर्शयति ।।

३४३२-१ अव्यये व्ययमायाति व्यये याति सुविस्तरं ।
३४३२-२ अपुर्वः कोऽपि भाण्डारस्तव भारति दृश्यते ।।

३४३३-१ अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणं ।
३४३३-२ प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ।।

३४३४-१ अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः ।
३४३४-२ व्यवस्थितप्रसन्नात्मा कुपितोऽप्यभयंकरः ।।

३४३५-१ अव्यवस्थितवृत्तानां अभिन्नश्रुतिचक्षुषां ।
३४३५-२ अधर्मार्जितभोगानां आशीरप्यहितोचिता ।।

३४३६-१ ... ... ... ... ... ... ।
३४३६-२ अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।।

३४३७-१ अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणं ।
३४३७-२ भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतं ।।

३४३८-१ ... ... ... ... ... ... ।
३४३८-२ अन्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणं ।।

३४३९-१ अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालं ।
३४३९-२ तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ।।

३४४०-१ अव्याजसुन्दरमनुत्तरमप्रमेयं अप्राकृतं परममङ्गलमङ्घ्रिपद्मं ।
३४४०-२ संदर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु विलोचनेन ।।

३४४१-१ अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
३४४१-२ परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ।।

३४४२-१ अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलां ।
३४४२-२ जटापिनद्धोरगराजरत्न- मरीचिलीढोभयकोटिरिन्दुः ।।

३४४३-१ अव्यात्स्वर्लोकचूडामणिपटलशिखाश्रेणिशोणीकृताङ्घ्रिः क्षोणीभारं विनेतुं जठरजुषि जगद्बान्धवे देवकी वः ।
३४४३-२ राज्ञामुद्दामदोष्णां रणशिरसि रणत्कीकसच्छेदभीमाः शस्त्राणां खण्णकाराः प्रतिहतिगुरवो यच्छ्रुतेर्दोहदोऽभूत् ।।

३४४४-१ अव्याद्वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र- प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
३४४४-२ प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ।।

३४४५-१ अव्याद्वो वलिताङ्घ्रिपातविचलद्भूगोलहेलोन्मुख- भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन्गणग्रामणीः ।
३४४५-२ यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस्ताराचक्रमुदक्तशीकरपृषल्लीलामिवाभ्यस्यति ।।

३४४६-१ अव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता ।
३४४६-२ कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ।।

३४४७-१ अव्याधिगात्रमनुकूलतरं कलत्रं वेश्म प्रसिद्धविभवं निशिता च विद्या ।
३४४७-२ श्लाघ्यं कुलं चरमकालगतिः समर्थो मातुः कटाक्षपरिणामविभूतयस्ते ।।

३४४८-१ अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रं ।
३४४८-२ सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ।।

३४४९-१ अव्याधिना शरीरेण मनसा च निराधिना ।
३४४९-२ पूरयन्नर्थिनामाशां त्वं जीव शरदां शतं ।।

३४५०-१ अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
३४५०-२ स एव निधनं याति कीलोत्पटीव वानरः ।।

३४५१-१ अव्यापाररता वसन्तसमये ग्रीष्मे व्यवायप्रियाः सक्ताः प्रमृषि पल्वलाम्भसि नवे कूपोदकद्वेषिणः ।
३४५१-२ कट्वम्लोष्णरताः शरद्यधिभुजो हेमन्तनिद्रालसाः स्वैर्दोषैरपचीयमानवपुषो नश्यन्तु ते शत्रवः ।।

३४५२-१ अव्याहति न शक्या गौर्विना दण्डेन रक्षितुं ।
३४५२-२ इति प्रत्येति मुग्धोऽपि वल्लवः किमु राजकं ।।

३४५३-१ अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयं ।
३४५३-२ प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थं ।।

३४५४-१ अव्युत्पन्नस्वभावानां नारीणमिव सांप्रतं ।
३४५४-२ सीत्काराचार्यकं कर्तुं अयं प्राप्तो हिमागमः ।।

३४५५-१ अव्युत्पन्ने श्रोतरि वक्तृत्वमनर्थकं पुंसां ।
३४५५-२ नेत्रविहीने भर्तरि लावण्यमनर्थकं स्त्रीणां ।।

३४५६-१ अव्रतस्यापि ते धर्मः कार्य एवान्तरान्तरा ।
३४५६-२ मेधीभूतोऽपि हि भ्राम्यन्घासग्रासं करोति गौः ।।

३४५७-१ अशक्तः सततं साधुः कुरूपा च पतिव्रता ।
३४५७-२ व्याधितो देवभक्तश्च निर्धना ब्रह्मचारिणः ।।

३४५८-१ अशक्तस्तस्करः साधुः कुरूपा चेत्पतिव्रता ।
३४५८-२ रोगी च देवताभक्तो वृद्धा वेश्या तपस्विनी ।।

३४५९-१ अशक्तस्तु भवेत्साधुर्ब्रह्मचारी व निर्धनः ।
३४५९-२ व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ।।

३४६०-१ अशक्ताः शक्तिमात्मीयां श्लाघन्ते ये च दुर्जनाः ।
३४६०-२ ते भवन्त्युपहासाय महतामेव संनिधौ ।।

३४६१-१ अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता ।
३४६१-२ छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशं ।।

३४६२-१ अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनं ।
३४६२-२ संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ।।

३४६३-१ अशक्तो यः क्षान्तिं सततमपकारिण्यपि जने विधत्ते सोऽवश्यं भुजग इव दंष्ट्राविरहितः ।
३४६३-२ प्रभुः सत्यां शक्तौ क्षमत इह यस्मात्सुचरितः स तेजस्वी लोकद्वितयविजिगीषुर्विजयते ।।

३४६४-१ अशक्नुवन्सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनं ।
३४६४-२ प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ।।

३४६५-१ अशक्यं नारभेत्प्राज्ञः अकार्यं नैव कारयेत् ।
३४६५-२ असत्यं नैव वक्तव्यं आलस्यं नैव कारयेत् ।।

३४६६-१ अशक्यं नारभेत्प्राज्ञो अकार्यं नैव कारयेत् ।
३४६६-२ यथादेशगतं धर्मं यथाकालं च जीवयेत् ।।

३४६७-१ अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै ।
३४६७-२ अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशं ।।

३४६८-१ अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं ।
३४६८-२ आकाशमास्वादयतः कुतस्तु कवलग्रहः ।।

३४६९-१ अशङ्कितमतिः स्वस्थो न शठः परिसर्पति ।
३४६९-२ न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः ।।

३४७०-१ अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः ।
३४७०-२ अशङ्क्याद्भयमुत्पन्नं अपि मूलं निकृन्तति ।।

३४७१-१ अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।
३४७१-२ भयं हि शङ्किताज्जातं समूलमपि कृन्तति ।।

३४७२-१ अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञं ।
३४७२-२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ।।

३४७३-१ अशठहृदयः कृतज्ञः सानुक्रोशः स्थितः सतां मार्गे ।
३४७३-२ अपरापवादकर्मा शुचिकर्मरतः स खल्वार्यः ।।

३४७४-१ अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।
३४७४-२ इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजं ।।

३४७५-१ अशनं वसनं वासो यस्य काश्याममार्गतः ।
३४७५-२ कीकटेन समा काशी गङ्गाप्यङ्गारवाहिनी ।।

३४७६-१ अशनमात्रकृतज्ञतया गुरोर्न पिशुनोऽपि शुनो लभते तुलां ।
३४७६-२ अपि बहूपकृते सखिता खले न खलु खेलति खे लतिका यथा ।।

३४७७-१ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
३४७७-२ एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ।।

३४७८-१ अशनैरशनैर्बाल्ये यौवने घस्मरात्स्मरात् ।
३४७८-२ कल्यवैकल्यतः शेषे स्फुटं नष्टं वयो नृणां ।।

३४७९-१ अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
३४७९-२ हृदयमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यं ।।

३४८०-१ अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षण- क्षणक्षपितशात्रवे जयति सिन्धुराधीश्वरे ।
३४८०-२ वयं न बहु मन्महे निजभुजानमद्गाण्डिव- च्युतास्त्रशिखिताण्डवज्वलितखाण्डवं पाण्डवं ।।

३४८१-१ अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।
३४८१-२ कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ।।

३४८२-१ अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितं ।
३४८२-२ विक्रीयते महामांसं गृह्यतां गृह्यतामिदं ।।

३४८३-१ अशान्तहुतभुक्शिखाकवलितं जगन्मन्दिरं सुखं विषमवातभुग्नसनवच्चलं कामजं ।
३४८३-२ जलस्थशशिचञ्चला भुवि विलोक्य लोकस्थितिं विमुञ्चत जनाः सदा विषयमूर्छनां तत्त्वतः ।।

३४८४-१ अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैर्गतच्छायः कायश्चिरविरसरूक्षाशनतया ।
३४८४-२ अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभयात्कदर्याणां कष्टं स्फुटमधनकष्टादपि परं ।।

३४८५-१ अशाश्वतमिदं सर्वं चिन्त्यमानं हि भारत ।
३४८५-२ कदलीसंनिभो लोकः समो ह्यस्य न विद्यते ।।

३४८६-१ अशासंस्तस्करान्यस्तु बलिं गृह्णाति पार्थिवः ।
३४८६-२ तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ।।

३४८७-१ अशास्त्रचक्षुनृपतिरन्ध इत्यभिधीयते ।
३४८७-२ वरमन्धो न चक्षुष्मान्मदादाक्षिप्तसत्पथः ।।

३४८८-१ अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
३४८८-२ अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छतां ।।

३४८९-१ अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः ।
३४८९-२ किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ।।

३४९०-१ अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो नयनसुहृदो वृक्षाश्चैते न कुड्मलशालिनः ।
३४९०-२ दलति कलिका चौती नास्मिंस्तथा मृगचक्षुषां अथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ।।

३४९१-१ अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिः स्तनेन ।
३४९१-२ हृषिततनुरुहा भुजेन भर्तुर्मृदुममृदु व्यतिविद्धमेकबाहुं ।।

३४९२-१ अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः ।
३४९२-२ असम्भाष्यश्च कर्तव्यस्तन्मनोरनुशासनं ।।

३४९३-१ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
३४९३-२ आचक्षाणेन तत्स्तेयं एवंकर्मास्मि शाधि मां ।।

३४९४-१ अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते ।
३४९४-२ कदर्यं भजते यश्च तमाहुर्मूढचेतसं ।।

३४९५-१ अशीतास्तरणो माघे फाल्गुने पशुपक्षिणौ ।
३४९५-२ चैत्रे जलचराः सर्वे वैशाखे नरवानरौ ।।

३४९६-१ अशीतेनाम्भसा स्नानं पयःपानं वराः स्त्रियः ।
३४९६-२ एतद्वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनं ।।

३४९७-१ अशीमहि वयं भिक्षां आशावासो वसीमहि ।
३४९७-२ शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ।।

३४९८-१ अशीला भिन्नमर्यादा नित्यसंकीर्णमैथुनाः ।
३४९८-२ अल्पायुषो भवन्तीह तथा निरयगामिनः ।।

३४९९-१ अशुचितानिलयं प्रलयं श्रियां अयशसां विभवं प्रभवं रुजां ।
३४९९-२ सुकृतनिर्दलनं चलनं धृतेः परिहरेत्परवल्लभया रतं ।।

३५००-१ अशुचिर्वचनाद्यस्यशुचिर्भवति पूरुषः ।
३५००-२ शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतं ।।

३५०१-१ अशुचीक्षणेऽश्रुपाते कलहे श्वासकासयोः ।
३५०१-२ रथ्याप्रसर्पणेऽभ्यङ्गे क्षुते नर्मण्युपस्पृशेत् ।।

३५०२-१ अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते ।
३५०२-२ यथा गृध्रसमासन्नः कलहंसः समाचरेत् ।।

३५०३-१ अशुद्धा तु भवेन्नारी यावच्छल्यं न मुञ्चति ।
३५०३-२ निःसृते तु ततः शल्ये रजसा शुध्यते ततः ।।

३५०४-१ अशुद्धीनां तु सर्वासां आलयाः कुत्सिताः स्त्रियः ।
३५०४-२ सदा शौचं न कुर्वन्ति भुञ्जतेऽन्नं तथाविधाः ।।

३५०५-१ अशुभपुषि कलावप्यप्रमत्ताः स्वधर्मादनुदिनमुपकारानाचरन्ते बुधानां ।
३५०५-२ बहुजनपरिपुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेवां ।।

३५०६-१ अशुभोदये जनानां नश्यति बुद्धिर्न विद्यते रक्षा ।
३५०६-२ सुहृदोऽपि सन्ति रिपवो विषमविषं जायतेऽप्यमृतं ।।

३५०७-१ अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।
३५०७-२ यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ।।

३५०८-१ अशेषचक्षुःश्रवणं प्रतिकूलो भवन्नपि ।
३५०८-२ विनतानन्दहेतुर्यः स पुमानाप्तनन्दनः ।।

३५०९-१ अशेषदोषापगमप्रकाश- मित्रागमोत्साहमहोत्सवार्हं ।
३५०९-२ विकासशोभां जनयत्यजस्रं धनं जनानां दिनमम्बुजानां ।।

३५१०-१ अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता ।
३५१०-२ अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्यकर्ता ।।

३५११-१ अशेषविघ्नप्रतिषेधदक्ष- मन्त्राक्षतानामिव दिङ्मुखेषु ।
३५११-२ विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ।।

३५१२-१ अशोकनिर्भर्त्सितपद्मरागं आकृष्टहेमद्युतिकर्णिकारं ।
३५१२-२ मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ।।

३५१३-१ अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना निरानन्दः कुन्दे सह च सहकारैर्न रमसे ।
३५१३-२ कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैरसंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ।।

३५१४-१ अशोच्यः शोचते शोच्यं किं वा शोच्यो न शोच्यते ।
३५१४-२ कश्च कस्येह शोच्योऽस्ति देहेऽस्मिन्बुद्बुदोपमे ।।

३५१५-१ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
३५१५-२ गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।।

३५१६-१ अशोच्यानीह भूतानि यो मूढस्तानि शोचति ।
३५१६-२ तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ।।

३५१७-१ अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः ।
३५१७-२ अशोच्या विधवा नारी पुत्रपौत्रप्रतिष्ठिता ।।

३५१८-१ अश्नाति यः संस्कुरुते निहन्ति ददाति गृह्णात्यनुमन्यते च ।
३५१८-२ एते षडप्यत्र विनिन्दनीया भ्रमन्ति संसारवने निरन्तं ।।

३५१९-१ अश्नाति यो मांसमसौ विधत्ते वधानुमोदं त्रसदेहभाजां ।
३५१९-२ गृह्णाति रेपांसि ततस्तपस्वी तेभ्यो दुरन्तं भवमेति जन्तुः ।।

३५२०-१ अश्नाभ्याच्छादयामीति प्रापश्यन्पापपूरुषः ।
३५२०-२ नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ।।

३५२१-१ अश्नीत पिबत खादत जाग्रत संविशत तिष्ठत वा ।
३५२१-२ सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति ।।

३५२२-१ अश्मना साधयेल्लोहं लोहेनाश्मानमेव च ।
३५२२-२ बिल्बानिव करे बिल्वैर्म्लेच्छान्म्लेच्छैः प्रसाधयेत् ।।

३५२३-१ अश्मातकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा ।
३५२३-२ षड्भिरुदग्वास्य करैः सार्धे पुरुषत्रये तोयं ।।

३५२४-१ अश्मानमप्युपायेन लोहं वा जरयेन्नरः ।
३५२४-२ न तु कश्चिदुपायोऽस्ति ब्रह्मस्वं येन जीर्यते ।।

३५२५-१ अश्माप्यहृदयो यस्य गुणसारं परीक्षते ।
३५२५-२ उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ।।

३५२६-१ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
३५२६-२ असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ।।

३५२७-१ अश्रद्धादर्शनं भान्तिर्दुःखं च त्रिविधं ततः ।
३५२७-२ दौर्मनस्यमयोग्येषु विषयेषु च योगता ।।

३५२८-१ अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद्भवेत् ।
३५२८-२ यथा वानरसंगीतं तथैव प्लवते शिला ।।

३५२९-१ अश्रान्तं दृढयन्त्रणेन कुचयोरत्यक्तकाठिन्ययोराबद्धस्फुटमण्डलोन्नतिमिलच्चोलं विमुच्योरसः ।
३५२९-२ नीवीविच्छुरितं विधाय तममुं वामस्तनालम्बिनीं वेणीं पाणिनखाञ्चलैः शिथिलयत्याक्रम्य पीठं पदा ।।

३५३०-१ अश्रान्तविश्राणितयज्ञयूप- स्तम्भावलीर्द्रागवलम्बमानः ।
३५३०-२ यस्य स्वभावाद्भुवि संचचार कालक्रमादेकपदोऽपि धर्मः ।।

३५३१-१ अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा- जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
३५३१-२ पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ।।

३५३२-१ अश्रान्तिर्बन्धुतां धत्ते कष्टं नष्टस्य नश्वरः ।
३५३२-२ स्कन्धेन पङ्गुना पङ्गुर्नहि वर्त्मनि नीयते ।।

३५३३-१ अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नन्पुरो हरितकं मुदमादधानः ।
३५३३-२ ग्रीवाग्रलोलकलकिङ्किणिकानिनाद- मिश्रं दधद्दशनचर्चुरशब्दमश्वः ।।

३५३४-१ अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः ।
३५३४-२ अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव ।।

३५३५-१ अश्रुतमिव खलजल्पितं अदृष्टमिव गुरुमुखेन्दुमालिन्यं ।
३५३५-२ अगणितनिजापमानं भामिनि भवदर्थमच्युतः सहते ।।

३५३६-१ अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
३५३६-२ अर्थाश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ।।

३५३७-१ अश्रुभिः पाद्यमाकल्प्य प्रणीय हृदयासनं ।
३५३७-२ उपेते दयिते कान्ता परिष्वङ्गमुपानयत् ।।

३५३८-१ अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
३५३८-२ अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ।।

३५३९-१ अश्वं स्नातं गजं मत्तं वृषभं काममोहितं ।
३५३९-२ शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ।।

३५४०-१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
३५४०-२ पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ।।

३५४१-१ अश्वः सुप्तो गजो मत्तो गावः प्रथमसूतिकाः ।
३५४१-२ अन्तःपुरगतो राजा दूरतः परिवर्जयेत् ।।

३५४२-१ अश्वगन्धापलं त्रिंशच्चूर्णयित्वा विचक्षणः ।
३५४२-२ वृद्धदारुकचूर्णेन समभागं च कारयेत् ।।

३५४३-१ अश्वत्थचलपत्राग्रलीनतोयकणोपमे ।
३५४३-२ स्थिराशा जीविते यस्य तत्समो नास्त्यचेतनः ।।

३५४४-१ अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश चिञ्चिणीकाः ।
३५४४-२ कपित्थबिल्वामलकत्रयं च पञ्चाम्रवापी नरकं न पश्येत् ।।

३५४५-१ अश्वत्थस्य महत्त्वं को ननु वक्तुं नरः प्रभवेत् ।
३५४५-२ सवितरि यत्रालक्ष्मीर्मन्दे लक्ष्मीरमन्दास्ते ।।

३५४६-१ अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।
३५४६-२ कृपः परशुरामश्च सप्तैते चिरजीविनः ।।

३५४७-१ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् ।
३५४७-२ पुनरनुतापमवापत्पापं कृत्वानुतप्येत ।।

३५४८-१ अश्वपृष्ठं गजस्कन्धो नारीणां च पयोधरः ।
३५४८-२ दन्तधावनशस्त्रं च यथा स्थूलं तथा सुखं ।।

३५४९-१ अश्वप्रशंसा विख्याता धनुर्वेदस्ततःपरं ।
३५४९-२ गान्धर्वशास्त्रमपरं वृक्षायुर्वेद एव च ।।

३५५०-१ अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यं ।
३५५०-२ अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कृतो मनुष्यः ।।

३५५१-१ अश्वमध्ये कृतरवा शिवा युद्धप्रपञ्चकृत् ।
३५५१-२ शिवा सप्तस्वरा ग्राह्या बहुशब्दाश्च निष्फलाः ।।

३५५२-१ अश्वमेधसहस्रं च सत्यं च तुलया धृतं ।
३५५२-२ अत्यरिच्यत सत्यं च इति वेदविदो विदुः ।।

३५५३-१ अश्वमेधसहस्रं च सत्यं च तुलया धृतं ।
३५५३-२ अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ।।

३५५४-१ अश्वमेधसहस्रं च सत्यं च तुलया धृतं ।
३५५४-२ तुलयित्वा तु पश्यामि सत्यमेवातिरिच्यते ।।

३५५५-१ अश्वमेधसहस्रं च सत्यं च तुलया धृतं ।
३५५५-२ नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ।।

३५५६-१ अश्वमेधसहस्रस्य फलं सत्यं तुलान्तरे ।
३५५६-२ धृत्वा संलोड्यते राजन्सत्ये भवति गौरवं ।।

३५५७-१ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
३५५७-२ नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ।।

३५५८-१ अश्वयानं गजं मत्तं गावश्चैव प्रसूतिकाः ।
३५५८-२ तथा चान्तःपुरे दासीं दूरतः परिवर्जयेत् ।।

३५५९-१ अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।
३५५९-२ मधुजालं प्रबध्नन्ति म्रियन्तेऽश्वास्तदा ध्रुवं ।।

३५६०-१ अश्वस्य लक्षणं वेगो मदो मातङ्गलक्षणं ।
३५६०-२ चातुर्यं लक्षणं नार्या उद्योगः पुरुषलक्षणं ।।

३५६१-१ अश्वानां च पताकानां बालानां पण्ययोषितां ।
३५६१-२ विदूषकपटानां च चापल्यमतिमण्डनं ।।

३५६२-१ अश्वा नागाः स्यन्दनानां च सङ्घा मन्त्राः सिद्धा दैवतं चानुकूलं ।
३५६२-२ एतान्याहुः साधनानि स्म राज्ञां येभ्यश्चेयं बुद्धिरुत्कृष्यते मे ।।

३५६३-१ अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी ।
३५६३-२ अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनं ।।

३५६४-१ अश्वारूढं पयःपानं गजारूढं तु मैथुनं ।
३५६४-२ शिबिकीमर्दनं चैव पादचारी तु भोजनं ।।

३५६५-१ अश्वारूढं यतिं दृष्ट्वा खट्वारूढां रजस्वलां ।
३५६५-२ सकेशां विधवां दृष्ट्वा सचैलं स्नानमाचरेत् ।।

३५६६-१ अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च ।
३५६६-२ सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयं ।।

३५६७-१ सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः ।
३५६७-२ षट्कोट्योऽशीतिलक्षाणि पञ्चाधिकमितानि च ।।

३५६८-१ द्विषष्टि च सहस्राणि तथा शतचतुष्टयं ।
३५६८-२ पञ्चाशदिति संख्याता महाक्षौहिनिका बुधैः ।।

३५६९-१ अश्विनीमैत्ररेवत्यो मृगो मूलं पुनर्वसुः ।
३५६९-२ पुष्यो ज्येष्ठा तथा हस्तः प्रस्थाने श्रेष्ठ उच्यते ।।

३५७०-१ अश्विनी सूयते वत्सं कामधेनुस्तुरंगमं ।
३५७०-२ तथैव सागरो वह्निं यथा राजा तथा प्रजा ।।

३५७१-१ अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिरात्यन्तिकी ।
३५७१-२ क्षीणेऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर्ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ।।

३५७२-१ अश्वे जवो वृषे धौर्यं मणौ कान्तिः क्षमा नृपे ।
३५७२-२ हावभावौ च वेश्यायां गायके मधुरस्वरः ।।

३५७३-१ दातृत्वं धनिके शौर्यं सैनिके बहुदुग्धता ।
३५७३-२ गोषु दमस्तपस्विषु विद्वत्सु वावदूकता ।।

३५७४-१ सभ्येष्वपक्षपातस्तु तथा साक्षिषु सत्यवाक् ।
३५७४-२ अनन्यभक्तिर्भृत्येषु सुहितोक्तिश्च मन्त्रिषु ।।

३५७५-१ मौनं मूर्खेषु च स्त्रीषु पातिव्रत्यं सुभूषणं ।
३५७५-२ महादुर्भूषणं चैतद्विपरीतममीषु च ।।

३५७६-१ अश्वैर्यानं यानं स्त्रीभिर्लीलैव प्रोच्यते लीला ।
३५७६-२ मांसां भुक्तं भुक्तं चान्यदयानमलीलाभुक्तं ।।

३५७७-१ अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः ।
३५७७-२ न त्वं नाहं नायं लोकस्तदपि किमर्थं क्रियते शोकः ।।

३५७८-१ अष्टधा देवतायोनिस्तिर्यग्योनिश्च पञ्चधा ।
३५७८-२ एकधा मानुषी योनिरिमे भूताश्चतुर्दश ।।

३५७९-१ अष्टपादश्चतुष्कर्णो द्विमुखी द्विमुखस्तथा ।
३५७९-२ राजद्वारे पठेद्घोरो न च देवो न राक्षसः ।।

३५८०-१ अष्टमं ब्रह्मरन्ध्रं स्यात्परं निर्वाणसूचकं । तद्ध्यात्वा सूचिकाग्राभं धूमाकारं विमुच्यते ।
३५८०-२ तच्च जालंधरं ज्ञेयं मोक्षदं लीनचेतसां ।।

अष्टमी च अमावास्या वर्जनीया चतुर्दशी ।
३५८१-२ पूर्णिमार्धदिनं यावन्निषिद्धा सर्वकर्मसु ।।

३५८२-१ अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी ।
३५८२-२ आमावास्योऽभयं हन्ति प्रतिपत्पाठनाशिनी ।।

३५८३-१ अष्टमे द्वादशे वापि शाकं यः पचते गृहे ।
३५८३-२ कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ।।

३५८४-१ अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद्विदूरे ।
३५८४-२ आसादयन्नभिमतामधुना विवेक- ख्यातिं समाधिधनमौलिमणिर्विमुक्तः ।।

३५८५-१ अष्टाङ्गुलस्य कथितो वायोर्मानो विचक्षणैः ।
३५८५-२ चतुरङ्गुलमानं च तेजस्तत्त्वं निगद्यते ।।

३५८६-१ अष्टादश तथा मध्ये हीने चैव चतुर्दश ।
३५८६-२ सप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः ।।

३५८७-१ अष्टादशपुराणेषु व्यासस्य वचनद्वयं ।
३५८७-२ परोपकारः पुण्याय पापाय परपीडनं ।।

३५८८-१ अष्टादशापि स्मृतयो वदन्ति यस्यापराधः खलु तस्य दण्डः ।
३५८८-२ स्वस्यापराधः खलु नाभिमूले शिरः कुतो मुण्डयते मृगाक्षि ।।

३५८९-१ अष्टानां लोकपालानां संभवत्यंशतो नृपः ।
३५८९-२ तस्मादभिभवत्येष सर्वभूतानि तेजसा ।।

३५९०-१ अष्टाभिः किल दण्डनीतिनिपुणैः सत्प्राड्विवाकैः समं मध्येसौधमनुत्तमासनगतः कार्याणि कुर्वन्नृणां ।
३५९०-२ विष्णुर्भूपवपुर्विधाय किमसौ दिक्पालयुक्पालयत्येवं भ्रान्तिमतो मनाङ्न कुरुते कास्कानयं माधवः ।।

३५९१-१ अष्टावङ्गानि योगस्य यमो नियम आसनं ।
३५९१-२ प्राणायामः प्रत्याहारो धारणा ध्यानतन्मयः ।।

३५९२-१ अष्टाविमानि हर्षस्य नवनीतानि भारत ।
३५९२-२ वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ।।

३५९३-१ समागमश्च सखिभिर्महांश्चैव धनागमः ।
३५९३-२ पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ।।

३५९४-१ समये च प्रियालापः स्वयूथेषु च संनतिः ।
३५९४-२ अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ।।

३५९५-१ अष्टोत्तरशतं श्लोकं चाणक्येन यथोदितं ।
३५९५-२ यस्य विज्ञानमात्रेण न्णां प्रज्ञा प्रवर्धते ।।

३५९६-१ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
३५९६-२ पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ।।

३५९७-१ अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
३५९७-२ हविर्भ्राह्मणकाम्या च गुरोर्वचनमौषधं ।।

३५९८-१ अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
३५९८-२ चत्वार्येषामन्ववेतानि सद्भिश्चत्वार्येषामन्ववयन्ति सन्तः ।।

३५९९-१ यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
३५९९-२ दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ।।

३६००-१ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
३६००-२ ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ।।

३६०१-१ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
३६०१-२ रमते निन्दया चैषां प्रशंसां नाभिनन्दति ।।

३६०२-१ नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
३६०२-२ एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ।।

३६०३-१ अष्टौ मासान्यथादित्यस्तोयं हरति रश्मिभिः ।
३६०३-२ तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ।।

३६०४-१ अष्टौ यदा तु दृश्यन्ते समन्ताद्देवयोनयः ।
३६०४-२ उपसर्गं तमित्याहुर्दैवमुन्मत्तवद्बुधाः ।।

३६०५-१ अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालमर्ककिरणा भृङ्गाः पयोदावली ।
३६०५-२ नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन्कुवलयं क्रोडाकृतिः केशवः ।।

३६०६-१ अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः ।
३६०६-२ अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दत्तं पाण्ड्यनृपेण यौतकमिदं वैतालिकायार्प्यतां ।।

३६०७-१ असंकल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् ।
३६०७-२ अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ।।

३६०८-१ असंकल्पितमेवेह यदकस्मात्प्रवर्तते ।
३६०८-२ निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ।।

३६०९-१ असंख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमयं ददाति ।
३६०९-२ एवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्वधूभिः ।।

३६१०-१ असंख्याः परदोषज्ञा गुणज्ञा अपि केचन ।
३६१०-२ स्वयमेव स्वदोषज्ञा विद्यन्ते यदि पञ्चषाः ।।

३६११-१ असंगतेनोन्नतिमागतेन चलेन वक्रेण मलीमसेन ।
३६११-२ सा दुर्जनेनेव समस्तमेतं प्रबाधते भ्रूयुगलेन लोकं ।।

३६१२-१ असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलं ।
३६१२-२ अहीनं धर्मकामाभ्यां अर्थं प्राप्नोति केवलं ।।

३६१३-१ असंचयादपूर्वस्य क्षयात्पूर्वार्जितस्य च ।
३६१३-२ कर्मणो बन्धमाप्नोति शारीरं न पुनः पुनः ।।

३६१४-१ असंतुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।
३६१४-२ स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ।।

३६१५-१ असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभृतः ।
३६१५-२ सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ।।

३६१६-१ असंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः ।
३६१६-२ स्वयं चोपहृता भृत्या ये चाप्युपहताः परैः ।।

३६१७-१ असंतुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः ।
३६१७-२ अकिंचनोऽपि संतुष्टः शेते सर्वाङ्गविज्वरः ।।

३६१८-१ असंतोषः परं दुःखं संतोषः परमं सुखं ।
३६१८-२ सुखार्थी पुरुषस्तस्मात्संतुष्टः सततः भवेत् ।।

३६१९-१ असंतोषः परं पापं इत्याह भगवान्हरिः ।
३६१९-२ लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै ।
३६१९-३ असत्यं तस्य हि स्कन्धो महाशाखा सुविस्तरा ।।

३६२०-१ असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः ।
३६२०-२ असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखं ।।

३६२१-१ असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।
३६२१-२ ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ।।

३६२२-१ असंत्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।
३६२२-२ शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह संधिं न कुर्यात् ।।

३६२३-१ असंदधानो मानान्धः समेनापि हतो भृशं ।
३६२३-२ आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ।।

३६२४-१ असंदिग्धमना भूत्वा वदेदिक्षुरसो यथा ।
३६२४-२ विक्षुब्धो वचसा यो हि वाक्यशल्येन हन्यते ।।

३६२५-१ असंपत्तौ परो लाभो गुह्यस्य कथनं तथा ।
३६२५-२ आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयं ।।

३६२६-१ असंपन्नः कथं बन्धुरसहिष्णुः कथं प्रभुः ।
३६२६-२ अनात्मवित्कथं विद्वानसंतुष्टः कथं सुखी ।।

३६२७-१ असंपादयतः कंचिदर्थं जातिक्रियागुणैः ।
३६२७-२ यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलं ।।

३६२८-१ असंप्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।
३६२८-२ अव्यञ्जना भवेत्कन्या कुचहीना च नग्निका ।।

३६२९-१ असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।
३६२९-२ प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ।।

३६३०-१ असंभवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
३६३०-२ कर्णिकारं सुगन्धीति वदन्को नोपहस्यते ।।

३६३१-१ असंभाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते ।
३६३१-२ शिला तरति पानीयं गीतं गायति वानरः ।।

३६३२-१ असंभाष्यं न भाषेत भाषसे यदि तत्तथा ।
३६३२-२ परेषां हि समुद्वेगे नात्मनश्च शुभं फलं ।।

३६३३-१ असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
३६३३-२ कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।।

३६३४-१ असंभेद्यः शुचिर्दक्षः कृतान्नस्य परीक्षकः ।
३६३४-२ सूदानां च विशेषज्ञः सूदाध्यक्षो विधीयते ।।

३६३५-१ असंभोगेन सामान्यं कृपणस्य धनं परैः ।
३६३५-२ अस्येदमिति संबन्धो हानौ दुःखेन गम्यते ।।

३६३६-१ असंभ्रमो विलज्जत्वं अवज्ञा प्रतिवादिनि ।
३६३६-२ हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवः ।।

३६३७-१ असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः ।
३६३७-२ बद्धश्चिरं तिष्ठतु सुन्दरीणां आरेचितभ्रूचतुरैः कटाक्षैः ।।

३६३८-१ असंमाने तपोवृद्धिः संम्मानाच्च तपःक्षयः ।
३६३८-२ पूजया पुण्यहानिः स्यान्निन्दया सद्गतिर्भवेत् ।।

३६३९-१ असंमुखालोकनमाभिमुख्यं निषेध एवानुमतिप्रकारः ।
३६३९-२ प्रत्युत्तरं मुद्रणमेव वाचां नवाङ्गनानां नव एव पन्थाः ।।

३६४०-१ असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
३६४०-२ तादृङ्नराधमो लोके वर्जनीयो नराधिप ।।

३६४१-१ असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः ।
३६४१-२ निःसंशयं विपद्यन्ते भिन्नप्लव इवोदधौ ।।

३६४२-१ असंवृताकारतया भिन्नमन्त्रस्य भूपतेः ।
३६४२-२ सकृच्छिद्रघटस्येव न तिष्ठत्युदयोदकं ।।

३६४३-१ असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
३६४३-२ सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।।

३६४४-१ असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रामणीभिरञ्जनं ।
३६४४-२ हृतेऽपि तस्मिन्सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियं ।।

३६४५-१ असंशयं महाबाहो मनो दुर्निग्रहं चलं ।
३६४५-२ अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।।

३६४६-१ असंशयं विजानीहि काले सर्वं फलिष्यति ।
३६४६-२ धृतिं धारय विस्रब्धं भवेत्सर्वं समञ्जसं ।।

३६४७-१ असकलकलिकाकुलीकृतालि- स्खलनविकीर्णविकासिकेशराणां ।
३६४७-२ मरुदवनिरुहां रजो वधूभ्यः समुपहरन्विचकार कोरकाणि ।।

३६४८-१ असकलनयनावलोकनेन स्मितपरिहासमनोहरैर्वचोभिः ।
३६४८-२ कमलमुखि मुरारिरेवमेवं कथय कियन्ति दिनानि वञ्चनीयः ।।

३६४९-१ असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः ।
३६४९-२ इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ।।

३६५०-१ असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।
३६५०-२ गणयति न तन्मायातोयं हतः सलिलाशया भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ।।

३६५१-१ असकृन्न नेऽति सावधि- निषेधबोधिश्रुतिर्मया कलिता ।
३६५१-२ गमयति परमनवरतं या तमखण्डार्थरूपमानन्दं ।।

३६५२-१ असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
३६५२-२ दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषां ।।

३६५३-१ असकृद्युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गं ।
३६५३-२ कृत्वा हरिर्न्यवात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ।।

३६५४-१ असकृन्न वदेदाशां प्रार्थयेद्देवतां सकृत् ।
३६५४-२ नालायनी पञ्च पतीन्प्रापोच्चार्य पुनः पुनः ।।

३६५५-१ असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
३६५५-२ गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परं ।।

३६५६-१ असङ्गसंगदोषेण सत्याश्च मतिविभ्रमः ।
३६५६-२ एकरात्रप्रसङ्गेन काष्ठघण्टाविडम्बना ।।

३६५७-१ असज्जनः सज्जनसङ्गिसङ्गात्करोति दुःसाध्यमपीह साध्यं ।
३६५७-२ पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बं ।।

३६५८-१ असज्जनायाशु वरं न दद्यात्प्रीतितो नृपः ।
३६५८-२ वरं भस्मासुरायेशः दत्त्वा नीलिफलं गतः ।।

३६५९-१ असज्जनाश्चेन्मधुरैर्वचोभिः शक्यन्त एव प्रतिकर्तुमार्यैः ।
३६५९-२ तत्केतकीरेणुभिरम्बुराशेर्बन्धक्रियायामपि कः प्रयासः ।।

३६६०-१ असज्जनेन संपर्कादनयं यान्ति साधवः ।
३६६०-२ मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ।।

३६६१-१ असतः श्रीमदान्धस्य दारिद्र्यं परमाञ्जनं ।
३६६१-२ आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ।।

३६६२-१ असतां च परिक्षेपः सतां च परिगूहनं ।
३६६२-२ अभूतानां च हिंसानां अधर्माणां च वर्जनं ।।

३६६३-१ असतां धर्मबुद्धिश्चेत्सतां संतापकारणं ।
३६६३-२ उपोषितस्य व्याघ्रस्य पारणं पशुमारणं ।।

३६६४-१ असतां प्रग्रहः कामः कोपश्चावग्रहः सतां ।
३६६४-२ व्यसनं दोषबाहुल्यादत्यन्तमुभयं मतं ।।

३६६५-१ असतां बत सत्तापि न न्यायानुगता यदा ।
३६६५-२ ततस्तेभ्योर्थपूर्त्त्याशा सुधालिप्सेव भोगिनः ।।

३६६६-१ असतां सङ्गदोषेण सती याति मतिर्भ्रमं ।
३६६६-२ एकरात्रिप्रवासेन काष्ठं मुञ्जे प्रलम्बितं ।।

३६६७-१ असतां सङ्गदोषेण साधवो यान्ति विक्रियां ।
३६६७-२ दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ।।

३६६८-१ असतां सङ्गमुत्सृज्य सत्सु सङ्गं समाचरेत् ।
३६६८-२ असतां सङ्गदोषेण माण्डव्यः शूलमाप्तवान् ।।

३६६९-१ असतां सहजो भावश्छन्नः केनापि हेतुना ।
३६६९-२ संस्कार इव बीजानां फलेन सह जायते ।।

३६७०-१ असतामुपभोगाय दुर्जनानां विभूतयः ।
३६७०-२ पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ।।

३६७१-१ असता सह सङ्गेन को न यात्यधमां गतिं ।
३६७१-२ पयोऽपि शौण्डनीहस्ते मद्यमित्यभिधीयते ।।

३६७२-१ असतीचरितं तद्वद्वसन्तादेश्चवर्णनं ।
३६७२-२ ग्रीष्मादेर्वर्णनं तद्वद्वर्षादेरपि वर्णनं ।।

३६७३-१ असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
३६७३-२ दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ।।

३६७४-१ असतोऽपि भवति गुणवान्सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः ।
३६७४-२ पङ्कादुदेति कमलं क्रिमयः कमलादपि भवन्ति ।।

३६७५-१ असतो वा सतो वापि स्वयं स्वान्वर्णयन्गुणान् ।
३६७५-२ हास्यतां याति शक्रोऽपि किं पुनः प्राकृतो जनः ।।

३६७६-१ असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
३६७६-२ स राजसो मनुष्येषु मृतो जन्माधिगच्छति ।।

३६७७-१ असत्प्रतिग्रहीता च नरके यात्यध्ॐउखे ।
३६७७-२ एको मिष्टान्नभुग्यः स याति पूयवहं नरः ।।

३६७८-१ असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।
३६७८-२ चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ।।

३६७९-१ असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ।
३६७९-२ भर्तारं नानुमन्यंते विनिपातगतं स्त्रियः ।।

३६८०-१ असत्यता निष्ठुरताकृतज्ञता भयं प्रमादोऽलसता विषादिता ।
३६८०-२ वृथाभिमानोऽपि च दीर्घसूत्रता तथाङ्गनाक्षादि विनाशनं श्रियः ।।

३६८१-१ असत्यमप्रत्ययमूलकारणं कुवासनासद्मसमृद्धिवारणं ।
३६८१-२ विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितं ।।

३६८२-१ असत्यमेतद्विदितं समस्तं अकार्यकारीति मृषा प्रपञ्चः ।
३६८२-२ कुचापलापक्रममेव कर्तुं आच्छादनं ते हृदयस्य शश्वत् ।।

३६८३-१ असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा ।
३६८३-२ युवत्यः पापसंकल्पाः क्षणमात्राद्विरागिणः ।।

३६८४-१ असत्यसंधस्य सतश्चलस्यास्थिरचेतसः ।
३६८४-२ नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतं ।।

३६८५-१ असत्यस्य वणिग्मूलं शाखास्तस्य वराङ्गनाः ।
३६८५-२ कायस्थाः पत्रपुष्पाणि फलानि द्यूतकारिणः ।।

३६८६-१ असत्याः सत्यसंकाशाः सत्याश्चासत्यरूपिणः ।
३६८६-२ दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणं ।।

३६८७-१ असत्या च हता वाणी तथा पैशुन्यवादिनी ।
३६८७-२ संदिग्धोऽपि हतो मन्त्रो व्यग्रचित्तो हतो जपः ।।

३६८८-१ असत्यात्मगुणे शस्त्रं हस्ताभ्यां विनिवार्यते ।
३६८८-२ एषापि न गतिः क्षेम्या न चान्या विद्यते क्वचित् ।।

३६८९-१ असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः ।
३६८९-२ एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः ।।

३६९०-१ असत्संपर्कदोषेण अधस्ताद्यान्ति साधवः ।
३६९०-२ मार्गस्तिमिरदोषेण समोऽपि विषमायते ।।

३६९१-१ असत्सङ्गाद्गुणज्ञोऽपि विषयासक्तमानसः ।
३६९१-२ अकस्मात्प्रलयं याति गीतरक्तो यथा मृगः ।।

३६९२-१ असदृशजनेषु याच्ञा महतां नहि लाघवाय सुहृदर्थे ।
३६९२-२ हरिरपि पाण्डुसुतेभ्यः स्वयमर्थी धार्तराष्ट्रेषु ।।

३६९३-१ असद्धर्मस्त्वयं स्त्रीणां अस्माकं भवति प्रभो ।
३६९३-२ पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ।।

३६९४-१ असद्भिः सेवितो राजा स्वयं सन्नपि दूष्यते ।
३६९४-२ किं सेव्यो भोगिसंवीतो गन्धवानपि चन्दनः ।।

३६९५-१ असद्भिरसतामेव भुज्यन्ते धनसंपदः ।
३६९५-२ फलं किम्पाकवृक्षस्य ध्वाङ्क्षा भक्षन्ति नेतरे ।।

३६९६-१ असद्वृत्तो नायं न च सखि गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
३६९६-२ गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयितां उपायो नास्त्यन्यो हृदयपरितापोपशमने ।।

३६९७-१ असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन ।
३६९७-२ मन्यन्ते सन्तमात्मानं असन्तमपि वितश्रुं ।।

३६९८-१ असन्तो ये निवर्तन्ते वेदेभ्य इव नास्तिकाः ।
३६९८-२ नरकं भजमानास्ते प्रतिपद्यन्ति किल्बिषं ।।

३६९९-१ असन्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा ।
३६९९-२ क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वं ।।

३७००-१ असभ्यः पिशुनश्चैव कृतघ्नो दीर्घवैरिणः ।
३७००-२ चत्वारः कर्मचण्डालाः जातिचण्डालपञ्चमाः ।।

३७०१-१ असमग्रविलोकितेन किं ते दयितं पश्य वरोरु निर्विशङ्कं ।
३७०१-२ नहि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णं ।।

३७०२-१ असमञ्जसमसमञ्जस- मसञ्जसमेतदापतितं ।
३७०२-२ वल्लवकुमारबुद्ध्या हरि हरि हरिरीक्षतः कुतुकात् ।।

३७०३-१ असमर्थं परित्यज्य समर्थाः परिभुञ्जते ।
३७०३-२ नृपाणां नास्ति दायाद्यं वीरभोग्या वसुन्धरा ।।

३७०४-१ असमये मतिरुन्मिषति ध्रुवं करगतैव गता यदियं कुहूः ।
३७०४-२ पुनरुपैति निरुध्य निवास्यते सखि मुखं न विधोः पुनरीक्ष्यते ।।

३७०५-१ असमर्थाः प्रकुर्वन्ति मुनयोऽप्यर्थसंचयं ।
३७०५-२ किं न कुर्वन्ति भूपाला येषां कोशवशाः प्रजाः ।।

३७०६-१ असमर्थो भवेत्साधुर्निर्धनो ब्रह्मचार्यपि ।
३७०६-२ व्याधिमान्देवपूजी च कुरूपा च पतिव्रता ।।

३७०७-१ असमसमरसम्पल्लम्पटानां भटानां अवधिरवधि युद्धे येन हम्पीरवीरः ।
३७०७-२ स किल सकलदृप्तक्षत्रनक्षत्रलक्ष्मी- हरणकिरणमाली कस्य न स्यान्नमस्यः ।।

३७०८-१ असमसाहससुव्यवसायिनः सकललोकचमत्कृतिकारिणः ।
३७०८-२ यदि भवन्ति न वाञ्छितसिद्धयो हतविधेरयशो न मनस्विनः ।।

३७०९-१ असमाने समानत्वं भविता कलहे मम ।
३७०९-२ इति मत्वा ध्रुवं मानी मृगात्सिंहः पलायते ।।

३७१०-१ असमापितकृत्यसंपदां हतवेगं विनयेन तावता ।
३७१०-२ प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः ।।

३७११-१ असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
३७११-२ अनाक्रम्य जगत्कृत्स्नं नो संध्यां भजते रविः ।।

३७१२-१ असमैः समीयमानः समैश्च परिहीयमाणसत्कारः ।
३७१२-२ अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ।।

३७१३-१ असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि ।
३७१३-२ उपलभ्याप्यविदितं विदितं चाप्यनुष्ठितं ।।

३७१४-१ असहायः पुमानेकः कार्यान्तं नाधिगच्छति ।
३७१४-२ तुषेणापि विनिर्मुक्तस्तण्डुलो न प्ररोहति ।।

३७१५-१ असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
३७१५-२ रामः सुग्रीवसाहाय्यात्लङ्कां निर्दग्धवान्पुरा ।।

३७१६-१ असहायः समर्थोऽपि तेजस्व्यपि करोति किं ।
३७१६-२ निवाते पतितो वह्निः स्वयमेवोपशाम्यति ।।

३७१७-१ असहायः समर्थोऽपि न कार्यं कर्तुमर्हति ।
३७१७-२ तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ।।

३७१८-१ असहायः सहायार्थी मामनुध्यातवान्ध्रुवं ।
३७१८-२ पीड्यमानः शरैस्तीक्ष्णैर्द्रोणद्रौणिकृपादिभिः ।।

३७१९-१ असहायस्य कार्याणि सिद्धिं नायान्ति कानिचित् ।
३७१९-२ तस्मात्समस्तकार्येषु सहायो भूपतेर्गतिः ।।

३७२०-१ असहायोऽसमर्थो वा तेजस्वी किं करिष्यति ।
३७२०-२ अतृणे पतितो वह्निः स्वयमेवोपशाम्यते ।।

३७२१-१ असहाश्चैव विज्ञेयाः प्रभावन्तो विदेहजाः ।
३७२१-२ अङ्गदेशोद्भवास्तीक्ष्णाः सुहस्ताः सुदृढास्तथा ।।

३७२२-१ असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही ।
३७२२-२ न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ।।

३७२३-१ असह्यान्यपि सोढानि गदितान्यप्रियाण्यपि ।
३७२३-२ स्थितः परगृहद्वारि तृष्णे निवृत्तिमाप्नुहि ।।

३७२४-१ असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
३७२४-२ साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ।।

३७२५-१ असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि ।
३७२५-२ प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते मणिर्नाहेर्दोषान्स्पृशति न तु सर्पो मणिगुणान् ।।

३७२६-१ असाधु परिगन्तव्यं न च साधु च संवलं ।
३७२६-२ संवलं कुरु यत्नेन मरणं ध्रुवनिश्चयं ।।

३७२७-१ असाध्यं नारभेत्प्राज्ञः अकार्यं नैव कारयेत् ।
३७२७-२ अनृतं नैव जल्पेत अभक्ष्यं नैव भक्षयेत् ।।

३७२८-१ असाध्यं शत्रुमालोक्य दायादं तस्य भेदयेत् ।
३७२८-२ राज्यकामं समर्थं च यथा रामो विभीषणं ।।

३७२९-१ असाध्यं साधुमन्त्राणां तीव्रं वाग्विषमुत्सृजत् ।
३७२९-२ द्विजिह्वं वदनं धत्ते दुष्टो दुर्जनपन्नगः ।।

३७३०-१ असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणां ।
३७३०-२ यथा वैद्यस्तथा राजा शस्त्रपाणिर्विषह्यति ।।

३७३१-१ असाध्यायाः सुखं सिद्धिः सिद्धायाश्चानुरञ्जनं ।
३७३१-२ रक्तायाश्च रतिः सम्यक्कामशास्त्रप्रयोजनं ।।

३७३२-१ असामान्योल्लेखं विरसहतहेवाकिनमलं विधिं वन्दे निन्दाम्युत बत न जाने किमुचितं ।
३७३२-२ अनर्घं निर्माणं ललिततनु यस्येह भवती न यः कृत्वापि त्वां परिहरति सर्गव्यसनितां ।।

३७३३-१ असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनं ।
३७३३-२ अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ।।

३७३४-१ असारः संसारः सरसकदलीसारसदृशो लसद्विद्युल्लेखाचकितचपलं जीवितमिदं ।
३७३४-२ यदेतत्तारुण्यं नगगतनदीवेगसदृशं अहो धार्ष्ट्यं पुंसां तदपि विषयान्धावति मनः ।।

३७३५-१ असारः सर्वतः सारो वाचा सारसमुच्चयः ।
३७३५-२ वाचा सा चलिता येन सुकृतं तेन हारितं ।।

३७३६-१ असारभूते संसारे सारं सारङ्गलोचना ।
३७३६-२ तदर्थं धनमिच्छन्ति तत्त्यागे च धनेन किं ।।

३७३७-१ असारभूते संसारे सारभूता नितम्बिनी ।
३७३७-२ इति संचिन्त्य वै शंभुरर्धाङ्गे कामिनीं दधौ ।।

३७३८-१ असाराः सन्त्येते विरतिविरसा वाथ विषया जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति ।
३७३८-२ तथाप्यन्तस्तत्त्वप्रणिहितधियामप्यतिबलस्तदीयोऽनाख्येयः स्फुरति हृदये कोऽपि महिमा ।।

३७३९-१ असारे खलु संसारे सारं श्वशुरमन्दिरं ।
३७३९-२ क्षीराब्धौ च हरिः शेते शिवः शेते हिमालये ।।

३७४०-१ असारे खलु संसारे सारं श्वशुरमन्दिरं ।
३७४०-२ हरो हिमालये शेते विष्णुः शेते महोदधौ ।।

३७४१-१ असारे खलु संसारे सारमेतच्चतुष्टयं ।
३७४१-२ काश्यां वासः सतां सङ्गो गङ्गाम्भः शंभुसेवनं ।।

३७४२-१ असारे खलु संसारे सुखभ्रान्तिः शरीरिणां ।
३७४२-२ लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ।।

३७४३-१ असारे बत संसारे कर्मतन्त्रः शरीरिणां ।
३७४३-२ जायन्ते प्रियसंयोगा वियोगे हृदयच्छिदः ।।

३७४४-१ असारे संसारे विषमविषपाके नृपसुखे कृतान्तेनाचान्ते प्रकृतिचपले जीवितबले ।
३७४४-२ ध्रुवापाये काये विषयमृगतृष्णाहतहृदः क्षरप्राणैः प्राणानहह परिमुष्णन्ति कुधियः ।।

३७४५-१ असारे संसारे सुमतिशरणे काव्यकरणे यथेष्टं चेष्टन्ते कति न कवयः स्वस्वरुचयः ।
३७४५-२ परं दुग्धस्निग्धं मधुररचनं यस्तु वचनं प्रसूते ब्रूते वा भवति विरलः कोऽपि सरलः ।।

३७४६-१ असारो निर्गुणो वक्रश्चित्ररूपतयान्वितः ।
३७४६-२ अवाप न चिराद्भ्रंशं शक्रचापः खलो यथा ।।

३७४७-१ असावधाने पाण्डित्यं क्रयक्रीतं च मैथुनं ।
३७४७-२ भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ।।

३७४८-१ असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि ।
३७४८-२ उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुतां ।।

३७४९-१ असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
३७४९-२ स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ।।

३७५०-१ असावन्तश्चञ्चद्विकचनवलीलाब्जयुगल- स्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि ।
३७५०-२ विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ते ।।

३७५१-१ असावहं लोहमयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः ।
३७५१-२ आकर्षकद्रावकचुम्बकेषु नैकोऽप्यसौ भ्रामक इत्यवैहि ।।

३७५२-१ असावुदयमारूढः कान्तिमान्रक्तमण्डलः ।
३७५२-२ राजा हरति लोकस्य हृदयं मृदुभिः करैः ।।

३७५३-१ असावुद्वेललावण्यरत्नाकरसमुद्भवः ।
३७५३-२ जगद्विजयमाङ्गल्यशङ्खः कुसुमधन्वनः ।।

३७५४-१ असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन्कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
३७५४-२ पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृतमिव चन्द्रोऽभ्युदयते ।।

३७५५-१ असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितमीश्वरेण ते ।
३७५५-२ अथास्ति शक्तिः कृतमेव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ।।

३७५६-१ असिजीवी मषीजीवी देवलो ग्रामयाजकः ।
३७५६-२ धावकः पाचकश्चैव षड्विप्राः शूद्रजातयः ।।

३७५७-१ असितखुरचतुष्कः श्यामलग्रन्थिपादः स्रवति करसमीपे मूत्रधारां सवेगां ।
३७५७-२ दशनचलखलीनः कुक्कुटस्कन्धबन्धः किटिवरकठिनोरुर्दूरगः स्यात्तुरुङ्गः ।।

३७५८-१ असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
३७५८-२ लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ।।

३७५९-१ असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु क्वणितकनककाञ्चीं मत्तहंसस्वनेषु ।
३७५९-२ अधररुचिरशोभां बन्धुजीवे प्रियाणां पथिकजन इदानीं रोदिति भ्रान्तचित्तः ।।

३७६०-१ असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः ।
३७६०-२ पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ।।

३७६१-१ असितभुजगशिशुवेष्टितं अभिनवमाभाति केतकीकुसुमं ।
३७६१-२ आयसवलयालंकृत- विषाणमिव दन्तिनः पतितं ।।

३७६२-१ असितमेकसुराशितमप्यमून्न पुनरेष विधुर्विशदं विषं ।
३७६२-२ अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवं ।।

३७६३-१ असितवसनस्रग्संवीता घनागुरुसारवन्मृगमदमषीस्नाता जातां त्वमेव तमस्विनी ।
३७६३-२ अभिसर सुखं दन्तोद्द्योतं न तन्वि विकासयेः श्वसितमथवा मुञ्चेश्चञ्चद्द्विरेफघनोद्गमं ।।

३७६४-१ असितात्मा सुसंनद्धः समाविष्कृतचापलः ।
३७६४-२ भुजंगकुटिलस्तस्या भ्रूविक्षेपः खलायते ।।

३७६५-१ असिद्धसाधनं सद्भिः शासनं दण्ड उच्यते ।
३७६५-२ तं युक्त्यैव नयेद्दण्डं युक्तदण्डः प्रशस्यते ।।

३७६६-१ असिधारां विषं वह्निं समत्वे यः प्रपश्यति ।
३७६६-२ मालासुधातुषाराणां स योगी कथ्यते बुधैः ।।

३७६७-१ असिधाराक्रमक्रीता वरमेकापि काकिणी ।
३७६७-२ न परभ्रूविनिर्दिष्टा सागरान्तापि मेदिनी ।।

३७६८-१ असिधारापथे नाथ शत्रुशोणितपिच्छिले ।
३७६८-२ आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः ।।

३७६९-१ असिधेनुरियं विभाति ते जितसर्वक्षितिपालमण्डला ।
३७६९-२ प्रलये जगतीमिवाशितुं स्फुरती कालकरालजिह्वका ।।

३७७०-१ असिन्दूरेण सीमन्तो मा भून्नो योषितामिति ।
३७७०-२ अतः परिहरन्त्याजावसिं दूरेण तेऽरयः ।।

३७७१-१ असिमात्रसहायस्य प्रभूतारिपराभवे ।
३७७१-२ अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ।।

३७७२-१ असीव्यद्देहे स्वे पशुपतिरुमाङ्कं समघनो विगुप्तो गोपीभिर्दुहितरमयात्सा कमलभूः ।
३७७२-२ यदादेशादेतज्जगदपि मृगीदृक्परवशं स वश्यः कस्य स्यादहह विषमो मन्मथभरः ।।

३७७३-१ असुखमथ सुखं वा कर्मणां पक्तिवेलास्वहह नियतमेते भुञ्जते देहभाजः ।
३७७३-२ तदिह पुरत एव प्राह मौहुर्तिकश्चेत्कथय फलममीषामन्ततः किं ततः स्यात् ।।

३७७४-१ असुखैश्च विनालापो गुह्यस्य कथनं तथा ।
३७७४-२ विपद्विमोक्षणं चैव मित्रतायाः फलत्रयं ।।

३७७५-१ असुभिरशुभं त्यक्त्वा देहं निजं किल योगविद्विशति विशदं ज्ञानालोकात्परस्य कलेवरं ।
३७७५-२ नयनविवरैः सूक्ष्मैः साक्षादहो तव नैपुणं विशसि हृदयं द्रष्टुं स्पष्टं बहिश्च विचेष्टसे ।।

३७७६-१ असुभृतां वधमाचरति क्षमाद्वदति वाक्यमसह्यमसूनृतं ।
३७७६-२ परकलत्रधनान्यपि वाञ्छति न कुरुते किमु मद्यमदाकुलः ।।

३७७७-१ असुररचितप्रयत्नाद्विज्ञाता दिविरवञ्चना येन ।
३७७७-२ संरक्षिता मतिमता रत्नवती वसुमती तेन ।।

३७७८-१ असुरसमरदक्षैर्वज्रसंधृष्टचापैरनुपमबलवीर्यैः स्वैः कुलैस्तुल्यवीर्यः ।
३७७८-२ रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशो भव जगति गुणानां भाजनं भ्राजितानां ।।

३७७९-१ असुरसुरनरेशां यो न भोगेषु तृप्तः कथमिह मनुजानां तस्य भोगेषु तृप्तिः ।
३७७९-२ जलनिधिजलपाने यो न जातो वितृष्णस्तृणशिखरगताम्भम्भःपानतः किं स तृप्येत् ।।

३७८०-१ असुरहितमप्यादित्योत्थं विपत्तिमुपागतं दितिसुतगुरुः प्राणैर्योक्तुं न किं कचवत्तमः ।
३७८०-२ पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं यदि न वहते संध्यामौनव्रतव्ययभीरुतां ।।

३७८१-१ असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः ।
३७८१-२ तत्त्वविदुषां वरोऽभूद्- धितोपदेशं सदा शृणुयात् ।।

३७८२-१ असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितं ।
३७८२-२ अभिमुखीष्विव वाञ्छितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ।।

३७८३-१ असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि ।
३७८३-२ सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखं ।।

३७८४-१ असूचिभेद्यामासाद्य बालां प्रौढाभिलापिणीं ।
३७८४-२ हा कष्टं मुषितोऽस्मीति प्रभाते वक्ति कामुकः ।।

३७८५-१ असूचीसंचारे तमसि नभसि प्रौढजलद- ध्वनिप्राज्ञंमन्ये पतति पृषतानां निचये ।
३७८५-२ इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशां ।।

३७८६-१ असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
३७८६-२ पादेन नापैक्षत सुन्दरीणां संपर्कमाशिञ्जितनूपुरेण ।।

३७८७-१ असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यं ।
३७८७-२ क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानां ।।

३७८८-१ असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।
३७८८-२ स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ।।

३७८९-१ असूयया हतेनैव पूर्वोपायोद्यमैरपि ।
३७८९-२ कर्त्णां गृह्यते संपत्सुहृद्भिर्मन्त्रिभिस्तथा ।।

३७९०-१ असूयाविष्टे मनसि यदि संपत्प्रवर्तते ।
३७९०-२ तुषाग्निं वायुसम्योगं इव जानीहि सुव्रत ।।

३७९१-१ असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
३७९१-२ अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ।।

३७९२-१ असेकतोऽत्यन्तनिषेकतश्च शाखाविशोषं फलिनो निरूप्य ।
३७९२-२ सप्ताहमात्रं शृतमेव सर्पिर्विडङ्गदुग्धाम्बु निषेचनीयं ।।

३७९३-१ असेवके चानुरक्तिर्दानं सप्रियभाषणं ।
३७९३-२ अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः ।।

३७९४-१ असेवितेश्वरद्वारं अदृष्टविरहव्यथं ।
३७९४-२ अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितं ।।

३७९५-१ असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः ।
३७९५-२ प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशथिल्याभ्यां युगपदभियुक्तः स्मरहरः ।।

३७९६-१ असौ गतः सौगत एव यस्मात्कुर्यान्निरालम्बनतां ममैव ।
३७९६-२ सखि प्रियस्ते क्षणिकः किमन्यन्निरात्मकः शून्यतमः स वन्द्यः ।।

३७९७-१ असौ गिरेः शीतलकन्दरस्थः पारावतो मन्मथचाटुदक्षः ।
३७९७-२ धर्मालसाङ्गीं मधुराणि कूजन्संवीजते पक्षपुटेन कान्तां ।।

३७९८-१ असौजन्यञ्चेतोभवसमुचितं भावयति तद्वृथा संसारेऽस्मिन्नहह समयं किं गमयसि ।
३७९८-२ चिराद्भूयो भूयः कलयसि सखेदो भवसुखं ततो मन्ये त्यागात्प्रभवति परा निर्वृतिरिति ।।

३७९९-१ असौ नास्तीवेन्दुः क्वचिदपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितमिव ।
३७९९-२ अहर्वा रात्रिर्वा द्वयमपि प्रलुप्तप्रविचयं घनैर्बद्धव्यूहैः किमिदमतिघोरं व्यवसितं ।।

३८००-१ असौ बिभ्रत्ताम्रत्विषमुदयशैलस्य शिरसि स्खलन्प्रालेयांशुर्यदि भवति मत्तो हलधरः ।
३८००-२ तदानीमेतत्तु प्रतिनवतमालद्युतिहरं तमोऽपि व्यालोलं विगलति तदीयं निवसनं ।।

३८०१-१ असौभाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं तद्गेहं भवति पृथुकार्तस्वरमयं ।
३८०१-२ निविष्टः पल्यङ्के कलयति स कान्तारतरणं प्रसादं कोपं वा जननि भवती यत्र तनुते ।।

३८०२-१ असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
३८०२-२ वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।।

३८०३-१ असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
३८०३-२ तमिस्रपक्षेऽपि सह प्रियाभिर्जोत्स्नावतो निर्विशति प्रदोषान् ।।

३८०४-१ असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः ।
३८०४-२ आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ।।

३८०५-१ असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
३८०५-२ यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ।।

३८०६-१ असौ रसौचित्यगुणोज्ज्वलोऽपि गुम्फो न काव्यव्यपदेशयोग्यः ।
३८०६-२ धत्ते खलस्यापि न दुर्विषह्य- द्वेषग्रहोत्सारणमन्त्रतां यः ।।

३८०७-१ असौ विद्याशाली शिशुरपि विनिर्गत्य भवनादिहायातः संप्रत्यविकलशरच्चन्द्रवदनः ।
३८०७-२ यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ।।

३८०८-१ असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे मुकुन्दममुमात्मनि स्थिरयितुं न किं वाञ्छति ।
३८०८-२ अतः परतरं कुतः प्रतरणाय वारांनिधेर्निदानमिह संसृतेः सुखसृतेश्च किं कारणं ।।

३८०९-१ असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः ।
३८०९-२ विनिर्गतः सिंह इवोदयाचलाद्गृहीतनिष्पन्दमृगो निशाकरः ।।

३८१०-१ असौ हि दत्त्वा तिमिरावकाशं अस्तं व्रजत्युन्नतकोटिरिन्दुः ।
३८१०-२ जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टं ।।

३८११-१ असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं रहोगतं ।
३८११-२ रतेन शत्रौ रमयेत्परेन वा नो चेदुदेष्यत्यरुणः पुरो रिपुः ।।

३८१२-१ असौ हि संकेतसमुत्सुकाभिर्विलासिनीभिर्मदनातुराभिः ।
३८१२-२ सरोषदृष्टः स्फुरिताधराभिर्द्रुतं रविर्भीत इवास्तमेति ।।

३८१३-१ अस्तंगतभारविरवि कालवशात्कालिदासविधुविधुरं ।
३८१३-२ निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ।।

३८१४-१ अस्तं गतवति सवितरि पायसपिण्डं सुधाकरं प्राची ।
३८१४-२ व्यरचयदम्बरकुशभुवि चरति कलङ्कस्तदन्तरे काकः ।।

३८१५-१ अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते ।
३८१५-२ कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणां ।।

३८१६-१ अस्तंगते दिवानाथे नलिनी मधुपच्छलात् ।
३८१६-२ गिलन्ति स्वविनाशाय गुटिकां कालकूटजां ।।

३८१७-१ अस्तंगते निजरिपावपि कुम्भयोनौ संकोचमाप जलधिर्न तु माद्यति स्म ।
३८१७-२ गम्भीरतागुणचमत्कृतविष्टपानां शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ।।

३८१८-१ अस्तंगते भास्वति नान्धकारान्शनैश्चरो हन्ति विधौ बुधश्च ।
३८१८-२ पितुर्गुणैर्न प्रतिभाति पुत्रो गुणान्वितो यः स गुणेन भाति ।।

३८१९-१ अस्तंगतोऽयमरविन्दवनैकबन्धुर्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतं ।
३८१९-२ हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं न तु दीनचित्ताः ।।

३८२०-१ अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितमाचरन्ति सुकृतं वह्नौ विलीय त्विषः ।
३८२०-२ अप्येतास्तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये खञ्जनकण्ठक्ॐअलतमःकृष्णाजिनं बिभ्रति ।।

३८२१-१ अस्तं मुक्तिरुपैतु यत्र न तनूसाध्या हरेर्भक्तयस्तन्नः संसृतिरेधतां निरवधिर्यस्याः प्रसादोदयात् ।
३८२१-२ मूर्ध्नि श्रीपुरुषोत्तमप्रणतयः श्रीरामनामानने हृद्देशे यदुनन्दनस्य जलदश्यामाभिरामाकृतिः ।।

३८२२-१ अस्तं यतापि किल मस्तकवर्तिनासावस्ताचलोऽहिमरुचा रुचिमप्यलम्भि ।
३८२२-२ प्रायः परोपकृतये कृतिनोऽनेपेक्ष्य स्वार्थं विपत्कवलिता अपि भावयन्ति ।।

३८२३-१ अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो नैवोदयगिरिशिर्ॐऊलमेणावचूलः ।
३८२३-२ तत्ते कालं कतिपलमयं भाति खद्योतपोत द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः ।।

३८२४-१ अस्तं शशी याति शशाङ्कवदने मानं विमुञ्चाधुना किं मानेन मुधा नतभ्रु गगनाद्भ्रश्यन्त्यमूस्तारकाः ।
३८२४-२ इत्थं त्वामनुशिक्षयन्क्षितितलादुन्नम्य पादं शनैः क्षीणां वीक्ष्य निशां निसर्गसुभगं गायत्यसौ कुक्कुटः ।।

३८२५-१ अस्तग्रस्तगभस्तिमत्करततिन्यङ्नीतचञ्चूपुटी पाटीराद्रिमथो हिमाचलमधः प्रक्षिप्य पक्षद्वयं ।
३८२५-२ पश्चादुन्नतपुच्छपुञ्जमुदयत्प्राचीप्रकाशच्छलादण्डं मण्डलमैन्दवं जनयति व्यक्तं बकोटीवियत् ।।

३८२६-१ अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम- प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यमी जन्तवः ।
३८२६-२ दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति यद्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ।।

३८२७-१ अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया ।
३८२७-२ अर्चेद्देवान्नदम्भेन श्रियमिच्छेदकुत्सितां ।।

३८२८-१ अस्तब्धतामचापल्यं वैराणां चाप्यकर्तृतां ।
३८२८-२ प्रत्यक्षतो विजानीयाद्भद्रतां क्षुद्रतामपि ।।

३८२९-१ अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।
३८२९-२ अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नं ।।

३८३०-१ अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा ।
३८३०-२ पीनस्तनस्थिताताम्रकम्रवस्त्रेव वारुणी ।।

३८३१-१ अस्तमितविषयसङ्गा मुकुलितनयनोत्पला मृदुश्वसिता ।
३८३१-२ ध्यायति किमप्यलक्ष्यं नित्यं योगाभियुक्तेव ।।

३८३२-१ अस्तमीयुषि निशाकरे सती रागतोऽतिविधुरा कुमुद्वती ।
३८३२-२ षट्पदं गरलमग्रहीन्मुखे संमुखेऽपि खगशब्दवारिता ।।

३८३३-१ अस्तव्यस्तमितस्ततः पथि पतन्मद्यं महादुद्वमन्हस्ताभ्यां मुखमक्षिकाः परिणुदन्गालीर्गदन्गद्गदन् ।
३८३३-२ उत्तालैः शिशुभिर्भृशं वलयितो बीभत्समूर्तिर्महान्मत्तो दक्षिणतः क्षणं क्षिप दृशं मत्तोऽयमागच्छति ।।

३८३४-१ अस्तव्यस्तसमीरकम्पिततया दृष्टेस्तिरस्कारिणीं हस्तेनालकवल्लरीमकुटिलामानीय कर्णान्तिकं ।
३८३४-२ उद्वीक्ष्य प्रियमार्गमध्वगवधूरस्तं गते भास्वति छिन्नाशा स्वनिवेशमेति शनकैः स्वप्नेक्षणाशंसिनी ।।

३८३५-१ अस्तव्यस्तान्क्रमततगतीन्पत्रिमालातरङ्गान्वेणीदण्डानिव धृतवती मुक्तसंध्याङ्गरागा ।
३८३५-२ ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः प्रत्यग्रद्युमणिविरहाद्वान्तमक्ष्णोर्न याति ।।

३८३६-१ अस्ताद्रिपार्श्वमुपजग्मुषि तिग्मभासि जानीत शीतकिरणोऽभ्युदितो न वेति ।
३८३६-२ चारा इवाथ रजनीतिमिरप्रयुक्ताश्चेरुश्चिरं चरणभूमिषु चञ्चरीकाः ।।

३८३७-१ अस्ताद्रिशिरोविनिहित- रविमण्डलसरसयावघट्टाङ्कं ।
३८३७-२ नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै ।।

३८३८-१ अस्ताभिमुखे सूर्ये उदिते संपूर्णमण्डले चन्द्रे ।
३८३८-२ गमनं बुधस्य लग्ने उदितास्तमिते च केतौ ।।

३८३९-१ अस्तावलम्बिरविबिम्बतयोदयाद्रि- चूडोन्मिषत्सकलचन्द्रतया च सायं ।
३८३९-२ संध्याप्रनृत्तहरहस्तगृहीतकांस्य- तालद्वयेव समलक्ष्यत नाकलक्ष्मीः ।।

३८४०-१ अस्ताविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः ।
३८४०-२ प्रचलच्चिपिटविषाणा करटाः खरसदृशवर्णाश्च ।।

३८४१-१ अस्ति कारणमव्यक्तं सर्वव्यापि परापरं ।
३८४१-२ सांनिध्यादपि दुर्ग्राह्यं विश्वमूर्त्योपलक्षितं ।।

३८४२-१ अस्ति कोऽपि तिमिरस्तनंधयः किंचिदञ्चितपदं स गायति ।
३८४२-२ यन्मनागपि निशम्य का वधूर्नावधूतहृदयोपजायते ।।

३८४३-१ अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ ।
३८४३-२ सीताहरणसामर्थ्यो न रामो न च रावणः ।।

३८४४-१ अस्ति जलं जलराशौ क्षारं तत्किं विधीयते तेन ।
३८४४-२ लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ।।

३८४५-१ अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च ।
३८४५-२ अभावे सति संतोषः स्वर्गस्थोऽसौ महीतले ।।

३८४६-१ अस्ति भयमस्ति कौतुकं अस्ति च मन्दाक्षमस्ति चोत्कण्ठा ।
३८४६-२ बालानां प्रणयिजने भावः कोऽप्येष नैकरसः ।।

३८४७-१ अस्ति यद्यपि सर्वत्र नीरं नीरजराजितं ।
३८४७-२ मोदते न तु हंसस्य मानसं मानसं विना ।।

३८४८-१ अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।
३८४८-२ क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ।।

३८४९-१ अस्ति स्वर्णमयोऽद्रिरस्ति विषयः क्षुत्तृड्भरावर्जितः सन्ति क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः ।
३८४९-२ किं नस्तच्चरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां दृष्टं यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमं ।।

३८५०-१ अस्ति स्वादुफलं किमस्ति किमथाघ्रातुं क्षमः कोरकस्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
३८५०-२ सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृक्षाधमः पिप्पलो दुःस्वातन्त्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यतां ।।

३८५१-१ अस्तीत्येव कृषिं कुर्यातस्ति नास्तीति वाणिजं ।
३८५१-२ नास्तीत्येव ऋणं दद्यात्नाहमस्मीति साहसं ।।

३८५२-१ अस्तु तावदगस्त्येन जह्नोर्महिमनिह्नवः ।
३८५२-२ का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ।।

३८५३-१ अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रय- श्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तंभ्रमत्क्ॐउदी ।
३८५३-२ यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत्पाण्डिम्नैव तनोस्तनोति विरहव्यग्रापि वेशग्रहं ।।

३८५४-१ अस्ते शिवा पश्चिमायां परचक्रभयाय सा ।
३८५४-२ शुभा कुबेरदिश्यस्ते ग्रामान्तः शून्यकारिणी ।।

३८५५-१ अस्तोकविस्मयमपस्मृतपूर्ववृत्तं उद्भूतनूतनभयज्वरजर्जरं नः ।
३८५५-२ एकक्षणत्रुटितसंघटितप्रमोहं आनन्दशोकशबलत्वमुपैति चेतः ।।

३८५६-१ अस्तोदयाचलविलम्बिरवीन्दुबिम्ब- व्याजात्क्षणं श्रवणयोर्निहितारविन्दा ।
३८५६-२ ताराच्छलेन कुसुमानि समुत्क्षिपन्ती संध्येयमागतवती प्रमदेव काचित् ।।

३८५७-१ अस्तोदयाद्रिगतमर्कशशाङ्कबिम्बं अह्नोऽतिवार्धकदशामवलम्बितस्य ।
३८५७-२ ताराक्षराणि पठितुं तपनीयशैल- नासावसक्तमुपनेत्रमिवाबभासे ।।

३८५८-१ अस्तोपधानविनिहित- रविबिम्बशिरोनिकुञ्चितदिगङ्गः ।
३८५८-२ वस्तेऽन्धकारकम्बलं अम्बरशयने दिनाध्वन्यः ।।

३८५९-१ अस्त्यत्रैव किलार्णवे तदमृतं तत्रैव हालाहलः सन्त्यस्मिन्मलये पटीरतरवस्तत्रैव वाताशनाः ।
३८५९-२ यद्यद्वस्त्वभिजातमस्ति सविधे तत्तद्दुरापं नृणां प्राप्तव्यं रसनाञ्चले करतले भाले च वेधा न्यधात् ।।

३८६०-१ अस्त्यद्यापि चतुःसमुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपाः ।
३८६०-२ एकस्तत्र निरादरो भवति चेदन्यो भवेत्सादरो वाग्देवी वदनाम्बुजे वसति चेत्को नाम दीनो जनः ।।

३८६१-१ अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणं ।
३८६१-२ स्फुटतां कञ्चुकानां यन्नायात्यावरणीयतां ।।

३८६२-१ अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
३८६२-२ पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ।।

३८६३-१ अस्त्येकं भुवनं सूक्ष्मं क्षमध्वे यत्र वीक्षितुं ।
३८६३-२ विषयांश्चित्रविद्यायाश्चित्राणां चलतां तथा ।।

३८६४-१ नाटकाख्यायिकानां च शक्यान्सर्वविधानपि ।
३८६४-२ स्फुरणा जायते प्रायस्तत एव कलाकृतां ।।

३८६५-१ अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेऽम्बुदः ।
३८६५-२ मरुद्भिर्भज्यमानोऽपि स किमेति रसातलं ।।

३८६६-१ अस्त्येवोद्दामदावानलविकलतरं काननं यत्र तत्र प्रौढोत्तापाभिभूतं जगदपि सकलं निर्जला एव नद्यः ।
३८६६-२ किं रे निर्लज्ज गर्जं कलयसि बहुशस्तर्जयन्पान्थबालाः पर्जन्य त्वाममी किं क्वचिदपि गणयन्त्यम्बुदत्वेन लोकाः ।।

३८६७-१ अस्त्रं विमुच्य सकलं प्रथमप्रयोगे भूयोऽपि हन्तुमबलां विहितोद्यमस्य ।
३८६७-२ पुष्पायुधस्य वपुरेव तदीयमेकं लक्ष्यं च हन्त शरधिश्च तदा बभूव ।।

३८६८-१ अस्त्रं स्त्री वामनो मर्त्यः पशुरेभ्योऽथवेतरः ।
३८६८-२ विधियोगाद्भवेत्कामं पौरुषं न परित्यजेत् ।।

३८६९-१ अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणां ।
३८६९-२ कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्यशङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ।।

३८७०-१ अस्त्रप्रयोगखुरलीकलहे गणानां सैन्यैर्वृतोऽपि जित एव मया कुमारः ।
३८७०-२ एतावतापि परिरभ्य कृतप्रसादः प्रादादिमं प्रियगुणो भगवान्गुरुर्मे ।।

३८७१-१ अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे क्षणं व्यूढासृक्सरिति स्वनत्प्रहरणे वर्मोद्वमद्वाह्निनि ।
३८७१-२ आहूयाजिमुखे स कोसलपतिर्भग्ने प्रधाने बले एकेनैव रुमण्वता शरशतैर्मत्तद्विपस्थो हतः ।।

३८७२-१ अस्त्राणि प्लवगाधिपेन विहिताः पौलस्त्यवक्षःस्थली- संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः ।
३८७२-२ उत्पाट्य प्रहितश्च शैलशिखरो लङ्केन्द्रहस्तावली- निष्पिष्टो निजकुञ्जनिर्झरजलैर्जम्बालपिण्डायते ।।

३८७३-१ अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनुर्दारामास मुनेः शिलापि नृवरामास स्वयं पादुका ।
३८७३-२ कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानुषामासिथाः ।।

३८७४-१ अस्त्रौघप्रसरेण रावणिरसौ यं दुर्यशोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलं ।
३८७४-२ कच्छावर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो विशल्यकरणी जागर्ति सत्पुत्रता ।।

३८७५-१ अस्त्वक्षरग्रहविधिर्जनुषां सहस्रैरापाततो भवतु वापि ततोऽर्थबोधः ।
३८७५-२ दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान्दुष्पूर्वपक्षजलधीन्कथमुत्तरेयुः ।।

३८७६-१ अस्थानगामिभिरलंकरणैरुपेता भूयः पदस्खलननिह्नुतिरप्रसन्ना ।
३८७६-२ वाणीव कापि कुकवेर्जनहस्यमाना द्राङ्निर्गता निजगृहाद्वनिता मदान्धा ।।

३८७७-१ अस्थानाभिनिवेशिता रतिपतेरौचित्यभङ्गो रतेर्वैयर्थ्यं नवयौवनस्य किमपि प्रेम्णः कलङ्काङ्कुरः ।
३८७७-२ सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किमपरं वेश्यारताडम्बरः ।।

३८७८-१ अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् ।
३८७८-२ बालादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बं ।।

३८७९-१ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा ।
३८७९-२ स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ।।

३८८०-१ अस्थाने जनसंकटे मयि मनाक्काञ्चीं समास्कन्दति व्यालोले रशनांशुके विगलिते नीते च नाभेरधः ।
३८८०-२ धन्योऽयं स करः कुरङ्गकदृशा तस्मिन्नवस्थान्तरे कम्पातङ्ककरंबिताङ्गलतया यस्यावकाशः कृतः ।।

३८८१-१ अस्थाने ताडितो वाजी बहून्दोषानवाप्नुयात् ।
३८८१-२ तावद्भवन्ति ते दोषा यावज्जीवत्यसौ हयः ।।

३८८२-१ अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान् ।
३८८२-२ अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ।।

३८८३-१ अस्थाने ह्यपि च स्थाने सततं चानुगामिनि ।
३८८३-२ क्रुद्धो दण्डान्प्रणयति विविधांस्तेजसा वृतः ।।

३८८४-१ अस्थिक्षोदवतीव कुन्दमुकुलैः फुल्लैः पलाशद्रुमैः साङ्गारप्रकरेव धूमकलुषेवोत्पातिभिः षट्पदैः ।
३८८४-२ रक्ताक्षद्युतिभिः सशेषदहनालातेव पुंस्कोकिलैर्दृष्टा प्राणसमाचितेव पथिकैराराद्वनान्तस्थली ।।

३८८५-१ अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः ।
३८८५-२ नास्ति पादद्वयं गाढं अङ्गमालिङ्गति स्वयं ।।

३८८६-१ अस्थिरं जीवितं लोके यौवनं धनमस्थिरं ।
३८८६-२ अस्थिरं पुत्रदारादि धर्मः कीर्तिर्द्वयं स्थिरं ।।

३८८७-१ अस्थिरः कुलसंबन्धः सदा विद्या विवादिनी ।
३८८७-२ मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनं ।।

३८८८-१ अस्थिरमनेकरागं गुणरहितं नित्यवक्रदुष्प्रापं ।
३८८८-२ प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्तमिव ।।

३८८९-१ अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ।
३८८९-२ अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णका इव ।।

३८९०-१ अस्थिवद्दधिवच्चैव शङ्खवद्बकवत्तथा ।
३८९०-२ राजंस्तव यशो भाति पुनः संन्यासिदन्तवत् ।।

३८९१-१ अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु ।
३८९१-२ गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितं ।।

३८९२-१ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं ।
३८९२-२ चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ।।

३८९३-१ जराशोकसमाविष्टं रोगायतनमातुरं ।
३८९३-२ रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ।।

३८९४-१ नदीकूलं यथा वृक्षं वृक्षं वा शकुनिर्यथा ।
३८९४-२ तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते ।।

३८९५-१ अस्थीनि मज्जा शुक्लं च पितुरंशास्त्रयो मताः ।
३८९५-२ रक्तं र्ॐआणि पललं अंशा मातुरमी मता ।।

३८९६-१ अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दुर्गङ्गा गङ्गोरग उरग इत्याकुलाः संभ्रमेण ।
३८९६-२ भूषावेषोपकरणगणप्रापणव्यापृतानां नृत्तारम्भप्रणयिनि शिवे पान्तु वाचो गणानां ।।

३८९७-१ अस्नाताशी मलं भुङ्क्ते अजपी पूयभक्षणं ।
३८९७-२ अहुताशी विषं भुङ्क्ते अदाता विषमश्नुते ।।

३८९८-१ अस्पृश्यसंगतिमिह प्रविधाय सोढा दण्डाहतीः पटह बन्धमपि प्रपद्य ।
३८९८-२ दोषं प्रकाशयसि यत्प्रतिरथ्यमेव लोकस्य तद्विमुखतां प्रकटीकरोषि ।।

३८९९-१ अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटैर्दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः ।
३८९९-२ भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवान्यः सीदन्क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ।।

३९००-१ अस्पृष्टे राहुभीत्याहनि निशि च समे कल्मषच्छाययोने हासत्रासाद्विदूरे समुपचितविभावैभवे हृद्यगन्धे ।
३९००-२ पाथोदाच्छादहीने धरणितलगतादुर्लभे सर्वलोका- ह्लादं चाप्यादधाने सुमुखि तव मुखौपम्यलेशः सुधांशौ ।।

३९०१-१ अस्मत्पूर्वैः सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं भित्त्वा क्षोणीमगणितबलैः सागरो वर्धितात्मा ।
३९०१-२ सत्कारार्थं तव यदि गिरीनादिशेद्गुप्तपक्षा न श्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः ।।

३९०२-१ अस्मत्प्रयाणसमये कुरु मङ्गलानि किं रोदिषि प्रियतमे वद कारणं मे ।
३९०२-२ भोः प्राणनाथ विरहानलतीव्रताप- धूमेन वारि गलितं मम लोचनानां ।।

३९०३-१ अस्मदीश्वरविश्वासप्रमाणेन प्रभोः कृपा ।
३९०३-२ विधातुं प्रभवेत्कार्यं साहाय्यं च तथैव नः ।।

३९०४-१ अस्मद्रिपूणामनिलाशनानां दत्तो निवासः खलु चन्दनेन ।
३९०४-२ इतीव रोषाद्व्यजनस्य वायुर्व्यशोषयच्चन्दनमङ्गसंस्थं ।।

३९०५-१ अस्मद्वैरी शशभृदमुना जीयते ह्यन्धकारः सारङ्गाक्ष्या मुखमनुगतः केशपाशच्छलेन ।
३९०५-२ तं संश्रुत्य प्रगलितमहाः शीतरश्मिस्तदैव प्राप्तः सेवाघटनविधये मालतीदामभङ्ग्या ।।

३९०६-१ अस्माकं जलजीविनां जलमिदं सद्वाजिराजिव्रजैः पातव्यं पररक्तरक्तमनसां तृप्तिः पतीनां क्षयः ।
३९०६-२ मत्वैवं किल राजराज नृपते त्वज्जैत्रयात्रोत्सवे मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रियः ।।

३९०७-१ अस्माकं परमन्दिरस्य चरितं यद्यप्यवाच्यं भवेत्स्वामी त्वं कथयामि तेन भवतः किंचित्प्रियादूषणं ।
३९०७-२ श्रीमद्राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा लुठन्ती मया ।।

३९०८-१ अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते काञ्चीकुन्तलमध्यदेशविषयान्संत्यज्य भूरिश्रियः ।
३९०८-२ इत्यालोक्य कुचौ पयोरुहदृशां जातौ सुनीलाननौ नो नीचोऽपि पराभवं विषहते किं तादृशावुन्नतौ ।।

३९०९-१ अस्माकं वदरीचक्रं बदरी च तवाङ्गणे ।
३९०९-२ वादरायणसम्बन्धाद्यूयं यूयं वयं वयं ।।

३९१०-१ अस्माकं व्रतमेतदेव यदयं कुञ्जोदरे जागरः शुश्रूषा मदनस्य वक्त्रमधुभिः संतर्पणीयोऽतिथिः ।
३९१०-२ निस्त्रिंशाः शतशः पतन्तु शिरसश्छेदोऽथवा जायतां आत्मीयं कुलवर्त्म पुत्रि न मनागुल्लङ्घनीयं त्वया ।।

३९११-१ अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।
३९११-२ किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितं ।।

३९१२-१ अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानं ।
३९१२-२ दासीसुताः किमेते स्वादन्ति विटाः प्रसङ्गेन ।।

३९१३-१ अस्माकमध्यासितमेतदन्तस्तावद्भवत्या हृदयं चिराय ।
३९१३-२ बहिस्त्वयालंक्रियातमिदानी- मुरो मुरं विद्विषतः श्रियेव ।।

३९१४-१ अस्माकमात्मभूर्भूत्वा हन्तास्मानेव हंसि यत् ।
३९१४-२ रे रे कन्दर्प तन्नित्यं अनङ्गत्वं सदास्तु ते ।।

३९१५-१ अस्माकमेकपद एव मरुद्विकीर्ण- जीमूतजालरसितानुकृतिर्निनादः ।
३९१५-२ गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरग्रहणशक्तिमपाकरोति ।।

३९१६-१ अस्मात्परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति ।
३९१६-२ नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति ।।

३९१७-१ अस्मादृशां नूनमपुण्यभाजां न स्वोपयोगी न परोपयोगी ।
३९१७-२ सन्नप्यसद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ।।

३९१८-१ अस्मानवेहि कलमानलमाहतानां येषां प्रचण्डमुसलैरवदाततैव ।
३९१८-२ स्नेहं विमुच्य सहसा खलतां प्रयान्ति ये स्वल्पपीडनवशान्न वयं तिलास्ते ।।

३९१९-१ अस्मान्मा भज कालकूटभगिनि स्वप्नेऽपि पद्मालये व्याधीभूय कदर्थयन्ति बहुशो मातर्विकारा इमे ।
३९१९-२ यच्चक्षुर्न निरीक्षतेच्छविषयं नैवं शृणोति श्रुतिः प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः ।।

३९२०-१ अस्मान्विचित्रवपुषश्चिरपृष्ठलग्नान्को वा विमुञ्चति सखे यदि वा विमुञ्च ।
३९२०-२ हा हन्त केकिवर हानिरियं तवैव भूपालमूर्धनि पुनर्भविता स्थितिर्नः ।।

३९२१-१ अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च तां ।
३९२१-२ सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतःपरं न खलु तद्वाच्यं वधूबन्धुभिः ।।

३९२२-१ अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैरपि प्रौढा मानवशालिनीति चलितं चेतः सकामं त्वयि ।
३९२२-२ धिक्त्वां संप्रति सद्भुजङ्गजनतासंश्लेषमातन्वती गम्या सर्वजनस्य वारवनितेवोत्क्षेपणीयासि नः ।।

३९२३-१ अस्माभिः स्मयलोलमौलिफलकैर्मुक्ताविसाराधिपं वेदोद्धारपरः करस्तव परं दानाम्बुपूतः स्तुतः ।
३९२३-२ किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ।।

३९२४-१ अस्माभिश्चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर्न स कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः ।
३९२४-२ यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणमेकमर्धमथवा निःश्वस्य विश्राम्यते ।।

३९२५-१ अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारं ।
३९२५-२ तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ।।

३९२६-१ अस्मिंश्चन्द्रमसि प्रसन्नमहसि व्याकोषकुन्दत्विषि प्राचीनं खमुपेयुषि त्वयि मनाग्दूरं गते प्रेयसि ।
३९२६-२ श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो दृगपि च द्राक्चन्द्रकान्तीयति ।।

३९२७-१ अस्मिंस्ते शिरसि तदा कान्ते वैदूर्यस्फटिकसुवर्णाढ्ये ।
३९२७-२ शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयं ।।

३९२८-१ अस्मिञ्जगति महत्यपि किमपि न तद्वस्तु वेधसा विहितं ।
३९२८-२ अनिमित्तवत्सलाया भवति यतो मातुरुपकारः ।।

३९२९-१ अस्मिञ्जडे जगति को नु बृहत्प्रमाण- कर्णः करी ननु भवेद्दुरितस्य पात्रं ।
३९२९-२ इत्यागतं तमपि योऽलिनमुन्ममाथ मातङ्ग एव किमतःपरमुच्यतेऽसौ ।।

३९३०-१ अस्मिञ्जरामरणमृत्युमहातरङ्ग- मिश्रोदधौ महति संपरिवर्तमानः ।
३९३०-२ पुण्यप्लवेन सुकृतेन नरास्तरन्तः संप्राप्य तीरमभयं सुखमाप्नुवन्ति ।।

३९३१-१ अस्मिन्कः प्रभवेद्योगो ह्यसंधार्येऽमितात्मनि ।
३९३१-२ लङ्घने कः समर्थः स्यादृते देवं महेश्वरं ।।

३९३२-१ अस्मिन्करीन्द्रकरनिर्गलितारविन्द- कन्दानुकारिणि चिरं रुचिचक्रवाले ।
३९३२-२ कस्मै फलाय कुलटाकुलकोटिह्ॐअं हंहो मृगाङ्क कुरुषे करुणामपास्य ।।

३९३३-१ अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयतां ।
३९३३-२ गतं तु नानुशोचन्ति गतं तु गतमेव हि ।।

३९३४-१ अस्मिन्कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणां ।
३९३४-२ तस्मिन्राधासखो वः सुखयतु विलसन्क्रीडया कैटभारिर्व्यातन्वानो मृगारिप्रबलवुरघुरारावरौद्रोच्चनादान् ।।

३९३५-१ अस्मिन्कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि ।
३९३५-२ हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ।।

३९३६-१ अस्मिन्केलिवने सुगन्धपवने क्रीडत्पुरंध्रीजने गुञ्जद्भृङ्गकुले विशालबकुले कूजत्पिकीसंकुले ।
३९३६-२ उन्मीलन्नवपाटलापरिमले मल्लीप्रसूनाकुले यद्येकापि न मालती विकसिता तत्किं न रम्यो मधुः ।।

३९३७-१ अस्मिन्दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायति कम्पं सात्त्विकभावञ्चति रिपुक्षोणीन्द्रदारा धरा ।
३९३७-२ अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ।।

३९३८-१ अस्मिन्नक्तमहर्विवेकविकले कालाधमे नीरदैः संनद्धैरभितो निरुद्धगगनाभोगासु दिग्भित्तिषु ।
३९३८-२ भानोर्न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः सत्तामात्रपरिग्रहेण विकसन्त्यद्यापि पद्माकराः ।।

३९३९-१ अस्मिन्नगृह्यत पिनाकभृता सलीलं आबद्धवेपथुरधीरविलोचनायाः ।
३९३९-२ विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ।।

३९४०-१ अस्मिन्नभ्युदिते जगत्त्रयदिशामुल्लासहेतौ दिशां आस्यम्लानिहरे सुधारसनिधौ देवे निशास्वामिनि ।
३९४०-२ वक्त्रं मुद्रितमम्बुजन्म भवता चेत्किं ततः शाश्वतं नैतस्येश्वरमौलिमण्डनमणेर्गायन्ति विश्वे यशः ।।

३९४१-१ अस्मिन्न निर्गुणं गोत्रे अपत्यमुपजायते ।
३९४१-२ आकरे पद्मरागाणां जन्म काचमणेः कुतः ।।

३९४२-१ अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काक व्याकुलो भूस्तरुशिरसि शवक्रव्यलेशानशान ।
३९४२-२ धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद्ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ।।

३९४३-१ अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः पुञ्जितश्चोत्थितश्च ।
३९४३-२ धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन्सृजति गगने गत्वरान्पत्रभङ्गान् ।।

३९४४-१ अस्मिन्परस्परद्वेषपरुषे पुरुषायुषे ।
३९४४-२ केवलं मधुरा वाणी ददात्यानीय सौहृदं ।।

३९४५-१ अस्मिन्प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ्मणिविभूषणरश्मिजालैः ।
३९४५-२ पातालमुद्यतफणाकृतिशृङ्गकोऽयं मामद्य संस्मरयतीव भुजङ्गलोकः ।।

३९४६-१ अस्मिन्प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मथी दृष्टिः ।
३९४६-२ सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ।।

३९४७-१ अस्मिन्भूवलये जनस्य महिमा भाग्येन संजायते नो तत्रास्ति हि कारणं प्रयतता नैवाथ कश्चिद्गुणः ।
३९४७-२ काकायाशुचिभोजिने हि वितरत्युच्चैस्तु लोको बलिं मुक्ताहारपरायणाय शुचये नो हन्त हंसाय यत् ।।

३९४८-१ अस्मिन्मरौ किमपरं वचसामवाच्यं मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः ।
३९४८-२ एतत्त्वया जललवामिषलालसेन दृष्टं ज्वलत्परिकरं सिकतावितानं ।।

३९४९-१ अस्मिन्महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः ।
३९४९-२ लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्त्वास्तानात्मनस्तव नखानवधारयामः ।।

३९५०-१ अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिनेन्धनेन ।
३९५०-२ मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ।।

३९५१-१ अस्मिन्वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि निरन्नया तदधुना किंचिन्मुखे दीयतां ।
३९५१-२ इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्च धाराश्रुभिः ।।

३९५२-१ अस्मिन्वसन्ते न नराः सहन्ते वधूवियोगं च बलासरोगं ।
३९५२-२ कुरङ्गनाभिद्रवलेपभाभिर्भजन्तु दृप्ताः प्रमदाः प्रलिप्ताः ।।

३९५३-१ अस्मिन्सखे ननु मणित्वमहासुभिक्षे चिन्तामणे त्वमुपलो भव मा मणिर्भूः ।
३९५३-२ अद्येदृशा हि मणयः प्रभवन्ति लोके येषां तृणग्रहणकौशलमेव भूषा ।।

३९५४-१ अस्मिन्स्थिते विपदभूदिति संचिन्त्य वर्ज्यते ।
३९५४-२ मूढैः परिवृढैरापत्सेवको मङ्गलेच्छुभिः ।।

३९५५-१ अस्मि वीरजननीति जनन्यां अस्मि वीररमणीति रमण्यां ।
३९५५-२ संमदं व्यदधदुत्सुकचेतास्तारतूर्यतरलश्चलितोऽन्यः ।।

३९५६-१ अस्मि वीरतनया वरवीर- प्रेयसी च कुरु वीरसवित्रीं ।
३९५६-२ अद्य हृद्यसमरैरिति माता काचिदाह तिलकाक्षतपूर्वं ।।

३९५७-१ अस्मै करं प्रवितरन्तु नृपा न कस्मादस्यैव तत्र यदभूत्प्रतिभूः कृपाणः ।
३९५७-२ दैवाद्यदा प्रवितरन्ति न ते तदैव नेदंकृपा निजकृपाणकरग्रहाय ।।

३९५८-१ अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्तयः ।
३९५८-२ गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधेः रोधसि ।।

३९५९-१ अस्यत्युच्चैः शकलितवपुश्चन्दनो नात्मगन्धं नेक्षुर्यन्त्रैरपि मधुरतां पीड्यमानो जहाति ।
३९५९-२ यद्वत्स्वर्णं न चलति हितं छिन्नघृष्टोपतप्तं तद्वत्साधुः कुजननिहतोऽप्यन्यथात्वं न याति ।।

३९६०-१ अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः ।
३९६०-२ वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे ।।

३९६१-१ अस्य प्रचण्डभुजदण्डभवः कृशानुश्चण्डांशुचण्डकरजित्सुमहाप्रतापः ।
३९६१-२ प्रत्यर्थिभूपतिपलाशवनं विदह्य प्रौढासु दिक्षु बहुदाहमुरीकरोति ।।

३९६२-१ अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
३९६२-२ कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ।।

३९६३-१ अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभं ।
३९६३-२ शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्रकैः ।।

३९६४-१ अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथं ।
३९६४-२ इदं च मुखमाधुर्यं कथं दूषितमग्निना ।।

३९६५-१ अस्यां नेत्रपथं मन्ये गतायां लोलचक्षुषि ।
३९६५-२ भवन्ति पञ्चबाणस्य स्वबाणा एव वैरिणः ।।

३९६६-१ अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत्किं ततो भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते ।
३९६६-२ एतेऽद्यैव लयं व्रजन्ति पृथुकैरेतत्कुलीनो न चेदेकः प्राणिति तावतैव कृतमस्त्यत्रैव नः संशयः ।।

३९६७-१ अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली ।
३९६७-२ नानारदाह्लादि मुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः ।।

३९६८-१ अस्यां वपुर्व्यूहविधानविद्यां किं द्योतयामास नवां स कामः ।
३९६८-२ प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ।।

३९६९-१ अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन खलु कोकिल क्ॐअलेन ।
३९६९-२ एते हि दैवहतकास्तदभिन्नवर्णं त्वां काकमेव कलयन्ति कलानभिज्ञाः ।।

३९७०-१ अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगातां ।
३९७०-२ तेनायमेभिः किमपूजि पुष्पैरभर्त्सि दत्त्वा स किमर्धचन्द्रं ।।

३९७१-१ अस्याः कररुहखण्डित- काण्डपटप्रकटनिर्गता दृष्टिः ।
३९७१-२ पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ।।

३९७२-१ अस्याः करस्पर्धनगर्धनर्द्धिर्बालत्वमापत्खलु पल्लवो यः ।
३९७२-२ भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न स प्रवालः ।।

३९७३-१ अस्याः कर्णावतंसेन जितं सर्वं विभूषणं ।
३९७३-२ तथैव शोभतेऽत्यर्थं अस्याः श्रवणकुण्डलं ।।

३९७४-१ अस्याः कान्तस्य रूपस्य सवौपम्यातिशायिनः ।
३९७४-२ एकैव गच्छेत्सादृश्यं स्वच्छाया दर्पणाश्रिता ।।

३९७५-१ अस्याः कामनिवासरम्यभवनं वक्त्रं विलोक्यादरान्निश्चित्येव सुधाकरं प्रियतमं भूमीगतं शोभनं ।
३९७५-२ नासामौक्तिककैतवेन रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृदया तत्संनिधिं सेवते ।।

३९७६-१ अस्याः कुशेशयदृशः शशिशुभ्रशुभ्रं नासाग्रवर्ति नवमौक्तिकमाचकास्ति ।
३९७६-२ कैलासमानससरोवरराजहंस्या निःक्षिप्तमण्डमिव जाग्रति पुण्डरीके ।।

३९७७-१ अस्याः खलु ग्रन्थिनिबद्धकेश- मल्लीकदम्बप्रतिबिम्बवेषात् ।
३९७७-२ स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्टिकायां ।।

३९७८-१ अस्याः पदौ चारुतया महन्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
३९७८-२ जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ।।

३९७९-१ अस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ निर्धौतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
३९७९-२ काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोरेभिः कामशरैस्तदद्भुतमभूद्यन्मे मनः कीलितं ।।

३९८०-१ अस्याः पीठोपविष्टाया अभ्यङ्गं वितनोत्यसौ ।
३९८०-२ लसच्छ्रोणि चलद्वेणि नटद्गुरुपयोधरं ।।

३९८१-१ अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
३९८१-२ अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ।।

३९८२-१ अस्याः संयमवान्कचो मधुकरैरभ्यर्थ्यमानो मुहुर्भृङ्गीगोपनजाभिशापमचिरादुन्मार्ष्टुकामो निजं ।
३९८२-२ सीमन्तेन करेण क्ॐअलरुचा सिन्दूरबिन्दुच्छलादातप्तायसपिण्डमण्डलमसावादातुमाकाङ्क्षति ।।

३९८३-१ अस्याः स चारुर्मधुरेव कारुः श्वासं वितेने मलयानिलेन ।
३९८३-२ अमूनि सूनैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ।।

३९८४-१ अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासमाप ।
३९८४-२ पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ।।

३९८५-१ अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
३९८५-२ वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।

३९८६-१ अस्याः सर्गविधौ प्रजापतिरहो चन्द्रो न संभाव्यते नो देवः कुसुमायुधो न च मधुर्दूरे विरिञ्चः प्रभुः ।
३९८६-२ एतन्मे मतमुत्थितेयममृतात्काचित्स्वयं सिन्धुना या मन्थाचललोडितेन हरये दत्त्वा श्रियं रक्षिता ।।

३९८७-१ अस्याः सुगन्धिनवकुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणायाः ।
३९८७-२ आविष्टरागमभिराममुखारविन्द- निष्यन्दलग्नमिव मे हृदयं द्वितीयं ।।

३९८८-१ अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर्वारंवारेण वेगप्रहणनगणनाकेलिवाचालितायाः ।
३९८८-२ तत्पातोत्पाततालक्रमनमितदृशस्ताण्डवोत्तालताली- लालित्याल्लोभिताः स्मः प्रतिपदममुना कन्दुकक्रीडितेन ।।

३९८९-१ अस्याङ्के कषपट्टभासिचपला श्रीः स्वर्णरेखायते धारासारघनं सुदर्शनमदश्चक्रं जगत्पश्यति ।
३९८९-२ प्रोदञ्चद्वनमालमञ्जनरुचा देहेन पीताम्बरं दूरोन्नीतशिखण्डमण्डलमिदं रूपं हरेरम्बुदः ।।

३९९०-१ अस्या धामसरोवरे भुजबिसे वक्त्रारविन्दे भ्रमन्नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले ।
३९९०-२ वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपेत्य द्रुतं मग्नश्चित्तमतंगजः कथमसावुत्थाय निर्यास्यति ।।

३९९१-१ अस्याननस्य भवतः खलु कोटिरेषा कण्टारिका यदि भवेदविशीर्णपर्णा ।
३९९१-२ योग्या क्व ते करभ कल्पतरोर्लतायास्ते पल्लवा विमलविद्रुमभङ्गभाजः ।।

३९९२-१ अस्याभ्यासाद्ग्रन्थवर्यस्य शिष्यः सर्वज्ञः स्याद्विस्फुरच्चारुबुद्धिः ।
३९९२-२ अर्थं कामं वेत्ति धर्मं च मोक्षं निःसंदेहं शीलितुं पण्डितोऽपि ।।

३९९३-१ अस्या मनोहराकारकबरीभारतर्जिताः ।
३९९३-२ लज्जयेव वने वासं चक्रुश्चमरबर्हिणः ।।

३९९४-१ अस्यामपूर्व इव कोऽपि कलङ्करिक्तश्चन्द्रोऽपरः किमुत तन्मकरध्वजेन ।
३९९४-२ र्ॐआवलीगुणमिलत्कुचमन्दरेण निर्मथ्य नाभिजलधिं ध्रुवमुद्धृतः स्यात् ।।

३९९५-१ अस्या मुखं हिमरुचिर्ननु यद्विधात्रा संपूर्य सर्वमवशेषतयात्र मुक्तः ।
३९९५-२ आश्यानतामुपगतोऽस्य रुचा चकास्ति नासाग्रमौक्तिकमिषादमृतस्य बिन्दुः ।।

३९९६-१ अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् ।
३९९६-२ अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ।।

३९९७-१ अस्या मुखस्यास्तु न पूर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुं ।
३९९७-२ भ्रूलक्ष्मखण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः ।।

३९९८-१ अस्या मुखेन लोकानां हृतपङ्कजकान्तिना ।
३९९८-२ निशासु नाशिता निद्रा कुमुदानामिवेन्दुना ।।

३९९९-१ अस्या मुखेनैव विजित्य नित्य- स्पर्धी मिलत्कुङ्कुमरोषभासा ।
३९९९-२ प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठत्परिवेषपाशः ।।