महासुभाषितसंग्रह ९००१-१००००

विकिपुस्तकानि तः
Jump to navigation Jump to search

९००१-१ कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ।
९००१-२ तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायां ।।

९००२-१ कलां तामैन्दवीं वन्दे यया यादष्पतिः पिता ।
९००२-२ आरुह्य हरमूर्धानं कृतस्त्रैलोक्यमूर्धनि ।।

९००३-१ कलाः सर्वे हरेरेव सप्रजापतय्स्तथा ।
९००३-२ एते त्वंशकलाः पुंसः कृष्णस्तु भगवान्स्वयं ।।

९००३आ-१ कलाकलापसम्पन्ना उपकर्तुः परञ्मुखाः ।
९००३आ-२ न भवन्ति महात्मानः सरसः शिखिनो यथा ।।

९००४-१ कलाकाष्ठामुहूर्तानां कालस्य व्रजतां जवात् ।
९००४-२ न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ।।

९००५-१ कलात्तमायालवकान्तमूर्तिः कलक्वणद्वेणुनिनादरम्यः ।
९००५-२ श्रितो हृदि व्याकुलयंस्त्रिलोकीं श्रियेऽस्तु गोपीजनवल्लभो वः ।।

९००६-१ कलाधारो वक्रः स्फुरदधररागो नवतनुर् गलन्मानावेशास्तरुणरमणीर्नागर इव ।
९००६-२ घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ।।

९००७-१ कलाधिनाथाधिगमाद्द्वितीये किमद्वितीयेति तनोषि गर्वं ।
९००७-२ अयि त्वमस्मद्वचसि प्रतीया अयं तृतीयामुपगन्तुकामः ।।

९००८-१ कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एव भृङ्गः ।
९००८-२ किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति ।।

९००९-१ कलानां ग्रहणादेव सौभाग्यमुपजायते ।
९००९-२ देशकालौ त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ।।

९०१०-१ कलानाथः कामं भजति बहुदोषाङ्किततनुं कुमुद्वत्यास्तस्मिन्नपि भवति किं नाम न रुचिः ।
९०१०-२ न पद्मिन्या मोदः किमुदयत्युष्णमहसि प्रिये प्रायो दोषान्न गणयति चित्तं मृगदृशः ।।

९०१०आ-१ कलानिधिकरस्पर्शात्प्रसन्नोल्लासितारका ।
९०१०आ-२ बिम्रणाम्बरमानीलं कामिनी यामिनीयते ।।

९०११-१ कलानिधिरयं रवेः समुपलभ्य रूपं स्वयं दिनान्तसमयेऽस्पृशत्सपदि पद्मिनीं रागवान् ।
९०११-२ धवान्यकरसंगमान्मुकुलितेति पूर्वाकृतिं समीक्ष्य जहसुः प्रिया ध्रुवमभूदतः पाण्डुरः ।।

९०१२-१ कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानां ।
९०१२-२ वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति ।।

९०१३-१ कलाभिरुच्छ्रिता वेश्या रूपशीलगुणान्विता ।
९०१३-२ लभते गणिकाशब्दं स्थानं च जनसंसदि ।।

९०१४-१ कलामिन्दुः करं दाता धारां धाराधरो यदि ।
९०१४-२ संकोचयिष्यते तर्हि जीविष्यति कथं जगत् ।।

९०१५-१ कलारत्नं गीतं गगनतलरत्नं दिनमणिः सभारत्नं विद्वान्श्रवणपुटरत्नं हरिकथा ।
९०१५-२ निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः ।।

९०१६-१ कलावतः सैव कला ययाधःक्रियते भवः ।
९०१६-२ बह्वीभिश्च कलाभिः किं याभिरङ्कः प्रदर्श्यते ।।

९०१७-१ कलावति क्षततमसि प्रभावति स्फुटोदये जननयनाभिनन्दिनि ।
९०१७-२ ददुर्दूशं शशिनि रुषाभिसारिकाः क्वचिद्भवत्यतिसुभगोऽपि दुर्भगः ।।

९०१८-१ कलावति चलां दृष्टिं न कुर्यास्त्वं मुहुर्मुहुः ।
९०१८-२ लग्नोऽपि न तथा बाणो बाधते चालितो यथा ।।

९०१९-१ कलासीमा काव्यं सकलगुणसीमा वितरणं भये सीमा मृत्युः सकलसुखसीमा सुवदना ।
९०१९-२ तपःसीमा मुक्तिः सकलकृतिसीमाश्रितभृतिः प्रिये सीमाह्लादः श्रवणसुखसीमा हरिकथा ।।

९०२०-१ कला सेवाथ धर्मार्थौ तृष्णादारिद्र्यपद्धती ।
९०२०-२ सन्तोषक्षान्तिकरुणा वैराग्यं तदनु स्तुतिः ।।

९०२१-१ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर् द्युतिस्तादृग्नूत्ना जनिरपि च रत्नाकरकुले ।
९०२१-२ बहु ब्रूमः किं वा पुरहरशिर्ॐअण्डनमसि त्वदीयं तत्सर्वं शशधर कलङ्काद्विफलितं ।।

९०२२-१ कलिकलुषसङ्कटाकुल- कुटुम्बसंवलनखेदविकलस्य ९०२२-२ प्रतिनिधिरिव प्रवासः संसारविरागसुखसमुद्रस्य ।।

९०२३-१ कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते ।
९०२३-२ चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ।।

९०२४-१ कलिकालमियं यावदगस्त्यस्य मुनरेपि ।
९०२४-२ मानसं खण्डयत्यत्र शशिखण्डानुकारिणी ।।

९०२५-१ कलितगरिमा श्रोणिर्मध्यं विवृद्धवलित्रयं हृदयमुदयल्लज्जं मज्जच्चिरन्तनचापलं ।
९०२५-२ मुकुलितकुचं वक्षश्चक्षुर्मनाग्धृतवक्रिम क्रमपरिगलद्बाल्यं तस्या वपुस्तनुते श्रियं ।।

९०२६-१ कलितमम्बरमाकलयन्करैर् मृदितपङ्कजकोशपयोधरः ।
९०२६-२ विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः ।।

९०२७-१ कलितो रुचिरं न कर्म चेथ्क्रियतेऽनङ्गकृतेः कुतः फलं ।
९०२७-२ स्मरतो हृदि पुण्डरीकदृङ्भजतेऽसौ सफलस्ततः श्रमः ।।

९०२८-१ कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन् सदा पथि गतागतश्रमभरं हरन्प्राणिनां ।
९०२८-२ लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितमां तमालद्रुमः ।।

९०२८आ-१ कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः ।
९०२८आ-२ ध्वान्तेन वैराद्विनिगीर्यंमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ।।

९०२९-१ कलिभूपे समायाते धर्मोऽधर्मायते भुवि ।
९०२९-२ अधर्मः सर्वंतः पुंसां हन्त धर्मवदर्थ्यते ।।

९०३०-१ कलिमायान्तमुत्प्रेक्ष्य विलीयन्ते सुरा अपि ।
९०३०-२ तदाश्रितस्य धर्मादेः का कथा जीवने पुनः ।।

९०३१-१ कलिलं चैकरात्रेण पञ्चरात्रेण बुद्बुदं ।
९०३१-२ पक्षैकेनाण्डकः सोऽथ मासपूर्णे शिरो कुरु ।।

९०३२-१ कलिसाम्राज्यमासाद्य न भेतव्यं भवान्तरात् ।
९०३२-२ धर्मानुष्ठानमूढावां भीतिरेकावशिष्यते ।।

९०३३-१ कलुषं कटुकं लवणं विरसं सलिलं यदि वाशुभगन्धि भवेत् ।
९०३३-२ तदनेन भवत्यमलं सुरसं ससुगन्धि गुणैरपरैश्च युतं ।।

९०३४-१ कलुषं च तवाहितेष्वकस्माथ्सितपङ्केरुहसोदरश्रि चक्षुः ।
९०३४-२ पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ।।

९०३५-१ कलुषं मधुरं चाम्भः सर्वं सर्वत्र सांप्रतं ।
९०३५-२ अनार्जवजनस्येव कृतकव्याहृतं वचः ।।

९०३६-१ कलेरन्ते भविष्यन्ति नररूपेण राक्षसाः ।
९०३६-२ मनुष्यान्भक्षयिष्यन्ति वित्ततो न शरीरतः ।।

९०३७-१ कलेर्दोषनिधे राजन्नस्ति ह्येको महान्गुणः ।
९०३७-२ कीर्तिनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ।।

९०३७आ-१ कलौ कराले न सुखं लभेत पक्षद्वयादेव विरोधकाले ।
९०३७आ-२ मध्यस्थता प्रत्युत निन्द्यतेऽपि समन्ततो हा स कले प्रभावः ।।

९०३८-१ कलौ कले खले मित्रे पुत्रे दुर्व्यसनान्विते ।
९०३८-२ तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किं ।।

९०३९-१ कलौ गङ्गा काश्यां त्रिपुरहरपुर्यां भगवती प्रशस्ता देवानामपि भवति सेव्यानुदिवसं ।
९०३९-२ इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा- सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ।।

९०४०-१ कलौ जगपत्पतिं विष्णुं सर्वस्रष्टारमीश्वरं ।
९०४०-२ नार्चयिष्यन्ति मैत्रेय पाखण्डोपहता जनाः ।।

९०४१-१ कलौ दशसहस्रेषु हरिस्त्यजति मेदिनीं ।
९०४१-२ तदर्धं जाह्लवीतोयं तदर्धं ग्रामदेवताः ।।

९०४१आ-१ कलौ युगे कल्मषमानसानां अन्यत्र धर्मे खलु नाधिकारः ।
९०४१आ-२ रामेति वर्णद्वयमादरेण सदा जपन्मुक्तिमुपेति जन्तुः ।।

९०४२-१ कल्की कल्कं हरतु जगतः स्फूर्जदूजैस्वितेजा वेदोच्छेदस्फुरितदुरितध्वंसने धूमकेतुः ।
९०४२-२ येनोत्क्षिप्य क्षणमसिलतां धूमवत्कल्मषेच्छान् म्लेच्छान्हत्वा दलितकलिनाकारि सत्यावतारः ।।

९०४३-१ कल्पक्षोणिरुहोऽयमित्यनुदिनं भूमीसुरैर्भाव्यसे कामोऽसाविति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे ।
९०४३-२ श्रीनारायण एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति प्रतिक्षितिधरैरेकोऽप्यनेकात्मभृत् ।।

९०४४-१ कल्पतरुकामदोग्ध्री- चिन्तामणिधनदशङ्खानां ।
९०४४-२ रचितो रजोभरपयस् तेजःश्चासान्तराम्बरैरेषः ।।

९०४५-१ कल्पद्रुमः कल्पितमेव सूते सा कामधुक्कामितमेव दोग्धि ।
९०४५-२ चिन्तामणिश्चिन्तितमेव दत्ते सतां हि सङ्गः सकलं प्रसूते ।।

९०४६-१ कल्पद्रुमान्विगतवाञ्छजने सुमेरौ रत्नान्यगाधसलिले सरितामधीशे ।
९०४६-२ धात्रा श्रियं निदधता प्रखलेषु नित्यं अत्युज्ज्वलः खलु घटे निहितः प्रदीपः ।।

९०४७-१ कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकां ।
९०४७-२ अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ।।

९०४८-१ कल्पद्रुमैः किं कनकाचलस्थैः परोपकारप्रतिलम्भदुःस्थैः ।
९०४८-२ वरं करीरो मरुमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थं ।।

९०४९-१ कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
९०४९-२ अयं तु जगतीजानिर्जानाति च ददाति च ।।

९०५०-१ कल्पद्रुमोऽपि काले न भवेद्यदि फलप्रदः ।
९०५०-२ को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ।।

९०५०आ-१ कल्पद्रोरपि कल्पद्रुर्महतोऽपि मणेर्मणिः ।
९०५०आ-२ देवानामपि पूज्योऽसि कियत्ते मम पूरणं ।।

९०५१-१ कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन ।
९०५१-२ स गुणस्तेन गुणवता विवर्धनीयश्च रक्ष्यश्च ।।

९०५१आ-१ कल्पयेदेकशः पक्ष र्ॐअश्मश्रुकचान्नखान् ।
९०५१आ-२ न चात्मदशनाग्रेण स्वपाणिभ्यां च नोत्तमः ।।

९०५२-१ कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरविकल्पसुन्दरि ।
९०५२-२ हारयष्टिगणनामिवांशुभिः कर्तुमुद्यतकुतूहलः शशी ।।

९०५३-१ कल्पस्थायि न जीवितं ऐश्वर्यं नाप्यते च यदभिमतं ।
९०५३-२ लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य ।।

९०५४-१ कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः ।
९०५४-२ कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिको नः ।।

९०५५-१ कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
९०५५-२ तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ।।

९०५६-१ कल्पान्तवाससंक्षोभलङ्घिताशेशभूभृतः ९०५६-२ स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः ।।

९०५७-१ कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया संचरिष्णोः कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः ।
९०५७-२ दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति- ग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि ।।

९०५८-१ कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुरच्- छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः ।
९०५८-२ विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन्धीवरतां गतोऽस्यतु सतां मोहं महाभैरवः ।।

९०५८आ-१ कल्प्यते किमिति कर्मणचिन्ता- स्वेदमेदुरमिदं निजचेतः ।
९०५८आ-२ पश्यतां नयति पूर्वभवात्तं पुण्यमेव भुवनानि किमन्यत् ।।

९०५९-१ कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत्पुरा यस्या नाम समीरितं मुररिपोः प्राणेश्वरीति त्वया ।
९०५९-२ साहं प्रेमभिदाभयात्प्रियतमं दृष्ट्वापि दूतं प्रभोः सन्दिष्टास्मि न वेति संशयवती पृच्छामि नो किंचन ।।

९०६०-१ कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल् लूत्वा वृक्षानहह दहसि म्रातरङ्गारकार ।
९०६०-२ किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानां अध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ।।

९०६१-१ कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्छाप्तयो हंसानामुदयोऽस्तु पूर्णशशिनः स्ताद्भद्रमिन्दीवरे ।
९०६१-२ इत्युद्बाष्यवधूगिरः प्रतिपदं संपूरयन्त्यान्तिके कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः ।।

९०६२-१ कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस् तस्यैवाङ्कतया क्वचिद्रचयतः शृङ्गारवीरादिकं ।
९०६२-२ को दोषो भविता यदत्र कविताशीलैः समाश्रीयते पन्था व्यासवसुंधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ।।

९०६३-१ कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां संपत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायतां ।
९०६३-२ वाक्यं संवदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयतां आयुस्ते शरदां शतं विजयतां दानाय दीर्घायुषे ।।

९०६४-१ कल्याणं भवतेऽस्तु कोकिलकुलाकल्पाय येन श्रुति- क्रूरक्रोष्टुरुतार्दितं कलरवैर्विश्वं समाश्वासितं ।
९०६४-२ अत्यन्ताभ्यसनाभ्युदित्वरबृहन्नादावबोधोल्लस- च्छब्दब्रह्मरसानुभूतिजनितानन्दौघनिष्यन्दिभिः ।।

९०६५-१ कल्याणं वः क्रियासुर्मिलदटनियुगस्थास्नुगीर्वाणभोगि- स्त्रैणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि ।
९०६५-२ नालीकाश्लिष्टलक्ष्मीकरतलकमलोद्वान्तमाध्वीकधारा- तिम्यत्फालेक्षणानि त्रिपुरहरधनुर्ज्यालताकर्षणानि ।।

९०६६-१ कल्याणं वो विधत्तां करटमदधुनीलोलकल्लोलमाला- खेलद्रोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालं ।
९०६६-२ प्रत्नं वेतण्डरत्नं सततपरिचलत्कर्णतालप्ररोह- द्वातङ्कूराजिहीर्षादरविवृतफणाशृङ्गभूषाभुजंगं ।।

९०६७-१ कल्याणदो भवेद्वीरे ध्रुवकश्चन्द्रशेखरः ।
९०६७-२ द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ।।

९०६७-३ द्रुतद्वन्द्वं लघुद्वन्द्वं ताले त्रिपुटसंज्ञके ।।

९०६७आ-१ कल्याणपादपारामं श्रुतगङ्गाहिमाचलं ।
९०६७आ-२ ज्ञानाम्भोजरविं देवं वन्दे श्रीज्ञाननन्दनं ।।

९०६८-१ कल्याणभाक्सदा कार्ये सर्वसौभाग्यवर्धिनी ।
९०६८-२ या खल्वेतादृशी भार्या सा देवी न तु मानुषी ।।

९०६८आ-१ कल्याणमावहतु नः कुहनावराहो यस्यास्थिसीम्नि निखिलं प्रतिर्ॐअकूपं ।
९०६८आ-२ आभाति सप्रणयमुद्वहतो धरित्रीं स्वेदाभिधान इव सात्त्विकहावभेदः ।।

९०६९-१ कल्याणामावहतु वः शिवयोः शरीरं एकं यदीयमसितच्छविकण्ठमूलं ।
९०६९-२ वामेतरेऽपि कुरुते सितभासि भागे प्रारब्धशैलतनयापरिणामशङ्कां ।।

९०७०-१ कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूपतेस्त्वमिव कः परितोषकारी ।
९०७०-२ कः सर्वदा वृषगतिस्त्वमिवातिमात्रं भूत्याश्रितः कथय पालितसर्वभूतः ।।

९०७१-१ कल्याणस्तु यथाशक्ति करोति सफलं वचः ।
९०७१-२ शठः पक्षौ चलयति द्वावप्यर्थोपलिप्सया ।।

९०७२-१ कल्याणहितवान्भूपो गुरूणां दोषगुप्तकः ।
९०७२-२ सममतिः सुखे दुःखे समरे चापलायितः ।।

९०७३-१ कुलशीलेषु सम्पन्नो नीतिधर्मेषु पण्डितः ।
९०७३-२ तथैव पूज्यते राजा चतुरस्रः प्रकीर्तितः ।।

९०७४-१ कल्याणाङ्गरुचानुरक्तमनसा त्वं येन संप्रार्थ्यते यस्यार्थे सुमुखि त्वया पुनरसुत्यागेऽपि संनह्यते ।
९०७४-२ सोऽयं सुन्दरि पञ्चबाणविशिखव्यालीढदोरन्तर- स्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोर्लतापञ्जरे ।।

९०७५-१ कल्याणानां त्वमसि महसां भाजनं विश्वसूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद ।
९०७५-२ यद्यत्पापं प्रतिजहि जगन्नाथ नम्नस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ।।

९०७६-१ कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।
९०७६-२ विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ।।

९०७७-१ कल्याणानि ददातु वो गणपतिर्यस्मिन्नु तुष्टे सति क्षोदीयस्यपि कर्मणि प्रभवितुं ब्रह्मापि जिह्मायते ।
९०७७-२ जाते यच्चरणप्रणामसुलभे सौभाग्यभाग्योदये रङ्कस्याङ्कमनङ्कुशा निविशते देवेन्द्रलक्ष्मीरपि ।।

९०७७-१ कल्याणायभवन्तु खण्डपरशोः कोटीरवाटीरुहां वल्लीनां वलयानि वेल्लदुरगश्रेणीनि शोणत्विषां ।
९०७७-२ उन्मीलत्कनकारविन्दकलिकाकिञ्जल्कपुञ्जक्षरद्- धूलीधूसरसिद्धसिन्धुलहरीसिन्दूरितेन्दूनि वः ।।

९०७८-१ कल्याणि चन्दनरसैः परिषिच्य गात्रं द्वित्राण्यहानि कथमप्यतिवाहयेथाः ।
९०७८-२ अङ्के निधाय भवतीं परिरभ्य दोर्भ्यां नेष्यामि सूर्यकिरणानपि शीतलत्वं ।।

९०७९-१ कल्याणि पाणिपतितानि विना विचारं एतानि मोक्तुमुचितानि न मौक्तिकानि ।
९०७९-२ गुञ्जेति संजनयते यदिह भ्रमन्ते हस्तारविन्दनयनोत्पलयोः प्रभैव ।।

९०८०-१ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
९०८०-२ एति जीवन्तमानन्दो नरं वर्षशतादपि ।।

९०८१-१ कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा ।
९०८१-२ सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ।।

९०८२-१ कल्योत्थानपरा नित्यं गुरुशुश्रूषणे रता ।
९०८२-२ सुसंमृष्टगृहा चैव गोशकृत्कृतलेपना ।।

९०८३-१ कल्लोलक्षिप्तपङ्कत्रिपुरहरशिरःस्वःस्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधूसीधुभृङ्गारनालं ।
९०८३-२ एतद्दुग्धाब्धिबन्धोर्गगनकमलिनीपत्रपानीयबिन्दोर् अन्तस्तोषं न केषां किसलयति जगन्मण्डनं खण्डमिन्दोः ।।

९०८३आ-१ कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसन्निभाः ।
९०८३आ-२ वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनं ।।

९०८४-१ कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः ।
९०८४-२ किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ।।

९०८५-१ कल्लोलसंचलदगाधजलैरलोलैः कल्लोलिनीपरिवृढैः किमपेयतोयैः ।
९०८५-२ जीयात्स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विप्रुषापि तृषिता वितृषीभवन्ति ।।

९०८६-१ कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि ।
९०८६-२ एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्याद्विधिः किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः ।।

९०८७-१ कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णतां ।
९०८७-२ पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः किं साम्यं प्रतनोः करोतु सरसोऽप्यब्धिः कृताडम्बरः ।।

९०८८-१ कवयः कवयन्तु तैलभुक्ताः सरसा एव परन्तु दाक्षिणात्याः ।
९०८८-२ अपि लोचनचञ्चला हरिण्यो मदिराक्ष्या न समाः कटाक्षपातैः ।।

९०८९-१ कवयः कालिदासाद्याः कवयो वयमप्यमी ।
९०८९-२ पर्वते परमाणौ च वस्तुत्वमुभयोरपि ।
९०९०-१ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
९०९०-२ प्रमदाः किं न कुर्वन्ति किं न जल्पन्ति मद्यपाः ।।

९०९१-१ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
९०९१-२ मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ।।

९०९२-१ कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः ।
९०९२-२ नह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ।।

९०९३-१ कवलयति न चेतस्तस्य दारिद्र्यदुःखं न च पिशुनजनोक्तिः कर्णकण्डूं करोति ।
९०९३-२ वरकविकृतगोष्ठीबन्धगन्धोपभोगे य इह मधु वमन्तीं काव्यचिन्तां करोति ।।

९०९४-१ कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः ।
९०९४-२ नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ।।

९०९५-१ कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः ।
९०९५-२ अधुना तव वैरियोषितां हृदि तापः प्रबलो विहाय काः ।।

९०९५आ-१ कवलयसि चन्द्रदीधिती- र्नविरलमश्नासि नूनमङ्गारान् ।
९०९५आ-२ अधिकतरमुष्णमनयोः किमिह चकोरावधारयसि ।।

९०९६-१ कवलितमिह नालं कन्दलं चेह दृष्टं इह हि कुमुदकोशे पीतमम्भः सुशीतं ।
९०९६-२ इति विरटति रात्रौ पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ।।

९०९७-१ कविः करोति काव्यानि पण्डितो वेत्ति तद्रसं ।
९०९७-२ कामिनीकुचकाठिन्यं पतिर्जानाति नो पिता ।।

९०९८-१ कविः करोति काव्यानि स्वादु जानाति पण्डितः ।
९०९८-२ सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ।।

९०९९-१ कविः करोति पद्यानि लालयत्युत्तमो जनः ।
९०९९-२ तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभं ।।

९१००-१ कविः पिता पोषयति पालको रसिकः पतिः ।
९१००-२ कवितायुवतेर्नूनं सोदरास्तु विवेकिनः ।।

९१०१-१ कविः सूयति काव्यानि हृदा दधति सज्जनाः ।
९१०१-२ सूते मुक्ताः पयोराशिर्वहन्ति तरुणीस्तनाः ।।

९१०२-१ कविताकलनेन किं नृपाणां यदि कवयो न लभन्ति पूर्णकामाः ।
९१०२-२ नयनेन किमेणलोचनानां यदि वक्रं न विलोकिता युवानः ।।

९१०३-१ कविताकुन्दविकासन- कृतिने विजितजनतानिदाघाय ।
९१०३-२ दलितोद्दामाघाय प्रणतिं कलयामि माघाय ।।

९१०४-१ कविता वनिता कस्य न मोदाय सचेतसः ।
९१०४-२ रस एव सदा तस्या नरीनर्तीव सर्वतः ।।

९१०५-१ कवित्वं न शृणोत्येव कृपणः कीर्तिवर्जितः ।
९१०५-२ नपुंसकः किं कुरुते पुरःस्थितमृगीदृशा ।।

९१०६-१ कवित्वगानप्रियवादसत्या- न्यस्या विधाता व्यधिताधिकण्ठं ।
९१०६-२ रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः ।।

९१०७-१ कवित्वप्रोद्गुम्फश्रवणकृतझम्पव्यतिकरं चिरं येषां स्वान्तं समजनि नितान्तं रसवशं ।
९१०७-२ अमीषां पीयूषापचितसुरयोषाधरपुटो- ल्लसन्माधुर्ये वा समुदयति किं वा रतिरपि ।।

९१०८-१ कवित्वमारोग्यमतीव मेधा स्त्रीणां प्रियत्वं कनकस्य लाभः ।
९१०८-२ सर्वेषु तथ्यं स्वजनेषु पूजा स्वर्गस्थितानां किल चिह्नमेतत् ।।

९१०८आ-१ कवित्वशक्तिर्हि दिवोऽवतीर्णा भूमौ सुधासार इवार्यपुण्यात् ।
९१०८आ-२ पुनर्ग्रहीतुं निजवस्तु देवाः समागतास्तत्कवयः समुत्काः ।।

९१०९-१ कवित्वे वादित्वं कनककुसुमे सौरभगुणो धनित्वे दातृत्वं विषमतरुफले स्वादुरसता ।
९१०९-२ कुलीने सौजन्यं मृगमदरसे रागरचना प्रभुत्वे विद्वत्त्वं परभृतमुखे मानुषवचः ।।

९१०९आ-१ कविभावकृतं चिह्नं अन्यत्रापि न दुष्यति ।
९१०९आ-२ मुखमिष्टार्थसंसिद्धं किं हि न स्यात्कृतात्मनां ।।

९११०-१ कविभिर्नूपसेवासु चित्रालंकारहारिणी ।
९११०-२ वाणी वेश्येव लोभेन परोपकरणीकृता ।।

९१११-१ कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव ।
९१११-२ हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ।।

९११२-१ कविरनुहरति च्छायां पदमेकं पादमेकमर्धं वा ।
९११२-२ सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै ।।

९११३-१ कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च ।
९११३-२ अन्ये कवयः कपयश्चापलमात्रं पदं दधति ।।

९११४-१ कविरविमहोत्कर्षान्हर्षन्प्रपञ्चय पञ्चषान् स्खलसि रसने किं वा सर्वान्प्रवक्तुमनीश्वरे ।
९११४-२ गणयति यदप्येतान्धाता दिनावलिमालया तदपि भगवानेषामन्तं कदापि न विन्दति ।।

९११५-१ कविरहिताः कविलापा जायन्ते कण्ठशोषणायैव ।
९११५-२ संमुखगतः कविश्चेथ्भवति कुलपितापि कविकुलपितैव ।।

९११६-१ कविरेव कवेर्वेत्ति काव्यकर्मणि कौशलं ।
९११६-२ शेषाहिरेव जानाति भुवो भारस्य निश्चयं ।।

९११६आ-१ कविर्भारद्वाजो जगदवधिजाग्रन्निजयशा रसश्रेणीमर्मव्यवहरणहेवाकरसिकः ।
९११६आ-२ यदीयानां वाचां रसिकहृदयोल्लासनविधा- वमन्दानन्दात्मा परिणयति सन्दर्भमहिमा ।।

९११७-१ कविवाक्यामृततीर्थ- स्नानैः पूता भृशं यशोदेहाः ।
९११७-२ येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ।।

९११८-१ कविविद्यादुराधर्षो यो राक्षस इवापरः ।
९११८-२ दक्षिणस्थो लब्धवर्णो विख्यातः कविराक्षसः ।।

९११९-१ कविषु दधतमुत्कर्षं विस्फुरदनवद्यहृद्यवाग्वर्षं ।
९११९-२ इह खलु खलप्रधर्षं श्रीहर्षं न्ॐइ हर्षसंघर्षं ।।

९१२०-१ कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यं ।
९१२०-२ अक्षारता पयोधा- ववनीपालेषु पाण्डित्यं ।।

९१२१-१ कवीनां च बुधानां च वदान्यानां च यो गुरुः ।
९१२१-२ नानाशास्त्रचणप्रज्ञः शिवनाथः स नम्यते ।।

९१२२-१ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।
९१२२-२ विध्यमानश्रुतेर्माभूद्दुर्जनस्य कथं व्यथा ।।

९१२३-१ कवीनां मानसं न्ॐइ तरन्ति प्रतिभाम्भसि ।
९१२३-२ यत्र हंसवयांसीव भुवनानि चतुर्दश ।।

९१२४-१ कवीनां संतापो भ्रमणमभितो दुर्गतिरिति त्रयाणांपञ्चत्वं रचयसि न तच्चित्रमधिकं ।
९१२४-२ चतुर्णां वेदानां व्यरचि नवता वीर भवता द्विषत्सेनालीनाभयुतमपि लक्षं त्वमकृथाः ।।

९१२५-१ कवीनामगलद्दर्पो नूनं वासवदत्तया ।
९१२५-२ शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरं ।।

९१२६-१ कवीन्दुं न्ॐइ वाल्मीकिं यस्य रामायणीं कथां ।
९१२६-२ चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ।।

९१२७-१ कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुवश्चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः ।
९१२७-२ अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः ।।

९१२८-१ कवीश्वराणां वचसां विनोदैर् नन्दन्ति विद्यानिधयो न चान्ये ।
९१२८-२ चन्द्रोपला एव करैः सुधांशोर् द्रवन्ति नान्या दृषदः कदाचित् ।।

९१२९-१ कवेरभिप्रायमशब्दगोचरं स्फुरन्तमार्द्रेषु पदेषु केवलं ।
९१२९-२ वदद्भिरङ्गैः कृतर्ॐअविक्रियैर् जनस्य तूष्णीं भवतोऽयमञ्जलिः ।।

९१३०-१ कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितं ।
९१३०-२ अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरं ।।

९१३१-१ कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणं ।
९१३१-२ आयतिस्थं चरेद्धर्म क्षत्रबन्धुरनिश्चितं ।।

९१३२-१ कश्चिच्छस्त्रापातमूढोऽपवोढुर् लब्ध्वा भूयश्चेतनामाहवाय ।
९१३२-२ व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस् त्यक्तश्चात्मा का च लोकानुवृत्तिः ।।

९१३३-१ कश्चित्कराभ्यामुपगूढनालं आलोलपत्राभिहतद्विरेफं ।
९१३३-२ रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ।।

९१३४-१ कश्चित्कष्टं किरति करकाजालमेकोऽतिमात्रं गर्जत्येव क्षिपति विषयं वैद्युतं वह्निमन्यः ।
९१३४-२ सूते वातं जवनमपरस्तेन जानीहि तावथ्किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ।।

९१३५-१ कश्चित्कस्यचिदेव स्यात्सुहृद्विश्रम्भभाजनं ।
९१३५-२ पद्मं विकासयत्यर्कः संकोचयति कैरवं ।।

९१३६-१ कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
९१३६-२ यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ।।

९१३७-१ कश्चित्क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठादुत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् ।
९१३७-२ कश्चिन्नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचिछ्चित्रं संसृतिपद्धतिः प्रथयति प्रीतिं च कष्टं च नः ।।

९१३८-१ कश्चित्तरति काष्ठेन सुगम्भीरां महानदीं ।
९१३८-२ स तारयति तत्काष्ठं स च काष्ठेन तार्यते ।।

९१३९-१ कश्चित्तावत्त्वया दृष्टः श्रुतो वा शङ्कितोऽपि वा ।
९१३९-२ क्षितौ वा यदि वा स्वर्गे यस्य मृत्युर्न विद्यते ।।

९१४०-१ कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।
९१४०-२ विदधाति स्माराधन- मधनत्वमुपागतः कामी ।।

९१४१-१ कश्चित्पान्थस्तृषार्तः पथि तपऋतौ गम्यमानोऽन्यपान्थं पप्रच्छानन्दलीनो वद पथिक कुतो जह्नुकन्याप्रवाहः ।
९१४१-२ तेनासौ शीघ्रवाचा प्रचलितमनसा विप्रवर्येण चोचे सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः ।।

९१४२-१ कश्चित्पुमान्क्षिपति मां प्रति रूक्षवाक्यैः सोऽहं क्षमाभरणमेत्य मुदं प्रयामि ।
९१४२-२ शोकं व्रजामि पुनरेवमयं तपस्वी चारित्रतः स्खलितवानिति मन्निमित्तं ।।

९१४३-१ कश्चिदाम्रवणं छित्त्वा पलाशांश्च निपिञ्चति ।
९१४३-२ पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ।।

९१४४-१ कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः ।
९१४४-२ प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनं ।।

९१४५-१ कश्चिद्दैवेन स्ॐइत्रे योद्धुमुत्सहते पुमान् ।
९१४५-२ यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते ।।

९१४६-१ कश्चिद्दैवेन स्ॐइत्रै योद्धुमुत्सहते सह ।
९१४६-२ यस्येह विग्रहोपायो न कथंचन विद्यते ।।

९१४७-१ कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
९१४७-२ वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ।।

९१४८-१ कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव ।
९१४८-२ वज्रांशुगर्बाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ।।

९१४९-१ कश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयतो विस्मयं नस्तनोति ।
९१४९-२ न ह्येकस्मिन्नतिशयवतां संनिपातो गुणानां एकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ।।

९१५०-१ कश्चिन्नवं पल्लवमाददाति कश्चित्प्रसूनानि फलानि कश्चित् ।
९१५०-२ परं करालेऽस्य निदाघकाले मूले न दाता सलिलस्य कश्चित् ।।

९१५१-१ कश्चिन्मालासमं मित्रं कश्चिन्मित्रं तुलासमं ।
९१५१-२ कश्चिन्मेरुसमं मित्रं कश्चिन्मित्रं महीसमं ।।

९१५२-१ कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
९१५२-२ उच्छश्वास प्रस्थिता तं जिघृक्षुर् व्यर्थाकूता नाकनारी मुमूर्च्छ ।।

९१५३-१ कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।
९१५३-२ चारभटचौरचेटक- नटविटनिष्ठीवनशरावं ।।

९१५४-१ कश्मीरान्गन्तुकामस्य मीरशाहाख्यभूपतेः ।
९१५४-२ शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकं ।।

९१५५-१ किमेवमविशङ्कितः शिशुकुरङ्ग लोलक्रमं परिक्रमितुमीहसे विरम नैव शून्यं वनं ।
९१५५-२ स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणितच्- छटापटलभासुरोत्कटसटाभरः केसरी ।।

९१५५आ-१ कषायकलुषो जीवो रागरञ्जितमानसः ।
९१५५आ-२ चतुर्गतिभवाम्भोधौ भिन्ननौरिव सीदति ।।

९१५५भ्-१ कषायपशुभिर्दुष्टैर्धर्मकामार्थनाश कैः ।
९१५५भ्-२ शममन्त्रहतैर्यज्ञं विधेहि विहितं बुधैः ।।

९१५६-१ कषायमुक्तं कथितं चरित्रं कषायवृद्धावुपघातमेति ।
९१५६-२ यदा कषायः शममेति पुंसस् तदा चरित्रं पुनरेति पूतं ।।

९१५६आ-१ कषायरागवचनं वीतरागोऽधरस्तव ।
९१५६आ-२ विहारः कण्ठदेशश्च दूति प्रव्रजितासि किं ।।

९१५६भ्-१ कषायविजये सौख्यं इन्द्रियाणां च निग्रहे ।
९१५६भ्-२ जायते परमोत्कृष्टं आत्मनो भवभेदि यत् ।।

९१५६C-१ कषायविषयार्तानां देहिनां नास्ति निर्वूतिः ।
९१५६C-२ तेषां च विरमे सौख्यं जायते परमाद्भुतं ।।

९१५६ढ्-१ कषायविषयाहारत्यागो यत्र विधीयते ।
९१५६ढ्-२ उपवासः स विज्ञेयः शेषं लङ्घनकं विदुः ।।

९१५७-१ कषायसङ्गौ सहते न वृत्तं समार्द्रचक्षुर्न दिनं च रेणुं ।
९१५७-२ कषायसङ्गौ विधुनन्ति तेन चारित्रवन्तो मुनयः सदापि ।।

९१५७आ-१ कषायान्शत्रुवत्पश्येद्विषयान्विषवत्तथा ।
९१५७आ-२ मोहं च परमं व्याधिं एवमूचुर्विचक्षणाः ।।

९१५७भ्-१ कषाया विषया योगाः प्रमादाविरती तथा ।
९१५७भ्-२ मिथ्यात्वमार्तरौद्रे चेत्यशुभं प्रति हेतवः ।।

९१५७C-१ कषायास्तन्निहन्तव्यास्तथा तत्सहचारिणः ।
९१५७C-२ नोकषायाः शिवद्धारा गलीभूता मुमुक्षुभिः ।।

९१५८-१ कषायैरुपवासैश्च कृतामुल्लाघतां नृणां ।
९१५८-२ निजौषधकृतां वैद्यो निवेद्य हरते धनं ।।

९१५९-१ कष्टं कर्मेति दुर्मेधाः कर्तव्याद्विनिवर्तते ।
९१५९-२ न साहसमनारभ्य श्रेयः समुपलभ्यते ।।

९१६०-१ कष्टं खलु मूर्खत्वं कष्टं खलु यौवने च दारिद्र्यं ।
९१६०-२ कष्टादपि कष्टतरं परगृहवासः प्रवासश्च ।।

९१६१-१ कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनं ।
९१६१-२ कष्टात्कष्टतरं चैव परगेहनिवासनं ।।

९१६२-१ कष्टं जीवति गणको गणिका कथकश्च सेवको वैद्यः ।
९१६२-२ दिवसे दिवसे मरणं परजनमनरञ्जनी वृत्तिः ।।

९१६३-१ कष्टं नैव परिस्थिते समुदियात्कार्येषु नो जातुचिथ्संजायेत न चापि तद्व्यतिकराद्बाह्यादकिंचित्करात् ।
९१६३-२ कस्माच्चित्खलु भावतोऽन्तरभवात्त्वस्माकमुत्पद्यते प्राणस्यैव विशेषतोऽन्तरशयाद्भावात्समुज्जृम्भते ।।

९१६४-१ कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं भवेच्च ।
९१६४-२ दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद्गृहे निवसतात्महितं प्रचिन्त्यं ।।

९१६५-१ कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।
९१६५-२ उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ।।

९१६६-१ कष्टं हृदि ज्वलति शोकमयो ममाग्निस् ते चक्षुषी च विरहज्वरजागरुके ।
९१६६-२ एतन्मनो भ्रमति विष्वगसूंस्तथापि त्वं पश्यतोहर इव स्मर हर्तुकामः ।।

९१६७-१ कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः ।
९१६७-२ निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ।।

९१६८-१ कष्टा वेधव्यथा कष्टो नित्यं च वहनक्लमः ।
९१६८-२ श्रवणानामलंकारः कपोलस्य तु कुण्डलं ।।

९१६९-१ कष्टे नोपार्जितं वित्तं हेलया क्वापि निर्गतं ।
९१६९-२ किं कर्ॐइ क्व गच्छामि निर्भाग्योऽहं भुवस्तले ।।

९१७०-१ कष्टो जनः कुलधनैरनुरञ्जनीयस् तन्नो यदुक्तमशिवं न हि तत्क्षमं ते ।
९१७०-२ नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ।।

९१७०आ-१ कष्टोपार्जितमत्र वित्तम्खिलं द्यूते मया योजितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ ।
९१७०आ-२ पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः सत्पात्रे किमहं कर्ॐइ विवशः कालेऽद्य नेदीयसि ।।

९१७१-१ कस्तस्य जीवितार्थः सति विभवे कश्च तस्य पुरुषार्थः ।
९१७१-२ योऽर्थिनमभिमुखमागतं अनभिमुखः सन्विसर्जयति ।।

९१७२-१ कस्तां निन्दति लुम्पति कः स्मरफलकस्य बर्णकं मुग्धः ।
९१७२-२ को भवति रत्नकण्टकं अमृते कस्यारुचिरुदेति ।।

९१७३-१ कस्तावद्बलिकर्णभार्गवमहादानप्रमाणस्तवः कश्चासौ कुरुपाण्डपाण्डुरयशः प्रस्तावनाविस्तरः ।
९१७३-२ यावद्वर्षति वीरसिंहतनयो वृष्टीरिमाः काञ्चनीर् धाराः प्रावृषि तावदञ्जनरुचिर्धारा न धाराधरः ।।

९१७४-१ कस्तूरिकां तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार च तान्वधार्हान् ।
९१७४-२ मूढो विधिः सकलदुर्जनलोलजिह्वा- मूले स्म निक्षिपति चेत्सकलोपकारः ।।

९१७५-१ कस्तूरिकां हरिण मुञ्च वनोपकण्ठं मा सौरभेण ककुभः सुरभीकुरुष्व ।
९१७५-२ आस्तां यशो ननु किरातशराभिघाताथ्त्रातापि हन्त भविता भवतो दुरापः ।।

९१७६-१ कस्तूरिकाचन्दनकुङ्कुमानि सौभाग्यचिह्नानि विलासिनीनां ।
९१७६-२ प्रयागमृत्स्नातिलकक्रियैव सौभाग्यचिह्नं विधवाललाटे ।।

९१७७-१ कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिं ।
९१७७-२ प्रौढिं भजन्तु कुमुदानि मुदामुदारां उल्लासयन्तु परितो हरितो मुखानि ।।

९१७७आ-१ कस्तूरिकादिक्रयविक्रयाङ्गां यदृच्छया यद्विपणिं गतानां ।
९१७७आ-२ सौरभ्यमङ्गेषु समग्रलग्नं न हीयते पञ्चषमप्यहानि ।।

९१७८-१ कस्तूरिकामृगाणां अण्डाद्गन्धगुणमखिलमादाय ।
९१७८-२ यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ।।

९१७९-१ कस्तूरी जायते कस्मात्को हन्ति करिणां शतं ।
९१७९-२ किं कुर्यात्कातरो युद्धे मृगात्सिंहः पलायनं ।।

९१८०-१ कस्तूरीति, किमङ्ग, सांपरिमलद्रव्यं किमप्यामरं पेया किं, न हि, कीदृशी, मृगदृशां शृङ्गारलीलास्पदं ।
९१८०-२ धार्या कुत्र, कुचस्थलीषु, कुचयोः स्थौल्यं ततो हीयते क्लिष्टः क्लिश्यति पक्वणैश्च बहुशः कस्तूरिकाविक्रयी ।।

९१८१-१ कस्तूरीतिलकं तस्या जनयति शोभां भ्रुवोरन्तः ।
९१८१-२ कोदण्डमध्यलग्नं फलमिव पञ्चेषुबाणस्य ।।

९१८२-१ कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
९१८२-२ अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः ।।

९१८३-१ कस्तूरीतिलकं बाले भाले मा कुरु मा कुरु ।
९१८३-२ कलङ्कशङ्कया राहुर्ग्रसिष्यति तवाननं ।।

९१८४-१ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं ।
९१८४-२ सर्वाङ्गे हरिचन्दनं च कलयन्कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टतो विजयते गोपालचूडामणिः ।।

९१८५-१ कस्तूरीतिलकं ललाटरचितं नासामणिं निस्तलं वक्त्रं कुञ्चितकेशपाशमनिशं दृष्टिं निसृष्टां पुरः ।
९१८५-२ पुंसां मानसमत्स्यबन्धनविधौ धत्सेऽत्र वत्से स्वयं जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ।।

९१८६-१ कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति ।
९१८६-२ याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।।

९१८७-१ कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्ण- प्रान्ते नीलोत्पलीयन्त्युरसि मरकतालंकृतीयन्ति देव्याः ।
९१८७-२ र्ॐआलीयन्ति नाभेरुपरि हरिमणीमेखलीयन्ति मध्ये कल्याणं कुर्युरेते त्रिजगति पुरजित्कण्ठभासां विलासाः ।।

९१८८-१ कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनं ।
९१८८-२ रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः किं रुष्टासि गजेन्द्रमत्तगमने किं वा शिशुस्ते पतिः ।।

९१८९-१ कस्तूरी सितिमानमागतवती शौक्ल्यं गताः कुन्तला नीलं चोलमभूत्सितं धवलिमा जातो मणीनां गणे ।
९१८९-२ ध्वान्तं शान्तमभूत्समं नरपते त्वत्कीर्तिचन्द्रोदये त्रैलोक्येङ्प्यभिसारसाहसरसः शान्तः कुरङ्गीदृशां ।।

९१८९आ-१ कस्तूर्या तत्कपोलद्वयभुवि मकरीनिर्मितौ प्रस्तुतायां निर्मित्सूनां स्ववक्षस्यतिपरिचयनात्त्वत्प्रशस्तीरुपांशु ।
९१८९आ-२ वीर श्रीसिंहभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नी- मानव्याजेन लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः ।।

९१९०-१ कस्ते शशाङ्क मोहः सुधाकरोऽहं न कोऽपि मद्भिन्नः ।
९१९०-२ किं ननु पश्यसि निजभा- जयि वनिताया मुखं मूढ ।।

९१९१-१ कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते ।
९१९१-२ सप्तसप्तिसमारुढा भवन्ति परिपन्थिनः ।।

९१९२-१ कस्त्वं, कृष्णमवेहि मां किमिह ते, मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः ।
९१९२-२ कर्तुं तत्र पिपीलिकापनयनं, सुप्ताः किमुद्बोधिता बाला, वत्सगतिं विवेक्तुमिति संजल्पन्हरिः पातु वः ।।

९१९३-१ कस्त्वं, कोऽपि, कुतोऽसि, रत्नवसतेस्तीरादहं नीरधेर्, लब्धं किंचन, गर्जितैर्बधिरता दृग्व्याहतिः सैकतैः ।
९१९३-२ मा खेदं कुरु तादृगौर्वदहनज्वालावलीदुःसहं क्षारोदं यदुपास्य जीवसि सखे श्लाघ्यं न तन्मन्यसे ।।

९१९४-१ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।
९१९४-२ इति परिभावय सर्वमसारं सर्वं त्यक्वा स्वप्नविचारं ।।

९१९५-१ कस्त्वं, तासु यदृच्छया, कितव यास्तिष्ठन्ति गोपाङ्गनाः प्रेमाणं न विदन्ति यास्, तव हरे किं तासु ते कैतवं ।
९१९५-२ एषा हन्त हताशया यदभवं त्वय्येकताना परं तेनास्याः प्रणयोऽधुना खलु मम प्राणैः समं यास्यति ।।

९१९६-१ कस्त्वं, पीतांबरोऽहं, किमु वदसि मृषा चांबरं केन पीतं मुग्धे कंसस्य शत्रुः, शिव शिव सालिलं सस्यवैरि क्व दृष्टम् ।
९१९६-२ मल्लास्यध्वंसनोऽहं किमिति निजमहो लास्यमध्वंसि चेति व्याहारैर्वल्लवीनां निशि भवतु मुदेऽनुत्तरः श्रीपतिर्वः ।।

९१९७-१ कस्त्वं ब्रह्म, न्नपूर्वः, क्व च तव वसति, र्याखिला ब्रह्मसृष्टिः कस्ते नाथो, ह्यनाथः, क्व च तव जनको, नैव तातं स्मरामि ९१९७-२ किं तेऽभीष्टं ददामि, त्रिपदपरिमिता भूमि, रल्पं किमेतथ्त्रैलोक्यं, भावगर्भं बलिमिदमवदद्वामनो वः स पायात् ।।

९१९८-१ कस्त्वं ब्रह्मन्न्, अपूर्वस्, त्वदनुचरजनो, नास्त्यनाथोऽहमेकः, किं दद्यामीप्सितं ते, त्रिपदविहरणस्थानमेतत्, कियत्ते ।
९१९८-२ त्रैलोक्यं तद्द्विजातेर्मम शमनिरतस्येति सम्मूढभावा विष्णोर्वाचः सुरारौ कृतकपटपदन्यासमुग्धाः पुनन्तु ।।

९१९९-१ कस्त्वं भद्र, खलेश्वरोऽहम्, इह किं घोरे वने स्थीयते, शार्दूलादिभिरेव हिंस्रपशुभिः भोज्योऽहमित्याशया ।
९१९९-२ कस्मात्कष्टमिदं त्वया व्यवसितं, मद्देहमाम्साशिनः प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वान्नरान् ।।

९२००-१ कस्त्वं भोः, कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं, कस्मादिदं, कथ्यते ।
९२००-२ वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ।।

९२०१-१ कस्त्वं भोः, कविरस्मि, तत्किमु सखे क्षीणोऽस्य, नाहारतो धिग्देशं गुणिनोऽपि, दुर्मतिरियं देशं न मामेव धिक् ।
९२०१-२ पाकार्थी क्षुधितो यदैव विदधे पाकाय दुद्धिं तदा विन्ध्ये नेन्धनमम्बुधौ न सलिलं नान्नं धरित्रीतले ।।

९२०२-१ कस्त्वं भो निशि, केशवः, शिरसिजैः किं नाम गर्वायसे भद्रे शौरिरहं, गुणैः र्पितृगतैः पुत्रस्य किं स्यादिह ।
९२०२-२ चक्री चन्द्रमुखि, प्रयच्छसि न मे कुण्डीं घटीं देहिनीं इत्थं गोपवधूहृतोत्तरतया दुःस्थो हरिः पातु वः ।।

९२०३-१ कस्त्वं लोहितलोचनास्यचरणो, हंसः, कुतो मानसाथ्किं तत्रास्ति, सुवर्णपङ्कजवनान्यम्भः सुधासन्निभं ।
९२०३-२ रत्नानां निचयाः प्रवालमणयो वैडूर्यरोहाः क्वचिच्, अम्बूका अपि सन्ति, नेति च बकैराकर्ण्य हीहीकृतं ।।

९२०४-१ कस्त्वं वानर, रामराजभवने लेखार्थसंवाहको, यातः कुत्र पुरागतः स हनुमान्निर्दग्धलङ्कापुरः ।
९२०४-२ वद्धो राक्षससूनुनेति कपिभिः संताडितस्तर्जितः स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ।।

९२०४आ-१ कस्त्वं, शूली, प्रविश भिषजां वेश्म, वैद्यं न जाने, स्थाणुर्बाले, न वदति तरु-र्नीलकण्ठः प्रमुग्धे ।
९२०४आ-२ केकामेकां वद त्वं, पशुपतिरबले, नैव दृष्टे विषाणे इत्येवं शैलकन्याप्रतिवचनजडः पातु वः पार्वतीशः ।।

९२०५-१ कस्त्वं शूली, मृगय भिषजं नीलकण्ठः प्रियेऽहं केकामेकां वद, पशुपति,-र्नैवदृश्ये विषाणे ।
९२०५-२ मुग्धें स्थाणुः, स चरति कथं, जीवितेशः शिवाया गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ।।

९२०६-१ कस्मात्कस्मिन्समुत्पन्ने सरागं भुवनत्रयं ।
९२०६-२ अत्रादौ कथितं श्लोके यो जानाति स पण्डितः ।।

९२०७-१ कस्मात्कोऽहं किमपि च भवान्कोऽयमत्र प्रपञ्चः स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशं ।
९२०७-२ आनन्दाख्यं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ।।

९२०८-१ कस्मात्तन्वि तनूनि सम्प्रति समान्यङ्गानि जातानि ते कस्मात्कोकनदप्रभं मुखमिदं जातं हि चन्द्रोपमं ।
९२०८-२ एवं पृच्छति वल्लभेऽम्बुजमुखि प्रोष्यस्वभावादिति व्यावृत्याथ तया सगद्गदरवं मुक्तश्च बाष्पोत्करः ।।

९२०९-१ कस्मात्त्वं क्व नु दृश्यते सुखमुखं क्वास्तेऽन्धकारः परं क्व स्त्रीषु स्मरधूमकेतुरुदितेओ दृष्टा युवानः क्व ते ।
९२०९-२ गन्ता क्व क्व च पञ्चमः क्व णसकृत्क्वात्संकुरो निद्गतः क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस्तत्कथा ।।

९२१०-१ कस्मात्त्वं, तातगेहाद्, अपरमभिनवा ब्रूहि का तत्र वार्ता, देव्या देवो जितः, किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् ।
९२१०-२ इत्येवं बर्हिनाथे कथयति सहसा भर्तूभिक्षाविभूषा- वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गरीटेः ।।

९२११-१ कस्मात्त्वं दुर्बलासीति सख्यस्तां परिपृच्छति ।
९२११-२ त्वयि संनिहिते तासु दद्यात्कथय सोत्तरं ।।

९२१२-१ कस्मात्त्वं, भवदालयाद्, वद सखे क्षेमं, तवानुग्रहाद्, दृष्टा मे सुभगा, न तेऽस्ति सुभगा दृष्टा भवद्गेहिनी ।
९२१२-२ स्वर्भानुं विषमेक्षणं विषधरं काकं वराकी गृहे चन्द्रानङ्गसमीरकोकिलभयाद्व्यग्रा लिखन्ती मुहुः ।।

९२१३-१ कस्मात्त्वं हि विखिद्यसे कतिपयैरेव प्रिये वासरैर् आयाता वयमेहि धेहि पुरतः प्रास्थानिकं मङ्गलं ।
९२१३-२ एवं वादिनि वल्लभे दयितया निःश्वस्य पाणौ कृती मङ्गल्यः कलशो विलोचनपयोधाराभिरापूरितः ।।

९२१४-१ कस्मात्पार्वति निष्ठुरासि, सहजः शैलोद्भवानामयं निःस्नेहासि कथं, न भस्मपुरुषः स्नेहं विभर्ति क्वचित् ।
९२१४-२ कोपस्ते मयि निष्फलः प्रियतमे, स्थाणौ फलं किं भवेदित्थं निर्वचनीकृतो गिरिजया शंभुश्चिरं पातु वः ।।

९२१५-१ कस्मात्संल्किश्यते विद्वान्व्यर्थयार्थेहयासकृत् ।
९२१५-२ कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः ।।

९२१६-१ कस्मात्सत्यवतीसुतेन मुनिना नोक्तं भविष्यत्कथा- मध्ये रूपमनादिमध्यनिधनस्येहं हरेर्मानुषं ।
९२१६-२ इत्थं व्युत्थितविश्वकण्टकचमूनिर्मूलनव्यापृतं संग्रामाम्बरसूर्यमम्बरचरास्त्वां वीक्ष्य संशेरते ।।

९२१७-१ कस्मादद्य न भूषितं वपुरिदं सद्भूषणैः काञ्चनैः कस्मादच्छतराणि नाद्य वसनान्यङ्गीकृतानि त्वया ।
९२१७-२ उक्ता सेति मया मनोज्ञ विजने बाला विशालाक्ष मा क्षिप्रं रोदनमेकमेव विदधे प्रत्युत्तरं नो ददौ ।।

९२१८-१ कस्मादिदं नयनमस्तमिताञ्जनश्रि विश्रान्तपत्ररचनौ च कुतः कपोलौ ।
९२१८-२ शृङ्गारवारिरुहकाननराजहंसि कस्मात्कृशासि विरसासि मलीमसासि ।।

९२१९-१ कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भैः करैः कस्माद्वा जलधारयैव धरणिं धाराधरः सिञ्चति ।
९२१९-२ भ्रामं भ्राममयं च नन्दयति वा कस्मात्त्रिलोकीं रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ।।

९२२०-१ कस्माद्दूति श्वसिषि निभृतं, सत्वरावर्तनेन भ्रष्टो रागः किमधरदले, प्रार्थनाभिस्त्वदर्थं ।
९२२०-२ स्रस्ता चेयं किमलकततिस्, तत्पदालुण्ठनेन वासस्तस्य त्वयि वद कथं, प्रत्ययार्थं तवैव ।।

९२२१-१ कस्माद्भग्नाः सुमुखि वलया, मार्गपातान्निशायां किं ते वक्त्रं विगतरचनं, क्षालितं धूलिपूर्णं ।
९२२१-२ ओष्ठे रागः किमपि गलित, स्त्वद्व्यथोच्छ्वासवातैस् तद्वासः किं, हृतमिति मया वस्त्रलोभात्किलेति ।।

९२२२-१ कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी ।
९२२२-२ कः शूरो यो ललना- लोचनबाणैर्न विव्यथितः ।।

९२२३-१ कस्मिञ्छेते मुरारिः क्व न खलु वसतिर्वायसी को निषेधः स्त्रीणां रागस्तु कस्मिन्क्व नु खलु सितिमा शैरिसंबोधनं किं ।
९२२३-२ संबुद्धिः काऽहिमांशोर्विधिहरवयसां चापि संबुद्धयः का ब्रूते लुब्धः कथं वा कुरुकुलहननं केन तत्केशवेन ।।

९२२४-१ कस्मान्म्लायसि मालतीव मृदितेत्यालीजने पृच्छति व्यक्तं नोदितमार्तयापि विरहे शालीनया बालया ।
९२२४-२ अक्ष्णोर्बाष्पचयं निगृह्य कथमप्यालोकितः केवलं किंचित्कुड्मलकोटिभिन्नशिखरश्चूतद्रुमः प्राङ्गणे ।।

९२२५-१ कस्मिन्कर्मणि सामर्थ्यं अस्य नोत्तपतेतरां ।
९२२५-२ अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ।।

९२२६-१ कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।
९२२६-२ तद्दृष्ट्या व्यर्थतामात्रं अनर्थस्तु न धर्मजः ।।

९२२७-१ कस्मिन्वसन्ति वद मीनगणा विकल्पं किं वापदं वदति किं कुरुते विवस्वान् ।
९२२७-२ विद्युल्लतावलयवान्पथिकाङ्गनानां उद्वेजको भवति कः खलु वारिवाहः ।।

९२२८-१ कस्मिन्स्वपिति कंसारिः कावृत्तिरधमा नृणां ।
९२२८-२ किं ब्रूते पितरं बालः किं दृष्ट्वा रमते मनः ।।

९२२९-१ कस्मै किं कथनीयं कस्य मनःप्रत्ययो भवति ।
९२२९-२ रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ।।

९२३०-१ कस्मैचित्कपटाय कैटभरिपूरःपीठदीर्घालयां देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे ।
९२३०-२ यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकं ।।

९२३०आ-१ कस्मैचित्प्रतिपाद्य विक्रमजितां विप्राय विश्वंभरां अब्धौ वैभवलब्धवासरसिकः क्षेमाय रामोऽस्तु वः ।
९२३०आ-२ श्लाघन्ते रणसीम्नि यस्य चरितं कालाग्निकूलंकष- ज्वालोद्गारिकुठारकुक्षिनिहितक्ष्मापालचक्रा न्जनान् ।।

९२३१-१ कस्मैचिद्द्विजबन्धवे कियदपि क्षीरं पुरा नाथते दत्तो येन दयारसैकवपुषा दुग्धोद एवार्णवः ।
९२३१-२ श्रीश्रीवल्लभकल्पपादपसुधाचिन्तामणीभिः समं स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ।।

९२३२-१ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय ।
९२३२-२ कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ।।

९२३३-१ कस्मै यच्छति सज्जनो बहुधनं सृष्टं क्षगत्केन वा शम्भोर्भानि च को गले युवतिभिर्वेण्यां च का धार्यते ।
९२३३-२ गौरीशः कमताडयच्चरणतः का रक्षिता राक्षसैर् आरोहादवरोहतः कलयतामेकं द्वयोरुत्तरं ।।

९२३४-१ कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
९२३४-२ ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृतास् तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनं ।।

९२३५-१ कस्य करान्न स्खलिता नीरनिधिक्लेदपिच्छिला लक्ष्मीः ।
९२३५-२ भृगुचरणधूलिपरुषे हृदि परिबद्धा हरेः स्थिरेयमभूत् ।।

९२३६-१ कस्यचिज्जायते जन्तोः पादाघातस्तवाध्वनि ।
९२३६-२ पदभङ्गव्यथा शम्भो जृम्भते जम्भवैरिणः ।।

९२३७-१ कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयं ।
९२३७-२ श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयं ।।

९२३८-१ कस्यचित्समदनं मदनीय- प्रेयसीवदनपानपरस्य ।
९२३८-२ स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ।।

९२३९-१ कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।
९२३९-२ यादृशं कुरुते कर्म तादृशं फलमश्नुते ।।

९२४०-१ कस्य तृषं न क्षपयसि पिबति न कस्तव पयः प्रविश्यान्तः ।
९२४०-२ यदि सन्मार्गसरोवर नक्री न क्रोडमधिवसति ।।

९२४१-१ कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।
९२४१-२ व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरं ।।

९२४२-१ कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन ।
९२४२-२ किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ।।

९२४३-१ कस्य न प्रतिहतं बत चक्षुर् ध्वान्तसन्ततिभिरड्डमराभिः ।
९२४३-२ केवलं मनसिजप्रतिहतानां नावधूतमभिसारवधूनां ।।

९२४४-१ कस्य न वाहनयोग्या मुग्धधियस्तुच्छसाधने लग्नाः ।
९२४४-२ प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ।।

९२४५-१ कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः ।
९२४५-२ अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।।

९२४६-१ कस्य मरौ दुरधिगमः कमले कः कथय विरचितावासः ।
९२४६-२ कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ।।

९२४७-१ कस्य माता कस्य पिता कस्य बन्धुर्महामुने ।
९२४७-२ विभ्रमश्च स्मृतिभ्रंशात्तेन मुह्यन्ति जन्तवः ।।

९२४८-१ कस्य माता पिता कस्य कस्य भार्या सुतोऽपि वा ।
९२४८-२ जातौ जातौ हि जीवानां भविष्यन्त्यपरेऽपरे ।।

९२४८आ-१ कस्य वक्तव्यता नास्ति सोपायं को न जीवति ।
९२४८आ-२ व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरं ।।

९२४९-१ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
९२४९-२ क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ।।

९२४९आ-१ कस्य स्यान्न स्खलितं पूर्णाः सर्वे मनोरथाः कस्य ।
९२४९आ-२ कस्येह सुखं नित्यं दैवेन न खण्डितः को वा ।।

९२५०-१ कस्य स्वर्गश्रियो वश्याः कस्य चैन्द्रं पदं भुवि ।
९२५०-२ कं देवा बहु मन्यन्ते सङ्ग्रामे मरणादृते ।।

९२५१-१ सङ्ग्रामे मरणं पुण्यं गयायां मरणे तथा ।
९२५१-२ गङ्गायां मरणे मोक्षः सङ्ग्रामे मरणं सुखं ।।

९२५२-१ यदि वस्तुं मनः पुंसां स्वर्गस्त्रीभिः समं चिरात् ।
९२५२-२ अपरां सुखितां कृत्वा सङ्ग्रामे म्रियतां तदा ।।

९२५३-१ कस्यांचिद्वाचि कैश्चिन्ननु यदि विहितं दूषणं दुर्दुरूढैश्छिन्नं किं नस्तदा स्यात्प्रथितगुणवतां काव्यकोटीश्वराणां ।
९२५३-२ वाहाश्चेद्गन्धवाहाधिकविहितजवाः पञ्चषाश्चान्धखंजाः का हानिः शेरशाहक्षितिपकुलमणेरश्वकोटीश्वरस्य ।।

९२५४-१ कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं को जानीते निभृतमुभयोरावयोः स्नेहसारं ।
९२५४-२ जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चिरमनुगतं तत्प्रिये किं कर्ॐइ ।।

९२५५-१ ... ... ... ... ९२५५-२ कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
९२५५-३ नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।।

९२५६-१ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः ।
९२५६-२ अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोर् जात्यैवैते परहितविधी साधवो बद्धकाङ्क्षाः ।।

९२५७-१ कस्या नाम किमत्र नास्ति विदितं यद्वीक्ष्यमाणोऽप्ययं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस्तप्यते ।
९२५७-२ शक्यं दर्शयितुं न पूगफलवत्कृत्वा द्विधेदं वपुर् यत्सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ।।

९२५८-१ कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
९२५८-२ येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ।।

९२५९-१ कस्यानिमेषवितते नयने दिवौको- लोकादृते जगति ते अपि वै गृहीत्वा ।
९२५९-२ पिण्डे प्रसारितमुखेन तिमे किमेतद्दृष्टं न बालिश विशद्बडिशं त्वयान्तः ।।

९२६०-१ कस्यापि कोऽपि कुरुते न सुखं दुःखं न दैवमपहाय ।
९२६०-२ विदधाति वृथा गर्वं खलोऽहमहितस्य हन्तेति ।।

९२६१-१ कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्यातिं प्रयाति न हि सर्वविदस्तु सर्वे ।
९२६१-२ किं केतकी फलति किं पनसः सुपुष्पः किं नागवल्ल्यपि च पुष्पफलैरुपेता ।।

९२६१आ-१ कस्यापि चाग्रतो नैव प्रकाश्यः स्वगुणः स्वयं ।
९२६१आ-२ अतुच्छत्वेन तुच्छोऽपि वाच्यः परगुणः पुनः ।।

९२६२-१ कस्यामोदं कमलं वदनमिदं ते प्रिये न संतनुयात् ।
९२६२-२ अवलम्ब्य मित्रमेकं विकसति न यदन्यथा जातु ।।

९२६३-१ कस्याश्चित्सुभग इति श्रुतश्चिरं यस् तं दृष्ट्वाधिगतरतेर्निमीलिताक्ष्याः ।
९२६३-२ निस्पन्दं वपुरवलोक्य सौविदल्लाः सन्तेपुर्विधुरधियो निशान्तवध्वाः ।।

९२६४-१ कस्याश्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।
९२६४-२ किञ्जल्कव्यतिकरपिञ्जरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ।।

९२६५-१ कस्यास्ति नाशो मनसो वितत्या क्व सर्वथा नास्ति भयं विमुक्तौ ।
९२६५-२ शल्यं परं किं निजमूर्खतैव के के ह्युपास्या गुरवश्च सन्तः ।।

९२६६-१ कस्येदं भवनं, ममैव, भवती का सुभ्रु, लाटाङ्गना केर्य, मुग्धतरा सखी मम, पतिर्गेहेऽस्ति किं, तेन वा ।
९२६६-२ इत्थं पान्थवचो दिनान्तसमये गूढार्थमाकर्ण्य वै मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ।।

९२६७-१ कस्येमौ पितरौ मनोभववता तापेन संयौजिताव् अन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः ।
९२६७-२ इत्थं दुःस्थमतिर्मनोभवरतिर्यो मन्यते नास्तिकः शान्तिस्तस्य कथं भवेद्धनवतो दुष्कर्मंधर्माश्रयात् ।।

९२६८-१ कस्येयं तरुणि प्रपा, पथिक नः, किं पीयतेऽस्यां, पयो धेनूनामथ माहिषं बधिर रे वारः, कथं मङ्गलः ।
९२६८-२ स्ॐओ वाथ शनैश्चरो,ऽमृतमिदं, तत्तेऽधरे दृश्यते श्रीमत्पान्थ विलाससुन्दर सखे यद्रोचते तत्पिब ।।

९२६९-१ कस्योदपत्स्यत रुचिर्विरसावसाने स्तोकस्थितावनुचितप्रभवे भवेऽस्मिन् ।
९२६९-२ नारायणस्मृतिकथामृतपानगोष्ठी चेतोविनोदनमियं यदि नाम न स्यात् ।।

९२७०-१ कस्योपयोगमात्रेण धनेन रमते भनः ।
९२७०-२ पदप्रमाणमाधारं आरूढः को न कम्पते ।।

९२७१-१ कस्राघातैः सुरभिरभितः सत्वरं ताडनीयो गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त ।
९२७१-२ कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषं ।।

९२७२-१ कह्लारस्पर्शगर्भैः शिशिरपरिगमात्कान्तिमद्भिः कराग्रैश्चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
९२७२-२ अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशावधूभिः ।।

९२७३-१ कांचिद्दिनार्धसमये रविरश्मितप्तां नीलांशुकाञ्चलनिलीनमुखेन्दुम्बिम्बां ।
९२७३-२ तां तादृशीं समनुवीक्ष्य कविर्जगाद राहुर्दिवा ग्रसति पर्व विना किलेन्दुं ।।

९२७४-१ कां तपस्वी गतोऽवस्थां इति स्मेराविव स्तनौ ।
९२७४-२ वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ।।

९२७५-१ कांश्चिच्चाटुवचःशतैर्निजसुताप्रेमातिरेकै ः परान् अन्यान्वक्ररवाक्रमैर्धनवतः प्रापय्य गेहं निजं ।
९२७५-२ प्राग्दत्तग्रहणप्रगल्भकितवव्याजादवष्टभ्य तान् कुट्टिन्यः स्फुटमप्रगल्भचरितानेतान्निहन्तुं क्षमाः ।।

९२७६-१ कांश्चित्कल्पशतं कृतस्थितिचयान्कांश्चिद्युगानां शतं कांश्चिद्वर्षशतं तथा कतिपयान्जन्तून्दिनानां शतं ।
९२७६-२ तांस्तान्कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः कालोऽयं कवलीकरोति सकलान्भ्रातः कुतः कौशलं ।।

९२७७-१ कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।
९२७७-२ अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधयन्न् एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ।।

९२७८-१ कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।
९२७८-२ क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ।।

९२७९-१ कांसीकृतासीत्खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण ।
९२७९-२ तुला च नाराचलता निजैव मिथोनुरागस्य समीकृतौ वां ।।

९२८०-१ कांस्यस्वन इवाभाति यस्मिन्खड्गहते ध्वनिः ।
९२८०-२ खङ्गोत्तमं तं वदति गिरिशः शुभवर्धनं ।।

९२८१-१ कां हरिरभरत्सूकररूपः कामरिरहितामिच्छति भूपः ।
९२८१-२ केनाकारि च मन्मथजननं केन विराजति तरुणीवदनं ।।

९२८२-१ काकः काञ्चनपञ्जरे विनिहितः पद्माकरे कौशिकः श्राद्धे श्वा विनियोजितो हुतवहे हव्यः पलाण्डुः कृतः ।
९२८२-२ सर्वं तेन कृतं किमत्र बहुना मद्यं महाशान्तये येनाज्ञानवता महीयसि पदे नीचः समारोपितः ।।

९२८३-१ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
९२८३-२ वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ।।

९२८४-१ काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमं ।
९२८४-२ घूको बर्हिणमास्य शाखिशिखरे शेते सजानिः सुखं हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते ।।

९२८५-१ काकः पक्षबलेन भूपतिगृहे ग्रासं यदि प्राप्तवान् किं वा तस्य महत्त्वमस्य लघुता पञ्चाननस्यागता ।
९२८५-२ येनाक्रम्य करीन्द्रगण्डयुगलं निर्भिद्य हेलालवाल् लब्ध्वा ग्रासवरं वराटकधिया मुक्तागणस्त्यज्यते ।।

९२८६-१ काकः पक्षिषु चाण्डालः स्मृतः पशुषु गर्दभः ।
९२८६-२ नराणां कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दकः ।।

९२८७-१ काकः पद्मवने धृतिं न लभते हंसश्च कूपोदके क्रोष्टा सिंहगुहान्तरे सुविपुले नीचस्तु भद्रासने ।
९२८७-२ कुस्त्री सत्पुरुषं न जातु भजते सा सेव्यते दुर्जनैः या यस्य प्रकृतिर्विधातृविहिता सा तस्य किं वार्यते ।।

९२८८-१ काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च ।
९२८८-२ अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः ।।

९२८९-१ काकः स्वभावचपलः परिशुद्धवृत्तिर् लब्ध्वा बलिं स्वजनमाह्वयते परांश्च ।
९२८९-२ चर्मास्थिमांसवति हस्तिकलेवरेऽपि श्वा द्वेष्टि हन्ति च परान्कृपणस्वभावः ।।

९२९०-१ काक आह्वयते काकान्याचको न तु याचकान् ।
९२९०-२ काकयाचकयोर्मध्ये वरं काको न याचकः ।।

९२९१-१ काककुर्कुटकायस्थाः सजातिपरिपोषकाः ।
९२९१-२ सजातिपरिहन्तारः सिंहाः श्वानो द्विजा गजाः ।।

९२९२-१ काकचञ्चुपुटीकृत्य ओष्ठौ प्रोक्तानिलं पिबेत् ।
९२९२-२ ॐकारध्वनिनाकृष्य पूरयेद्यावदन्तरं ।।

९२९३-१ काकजङ्घाजटा निद्रां कुरुते मस्तके स्थिता ।
९२९३-२ पुष्योद्धृतं शुनः पित्तं अपस्मारघ्नमञ्जनात् ।।

९२९४-१ काकजङ्घारसः कर्णे क्षिप्तो बाधिर्यनाशनः ।
९२९४-२ हन्ति कर्णे जटा बद्धा तस्या नेत्रामयं ध्रुवं ।।

९२९५-१ काकतालीययोगेन यदनात्मवति क्षणं ।
९२९५-२ करोति प्रणयं लक्ष्मीस्तत्तस्याः स्त्रीत्वचापलं ।।

९२९६-१ काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः ।
९२९६-२ न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ।।

९२९७-१ काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा (?) ।
९२९७-२ पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ।।

९२९८-१ काक त्वं फलनम्रविपिनं दैवात्समासादयन् किं कर्णौ बधिरीकरोषि परुषैः क्रेंकारकोलाहलैः ।
९२९८-२ मौनं चेदवलम्बसे रतभरप्रक्रान्तपुंस्कोकिल- भ्रान्त्यापि त्वयि सञ्चरन्ति न कथं मुग्धाकटाक्षच्छटाः ।।

९२९९-१ का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
९२९९-२ हुंकारेणेव धनुषः स हि विघ्नान्व्यपोहति ।।

९३००-१ काकमांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलं ।
९३००-२ भक्षितेनापि किं तेन येन तृप्तिर्न जायते ।।

९३०१-१ काकमाची तथा कुष्ठं गोतक्रेण च पाचयेत् ।
९३०१-२ नाशयेन्मण्डलिक्ष्वेडं अगदोऽयं सुनिश्चितं ।।

९३०२-१ काकमाचीशिफा कर्णे बद्धा रात्रिज्वरापहा ।
९३०२-२ पाणिस्थं वृषवृन्दाकं द्यूते वितनुते जयं ।।

९३०३-१ काकवराकमरालमवैषि न जर्जरिताऽर्जुनतार्य कुतः ।
९३०३-२ विक्रमवैरिवधूजनलोचन- कज्जलवज्जलमज्जनतः ।।

९३०४-१ काकश्च द्रुमकुट्टश्च मण्डूको नीलमक्षिकः ।
९३०४-२ लट्वया सह पञ्चैते गजं जघ्नुरुपायतः ।।

९३०५-१ काकस्य कति वा दन्ता मेषस्याण्डे कियत्पलं ।
९३०५-२ गर्दभे कति र्ॐआणि व्यर्थैषातु विचारणा ।।

९३०६-१ काकस्य चञ्चुर्यदि हेमयुक्ता माणिक्ययुक्तौ चरणौ च तस्य ।
९३०६-२ एकैकपक्षे गजराजमुक्ता तथापि काको न च राजहंसः ।।

९३०७-१ काकस्य वृष्टिहेतोर् नीडं दिक्षु प्रशस्यते तिसृषु ।
९३०७-२ दुर्भिक्षमरणहेतुर् भवति सयाम्येषु कोणेषु ।।

९३०८-१ काकाः किं किं न कुर्वन्ति क्रोङ्कारं यत्र तत्र वा ।
९३०८-२ शुक एव परं वक्ति नृपहस्तोपलालितः ।।

९३०९-१ काकाः प्रभुप्रणिहितैः पिकपट्टबद्धेर् माकन्दबृन्दमकरन्दरसं लभन्तां ।
९३०९-२ प्राप्ते वसन्तसमये कथमाचरन्ति कर्णामृतानि कलपञ्चमकूजितानि ।।

९३१०-१ काकानां कोकिलानां च सीमाभेदः कथं भवेत् ।
९३१०-२ यदि विश्वसृजा साक्षं न कृता कर्णशष्कुली ।।

९३११-१ काकानां प्रीतियोगं चिरसहवसतिं कोकिलापेक्षसे चेथ्तर्हि त्वं तद्वदेव श्रवणपुटपटून्कुत्सितान्कूज शब्दान् ।
९३११-२ अभ्यासस्तत्र नो चेत्तव गलदमृता गीरियं गुप्यतां वा तामाकर्ण्य स्वजातेरननुगुणगुणं त्वाममी सन्त्यजेयुः ।।

९३१२-१ का कान्ता कालियारातेः पुनरर्थे किमव्ययं ।
९३१२-२ किं वन्द्यं सर्वदेवानां फलेषु किमु सुन्दरं ।।

९३१३-१ का का प्रिया प्रियतमं परिरभ्य दोर्भ्यां अभ्यागतेऽपि मिहिरे न जहाति निद्रां ।
९३१३-२ जागर्तु सज्जयतु चोलमितीव काकाः काकालिरालिरिव गूढगिरश्चकार ।।

९३१४-१ का काबला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितबाहुलतानुबद्धा ।
९३१४-२ सा सा तु यातु भवनं मिहिरोद्गमोऽयं सम्केतवाक्यमिति काकचया वदन्ति ।।

९३१४आ-१ का कामधेनुरिह कश्चिन्तामणिरपि च कल्पशाखी कः ।
९३१४आ-२ सर्वाण्यमूनि भुवने पर्यायवचांसि पुण्यस्य ।।

९३१५-१ काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा घूकाः कोटरगह्वरेषु मशलैर्दंशैश्च सान्द्रं दलं ।
९३१५-२ आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ।।

९३१६-१ का काली का मधुरा का शीतलवाहिनी गङ्गा ।
९३१६-२ कं संजघान कृष्णः कं बलवन्तं न बाधते शीतं ।।

९३१७-१ काकाल्लौल्यं यमात्क्रौर्यं स्थपतेर्दृढघातितां ।
९३१७-२ एकैकाक्षरमादाय कायस्थः केन निर्मितः ।।

९३१७आ-१ काका वृका घुकबकाश्च भेकाः प्रणम्य युष्मानिदमेव याचे ।
९३१७आ-२ कोलाहलं मा कुरुत क्षमध्वं पुंस्कोकिलः कूजति मञ्जुरावं ।।

९३१८-१ काकिन्याः पत्रमूलं सहचरसहितं केतकीनां च कन्दं छायाशुष्कं च भृङ्गं त्रिफलरसयुतं तैलमध्ये निधाय ।
९३१८-२ लौहे पात्रे प्रणीतं धरणितलगतं मासमात्रस्थितं तथ्केशाः काशप्रकाशा अलिकुलसदृशाः सम्भवन्त्यस्य लेपात् ।।

९३१९-१ काकुं करोषि गृहकोणकरीषपुञ्ज- गूढाङ्ग किं ननु वृथा कितव प्रयाहि ।
९३१९-२ कुत्राद्य जीर्णतरणिभ्रमनातिभीत- गोपाङ्गनागणविडम्बनचातुरी ते ।।

९३२०-१ काकुत्स्थस्य दशाननो न कृतवान्दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः ।
९३२०-२ पार्थस्यापि पराभवं यदि रिपुर्नादात्क्व तादृक्तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ।।

९३२१-१ काकुत्स्थस्य प्रतापाग्निर्दीप्तपिङ्गैर्वलीमुखैः ।
९३२१-२ निर्वाणो राक्षसेन्द्रस्य मन्ये नीलैर्निशाचरैः ।।

९३२२-१ काकुत्स्थेन शिरांसि यानि शतशश्छिन्नानि मायानिधेः पौलस्त्यस्य विमानसीमनि तथा भ्रान्तानि नाकौकसां ।
९३२२-२ तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः क्रीडाचामरडम्बरानुकृतिभिर्लोलायमानै ः कचैः ।।

९३२३-१ का कृता विष्णुना कीदृग्योषितां कः प्रशस्यते ।
९३२३-२ असेव्यः कीदृशः स्वामी को निहन्ता निशातमः ।।

९३२४-१ काके कर्णपुटीकठोरनिनदे पीयूषधारारस- स्यन्दोदञ्चितचारुपञ्चमरुते साधारणे मय्यपि ।
९३२४-२ वन्यां वृत्तिमयं व्यधादिति मुधा वत्स व्यथां मा कृथाः क्व कैवं न कृतं जनेषु निकृतं दुर्मेधसा वेधसा ।।

९३२५-१ काके कार्ष्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितो गांभीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते ।
९३२५-२ एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ।।

९३२६-१ काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
९३२६-२ क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ।।

९३२७-१ काकैः सह विवृद्धस्य कोकिलस्य कला गिरः ।
९३२७-२ खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ।।

९३२७आ-१ काकैः सार्द्धं वसन्हंसः क्षोभते चावसीदति ।
९३२७आ-२ गतः क्ॐअल एवाऽसो जिह्मो दुष्टो न काकवत् ।।

९३२८-१ काकैरिमांश्चित्रबर्हान्मयूरान् पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः ।
९३२८-२ हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र ।।

९३२९-१ काकैर्निष्कुषितं श्वभिः कबलितं वीचीभिरान्दोलितं स्रोतोभिश्चलितं तटान्तमलिनं ग्ॐआयुभिर्लोडितं ।
९३२९-२ दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि स्वं वपुः ।।

९३३०-१ काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
९३३०-२ पुरुषत्रये सपादे पश्चिमदिक्स्था न सा वहति ।।

९३३१-१ काकोलः कलकण्ठिका कुवलयं कादम्बिनी कर्दमः कंसारिः कबरी कृपाणलतिका कस्तूरिका कज्जलं ।
९३३१-२ कालिन्दी कषपट्टिका करिघटा कामारिकण्ठस्थली यस्यैते करदा भवन्ति सखि तद्वन्दे विनिद्रं तमः ।।

९३३२-१ का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
९३३२-२ भाषणं भीषणं साधु दूषणं यस्य भूषणं ।।

९३३३-१ का गणना विषयवशे पुंसि वराके वराङ्गना स्पृहया ।
९३३३-२ व्याजेन वीक्षमाणा ध्यानधियां स्पृशति सज्ज्ञानं ।।

९३३४-१ काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने ।
९३३४-२ जराजीर्णशरीरस्य भारेणेव धनेन किं ।।

९३३५-१ काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रं ।
९३३५-२ विचारवान्पणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ।।

९३३६-१ काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिं ।
९३३६-२ अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ।।

९३३७-१ काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिं ।
९३३७-२ तथा सत्संनिधानेन मूर्खो याति प्रवीणतां ।।

९३३७आ-१ काचकामलदोषेण पश्येन्नेत्रे विपर्ययं ।
९३३७आ-२ अभ्याख्यानं वदेज्जिह्वा तत्र रागक उच्यते ।।

९३३८-१ का चक्रे हरिणा, धने कृपणधीः कीदृग्, भुजंगेऽस्ति किं, कीदृक्, कुम्भसमुद्भवस्य जठरं, कीदृग्यियासुर्वधूः ।
९३३८-२ श्लोकः कीदृगभीप्सितः सुकृतिनां, कीदृङ्नभो निर्मलं, क्षोणीमाह्वय सर्वगं किमुदितं रात्रौ सरः कीदृशं ।।

९३३९-१ काचाः काञ्चनभूषिताः कति न वा पुष्णन्ति रत्नश्रियं मौलौ वा कति नोद्वहन्त्यपधियस्तानेव रत्नभ्रमात् ।
९३३९-२ अक्ष्णां ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते पृथगेव हन्त मणयस्तेष्वप्यभिज्ञाः पृथक् ।।

९३४०-१ काचित्कराभ्यां कुसुमानि नीत्वा दधार शंभोः पदयोः समीपे ।
९३४०-२ विवक्षया मन्मथदुष्प्रवृत्तेः समुत्सृजन्ती विशिखानिवाग्रे ।।

९३४१-१ काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्रेन्दुलक्ष्मीर् अश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
९३४१-२ म्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः शशंसुः ।।

९३४२-१ काचित्कृता कृतिरिति त्वयि सार्पितेति कापि प्रमोदकणिका मम नान्तरङ्गे ।
९३४२-२ मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ।।

९३४३-१ काचित्तृषार्ता वनिता निदाघे गङ्गां समभ्येत्य सुधासवर्णां ।
९३४३-२ आदाय तद्वारि करद्वयेन विलोकयन्ती न पपौ किमेतत् ।।

९३४३-५ (करकिसलयकान्तिकान्त्या शोणितशङ्कयेति ।) ९३४४-१ काचित्पदैरस्खलितैः सखेलं वान्तीषु शुद्धान्तकरेणुकासु ।
९३४४-२ राजाङ्गनानामकरोदवज्ञां श्रोणीभरे च स्तनगौरवे च ।।

९३४५-१ काचित्पुरा विरहिणी परिवृद्धिहेतोर् यस्यै दिदेश सलिलं नवमालिकायै ।
९३४५-२ सा पुष्पितैव जलमश्रुवशाद्वियोगे तस्यै प्रदाय कथमप्यनृणी बभूव ।।

९३४६-१ काचित्स्वर्णलता तदूर्ध्वममलश्चन्द्रस्तदभ्यन्तरे पद्मे तन्निकटं तिलस्य कुसुमं तत्सन्निधौ पल्लवे ।
९३४६-२ हेम्नः किंचिदधस्तयोश्च कलशौ कान्तौ जगन्मोहनौ स्वस्त्येतत्प्रकरोतु वस्त्रिजगतां किं ब्रह्मकृष्णादिभिः ।।

९३४७-१ काचिद्बलिना क्रान्ता काचिन्न जहाति कामिनं रुचिरं ।
९३४७-२ अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धं ।।

९३४८-१ काचिद्बालकवन्महीतलगता मूलच्छिदाकारणं द्रव्येणार्जनपुष्पितापि विफली काचिच्च जातिप्रभा ।
९३४८-२ काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता सर्वाङ्गे सुभगा रसाललतिकावत्पुण्यबीजाङ्किता ।।

९३४९-१ काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं दासीहस्तात्सभयमलिखद्व्यालमस्योपरिष्टात् ।
९३४९-२ गौरीकान्तं पवनतनयं चम्पकं चात्र भावं पृच्छत्यार्यो निपुणतिलको मल्लिनाथः कवीन्द्रः ।।

९३५०-१ काचिद्विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दं ।
९३५०-२ दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नं अवकृष्य निरीक्षते च ।।

९३५१-१ काचिद्वियोगानलतप्तगात्री प्राणान्समाधारयितुं लिलेख ।
९३५१-२ बाह्वोर्भुजङ्गं हृदि राहुबिम्बं नाभौ च कर्पूरमयं महेशं ।।

९३५२-१ काचिद्विलोलनयना रमणे स्वकीये दूरं गते सति मनोभवबाणखिन्ना ।
९३५२-२ त्यक्तं शरीरमचिरान्मलयाद्रिवायुं सौरभ्यशालिनमहो पिबति स्म चित्रं ।।

९३५३-१ काचिद्विहृत्य किल कन्तुककेलिरङ्गाद्भूरेणुरूषिततनुर्निरगान्मृगाक्षी ।
९३५३-२ उत्फुल्लपङ्कजवने सुचिरं चरित्वा किञ्जल्करेणुपरिधूसरितेव लक्ष्मीः ।।

९३५४-१ का चिन्ता मम जीवने यदि हरिर्विश्वंभरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे ।
९३५४-२ इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ।।

९३५५-१ काचिन्नितम्बार्पितवामहस्ता दोर्लेखया कुञ्चितया नताङ्गी ।
९३५५-२ क्षमापतौ मार्गणमोक्षदक्षं अकल्पयच्चापमिव स्मरस्य ।।

९३५६-१ काचिन्निदेशाज्जरतीजनानां कुलोचितं किंचिदिहालपन्ती ।
९३५६-२ कुञ्जद्रुमालेखनमाचरन्ती संज्ञापितालीभिरभूत्सलज्जा ।।

९३५७-१ काचिन्निवारितबहिर्गमना जनन्या द्रष्टुं हरं भवनजालकमाससाद ।
९३५७-२ तस्या विलोचनमदृश्यत दाशयन्त्र- यत्रोपरुद्धशफरोपमितं क्षणेन ।।

९३५८-१ काचिन्मृगाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती ।
९३५८-२ उद्गातुमादाय करेण वीणां एणाङ्कमालोक्य शनैरहासीत् ।।

९३५९-१ काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते ।
९३५९-२ न तेषां संनिधौ भृत्यो नाममात्रोऽपि तिष्ठति ।।

९३६०-१ काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः ।
९३६०-२ सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ।।

९३६०आ-१ काञ्चनाङ्गि कमनीयकलापौ कञ्चुलीकवचितौ लिकुचौ ते ।
९३६०आ-२ पाणिना ननु वहामि मुहूर्तं देहि मेऽधरमणिं तव दास्यं ।।

९३६१-१ काञ्चिकेन समालोड्य भक्षयेत्प्रातरन्वहं ।
९३६१-२ षण्मासयोगतो हन्ति पलितं वलिभिः सह ।
९३६१-३ दुग्धान्नभोजनासक्तश्चिरंजीवी भवेन्नरः ।।

९३६२-१ काञ्चीं काञ्ची न धत्ते कलयति न दृशा केरली केलितल्पं सिन्दूरं दूर एव क्षिपति करतलन्यस्तमान्ध्री पुरन्ध्री ।
९३६२-२ सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तयो रक्तिमानं कार्णाटी कर्णिकायां मलिनयति मनो मानसिंहप्रयाणे ।।

९३६२आ-१ काञ्चीकलक्वणितक्ॐअलनाभिकान्ति पारावतध्वनितचित्रितकण्ठपालिं ।
९३६२आ-२ उद्भ्रान्तलोचनचकोरमनङ्गरङ्गं आशास्महे कमपि वारविलासवत्याः ।।

९३६३-१ काञ्ची कांचिदियं चकार जघनन्यस्ता गतेर्मन्दतां गाढं बद्धमिदं च कञ्चुकमदादुच्छ्रूनतां वक्षसः ।
९३६३-२ नेत्रप्रान्तमथाकुलं कलयति श्रोत्रावतंसद्वयं तत्कोऽयं बत मत्प्रसाधनविधौ सख्यैषमस्त्वत्क्रमः ।।

९३६४-१ कान्चीगुणग्रथितकाञ्चनचेलदृश्य- चण्डातपांशुकविभापरभागशोभि ।
९३६४-२ पर्यङ्कमण्डलपरिष्करणं पुरारेर् ध्यायामि ते निखिलमम्ब नितम्बबिभ्बं ।।

९३६५-१ काञ्चीगुणैः काञ्चनरत्नचित्रैर् नो भूषयन्ति प्रमदा नितम्बं ।
९३६५-२ न नूपुरैहंसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाञ्जि ।।

९३६६-१ काञ्चीगुणैर्विरचिता जघनेषु लक्ष्मीर् लब्धा स्थितिः स्तनतटेषु च रत्नहारैः ।
९३६६-२ नो भूषिता वयमितीव नितम्बिनीनां कार्श्य निरर्गलमधार्यत मध्यभागैः ।।

९३६७-१ काञ्चीदामकबन्धनं सललिता कर्णोत्पलैस्ताडना हेलालिङ्नविघ्नमाहितरुषा मौनेन निर्भर्त्सनं ।
९३६७-२ किं पूर्वोचितमेतदत्र सहसा विस्मृत्य मन्योर्भरान्- मय्युत्कण्ठमनस्यदर्शनपथं यातास्यहो कोपने ।।

९३६८-१ काञ्चीदाम दृढं विधाय कवरीमाबध्य गाढं गुणैर् वक्षोजादपसार्य हारमसकृद्व्याधूय कर्णोत्पलं ।
९३६८-२ दूरोत्सारितकङ्कणा विधुमुखी सोत्प्रासहासं हठाथ्कण्ठे कस्य करोति हन्त दयिताश्लेषाय दोर्बन्धनं ।।

९३६९-१ काञ्चीदाम निवेशयन्वितनुते वासः श्लथं सुभ्रुवो हारं वक्षसि योजयन्करतलं धत्ते कुचाम्भोरुहे ।
९३६९-२ जल्पंश्चाटुवचोऽधरं धयति यत्प्रेयान्कुतो विस्मयः पांसुं चक्षुषि विक्षिपन्यदि धनं गृह्णासि पाटच्चरः ।।

९३६९आ-१ काञ्चीसीमनि कापि काञ्चनमयी निश्रेणिका राजते तामासाद्य रणोत्सवेन महता केनापि धीर त्वया ।
९३६९आ-२ सद्यः कण्टकशालिना करयुगेनाक्रम्य शैलद्वयं तस्योपान्तनिवासिनश्च शशिनः स्फीता सुधा लप्स्यते ।।

९३७०-१ काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थं पुनर् मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
९३७०-२ मातः सुप्तिं अपीह लुम्पति ममेत्यारोपितक्रोधया पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ।।

९३७१-१ काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः ।
९३७१-२ निन्दन्ति च विधातारं त्वद्घाटीष्वरियोषितः ।।

९३७२-१ काठिन्यं कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद्द्वयं भो ब्रह्मन्भवता कथं न पदयोरस्माकमासादितं ।
९३७२-२ इत्थं श्रीनरसिंह ते त्रिभुवनाधीशस्य घाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरिस्त्रियः ।।

९३७३-१ काठिन्यं गिरिषु सदा मृदुता सलिले ध्रुवा प्रभा सूर्ये ।
९३७३-२ वैरमसज्जनहृदये सज्जनहृदये पुनः क्षान्तिः ।।

९३७४-१ काठिन्यमङ्गैर्निखिलैर्निरस्तं स्तनौ कृशाङ्ग्याः शरणं जगाम ।
९३७४-२ अधः पतिष्याव इतीव भीत्या न शक्नुतस्तावपि हातुमेतत् ।।

९३७५-१ काणः कुब्जोऽथ खञ्जः श्रुतिबलविकलो वामनः पङ्गुरन्धः षण्डोऽपि च्छिन्ननासः परिजनरहितो दुर्भगो रोगदेही ।
९३७५-२ दुष्पुत्रो दुष्कलत्रः स्वजनपरिजनैर्निन्दिनो हीनमानः सत्यं यज्जायते तत्स्वकृतमिदमहो चेष्टते जीवलोके ।।

९३७६-१ काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः ।
९३७६-२ कातरा विक्रमादित्याः कविदृग्गोचरं गताः ।।

९३७७-१ काणाः कुब्जाश्च षण्डाश्च तथा वृद्धाश्च पङ्गवः ।
९३७७-२ एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ।।

९३७८-१ काणाः खञ्जाश्च कुब्जाश्च अतिविद्धाश्च पङ्गुलाः ।
९३७८-२ एतेष्वन्तः पुररक्षायां नियोज्याः पार्थिवेन तु ।।

९३७८आ-१ काणाश्छटाश्च रंडाश्च तथा वृद्धाश्च पङ्गवः ।
९३७८आ-२ एते चान्तःपुरे नित्यं नियोक्तव्याः क्षमाभृता ।।

९३७८भ्-१ काणो निमग्नविषमोन्नतदृष्टिरेकः शक्तो विरागजनने जननातुराणां ।
९३७८भ्-२ यो नैव कस्यचिदुपैति मनःप्रियत्वं आलेख्यकर्म लिखितोऽपि किमु स्वरूपः ।।

९३७९-१ कातरताकेकरित- स्मरलज्जारोषमसृणमधुराक्षी ।
९३७९-२ योक्तुं न मोक्तुमथवा वलतेऽसावर्थलब्धरतिः ।।

९३८०-१ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितं ।
९३८०-२ अतः सिद्धिं समेताभ्यां उभाभ्यामन्वियेष सः ।।

९३८१-१ कातर्यं तु न कार्मणं न न परं दम्भो न किं योषितां यच्चित्ता तनुचापलं मधुविधुद्बेषस्तनुत्वं तनोः ।
९३८१-२ अस्माकं सखि पश्य संप्रति तनू र्ॐआपि वक्रायते सद्यः प्रोषित नाथयाभिनवया पान्थस्त्रियो हासिताः ।।

९३८२-१ कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकता ।
९३८२-२ सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिंकराः ।।

९३८३-१ का तव काग्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
९३८३-२ कस्य त्वं वा कुत आयातस् तत्त्वं चिन्तय तदिदं भ्रातः ।।

९३८४-१ का तारैर्मम गर्जितैरुपरता धाराम्बुभिः का हता का मोहं गमिता वियोगविधुरा का वा कदम्बानिलैः ।
९३८४-२ नीता का च विलोलतां मदकलैः केकारबैर्बर्हिणां इत्थं पान्थगृहेषु पश्यति घनो विद्युत्प्रदीपैरिव ।।

९३८५-१ कात्यायनीकुसुमकामनया किमर्थं कान्तारकुक्षिकुहरं कुतुकाद्गतासि ।
९३८५-२ पश्य स्तनस्तबकयोस्तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यति जातकोपः ।।

९३८६-१ कात्र श्रीः श्रोणिबिम्बे स्रवदुदरपुरावस्तिखद्वारवाच्ये लक्ष्मीः का कामिनीनां कुचकलशयुगे मांसपिण्डस्वरूपे ।
९३८६-२ का कान्तिर्नेत्रयुग्मे जलकलुषजुषि श्लेष्मरक्तादिपूर्णे का शोभावर्तगर्ते निगदत यदहो मोहिनस्ताः स्तुवन्ति ।।

९३८६आ-१ का त्वं कामिनि जाह्नवी, किमिह ते, भर्ता हरो नन्वसाव् अम्भस्त्वं किल वेत्सि मन्मथकलां, जानात्ययं ते पतिः ।
९३८६आ-२ स्वामिन्सत्यमिदं, नहि प्रियतमे सत्यः कुतः कामिनां इत्येवं हरजाह्नवीगिरिसुतासंजल्पितं पातु वः ।।

९३८७-१ का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचिथ्सख्यस्तास्तव कुत्र कुत्र वद वाग्लक्ष्मीस्तथा कान्तयः ।
९३८७-२ वाग्याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः कान्तिर्मण्डलमैन्दवं मम पुनर्नाद्यापि विश्रामभूः ।।

९३८८-१ का त्वं पद्मपलाशाक्षि पीतकौशेयवासिनि ।
९३८८-२ द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दते ।।

९३८९-१ का त्वं पुत्रि, नरेन्द्र लुब्धकवधूर्, हस्ते किमेतत्, पलं क्षामं किं, सहजं ब्रवीमि नृपते यद्यादराच्छ्रूयते ।
९३८९-२ गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलं ।।

९३९०-१ का त्वं, माधवदूतिका, वदसि किं, मानं जहीहि प्रिये धूर्तः सोऽन्यमना, मनागपि सखि त्वय्यादरं नोज्झति ।
९३९०-२ इत्यन्योन्यकथारसैः प्रमुदितां राधां सखीवेषवान् नीत्वा कुञ्जगृहं प्रकाशिततनुः स्मेरो हरिः पातु वः ।।

९३९१-१ का त्वं, मुक्ति, रुपागतास्मि भवती कस्मादकस्मादिह श्रीकृष्णस्मरणेन देव भवतो दासीपदं प्रापिता ।
९३९१-२ दूरे तिष्ठ मनागनागसि कथं कुर्यादनार्यं मयि त्वद्गन्धान्निजनामचन्दनरसालेपस्य लोपो भवेत् ।।

९३९२-१ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
९३९२-२ आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ।।

९३९३-१ कादम्बिनी कम्बलिका कदम्ब- केदारकान्ताकुचकुट्टिमं च ।
९३९३-२ कस्तूरिका केतकपुष्पगम्धः केकारवः प्रावृषि हर्षमूलं ।।

९३९४-१ कादम्बिनी किमियमालि कदम्बमूले किं वा तमालतरुरेव किमन्धकारः ।
९३९४-२ जानासि नैव सखि गोपकुलाङ्गनानां कौलव्रतव्रततिभङ्गकरः करीन्द्रः ।।

९३९४आ-१ का दीयतां तव रघूद्वह सम्यगाशीर् निष्कण्टकानि विहितानि जगन्ति येन ।
९३९४आ-२ आशास्महे ननु तथापि सह स्ववीरैर् भूकाश्यपोपमसुतद्वितया वधूः स्यात् ।।

९३९५-१ का दुर्दशा कुपितनिर्दयचित्रगुप्त- वित्रासितस्य जगतो यदि देवि न स्याः ।
९३९५-२ त्वं कर्मबन्धनविमोचनधर्मराज- लेखाधिकारपरिशोधनजातपत्री ।।

९३९६-१ का द्यौः, किं बलसद्म, का वसुमती, स्यात्सर्वमेतद्यदि प्रत्यक्षं न भवेत्कदाचिदपि किं ते सर्वसन्दर्शिनः ।
९३९६-२ भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक्त्वया मुक्त्वेमं परमं कुकूपमितरत्किं नाम संभाव्यते ।।

९३९७-१ कानने सरिदुद्देशे गिरीणामपि कन्दरे ।
९३९७-२ पश्यन्त्यन्तकसंकाशं त्वामेकं रिपवः पुरः ।।

९३९८-१ का नाम बुद्धिहीनस्य विधेरविदग्धता ।
९३९८आ-२ कूष्माण्डानां न यश्चक्रे तैलमूर्णां च दन्तिनाम् ९३९९-१ कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशाः किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः ।
९३९९-२ चण्डज्वालावलीढस्फुटिततरुलताग्रन्थिमुक्ताट्टहासो दावाग्निः शुष्कवृक्षे शिखरिणि गहनेऽधिष्ठितः पश्यतीव ।।

९४००-१ कानीनस्तु पितामहः समभवत्पित्रादयो गोलकास् तत्पुत्राश्च युधिष्ठिरप्रभृतयः कुण्डा ह्यमी पाण्डवाः ।
९४००-२ पञ्चानां द्रुपदात्मजा सहचरी युद्धे हता बान्धवा श्रीकृष्णेन कुलं कलङ्कनिचितं नीतं जगद्वन्दितं ।।

९४०१-१ कानीनस्य मुनेः स्वबान्धववधूवैधव्यविध्वंसिनो नप्तारः खलु गोलकस्य तनयाः कुण्डाः स्वयं पाण्डवाः ।
९४०१-२ तेऽमी पञ्च समानयोनिरतयस्तेषां गुणोत्कीर्तनादक्षय्यं सुकृतं भवेदविकलं, धर्मस्य सूक्ष्मा गतिः ।।

९४०१आ-१ कान्तं कन्दर्पपुष्पं स्तनतटशशिनं रागवृक्षप्रवालं शय्यायुद्धाभिघातं सुरतरथरणश्रान्तधुर्यप्रत्ॐअद् ।
९४०१आ-२ उन्मेषं विम्रमाणां करजपदमयं गुह्यसम्भोगचिह्नं रागाक्रान्ता वहन्तां जघननिपतितं कर्कशाः स्त्रीकिशोर्यः ।।

९४०२-१ कान्तं खलगिरा काव्यं लभते भूयसीं रुचं ।
९४०२-२ स्पृष्टं च दंष्ट्त्रया हृद्यं यथा हेमविभूषणं ।।

९४०३-१ कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा न वाचः ।
९४०३-२ दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः ।।

९४०३आ-१ कान्तं रूपं यौवनं चारुलीलं दानं दाक्षिप्यं वाक्च सामोपपन्ना ।
९४०३आ-२ यं प्राप्यैते सद्गुणाः भान्ति सर्वे लोके कामिन्यः का न तस्य प्रसाद्याः ।।

९४०४-१ कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्वेनः परिभ्रामति ।
९४०४-२ इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस् तूर्णं तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः ।।

९४०५-१ कान्तं विचिन्त्य सुलभेतरसंप्रयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च ।
९४०५-२ धाराभिरातप इवाभिहतं सरोजं दुःखायते च हृदयं सुखमश्नुते च ।।

९४०६-१ कान्तं विना नदीतीरं मदमालोक्य केकिनी ।
९४०६-२ अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ।।

९४०७-१ कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैर् आलिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् ।
९४०७-२ रूक्षं नोक्तवती न वा कृतवती निःश्वासकोष्णे दृशौ प्रातर्मङ्गलमङ्गना करतलादादर्शमादर्शयत् ।।

९४०८-१ कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयं ।
९४०८-२ सुगन्धिमारुतो तात शृङ्गाररससेवितः ।।

९४०९-१ कान्तः करं स्पृशति जल्पति चाटुवाचं आलोकते मुखमपाकुरुते दुकूलं ।
९४०९-२ इत्येव केवलमनङ्ग विलासभीता स्वप्नेऽपि पश्यति नवोढसरोरुहाक्षी ।।

९४१०-१ कान्तः कुचादेककरेण वेणीं एणीदृशः कर्षति कौतुकेन ।
९४१०-२ अन्याङ्गनासङ्गमशुद्धिहेतोः श्यामां भुजङ्गीमिव हेमकुम्भात् ।।

९४११-१ कान्तः कृतान्तचरितः कुटिला तदम्बा वज्रोपमानि वचनानि च दुर्जनानां ।
९४११-२ प्रत्यङ्गमन्तरतनोः प्रहरन्ति बाणाः प्राणाः पुनः सखि बहिर्न खलु प्रयान्ति ।।

९४१२-१ कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ ।
९४१२-२ सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किं ।।

९४१३-१ कान्तः पुत्रि हठाद्गतश्चरणयोर्न त्वं निपत्य स्थिता बद्धो मेखलयानया रतिरहः सख्या न वा फूत्कृतं ।
९४१३-२ का लज्जा मुषितासि किं प्रकटितैरेभिर्विलक्षस्मितैर् आः पापे विरहानलस्य न शिखा जानासि मर्मच्छिदः ।।

९४१४-१ कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभित्वरयन्त्यः ।
९४१४-२ सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ।।

९४१५-१ कान्तप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः ।
९४१५-२ तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ।।

९४१६-१ कान्तर्मूर्ध्नि दधती विधित्सया तन्मणेः श्रवणपूरमुत्पलं ।
९४१६-२ रन्तुमर्चनमिवाचरत्पुरः सा स्ववल्लभतनो मनोभुवः ।।

९४१७-१ कान्तया कान्तसंयोगे किमकारि नवोढया ।
९४१७-२ अत्रापि चोत्तरं वक्तुं अवधिर्ब्रह्मणो वयः ।।

९४१८-१ कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः ।
९४१८-२ मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः ।।

९४१९-१ कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
९४१९-२ संहतस्तनतिरस्कृतदृष्टिर् भ्रष्टमेव न दुकूलमपश्यत् ।।

९४२०-१ कान्तवेश्म बहु संदिशतीभिर् यातमेव रतये रमणीभिः ।
९४२०-२ मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ।।

९४२१-१ कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
९४२१-२ मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ।।

९४२२-१ कान्तस्ते कमलाभिरामनयने कल्पे हि देशान्तरं गन्तेति श्रुतमद्य लोकवचनात्तथ्यं किमेतद्वचः ।
९४२२-२ पृष्टा सेति मया दयाधननिधे प्रोवाच दीनानना यत्तद्वक्तुमपि क्षमा न रसना मे जायते साम्प्रतं ।।

९४२३-१ कान्तां कामपि कामयत्यनुदिनं ध्यानापदेशादयं येनामुं मुनयोऽप्यनादिनिधनं ध्यायन्ति धौतस्पृहाः ।
९४२३-२ इत्यङ्कात्स्वकरे हृते गिरिजया पादे च पद्मासनाद्विश्वं पातु पुरन्ध्रिनद्धवपुषः शम्भोः समाधिव्ययः ।।

९४२४-१ कान्तां क्वापि विलम्बिनीं कलरुतैराहूय भूयस्ततो दिग्भागानवलोक्य रङ्गवसुधामुत्सृज्य पद्भ्यां ततः ।
९४२४-२ एष स्फारमृदङ्गनादमधुरैरम्भ्ॐउचामारवैर् बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति ।।

९४२५-१ कान्तां दृष्ट्वा चरणयुगलक्षालनाय प्रवृत्तां अस्मिन्राष्ट्रे श्रियमिति वचः पापठीति प्रयत्नात् ।
९४२५-२ देवस्य त्वेति च पुनरसौ वीटिकायाः प्रदाने जामाता ते जडमतिरयं छान्दसः किं कर्ॐइ ।।

९४२६-१ कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं मामुल्लङ्घ्य व्रजतु पथिकः कोऽपि यद्यस्ति शक्तिः ।
९४२६-२ इत्याशोकी जगति सकले वल्लरी चोरिकेव प्राप्तारम्मे कुसुमसमये कामदेवेन दत्ता ।।

९४२७-१ कान्ताः किं न शशाङ्ककान्तिधवलाः सौधालयाः कस्यचिथ्काञ्चीदामविराजितोरुजघना सेव्या न किं कामिनी ।
९४२७-२ किं वा श्रोत्ररसायनं सुखकरं श्रव्यं न गीतादिकं विश्वं किन्तु विलोक्य मारुतचलं सन्तस्तपः कुर्वते ।।

९४२७आ-१ कान्ताकटाक्षवपुषे नमः कुसुमधन्वने ।
९४२७आ-२ जायते येन सच्छायो विरसोऽपि भवद्रुमः ।।

९४२८-१ कान्ताकटाक्षविशिखा न खनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः ।
९४२८-२ कर्षन्ति भूरिविषयाश्च न लोभपाशा लोकत्रयं जयति कृत्स्नमिदं स धीरः ।।

९४२९-१ कान्ता कर्षणलोलकेरलवधूधम्मिल्लमल्लीरजश्- चौराश्चोडनितम्बिनीस्तनतटे निष्पन्दतामागताः ।
९४२९-२ रेवाशीकरधारिणोऽन्ध्रमुरलस्त्रीमानमुद्राभि दो वाता वान्ति नवीनकोकिलवघूहूंकारवाचालिताः ।।

९४३०-१ कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणां अत्यानन्दं जनयतु फलैः कोऽपि लोकान्धिनोतु ।
९४३०-२ धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ।।

९४३१-१ कान्ताकेलिमयोपि भूतकरुणाशान्तोऽप्यसौ संयमी क्रीडारूढसमाधिभङ्गविकटभ्रूभङ्गभीमाननः ।
९४३१-२ दृष्ट्वाकृष्टशरासनं यदकरोत्क्रुद्धः पिनाकी स्मरं त्वामप्यद्य दृशा तदेव कुरुते क्रोधादयं कौशिकः ।।

९४३२-१ कान्ता चन्द्रोदयो वीणापञ्चमध्वनिरित्यमी ।
९४३२-२ ये नन्दयन्ति सुखितान्दुःखितान्व्यथयन्ति ते ।।

९४३३-१ कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दं ।
९४३३-२ हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ।।

९४३४-१ कान्ताजनेन रहसि प्रसभं गृहीत- केशे रते स्मरसहासवतोषितेन ।
९४३४-२ प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन ।।

९४३५-१ कान्ता ददाति मदनं मदनः संतापमसममनुपशयं ।
९४३५-२ संतापो मरणमहो तथापि शरणं नृणां सैव ।।

९४३५आ-१ कान्ताधरसुधास्वादाद्यूनं यज्जायते सुखं ।
९४३५आ-२ बिन्दुः पार्श्वे तदध्यात्मशास्त्रास्वादसुखोदधेः ।।

९४३६-१ कान्ताधरासवनिपानमुपास्य धीमान् पीयूषपानकृतये न रुचिं प्रयाति ।
९४३६-२ तत्रास्ति चेन्मधुरिमा बत कोऽपि सत्यं किं नाम तात तृषिटाः क्षुधिताः पुनः स्युः ।।

९४३७-१ कान्तानवाधररसामृततृष्णयेव बिम्बं पपात शशिनो मधुभाजने यत् ।
९४३७-२ निःशेषिते मधुनि लज्जितचित्तवृत्ति तत्तन्मुखाब्जजितकान्तितया विनष्टं ।।

९४३८-१ कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।
९४३८-२ संहर्षादलिविरुतैरितीव गायंल् लोलोर्मौ पयसि महोत्पलं ननर्त ।।

९४३९-१ कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाम्भः ।
९४३९-२ संपेदे श्रमसलिलोद्गमो विभूषां रम्याणां विकृतिरपि श्रियं तनोति ।।

९४४०-१ कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः खेलत्खञ्जनपङ्क्तयो मृगदृशां तन्वन्ति नेत्रश्रियं ।
९४४०-२ पद्मानि श्वसितस्य सौरभमभिद्रुह्यन्ति वामभ्रुवां अभ्यस्यन्ति च राजहंसवनिताः पीनस्तनीनां गतिं ।।

९४४१-१ कान्तानुरागचतुरोऽसि मनोहरोऽसि नाथोऽसि किं च नवयौवनभूषितोऽसि ।
९४४१-२ इत्थं निगद्य सुदृशा वदने प्रियस्य निश्वस्य बाष्पलुलिता निहिता दृगन्ताः ।।

९४४१आ-१ कान्तानेत्रार्धपाता वदनरुचिकराः सस्मिता भ्रूविलासाः साकारा वाक्यलेशाः सहतलनिनदा दृष्टनष्टाश्च हासाः ।
९४४१आ-२ नाभीकक्षस्तनानां विवरणमसकृत्स्पर्शनं मेखलानां श्वासायासाश्च दीर्घां मदनशरहतां कामिनीं सूचयन्ति ।।

९४४१भ्-१ कान्तान्यर्धनिरीक्षितानि मधुरा हासोपदंशाः कथाः पीनश्रोणिनिरुद्धशेषमतुलस्पर्शं तदर्धांसनं ।
९४४१भ्-२ स्नेहव्यक्तिकरान्करव्यतिकरांस्तांस्तांश्च रम्यान्गुणान् वेश्याभ्यः प्रणयादृतेऽपि लभते ज्ञातोपचारो जनः ।।

९४४१C-१ कान्ताप्रीतिपरानुजो विनयवान्हृन्नन्दनो नन्दनो भाग्यं स्वर्ललनोपभोग्यममला लक्ष्मीः सुखं निस्तुषं ।
९४४१C-२ पूजा राजकुले यशोऽतिविशदं गोष्ठी समं कोविदैर् दानेऽतिव्यसनं रतिर्जिनमते स्यात्कस्यचित्पुण्यतः ।।

९४४२-१ कान्तामुखं सुरतकेलिविमर्दखेद- संजातघर्मकणविच्छुरितं रतान्ते ।
९४४२-२ आपाण्डुरं तरलतारनिमीलिताक्षं संस्मृत्य हे हृदय किं शतधा न यासि ।।

९४४३-१ कान्तामुखद्युतिजुषामपि चोद्गतानां शोभां परां कुरवकद्रुममञ्जरीणां ।
९४४३-२ दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य कन्दर्पबाणपतनव्यथितं हि चेतः ।।

९४४४-१ कान्तामुखास्वादपराङ्मुखा यथ्पान्थाः शशाङ्कस्य करैर्विमृष्टाः ।
९४४४-२ सुदुःसहं तापमिमे प्रयान्ति मन्ये ततौ नैव सुधेतरत्र ।।

९४४५-१ कान्तायाः करजैः कपोलफलके पत्रावली कल्पिता केलिद्यूतपणीकृतो विहरता पीतः स बिम्बाधरः ।
९४४५-२ स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दमालिङ्गिता निर्विष्टा विषयाः शिवात्ममहसि न्यस्तं मनः संप्रति ।।

९४४६-१ कान्ताया विकसद्विलासहसितस्वच्छांशवश्चामरं संसक्तावभिषेकहेमकलशौ यच्चन्दनाङ्कौ स्तनौ ।
९४४६-२ यत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामयः ।।

९४४७-१ कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथा परः शमयितुं शक्तो विनाम्भोधरं ।
९४४७-२ निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कर्मौघं सुकृतं विना किमपरं हन्तुं समर्थं तथा ।।

९४४८-१ कान्तारं परितो ज्वलत्यतिबले दावानले दैवतो ग्ॐआयोर्गहनां गुहां परिपतन्दर्पोद्धुरः केसरी ।
९४४८-२ यद्व्यापादयति स्म तं न कृपया तेनैष तस्मिन्वने सिंहानामभयप्रदोऽहमधुनेत्युत्पुच्छमुद्धावति ।।

९४४९-१ कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा ।
९४४९-२ विशालश्च तथा नन्दः षोढाः निःसारुको भवेत् ।।

९४५०-१ कान्तारपादपानां यथा फलं मानुषैरननुभोग्यं ।
९४५०-२ एवमनार्येष्वर्थाः मनसाऽप्यार्यैरननुभोग्याः ।।

९४५१-१ कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन ।
९४५१-२ कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्गः स्वभावपरिवर्तविधौ निदानं ।।

९४५२-१ कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे ।
९४५२-२ उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयं ।।

९४५३-१ कान्ता रुचिं मुनिजनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्ज्वलकङ्कणेन ।
९४५३-२ धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकरे मकरे करे च ।।

९४५४-१ कान्तारे घनतिमिरे भुजंगमेभ्यो नो भीता न च गणिता महापगापि ।
९४५४-२ किं बाले वहसि भयं मदङ्गसंगाथ्विक्रीते करिणि किमङ्कुशे विवादः ।।

९४५५-१ कान्तारे जलवृक्षवैरिणि मुहुस्त्वद्वैरिवामभ्रुवो बालैराकुललोचनैः प्रतिपदं रुद्धक्रमाश्चङ्क्रमे ।
९४५५-२ पृथ्वीचण्डरुचे पटच्चरदशासंघट्टदीप्तप्रभं सिञ्चन्त्यञ्जलिसञ्चिताश्रुभिरलं युष्मत्प्रतापानलं ।।

९४५६-१ कान्तारे दैवगत्या कथमपि गलितान्यन्तरालोक्य भक्ष्याण्य् उड्डीयोड्डीय भूयस्तरुशिखरशिखामेव तेभ्यः श्रयन्ते ।
९४५६-२ इत्थं त्वद्वैरिनारी गिरिषु नरपते जम्बुलम्बीकदम्ब- भ्रान्त्या भर्तुर्बुभुक्षोः कथयति पुरतश्चेष्टितं षट्पदानां ।।

९४५७-१ कान्तारेषु करावलम्बिशिशवः पादैः स्रवल्लोहितैर् अर्चन्त्यः पदवीं विलोचनजलैरावेदयन्त्यः शुचं ।
९४५७-२ दृष्टाः पान्थजनैर्विवृत्य सकृपं हाशब्दगर्भैर्मुखैर् यन्त्यह्ना सकलेन योजनतुरीयांशं तवारिस्त्रियः ।।

९४५८-१ कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृतां उत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
९४५८-२ भ्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्ष्मापते कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ।।

९४५९-१ कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै ।
९४५९-२ यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ।।

९४६०-१ कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा ।
९४६०-२ दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायं ।।

९४६१-१ कान्ताश्लेषपराङ्मुखं यदि दहेद्दोषाकरः कंचन स्थाने तर्हि यतः स हन्त विधिना हन्तुं व्यधायीदृशान् ।
९४६१-२ कष्टं यत्पुनरेष चन्दनभुवो लब्धप्रभावोऽभितः स्वर्णद्याद्यवगाहको मरुदयं दग्धं प्रचण्डोज्वलं ।।

९४६२-१ कान्तासुहृद्गुणकथाश्रवणोत्सुकस्य रम्या विनिद्रनयनस्य गता ममासौ ।
९४६२-२ सर्वेन्द्रियार्थजनितानि हि सेव्यमाना दीर्घा स्ववृत्तिरिव हन्ति सुखानि निद्रा ।।

९४६३-१ कान्तिं कुङ्कुमकेशरान्मधुरतां द्राक्षारसस्यासवाद्वैदर्भीपरिपाकपूतवचसः काव्यात्कवेर्मार्दवं ।
९४६३-२ पार्श्वादेव जरातुरेण विधिना तं तं गृहीत्वा गुणं सृष्टा हन्त हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ।।

९४६४-१ कान्तिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य यछ्चञ्चच्चञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः ।
९४६४-२ तन्मन्ये नयनामृतं रतिपतेर्मृत्युञ्जयेनार्थिना तेनेदं रमणीकपोलफलके लावण्यमालोकितं ।।

९४६५-१ कान्तिकल्लोलवलितां नयनामृतवाहिनीं ।
९४६५-२ भजमानं स्वयं सुभ्रु कस्त्वां न बहु मन्यते ।।

९४६५आ-१ कान्तिप्रकर्षं दशनच्छदेन सन्ध्याघने बद्धपदं हरन्त्याः ।
९४६५आ-२ तस्या गृहोद्यानसरोगतस्य हस्तस्य एवाम्बुरुहस्य रागः ।।

९४६६-१ कान्तिमयादतिविमलादविरतविश्वोपकारगतकालात् ।
९४६६-२ सुदशान्महतोतिमहान् प्रसरति दीपान्प्रदीप इव ।।

९४६७-१ कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः ।
९४६७-२ अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्धः स कालागुरुः ।।

९४६८-१ कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः ।
९४६८-२ एतां पश्य पुरः पुलिन्दनगरीं भूपाः कुरङ्गीदृशां यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः ।।

९४६९-१ कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः ।
९४६९-२ सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः ।।

९४६९आ-१ कान्तिश्चन्द्रमसो मृगस्य नयने बाहू मृणालस्य ते हंसानां गमनं सरोजवदने हेम्नो घटौ ते कुचौ ।
९४६९आ-२ एतत्ते परकीयवस्तु सकलं नमैकमात्रं तव मानं मा कुरु मानिनि प्रियतमे रूपाभिमानं प्रति ।।

९४७०-१ कान्तिश्रिया निर्जितपद्मरागं मनोज्ञगन्धं द्वयमेव शस्तं ।
९४७०-२ नवप्रबुद्धं जलजं जलेषु स्थलेषु तस्या वदनारविन्दं ।।

९४७०आ-१ कान्तिस्ते कनकाचलप्रतिनिधिः कान्ताकुचस्पर्धि ते सौभाग्यं क्षितिपालदर्शनविधौ त्वत्पूर्वकं दर्शनं ।
९४७०आ-२ सौरभ्यं सकलातिशायि भवतो जम्बिर किं ब्रूमहे कर्पूरप्रतिकूलता यदि न ते त्वय्येव सर्वे गुणाः ।।

९४७१-१ कान्तिस्ते यदि निर्मला यदि गुणा लक्ष्मीर्यदि स्थायिनी मा गाः पद्म मदं तथापि गलिता ह्येते शरद्वासराः ।
९४७१-२ संस्पर्शेन तुषारवारिपृषतामालूनमूर्तेः सरो- मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलं ।।

९४७२-१ कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।
९४७२-२ आयाता वयं आगमिष्यति सुहृद्वर्गस्य भाग्योदयैः सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ।।

९४७३-१ कान्ते कथंचित्कथितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी ।
९४७३-२ ततस्तमालोक्य कदागतोऽसीत्य् आलिङ्ग्य मुग्धा मुदमाससाद ।।

९४७४-१ कान्ते कनकजम्बीरं करे किमपि कुर्वति ।
९४७४-२ आगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ।।

९४७५-१ कान्ते कलितचोलान्ते दीपे वैरिणि दीप्यति ।
९४७५-२ आसीदसितपद्माक्ष्याः पक्षो नयनमुद्रणं ।।

९४७६-१ कान्ते काञ्चुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन्क्ॐअलकाकुभाषिणि तया स्पन्दी निरुद्धोऽधरः ।
९४७६-२ उत्थायाथ करस्पृशि प्रियतमे यूनोर्नवे संगमे काञ्चीकूजितकैतवेन मदनो द्यौःशान्तिमभ्यस्यति ।।

९४७६आ-१ कान्ते कथय कथं वा गच्छसि पानीयशालिकामेका ।
९४७६आ-२ अङ्गमनङ्गं नितरां अङ्कुरयति पङ्कजाक्षि वयोऽपि तव ।।

९४७७-१ कान्ते किं कुपितासि, कः परजने प्राणेश कोपो भवेथ्कोऽयं सुभ्रु पर, स्त्वमेव, दयिते दासोऽस्मि किं ते परः ।
९४७७-२ इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ।।

९४७८-१ कान्ते कुटिलमालोक्य कर्णकण्डूयनेन किं ।
९४७८-२ कामं कथय कल्याणि किङ्करः करवाणि यत् ।।

९४७९-१ कान्ते गृहाण त्वमिमां स्वमालां अकारणं किं कलहं करोषि ।
९४७९-२ यत्पूर्वपादं मनुषेऽत्र शुद्धं तत्तथ्यमेवास्ति न चेदिदं स्यात् ।।

९४८०-१ कान्ते घोरकृतान्तवक्रकुहरात्त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तदर्जनश्रमभरं प्रत्यङ्गमालिङ्ग्य मां ।
९४८०-२ इत्याकर्ण्य निमीलितार्धनयनं स्मेरं शनैरानतं सोल्लासं वदनाम्बुजं मृगदृशः स्वैरं चुचुम्ब प्रियः ।।

९४८१-१ कान्ते जग्मुषि ताम्रचूडरटितं श्रुत्वा प्रबुद्धा जवाथ्किंचिद्वासवदिङ्मुखं प्रविकसद्दृष्ट्वा गवाक्षाध्वना ।
९४८१-२ संत्रासेन समीरिता प्रियतमप्रेम्णावरुद्धा शनैर् उत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ।।

९४८२-१ कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु ।
९४८२-२ तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथा स्यात् ।।

९४८३-१ कान्ते तल्पमुपागते विगलिता नीवी स्वयं तत्क्षणाथ्तद्वासः श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितं ।
९४८३-२ एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति स्वल्पापि मे न स्मृतिः ।।

९४८४-१ कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्- पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ।
९४८४-२ दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितं ।।

९४८४आ-१ कान्ते त्वत्कुचचूचुकौ तदुपरि स्मेरा च हारावली तद्वक्त्रं तरुणाङ्गि बिम्बितमनुच्छायालताश्यामतां ।
९४८४आ-२ त्वं सर्वाङ्गमनोरमे त्रिजगतां बध्नासि दृष्ट्या मनो जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ।।

९४८५-१ कान्ते त्वन्नेत्रकान्तं पुरु कमलवनं त्वन्मुखस्योपमेयश्चन्द्रः प्रत्यक्षसिद्धः पिककुलमपि च त्वत्स्वरस्यानुकारि ।
९४८५-२ रम्भाकाण्डस्त्वदूरुच्छविरपि सुलभः कम्बवश्च त्वदीयाः कण्ठाकारा शिखण्डास्तव कचसदृशास्तत्कथं तेऽसमत्वं ।।

९४८६-१ कान्ते धावय मे पादाविति भर्त्रा निवेदिता ।
९४८६-२ न तया धावितौ पादौ भर्तुराज्ञा न लङ्घिता ।।

९४८७-१ कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश्चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना ।
९४८७-२ आमृष्टो मुहुरीक्षितो मुहरभिघ्रातो मुहुर्लोठितः प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ।।

९४८८-१ कान्ते नितान्तं दयिताकुचान्त- चोलाञ्चलं कर्षति हर्षमुग्धे ।
९४८८-२ बभार बाला नमितास्यहास्य- लेशापदेशादपरं निचोलं ।।

९४८९-१ कान्ते नितान्तमेतैर् वचनै रुषितेव लक्ष्यते भवती ।
९४८९-२ क इवोष्यते न वचनैर् उक्तैरागांस्यपह्नोतुं ।।

९४८९आ-१ कान्ते कृतागसि पुरः परिवर्तमाने सख्यं सरोजशशिनोः सहसा बभूव ।
९४८९आ-२ रोषाक्षरं सुदृशि वक्तुमपारयन्त्यां इन्दीवरद्वयमवाप तुषारधारां ।।

९४८९भ्-१ कान्ते पश्यति सानुरागमबला साचीकरोत्याननं तस्मिन्कामकलाकलापकुशले व्यावृत्तवक्त्रे किल ।
९४८९भ्-२ पश्यन्ती मुहुरन्तरङ्गमदना दोलायमानेक्षणा लज्जामन्मथमध्यगापि नितरां तस्याभवत्प्रीतये ।।

९४९०-१ कान्ते यामि, क्व, देशान्तर, मपि शयना, न्नेति, किं सद्मनोऽपि क्वैतावन्मात्र, माः किं कथयसि नगरा, न्न प्रिये निर्वृतोऽपि ।
९४९०-२ इत्याकर्ण्योक्तवस्तुक्रमघनघनहृद्वेदना वेद नाहं काहं कुत्रास्मि कोऽयं बत हतसमयोऽप्यस्मि वा नास्मि वेति ।।

९४९१-१ कान्ते विचित्रसुरतक्रमबद्धरागे सङ्केतकेऽपि मृगशाबदृशा रसेन ।
९४९१-२ तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतमनुकूजितलावकौघैः ।।

९४९२-१ कान्ते विलासिनि कलावति पद्मनेत्रे नित्यं त्वयि प्रियतमे रमते मनो मे ।
९४९२-२ इत्थं भवन्तमुरुभावनया वदन्तं श्रीकृष्ण मां बुधजना अपि हा हसन्ति ।।

९४९३-१ कान्ते सागसि कञ्चुकस्पृशि तया साचीकृतग्रीवया मुक्ताः कोपकषायमन्मथशरत्क्रूराः कटाक्षाङ्कुराः ।
९४९३-२ साकूतं दरहासकेसरवच्ॐआध्वीकधारालसा प्रीतिः कल्पलतेव काचन महादानीकृता सुभ्रुवा ।।

९४९३आ-१ कान्ते सागसि काचिदन्तिकगते निर्भर्त्स्य रोषारुणैर् भ्रूभङ्गीकृटिलैरपाङ्गवलनैरालोकमाना मुहुः ।
९४९३आ-२ बध्वा मेखलया सपत्नरमणीपादाब्जलाक्षाङ्कितं लीलानीलसरोरुहेण निटिलं हन्ति स्म रोषाकुला ।।

९४९४-१ कान्ते सागसि यापिते प्रियसखीवेषं विधायागते भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्संगमाकाङ्क्षया ।
९४९४-२ मुग्धे दुष्करमेतदित्यतितरामुक्त्वा सहासं बलादालिङ्ग्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ।।

९४९५-१ कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशिरीं विश्लेषादिव तस्य पाण्डिमभृतामालीलतानामियं ।
९४९५-२ कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां प्राचीनां पवनाञ्चलेन परितः पत्रावलीं लुम्पति ।।

९४९६-१ कान्ते हन्त सुक्ॐअला बत मता प्राग्व्यर्थमेव भ्रमाथ्किंतु त्वं भुवि निष्ठुरा निरुपमा पश्यस्यपीमं न मां ।
९४९६-२ तस्माद्वक्षसि ते पयोधरमिषाद्धात्रा निखायार्पितौ शैलेन्द्राविति सांप्रतं न हि चिरं सौख्यं परक्लेशितुः ।।

९४९७-१ कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी क्रीडाशैलशिर्ॐअणिर्गृहमिदं रम्यो वसन्तोत्सवः ।
९४९७-२ सख्यः कामकथोपचारचतुराः संभोगकालेऽधुना मानो वा कलहोऽथवा यदि कदा तच्चेतसो निर्वृतिः ।।

९४९८-१ कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोकानन्दकरो हि चन्द्रवदने वैरायते चन्द्रमाः ।
९४९८-२ किं चायं वितनोति कोकिलकलालापो विलापोदयं प्राणानेव हरन्ति हन्त नितरामाराममन्दानिलाः ।।

९४९९-१ कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किं चासि पञ्चशरकार्मुकमद्वितीयं ।
९४९९-२ इक्षो तवास्ति सकलं परमेकमूनं यत्सेवितो भजसि नीरसतां क्रमेण ।।

९५००-१ कान्त्या काञ्चनकान्तया परिमलैर्भाग्यैकभोग्यैस्तथा सौन्दर्येण च साधुनैव कुसुमं हा हन्त न त्वत्समं ।
९५००-२ अक्रोधं शृणु किन्तु दूषणमिव त्वय्यस्ति किञ्चित्पुनस् तत्त्वज्ञैर्यदचुम्बितं त्वमसि रे चाम्पेय पुष्पन्धयैः ।।

९५०१-१ कान्त्या दरिद्रत्वमुपैति चन्द्रः किमस्ति तत्त्वं विकचोत्पलेषु ।
९५०१-२ न वेद्यि विश्वास्य कथं मृगाक्ष्या सौन्दर्यसृष्टिर्मुषिता विधातुः ।।

९५०२-१ कान्त्या विलुप्तानि विलोचनानां आपाटलानामतिरोदनेन ।
९५०२-२ सकुङ्कुमानीव पुनर्भंवन्ति यस्यारिनारीकुचमण्डलानि ।।

९५०३-१ कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीं ।
९५०३-२ चेतोहरामपि कृशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ।।

९५०४-१ कान्यकुब्जा द्विजाः सर्वे मागधं माधुरं विना ।
९५०४-२ गौडद्राविडविख्याताः कान्यकुब्जाः महोद्भवाः ।।

९५०५-१ का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म ।
९५०५-२ कः सूर्यपुत्रो विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णाः ।।

९५०६-१ कापि कान्तमिदमाह महेला साधु साधय तथा युधि कार्यं ।
९५०६-२ वर्तते तव यथा च जयश्रीर् लोकनाथललना च सपत्नी ।।

९५०७-१ कापि कुड्यलिखितावधिरेखाः प्रोषितप्रियतमा गणयन्ती ।
९५०७-२ वेश्मनि प्रबलवह्निपरीते सास्रया बहिरनीयत सख्या ।।

९५०८-१ कापि मुख्यपदवीमधिरोप्य स्वां सखीं स्वकरधारितदीपा ।
९५०८-२ प्राणनाथरतिगेहमयासीदद्भुतो रतिपतेरुपदेशः ।।

९५०९-१ कापिशायनसुगन्धि विघूर्णन्न् उन्मदोऽधिशयितुं समशेत ।
९५०९-२ फुल्लदृष्टिवदनं प्रमदानां अब्जचारु चषकं च शडङ्घ्रिः ।।

९५१०-१ कापि शीघ्रमवधीरितमाना मानिनो विचलिता प्रियधाम्नि ।
९५१०-२ आगतेन मरुतापि पुरस्ताल् लाघवस्य परिहारममंस्त ।।

९५११-१ कापुरुषः कुक्कुरश्च भोजनैकपरायणः ।
९५११-२ लालितः पार्श्वमायाति वारितो नैव गच्छति ।।

९५१२-१ काप्यङ्घ्री रङ्गपत्र्यारुणयति रमणी भूषणैर्भाति काचिद्गायत्यन्या परापि प्रलसति लहरीलक्ष्म वासो वसाना ।
९५१२-२ यत्रान्या स्नेहपूरान्वितरति च मुदं याति दोलाभिरन्या सा शृङ्गारद्वितीया रचयति न मनः कस्य शृङ्गारमग्नं ।।

९५१३-१ काप्यन्या मुकुलाधिकारमिलिता लक्ष्मीरशोकद्रुमे माकन्दः समयोचितेन विधिना धत्तेऽभिजातं वपुः ।
९५१३-२ किं चाषाढगिरेरनङ्गविजयप्रस्तावनापण्डित ः स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः ।।

९५१४-१ काप्यभिख्या तयोरासीद्व्रजतो शुद्धवेषयोः ।
९५१४-२ हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ।।

९५१५-१ काप्यागतं वीक्ष्य मनोधिनाथं समुत्थिता सादरमासनाय ।
९५१५-२ करेण शिञ्जद्वलयेन तल्पं आस्फालयन्ती कलमाजुहाव ।।

९५१६-१ का प्रस्तुताभिषेकादार्यं प्रच्यावयेद्गुणज्येष्ठं ।
९५१६-२ मन्ये ममैव पुण्यैः सेवावसरः कृतो विधिना ।।

९५१७-१ का प्रियेण रहिता वराङ्गना धाम्नि केन तनयेन नन्दिता ।
९५१७-२ कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा ।।

९५१८-१ का प्रीतिः सह मार्जारैः का प्रीतिरवनीपतौ ।
९५१८-२ गणिकाभिश्च का प्रीतिः का प्रीतिर्भिक्षुकैः सह ।।

९५१९-१ काभिर्न तत्राभिनवस्मराज्ञा विश्वासनिक्षेपवणिक्क्रियेऽहं ।
९५१९-२ जिह्नेति यन्नैव कुतोऽपि तिर्यक् कश्चित्तिरश्चस्त्रपते न तेन ।।

९५२०-१ का भूषा बलिनां, क्षमा, परिभवः, कोपः स्वकुल्यैः कृतः किं दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते ।
९५२०-२ को मृत्यु, र्व्यसनं, शुचं जहति के, यैर्निर्जिता शत्रवः कैर्विज्ञातमिदं विराटनगरच्छन्नस्थितैः पाण्डवैः ।।

९५२१-१ कामं करीषाग्निमधो निधाया- भ्रमेण तापातिशयं भजध्वं ।
९५२१-२ युष्माकमद्यावधि नाधिकारो दुग्धातिमुग्धाधरमाधुरीषु ।।

९५२२-१ कामं कर्णकटुः कृतोऽतिमधुरः केकारवः केकिनां मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः ।
९५२२-२ उन्मीलन्नवकन्दलावलिरसौ शय्यापि सर्पायते तत्किं यद्विपरीतमत्र न कृतं तस्या वियोगेन मे ।।

९५२३-१ कामं कामदुघं धुङ्क्ष्व मित्राय वरुणाय च ।
९५२३-२ वयं धीरेण दानेन सर्वान्कामानशीमहि ।।

९५२४-१ कामं कामयते न केलिनलिनीं नामोदते क्ॐउदी- निस्यन्दैर्न समीहते मृगदृशामालापलीलामपि ।
९५२४-२ सीदन्नेष निशासु दुःसहतनुर्भोगाभिलाषालसैर् अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ।।

९५२५-१ कामं कामयमानस्य यदा कामः समृद्ध्यते ।
९५२५-२ अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ।।

९५२६-१ कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपेणैव महीपते तव धनुःपाण्डित्यमन्यादृशं ।
९५२६-२ त्वं यस्मिन्विशिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं त्रुट्यत्कंचुकमुद्गतस्पृहमहो धावन्ति देवाङ्गनाः ।।

९५२७-१ कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः ।
९५२७-२ पाकान्वितमतिसुरसं भुङ्क्ते बहुधावधानेन ।।

९५२८-१ कामं कूले नदीनामनुगिरि महिषीयूथनीडोपकण्ठे गाहन्ते शष्पराजीरभिनवशलभग्रासलोला बलाकाः ।
९५२८-२ अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचिथ्कापोतं कोद्रवाणां कवलयति कणान्क्षेत्रकोणैकदेशे ।।

९५२९-१ कामं कोपकषायिताक्षियुगलं कृत्वा करोत्फालनैः क्षुद्रान्वन्यमृगात्करीन्द्र सहसा विद्रावय त्वं मुदा ।
९५२९-२ हेलाखण्डितकुम्भिकुम्भविगलद्रक्तारुणाङ्गे हरौ जाते लोचनगोचरे यदि भवान्स्थाता तदा मन्महे ।।

९५३०-१ कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।
९५३०-२ सम्यग्विजेतुं यो वेद स महीमभिजायते ।।

९५३०आ-१ कामं क्रोधं भयं लोभं दम्भं मोहं मदं तथा ।
९५३०आ-२ निद्रां मत्सरमालस्यं नास्तिक्यं च परित्यज ।।

९५३१-१ कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं पश्य हि कोऽहम् ९५३१-२ आत्मज्ञानविहीना मूढास् ते पच्यन्ते नरके मूढाः ।।

९५३२-१ कामं गुणैर्महानेष प्रकृत्या पुनरासुरः ।
९५३२-२ उत्कर्षात्सर्वतो वृत्तेः सर्वाकारं हि दृप्यति ।।

९५३३-१ कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे ।
९५३३-२ साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि ।।

९५३४-१ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ।
९५३४-२ न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ।।

९५३५-१ कामं दहन्तु मरुतो मलयाचलस्य चन्द्रोऽपि पातयतु वा नितरां स्फुलिङ्गान् ।
९५३५-२ दूरे प्रियो विमलवंशमणिः पतिर्मे तत्साम्प्रतं त्वरितमानय तं कथंचित् ।।

९५३६-१ कामं दीर्घा भवेद्यात्रा कामं पन्था महान्भवेत् ।
९५३६-२ सोऽपि प्रभोः कृपामेव नित्यमाश्रयतेऽन्ततः ।।

९५३७-१ कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुष्कृतं या हिनस्ति ।
९५३७-२ तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ।।

९५३८-१ कामं दुर्विषहज्वरं जनयति व्याघूर्णयत्पक्षिणी गात्राण्यूरुनितम्बगण्डहृदयान्युच्छूनयत्युल्बणं ।
९५३८-२ तां तां दुर्विकृतं करोति सुहृदो गाढं व्यथन्ते यया व्याधियौवनमात्मनाशनियतः के ते ग्रहण्यादयः ।।

९५३९-१ कामं दृष्टा मया सर्वा विवस्त्रा रावणस्त्रियः ।
९५३९-२ न तु मे मनसः किंचिद्वैकृत्यमुपपद्यते ।।

९५४०-१ मनो हि हेतुः सर्वेषां इन्द्रियाणां प्रवर्तने ।
९५४०-२ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितं ।।

९५४१-१ कामं न पश्यति दिदृक्षत एव भूम्ना नोक्तापि जल्पति विवक्षति चादरेण ।
९५४१-२ लज्जास्मरव्यतिकरेण मनोऽधिनाथे बाला रसान्तरमिदं ललितं बिभर्ति ।।

९५४२-१ कामं निष्करुणं वेत्सि वेत्सि तं बहुवल्लभं ।
९५४२-२ दूति चूताङ्कुरखरा दिशो वेत्सि न वेत्सि किं ।।

९५४३-१ कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिं ।
९५४३-२ नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चान्द्रमसैव रात्रिः ।।

९५४३आ-१ कामं परमिति ज्ञात्वा देवोऽपि हि पुरन्दरः ।
९५४३आ-२ गौतमस्य मुनेः पत्नीं अहल्यां चकमे पुरा ।।

९५४४-१ कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयान् ।
९५४४-२ बलवत्तु दूयमानं प्रत्याययतीव मे हृदयं ।।

९५४५-१ कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च ।
९५४५-२ ऊर्जं करोति कफजाश्च निहन्ति रोगांस् ताम्बूलमेवमपरांश्च गुणान्करोति ।।

९५४६-१ युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तं ।
९५४६-२ चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धं ।।

९५४७-१ पत्राधिकं निशि हितं सफलं दिवा च प्रोक्तान्यथाकरणमस्य विडम्बनैव ।
९५४७-२ कक्कोलपूगलवलीफलपारिजातैर् आमोदितं मदमुदा मुदितं करोति ।।

९५४८-१ कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामिनीव जलदोदरसंधिलीना ।
९५४८-२ त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु मुखराणि च नूपुराणि ।।

९५४९-१ कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः ।
९५४९-२ इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियां ।।

९५५०-१ कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
९५५०-२ अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।।

९५५१-१ कामं भवन्तु मधुलम्पटषट्पदौघ- संघट्टधुन्धुमघनध्वनयोऽब्जखण्डाः ।
९५५१-२ गायत्यतिश्रुतिसुखं विधिरेव यत्र भृङ्गः स कोऽपि धरणीधरनाभिपद्मः ।।

९५५२-१ कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च ।
९५५२-२ एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः ।।

९५५३-१ कामं मा कामयध्वं वृषमपि च भृशं माद्रियध्वं न वित्ते चित्तं दत्त श्रयध्वं परममृतफला या कला तामिहैकां ।
९५५३-२ इत्थं देवः स्मरारिर्वूषमधरचरीकृत्य मूर्त्यैव दित्सन् निःस्वो विश्वोपदेशानमृतकरकलाशेखरस्त्रायतां वः ।।

९५५४-१ कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः ।
९५५४-२ अभित्तिविहतालम्बं आलोकं विलिखेत्कथं ।।

९५५५-१ कामं वनेषु हरिणास् तृणेन जीवन्त्ययत्नसुलभेन ।
९५५५-२ विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ।।

९५५६-१ कामं वपुः पुलकितं नयने धृतास्रे वाचः सगद्गदपदाः सखि कम्पि वक्षः ।
९५५६-२ ज्ञातं मुकुन्दमुरलीरवमाधुरी ते चेतः सुधांशुवदने तरलीकरोति ।।

९५५७-१ कामं वाचः कतिचिदफलाः सन्तु लोके कवीनां सन्त्येवान्या मधुरिपुकथासंस्तवात्कामदोग्ध्र्यः ।
९५५७-२ वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः ।।

९५५८-१ कामं विषं च विषयाश्च निरीक्ष्यमाणाः श्रेयो विषं न विषयाः परिसेव्यमानाः ।
९५५८-२ एकत्र जन्मनि विषं विनिहन्ति पीतं जन्मान्तरेषु विषयाः परितापयन्ति ।।

९५५९-१ कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि स्तुतिस्ते ।
९५५९-२ लीलाप्रसूतपुरुषार्थचतुष्टयायास् तस्याः परं तु स भवत्यवयुक्त्यवादः ।।

९५६०-१ कामं शीर्णपलाशपत्ररचितां कन्थां वसानो वने कुर्यामम्बुभिरप्ययाचितसुखैः प्राणानुबन्धस्थितिं ।
९५६०-२ साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः ।।

९५६१-१ कामं शुनको नृपति- प्रसादतः स्याद्गजेन्द्रमौलिस्थः ।
९५६१-२ भवतेव तेन सह रे नार्दयितुं शक्यते जातु ।।

९५६२-१ कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं लोकं रोदयते भनक्ति जनतागोष्ठीं क्षणेनापि यः ।
९५६२-२ मार्गेऽप्यङ्गुलिलग्न एव भवतः स्वाभाविनः श्रेयसे हा स्वाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ।।

९५६३-१ कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः कामं वा कमनीयतापरिमलस्वाराज्यबद्धव्रताः ।
९५६३-२ नैवैवं विवदामहे न च वयं देव प्रियं ब्रूमहे यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता ।।

९५६४-१ कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति ।
९५६४-२ तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ।।

९५६४आ-१ कामं सुधाकरकरामृतदिव्यरूप- सौधाग्रपीठवसतिः सुखमस्तु काकः ।
९५६४आ-२ श्रीसुन्दरीरमणसङ्गमकण्ठलग्न- पूर्यत्सुधामणितजित्किमसौ कपोतः ।।

९५६५-१ कामं स्त्रियो निषेवेत पानं वा साधु मात्रया ।
९५६५-२ न द्यूतमृगये विद्वानत्यन्तव्यसने हि ते ।।

९५६६-१ कामं हरिर्भव विमूढ भवाथ चन्द्रश्चन्द्रार्धमौलिरथ वा हर एव भूयाः ।
९५६६-२ विद्याप्रणाशपरिवर्धितघोरदीप्तेः क्रोधानलस्य मम नेन्धनतां प्रयासि ।।

९५६७-१ कामः कमनीयतया किमपि निकामं करोति संमोहं ।
९५६७-२ विषमिव विषमं सहसा मधुरतया जीवनं हरति ।।

९५६८-१ कामः कामं कमलवदनानेत्रपर्यन्तवासी दासीभूतत्रिभुवनजनः प्रीतये जायतां वः ।
९५६८-२ दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता ।।

९५६९-१ कामः कुप्यति चन्द्रमा अपि बलान्मां दग्धुमभ्युद्यतो वाता वापि समागता यमदिशः प्राणान्निहर्न्तु तथा ।
९५६९-२ रक्ताक्षास्त्वरयन्ति तान्परभृताः स्वैः कूजनैर्दूति तथ्प्रेयांसं तमुपानयाश्वितरथा त्राणं न मे कुत्रचित् ।।

९५६९आ-१ कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः ।
९५६९आ-२ ज्ञातरत्नमपाहारि तस्माज्जाग्रत जाग्रत ।।

९५७०-१ कामः क्रोधश्च लोभश्च मानो हर्षो मदस्तथा ।
९५७०-२ एते हि षड्विजेतव्या नित्यं स्वं देहमाश्रिताः ।।

९५७१-१ कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।
९५७१-२ हर्षश्च शत्रवो ह्येते नाशाय कुमहीभृतां ।।

९५७१आ-१ कामः क्रोधश्च लोभश्च मोहो हर्षो मदस्तथा ।
९५७१आ-२ षड्वर्गमुत्सृजेदेनं यस्मिंस्त्यक्ते सुखी नृपः ।।

९५७१भ्-१ कामः क्रोधस्तथा मोहस्त्रयोऽप्येते महाद्विषः ।
९५७१भ्-२ एते न निर्जिता यावत्तावत्सौख्यं कुतो नृणां ।।

९५७२-१ कामः क्रोधस्तथा लोभो देहे तिष्ठन्ति तस्कराः ।
९५७२-२ ते मुष्णन्ति जगत्सर्वं तस्माज्जाग्रत जाग्रत ।।

९५७२आ-भ्-१ कामः क्रोधस्तथा लोभो रागो द्वेषश्च मत्सरः ।
९५७२आ-भ्-२ मदो माया तथा मोहः कन्दर्पो दर्प एव च ।।

९५७२आ-भ्-३ एते हि रिपवो घोरा धर्मसर्वस्वहारिणः ।
९५७२आ-भ्-४ एतैर्बम्भ्रम्यते जीवः संसारे बहुदुःखदे ।।

९५७३-१ कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।
९५७३-२ षड्वर्गमुत्सृजेदेनं तस्मिंस्त्यक्ते सुखी नृपः ।।

९५७४-१ कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ।
९५७४-२ एते वर्ज्याः प्रयत्नेन सादरं पृथिवीक्षिता ।।

९५७५-१ एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः ।
९५७५-२ कृत्वा भृत्यजयं राजा पौराञ्जनपदाञ्जयेत् ।।

९५७६-१ कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते ।
९५७६-२ स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजं ।।

९५७७-१ ... ... ... ... ।
९५७७-२ काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ।।

९५७८-१ काम एष महाशत्रुस्तमेकं निर्जयेद्दृढं ।
९५७८-२ जितकामा महात्मानस्तैर्जितं निखिलं जगत् ।।

९५७९-१ कामकारो महाप्राज्ञ गुरूणां सर्वदानघ ।
९५७९-२ उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।।

९५८०-१ कामकार्मुकतया कथयन्ति भ्रूलतां मम पुनर्मतमन्यत् ।
९५८०-२ लोचनाम्बुरुहयोरुपरिस्थं भृङ्गशावकततिद्वयमेतत् ।।

९५८१-१ कामक्रोधं तथा लोभं स्वादु शृङ्गारकौतुके ।
९५८१-२ अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ।।

९५८२-१ कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीं ।
९५८२-२ कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर ।।

९५८२आ-१ कामक्रोधभयादन्यैर्लोभ्यमानो न लुभ्यति ।
९५८२आ-२ यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ।।

९५८३-१ कामक्रोधमदोन्मत्ताः स्त्रीणां ये वशवर्तिनः ।
९५८३-२ न ते जलेन शुध्यन्ति स्नानतीर्थशतैरपि ।।

९५८४-१ कामक्रोधवियुक्तानां यतीनां यतचेतसां ।
९५८४-२ अभितो ब्रह्मनिर्वाणं वतैते विदितात्मनां ।।

९५८५-१ कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा ।
९५८५-२ षड्वर्गमुत्सृजेदेनं अस्मिंस्त्यक्ते सुखी नृपः ।।

९५८६-१ कामक्रोधादयः सर्वे मतिरक्षाण्यहंकृतिः ।
९५८६-२ गुणा विविधकर्माणि विलीयन्ते मनःक्षयात् ।।

९५८६आ-१ कामक्रोधादिभिस्तापैस्ताप्यमानो दिवानिशं ।
९५८६आ-२ आत्मा शरीरान्तस्थोसौ पच्यते पुटपाकवत् ।।

९५८७-१ कामक्रोधानृतद्रोहलोभमोहमदादयः ।
९५८७-२ नमन्ति यत्र राजेन्द्र तमेव ब्राह्मणं विदुः ।।

९५८८-१ कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
९५८८-२ धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ।।

९५८८आ-१ कामक्रोधावनिर्जित्य किमरण्ये करिष्यति ।
९५८८आ-२ अथवा निर्जितावेतौ किमरण्ये करिष्यति ।।

९५८९-१ कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति ।
९५८९-२ प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ।।

९५९०-१ कामक्रोधौ द्वयमपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेण ।
९५९०-२ यस्तु क्षान्त्या शमयति शतं मन्मथाद्यानरातीन् कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ।।

९५९१-१ कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति ।
९५९१-२ न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ।।

९५९२-१ कामक्रोधौ मद्यतमौ नियोक्तव्यौ यथोचितं ।
९५९२-२ कामः प्रजापालने च क्रोधः शत्रुनिबर्हणे ।।

९५९३-१ कामक्रोधौ विनिर्जित्य किमरण्यैः करिष्यति ।
९५९३-२ अन्नेन धार्यंते देहः कुलं शीलेन धार्यते ।।

९५९४-१ कामक्रोधौ हि पुरुषं अर्थेभ्यो व्यपकर्षतः ।
९५९४-२ तौ तु शत्रू विनिर्जित्य राजा विजयते महीं ।।

९५९५-१ कामघ्नाद्विषमदृशो भूत्यवलिप्ताद्भुजङ्गसङ्गरुचेः ।
९५९५-२ को भृङ्गीव न शुष्यति वाञ्छ न फलमीश्वरादगुणात् ।।

९५९६-१ कामजं मृगया द्यूतं स्त्रियः पानं तथैव च ।
९५९६-२ व्यसनं व्यसनार्थज्ञैश्चतुर्विधमुदाहृतं ।।

९५९७-१ काम जानामि ते मूलं संकल्पात्किल जायसे ।
९५९७-२ न त्वां संकल्पयिष्यामि समूलो न भविष्यसि ।।

९५९८-१ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
९५९८-२ वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ।।

९५९८आ-१ कामतन्त्रेषु निपुणः क्रुद्धानुनयकोविदः ।
९५९८आ-२ स्फुरितेऽनादरे किंचिद्दयिताया विरज्यति ।।

९५९९-१ कामतो रूपधारित्वं शस्त्रास्त्राश्माम्बुवर्षणं ।
९५९९-२ तमोऽनिलोऽचलो मेधा इति माया ह्यमानुषी ।।

९६००-१ जघान कीचकं भीम आश्रितः स्त्रीसरूपतां ।
९६००-२ चिरं प्रच्छन्नरूपोऽभूद्दिव्यया मायया नलः ।।

९६०१-१ कामदर्पादिशीलानां अविचारितकारिणां ।
९६०१-२ आयुषा सह नश्यन्ति सम्पदो मूढचेतसां ।।

९६०२-१ कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
९६०२-२ प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतं ।।

९६०२आ-१ कामधेनुधरादीनां दातारः सुलभा भुवि ।
९६०२आ-२ दुर्लभः पुरुषो लोके सर्वभूतदयापरः ।।

९६०३-१ कामनाम्ना किरातेन वितता मूढचेतसां ।
९६०३-२ नार्यो नरविहंगानां अङ्गबन्धनवागुराः ।।

९६०४-१ कामपि धत्ते सूकररूपी कामपि रहितामिच्छति भूपः ।
९६०४-२ केनाकारि च मन्मथजननं केन विराजति तरुणीवदनं ।।

९६०५-१ कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते ।
९६०५-२ तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत् ।।

९६०६-१ कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितं ।
९६०६-२ निवर्तयेत्तथा क्रोधादनुहादं हतात्मजं ।।

९६०७-१ कामबन्धनमेवैकं नान्यदस्तीह बन्धनं ।
९६०७-२ कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ।।

९६०८-१ कामबाणप्रहारेण मूर्च्छितानि पदे पदे ।
९६०८-२ जीवन्ति युवचेतांसि युवतीनां स्मितामृतैः ।।

९६०९-१ काममस्तु जगत्सर्वं कालस्यास्य वशंवदं ।
९६०९-२ कालकालप्रपन्नानां कालः किं नः करिष्यति ।।

९६१०-१ काममा मरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि ।
९६१०-२ न चैवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ।।

९६११-१ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
९६११-२ मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ।।

९६१२-१ कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च ।
९६१२-२ कर्षयन्त्योऽपि सर्वार्थाञ्ज्ञायन्ते नैव योषितः ।।

९६१३-१ कामयेत न हि क्षुद्रं अर्थं जातु महामनाः ।
९६१३-२ वर्धयेत स्वमौदार्यं प्रभावं च यशो भुवि ।।

९६१४-१ कामवर्षी च पर्जन्यो नित्यं सस्यवती मही ।
९६१४-२ गावश्च घटदोहिन्यः पादपाश्च सदाफलाः ।।

९६१५-१ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते ।
९६१५-२ यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ।।

९६१६-१ कामव्याघ्रे कुमतिफणिनि स्वान्तदुर्वारनीडे मायासिंहीविहरणमहीलोभभल्लूकभीमे ।
९६१६-२ जन्मारण्ये न भवति रतिः सज्जनानां कदाचिथ्तत्त्वज्ञानां विषयतुषिताकण्टकाकीर्णपार्श्वे ।।

९६१७-१ कामव्याधशराहतिर्न गणिता संजीवनी त्वं स्मृता नो दग्धो विरहानलेन झटिति त्वत्संगमाशाभृतैः ।
९६१७-२ नीतोऽयं दिवसो विचित्रलिखितैः सम्कल्परूपैर्मया किं वान्यद्हृदये स्थितासि ननु मे तत्र स्वयं साक्षिणी ।।

९६१८-१ कामसङ्गरविधौ मृगीदृशः प्रौढपेषणधरे पयोधरे ।
९६१८-२ स्वेदराजिरुदियाय सर्वतः पुष्पवृष्टिरिव पुष्पधन्वनः ।।

९६१८आ-१ कायस्तपस्विषु जयत्यधिकारकामो विश्वस्य चित्तविभुरिन्द्रियवाज्यधीशः ।
९६१८आ-२ भूतानि बिभ्रति महान्त्यपि यस्य शिष्टिं व्यावृत्तमौलिमणिरश्मिभिरुत्तमाङ्गैः ।।

९६१९-१ कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।
९६१९-२ दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ।।

९६२०-१ कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः ।
९६२०-२ उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ।।

९६२१-१ कामस्य कश्चिच्चतुरः शरांश्चेद्विलङ्घयामास कथंचिदन्यान् ।
९६२१-२ उन्मज्जता कोकिलकण्ठयन्त्राथ्न पञ्चमास्त्रेण वशीवभूव ।।

९६२२-१ कामस्य जेतुकामस्य मिलनाय महीपतेः ।
९६२२-२ दिवो मीनं त्विषामीशो द्वारीकर्तुमिवाययौ ।।

९६२३-१ कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।
९६२३-२ नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानां ।।

९६२४-१ कामस्यापि निदानमाहुरपरे मायां महाशासनां निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीं ।
९६२४-२ यत्सङ्गाद्भगवानपि प्रभवति प्रत्यङ्महामोहहा श्रीरङ्गो भुवनोदयावनलयव्यापारचक्रेऽक्रियः ।।

९६२५-१ कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुं ।
९६२५-२ न हि दुष्टात्मनामार्य मा वसत्यालये चिरं ।।

९६२६-१ कामाग्निः परिवर्धितो विरहिणीश्वासानिलैर्निर्भरं तूर्णं तेन कृशानुना कृशतनुर्मुग्धा न दग्धा कथं ।
९६२६-२ बाला लोलविलोचनाम्बुजगलत्सद्वारिधाराभरैः सिक्ता सम्प्रति तेन जीवसि हरे तां त्वं समुल्लासय ।।

९६२७-१ कामतुरो नाधिगच्छेन्महापुरुषकामिनीं ।
९६२७-२ सहस्रयोनिदेहोऽभूदिन्द्रोऽहल्यापरिग्रहात् ।।

९६२८-१ कामात्क्रोधाद्भयादन्यैर्लोभ्य्मानो न लुम्पति ।
९६२८-२ यया शक्त्या युतः कार्ये मन्त्रशक्तिस्तु सा स्मृता ।।

९६२९-१ कामात्क्लाम्यसि का रीतिर्नारीति नरकाभिधा ।
९६२९-२ मलमज्जामयी मांसस्थगी किं न विगीयते ।।

९६३०-१ कामात्मता न प्रशस्ता न चैवास्त्यकामता ।
९६३०-२ काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ।।

९६३१-१ कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं मर्त्यानामिति देवमौलिविलसद्भ्राजिष्णुचूडामणिः ।
९६३१-२ श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभुर् यस्मात्तत्त्रिकमुद्यतेन मनसा हेयं पुमर्थार्थिना ।।

९६३२-१ कामाधिकरणग्राह्यकुलादिबलशालिनः ।
९६३२-२ अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ।।

९६३३-१ कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
९६३३-२ रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ।।

९६३४-१ कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैर्महतु स्तनौ ते ।
९६३४-२ रुष्टाद्रिजाचरणकुङ्कुमपङ्कराग संकीर्णशङ्करशशाङ्ककलाङ्क कारैः ।।

९३६५-१ कामानुसारी पुरुषः कामाननु विनश्यति ।
९३६५-२ कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ।।

९६३६-१ कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ।
९६३६-२ कामक्रोधोद्भवं दुःखं अह्रीररतिरेव च ।।

९६३७-१ कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते ।
९६३७-२ स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ।।

९६३८-१ कामा मनुष्यं प्रसजन्त एव धर्मस्य ये विघ्नमूलं नरेन्द्र ।
९६३८-२ पूर्वं नरस्तान्धृतिमान्विनिघ्नन् लोके प्रशंसां लभतेऽनवद्यां ।।

९६३९-१ कामाय स्पृहयत्यात्मा संयतोऽपि मनीषिणः ।
९६३९-२ वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ।।

९६४०-१ कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीं ।
९६४०-२ सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ।।

९६४१-१ कामार्तां स्वस्त्रियं दीनां प्रार्थयन्तीं पुनः पुनः ।
९६४१-२ न भजेद्भजमानां यः स वै चाण्डालदर्शनः ।।

९६४१आ-१ कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः ।
९६४१आ-२ युवानमाकुलीकर्तुं इति दूत्याह नर्मणा ।।

९६४१भ्-१ कामार्थमज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि ।
९६४१भ्-२ कामार्थमाशाकृपणस्तपस्वी मृर्त्यु श्रमं चाच्छति जीवलोकः ।।

९६४२-१ कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
९६४२-२ न हि धर्मादपैत्यर्थः कामो वापि कदाचन ।।

९६४२आ-१ कामाल्लोभाद्भयात्क्रोधात्साक्षिवादात्तथैव च ।
९६४२आ-२ मिथ्या वदति यत्पापं तदसत्यं प्रकीर्तितं ।।

९६४२भ्-१ कामावेशः कैतवस्योपदेशः मायाकोशो वञ्चनासन्निवेशः ।
९६४२भ्-२ निर्द्रव्याणामप्रसिद्धप्रवेशो रम्यक्लेशः सुप्रवेशोऽस्तु वेशः ।।

९६४३-१ कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सं ।
९६४३-२ सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ।।

९६४४-१ कामिनः कृतरतोत्सवकाल- क्षेपमाकृलवधूकरसङ्गि ।
९६४४-२ मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानं ।।

९६४५-१ कामिनश्चरितैरेभिः कुर्वन्तो निशि जागरं ।
९६४५-२ कुर्वन्त्यप्रियमात्मानं केचिन्मूढाः प्रिया अपि ।।

९६४५आ-१ कामिनां कामिनीनां च सङ्गात्कामी भवेत्पुमान् ।
९६४५आ-२ देहान्तरे ततः क्रोधी लोभी मोही च जायते ।।

९६४६-१ कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः ।
९६४६-२ अक्रियन्त कठिनेषु कथंचिथ्कामिनीकुचतटेषु पदानि ।।

९६४७-१ कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनां ।
९६४७-२ उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ।।

९६४८-१ कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
९६४८-२ मा संचर मनःपान्थ तत्रास्ते स्मरतस्करः ।।

९६४८आ-१ कामिनीजनविलोचनपाता- नुन्मिषत्कलुषान्प्रतिगृह्णन् ।
९६४८आ-२ मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ।।

९६४९-१ कामिनीनयनकज्जलपङ्कादुत्थितो मदनमत्तवराहः ।
९६४९-२ कामिमानसवनान्तरचारी मूलमुत्खनति मानलतायाः ।।

९६५०-१ कामिनीवदननिर्जितकान्तिः शोभितुं न हि शशाक शशाङ्कः ।
९६५०-२ लज्जयेव विमलं वपुराप्तुं शीधुपूर्णचषकेषु ममज्ज ।।

९६५१-१ कामिनीवर्गसंसर्गैर्न कः संक्रान्तपातकः ।
९६५१-२ नाश्नाति स्नाति हा मोहात्कामक्षामव्रतं जगत् ।।

९६५२-१ कामिनीसहचरस्य कामिनस् तस्य वेश्मसु मृदङ्गनादिषु ।
९६५२-२ ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ।।

९६५३-१ कामिनो हन्त हेमन्तनिशि शीतज्वरातुराः ।
९६५३-२ जीवन्ति हरिणाक्षीणां वक्षोजाश्लेषरक्षिताः ।।

९६५४-१ कामिन्याः कुचदुर्गपर्वतभुवि त्वं मा मनःपान्थक संचारं कुरु र्ॐअराजिगहने तत्रास्ति नाभ्यां गुहा ।
९६५४-२ तल्लीनो मधुसूदनम्य तनयस्तेनात्र चौरेण भो निर्वस्त्रीक्रियते दिवापि हि नरो रात्रौ तु किं कथ्यते ।।

९६५५-१ कामिन्याः कुचयोः कान्तिः पीनत्वेन पुरस्कृता ।
९६५५-२ सुवर्णाचलशृङ्गाभां विनिर्जेतुं समुद्यता ।।

९६५६-१ कामिन्याः स्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः कन्दर्पैकविलासनित्यवसतेः कीदृक्पुमान्वल्लभः ।
९६५६-२ हेलाकृष्टकृपाणपारितगजानीकात्कुतस्तेऽरयः श्व्रासायासविशुष्ककण्ठकुहरा निर्यान्ति जीवार्थिनः ।।

९६५७-१ कामिन्यो नीचगामिन्यस्तटिन्य इव निश्चितं ।
९६५७-२ दारा राज्ञोऽपि यत्ताराः प्रणयं यान्ति गोपतेः ।।

९६५८-१ कामी कामव्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रं ।
९६५८-२ इत्थंकारं विषयसुखभोगैकतानैर्नरैरप्य् अस्मिन्देहे कतिपयदिनान्येष भोगो विवर्ज्यः ।।

९६५९-१ कामुकाः स्युः कथा नीचाः सर्वः कस्मिन्प्रमोदते ।
९६५९-२ अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किं ।।

९६६०-१ कामुके नूतनासङ्गगाढालिङ्गनकातरे ।
९६६०-२ गणिका गेहगणनां करोति ध्यानमास्थिता ।।

९६६१-१ कामुके भ्रमरः प्रोक्तः कामिन्यां चूतमञ्जरी ।
९६६१-२ तथाह्वानाङ्कुराश्चापि प्राकारो वारणे स्मृतः ।।

९६६२-१ कामुज्जहार हरिरम्बुधिमध्यलग्नां कीदृक्श्रुतं भवति निर्मलमागमानां ।
९६६२-२ आमन्त्रयस्व वनमग्निशिखावलीढं यच्चापि को दहति के मदयन्ति भृङ्गान् ।।

९६६३-१ कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टां ।
९६६३-२ नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुं ।।

९६६४-१ का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थं ।
९६६४-२ तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ।।

९६६५-१ का मेघादुपयाति, कृष्णदयिता का वा, सभा कीदृशी, कां रक्षत्यहिहा, शरद्विकचयेत्कं, धैर्यहन्त्री च का ।
९६६५-२ कं धत्ते गणनायकः करतले, का चञ्चला कथ्यताम्, आरोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरं ।।

९६६६-१ कामेन कामं प्रहिता जवेन प्रावृट्चचाल त्रिजगद्विजेतुं ।
९६६६-२ किं चन्द्रबिम्बं दधि भक्षयत्नी संधारयन्ती हरितः शुभाय ।।

९६६७-१ कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीरैर् भ्रूभङ्गोत्क्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन ।
९६६७-२ सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्यो योगपीठादचलित इति वः पातु दृष्टो मुनीद्रः ।।

९६६८-१ कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानां ।
९६६८-२ मूढविशिखप्रहारो- च्छूनमिवाभाति यद्वक्षः ।।

९६६९-१ कामेषुणा कामरिपोर्मनोऽपि कल्लोलितं का मनुजेषु वार्ता ।
९६६९-२ आषाढवाते चलति द्विपेन्द्रे चूलीवतो वारिधिरेव काष्ठा ।।

९६७०-१ कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
९६७०-२ तं तं नियममास्थाय प्रकृत्या नियताः स्वया ।।

९६७१-१ कामोऽक्षमा दक्षिणतानुकम्पा ह्रीः साध्वसं क्रौर्यमनायैता च ।
९६७१-२ दम्भोऽभिमानोऽथ च धार्मिकत्वं दैन्यं स्वयूथस्यविमाननं च ।।

९६७२-१ द्रोहो भयं शश्वदुपेक्षणं च शीतोष्णवर्षास्वसहिष्णुता च ।
९६७२-२ एतानि काले समुपाहितानि कुर्वन्त्यवश्यं खलु सिद्धिविघ्नं ।।

९६७३-१ कामोत्तप्तं मरकतमहाग्रावहारो गभीरे मग्नं नाभीसरसि हृदयं जग्रसेऽनेकपं मे ।
९६७३-२ लिलावेशप्रचलितकरः कोऽप्यहीनारिकेतुस् तद्भङ्गेन प्रतिविधिमिहैवानुरूपं व्यतानीत् ।।

९६७४-१ कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारं ।
९६७४-२ दारिद्र्यहतं यौवनं अबुधानां केवलं विपदे ।।

९६७५-१ कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचकासु सततं नास्ति स्थिरत्वं स्त्रियः ।
९६७५-२ धर्मो नास्ति च नास्ति कस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ।।

९६७६-१ कामोपभोगसाफल्यफलो राज्ञां महीजयः ।
९६७६-२ अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया ।।

९६७७-१ कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां स्वःशाखी विदुषां गुरुर्गुणवतां पार्थो धनुर्धारिणां ।
९६७७-२ लीलावासगृहं कुलाकुलजुषां कर्णः सुवर्णार्थिनां श्रीमान्वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि ।।

९६७८-१ काम्बोजाः कम्बुजन्माकरशरणकृतः सह्यकान्तारकच्छा- न्विच्छायाः कच्छवाहा विदधति कतमे कामरूपाः कुरूपाः ।
९६७८-२ कुर्वाणे त्वय्यकस्मात्करकमलहृतं कार्मुकं कूर्मपृष्ठो- त्कृष्टं कर्णान्तकृष्टं नरपकुलमणे कर्णमाकर्णयन्ति ।।

९६७९-१ काम्याः क्रियास्तथा कामान्मानुषानभिवाञ्छति ।
९६७९-२ स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवं ।।

९६८०-१ देवत्वममरेशत्वं रसायनचयः क्रियाः ।
९६८०-२ मरुत्प्रपतनं यज्ञं जलाद्यावेशनं तथा ।।

९६८१-१ श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ।
९६८१-२ तथोपवासात्पूर्त्ताच्च देवताभ्यर्च्चनादपि ।।

९६८२-१ तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति ।
९६८२-२ चित्तमित्थं वर्त्तमानं यत्नाद्योगी निवर्त्तयेत् ।।

९६८३-१ काम्यानां कतिचित्समापरिमितस्वर्गैकसंदायिनां सद्यः स्वान्तनितान्तमोहनकृतां कर्ता जनः कर्मणां ।
९६८३-२ आत्मानन्दमनन्यवेद्यमपरिच्छिन्नं न जानाति तं विक्रेता लवणस्य वेत्ति किमु तत्कर्पूरमूल्यं परं ।।

९६८४-१ काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
९६८४-२ सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ।।

९६८५-१ कायं मत्वा नश्वरं चञ्चलाभं चायुर्बुद्ध्वा भङ्गुरान्सर्वभोगान् ।
९६८५-२ पारं गन्तुं विश्वसिन्धोर्विदग्धा योगाभ्यासे साधुबुद्धिं विदध्वं ।।

९६८६-१ कायः कण्टकदूषितो न च घनच्छाया कुतः पल्लवाः पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।
९६८६-२ किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे तद्भोः केन गुणेन शाल्मलितरो जातोऽसि स्ॐअद्रुमः ।।

९६८७-१ कायः संनिहितापायः संपदः पदमापदां ।
९६८७-२ समागमाः सापगमाः सर्वमुत्पादि भङ्गुरं ।।

९६८७आ-१ कालक्लमैर्यश्च तपोऽभिधानैः प्रवृत्तिमाकाङ्क्षति कामहेतोः ।
९६८७आ-२ संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्छति दुःखमेव ।।

९६८८-१ कायक्लेशेन महता पुरुषः प्राप्नुयात्फलं ।
९६८८-२ तत्सर्वं लभते नारी सुखेन पतिपूजया ।।

९६८९-१ कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस्तथा ।
९६८९-२ तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारकोद्भवाः ।।

९६८९आ-१ कायवाङ्मनसां दुष्टप्रणिधानमनादरः ।
९६८९आ-२ स्मृत्यनुपस्थापनं च स्मृताः सामायिकव्रते ।।

९६९०-१ कायस्थस्य च शल्यस्य कायस्थस्य च सा गतिः ।
९६९०-२ याभ्यामनुप्रविष्टाभ्यां दूष्यन्ते सर्वधातवः ।।

९६९१-१ कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।
९६९१-२ अन्त्राणि यन्न भुक्तानि तस्य हेतुरदन्तता ।।

९६९२-१ कायस्थैर्यं करणपटुतां बन्धुसम्पत्तिमर्थं चातुर्यं वा किमिव हि बलं बिभ्रतो निर्भराः स्मः ।
९६९२-२ अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ।।

९६९३-१ कायेन कुरुते पापं मनसा सम्प्रधार्य च ।
९६९३-२ अनृतं जिह्वया चाह त्रिविधं कर्म पातकं ।।

९६९४-१ कायेन त्रिविधं चैव वाचा चैव चतुर्विधं ।
९६९४-२ मनसा त्रिविधं नित्यं दशाधर्मपथांस्त्यजेत् ।।

९६९५-१ कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
९६९५-२ योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।।

९६९५आ-१ काये सीदति कण्ठरोधिनि कफे कुण्ठे च वाणीपथे जिह्मायां दृशि जीविते जिगमिषौ श्वासे शनैः शाम्यति ।
९६९५आ-२ आगत्य स्वयमेव नः करुणया कात्यायनीवल्लभः कर्णे वर्णयताद्भवार्णवभयादुत्तारकं तारकं ।।

९६९६-१ कारञ्जीः कूजयन्तो निजजठररवव्यञ्जिता बौजकोशिर् उत्पाकान्कृष्णलानां पृथुसुषिरगताञ्शिम्बिकान्पारयन्तः ।
९६९६-२ झिल्लीकाझल्लरीणां बधिरितभुवनं झंकृतं खे क्षिपन्तः शिञ्जानाश्वत्थपत्रप्रकरझणझणाराविणो वान्ति वाताः ।।

९६९७-१ कारणाकारणध्वस्तं कारणाकारणागतं ।
९६९७-२ यो मित्रं समुपेक्षेत स मृत्युमुपगूहति ।।

९६९७आ-१ कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
९६९७आ-२ अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ।।

९६९८-१ कारणान्मित्रतां एति कारणाद्याति शत्रुतां ।
९६९८-२ तस्मान्मित्रत्वं एवात्र योज्यं वैरं न धीमता ।।

९६९९-१ कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
९६९९-२ स गृह्णाति विषोन्मादं कृष्णसर्पप्रदंशितः ।।

९७००-१ कारणेनैव जायन्ते मित्राणि रिपवस्तथा ।
९७००-२ रिपवो येन जायन्ते कारणं तत्परित्यजेत् ।।

९७०१-१ कारणैः सदृशं कार्यं इति मिथ्या प्रसिद्धयः ।
९७०१-२ मानिनो भवतो जातं यदमानं यशो भुवि ।।

९७०२-१ कारणोत्पन्नकोपोऽपि साम्प्रतं प्रमदाजनः ।
९७०२-२ निशि शीतापदेशेन गाढमालिङ्गति प्रियं ।।

९७०३-१ कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसचयाकुलतीरदेशाः ।
९७०३-२ कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं सरोरुहरजोऽरुणितास्तटिन्यः ।।

९७०४-१ कारय नाम्ब विलम्बं मुञ्च करं मे हरिं यामि ।
९७०४-२ न सहे स्थातुं यदसौ गर्जति मुरली प्रगल्भदूतीव ।।

९७०५-१ कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
९७०५-२ अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ।।

९७०६-१ कारासंतानकूटस्य संसारवनवागुरा ।
९७०६-२ स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ।।

९७०७-१ कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानां ।
९७०७-२ माया मोहमतीनां कृतघ्नता नरकपातहेतूनां ।।

९७०८-१ कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते ।
९७०८-२ चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ।।

९७०९-१ कारुण्यपुण्यसत्सद्म कुरु त्वं जनबान्धव ।
९७०९-२ मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदं ।।

९७१०-१ कारुण्यामृतकन्दलीसुमनसः प्रज्ञावधूमौक्तिक- ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः ।
९७१०-२ ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ।।

९७११-१ कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदं ।
९७११-२ चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारता पापहं ।।

९७११आ-१ कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता सन्तोषेण परार्थचौर्यपटुता शीलेन रागान्धता ।
९७११आ-२ नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैयौवनेऽपि स्फुटं पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ।।

९७१२-१ कारुण्येनात्मनो मानं तृष्णां च परितोषतः ।
९७१२-२ उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् ।।

९७१३-१ कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कचसंचये च वचने मान्द्यं त्रिके स्थूलता ।
९७१३-२ भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये यासां दोषगणो गुणो मृगदृशां ताः स्युः पशूनां प्रियाः ।।

९७१४-१ कार्कश्यलौल्यनैवर्ण्यं हिंसाचापल्यमूर्खताः ।
९७१४-२ क्रोधावमानदुःखं च स्त्रीणां स्वाभाविका गुणाः ।।

९७१५-१ कार्णाटीकेलिवाटीविटपिनवदलान्दोलनाश्चोलबाला- चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षभाजः ।
९७१५-२ वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदान् गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ।।

९७१६-१ कार्णाटी स्वर्णकर्णाभरणपरिमिलन्मौक्तिकेष्वम्बुलेशैर् यस्याः संपृक्तमात्रेष्विदमजनि महच्चित्रमुच्चण्डमेव ।
९७१६-२ सङ्कीर्णे ताम्रपर्णीजललहरिभरैरर्णवे शुक्तयो यथ्सार्धं क्रीडन्ति शच्या शमयतु विपदोऽह्नाय सा जाह्नवी नः ।।

९७१७-१ कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते ।
९७१७-२ यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ।।

९७१८-१ कार्त्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनं ।
९७१८-२ सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ।।

९७१९-१ कार्त्स्न्येन निर्वर्णयितुं च रूपं इच्छन्ति तत्पूर्वसमागमानां ।
९७१९-२ न च प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि ।।

९७२०-१ कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ।
९७२०-२ अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनां ।।

९७२१-१ कार्पण्यवृत्तिः स्वजनेषु निन्दा कुचेलता नीचजनेषु भक्तिः ।
९७२१-२ अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य ।।

९७२२-१ कार्पण्येन यशः, क्रुधा गुणचयो, दम्भेन सत्यं, क्षुधा मर्यादा, व्यसनैर्धनं च, विपदा स्थैर्यं, प्रमादैर्द्विजः ।
९७२२-२ पैशुन्येन कुलं, मदेन विनयो, दुश्चेष्टया पौरुषं दारिद्र्येण जनादरो, ममतया चात्मप्रकाशो हतः ।।

९७२३-१ कार्पासं कटिनिर्मुक्तं कौशेयं भोजनावधि ।
९७२३-२ ऊर्णवस्त्रं सदा शुद्धं ऊर्णा वातेन शुध्यति ।।

९७२४-१ कार्पासकृतकूर्पासशतैरपि न शाम्यति ।
९७२४-२ शीतं शातोदरीपीनवक्षोजालिङ्गनं विना ।।

९७२५-१ कार्पासकोशोज्ज्वलकेशसंचया पयोधरालिङ्गितमन्मथालया ।
९७२५-२ गल्लौ जरद्गल्लकसंनिभावुभौ तथापि रण्डा सुरतं न मुञ्चति ।।

९७२६-१ कार्पासौषधकृष्णधान्यलवणक्लीबास्थितैलं वसा- पङ्काङ्गारगुडाहिवर्मशकृतक्लेशाय सव्याधिताः ।
९७२६-२ वान्तोन्मत्तजटीन्धनानि च तृणक्षुत्क्षामतक्रादयो मुण्ड्यभ्यक्तविमुक्तकेशपलिताः काषायिणश्चाशुभाः ।।

९७२६आ-१ कार्यं च किं ते परदोषदृष्ट्या कार्यं च किं ते परचिन्तया च ।
९७२६आ-२ वृषा कथं खिद्यसि बालबुद्धे कुरु स्वकार्यं त्यज सर्वमन्यान् ।।

९७२७-१ कार्यं च शान्तदीप्तं जात्वा विद्वान्विचारयेत्सर्वं ।
९७२७-२ शान्ते शान्तं ग्राह्यं दीप्ते दीप्तं च गृह्णीयात् ।।

९७२८-१ कार्यं चावेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
९७२८-२ कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ।।

९७२९-१ कार्यं तत्साधकादींश्च तद्व्ययं सुविर्निर्गमं ।
९७२९-२ विचिन्त्य कुरुते ज्ञानी नत्न्यथा लघ्वपि क्वचित् ।।

९७३०-१ कार्यं यावदिवं कर्ॐइ विधिवत्तावत्करिष्याम्यदस् तत्कृत्वा पुनरेतदद्य कृतवानेतत्पुरा कारितं ।
९७३०-२ इत्यात्मीयकुटुम्बपोषणपरः प्राणी क्रियाव्याकुलो मृत्योरेति करग्रहं हतमतिः संत्यक्तधर्मक्रियः ।।

९७३१-१ कार्यं शक्तावपि प्राणेस्त्राणं शरणमागते ।
९७३१-२ निजतृष्ठानुगं धातुं प्रदीपः किं न रक्षति ।।

९७३१आ-१ कार्यः कश्चिद्वरो दूतः सकुलश्चतुरोऽपि च ।
९७३१आ-२ कुलशीलविहीनस्तु सिर्द्धि नाशयति ध्रुवं ।।

९७३२-१ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
९७३२-२ पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।।

९७३३-१ कार्यकाले तु संप्राप्ते नावज्ञेयं त्रयं सदा ।
९७३३-२ बीजमौषधमाहारो यथा लाभस्तथा क्रयः ।।

९७३४-१ कार्यकाले विपत्तौ यो भृत्यो हि याचते धनं ।
९७३४-२ सोत्सारणीयः सपदि नीतिज्ञावनिपालकैः ।।

९७३५-१ कार्यकालोचिता पापैर्मतिबुद्धिर्विहीयते ।
९७३५-२ सानुकूला तु वैदैवात्पुंसः सर्वत्र जायते ।।

९७३६-१ कार्यगतेर्वैचित्र्या- न्नीचोऽपि क्वचिदलं न जातु महान् ।
९७३६-२ कांस्येनैवादर्शः क्रियते राज्ञामपि न हेम्ना ।।

९७३७-१ कार्यज्ञः प्रष्टव्यो न पुनर्मान्यो मम प्रियो वेति ।
९७३७-२ गुरुरप्यासनसेव्यः प्रियानितम्बः कदा मन्त्री ।।

९७३८-१ कार्यते यच्च क्रियते सच्चासच्च कृतं ततः ।
९७३८-२ तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ।।

९७३९-१ कार्यमालोचितापायं मतिमद्भिर्विचेष्टितं ।
९७३९-२ न केवलं हि सम्पत्तौ विपत्तावपि शोभते ।।

९७४०-१ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
९७४०-२ सङ्गं त्यक्त्वा फलं चैव सत्त्यागः सात्त्विको मतः ।।

९७४१-१ कार्यस्य हि गरीयस्त्वान्नीचानामपि कालवित् ।
९७४१-२ सतोऽपि दोषान्प्रच्छाद्य गुणानप्यसतो वदेत् ।।

९७४२-१ कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते ।
९७४२-२ सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ।।

९७४३-१ कार्याकार्यमनार्यैर् उन्मार्गनिरर्गलैर्गलन्मतिभिः ।
९७४३-२ नाकर्ण्यते विकर्णैर् नयोक्तिभिर्युक्तमुक्तमपि ।।

९७४४-१ कार्याकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः ।
९७४४-२ एवं देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ।।

९७४५-१ कार्याकार्ये तुलयति सर्वस् तृप्तो न जातु तृष्णार्तः ।
९७४५-२ स्वादु शुचि वा च तोयं मरुपथिकः को विचारयति ।।

९७४६-१ कार्याकार्येषु काकोलः प्रशस्तः स्याद्यथा किल ।
९७४६-२ न तथा वायसा ज्ञेया ग्राह्यास्तु तदभावतः ।।

९७४७-१ कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।
९७४७-२ ... ... ... ... ... ... ।।

९७४८-१ कार्याणां गतयो भुजंगकुटिलाः स्त्रीणां मनश्चञ्चलं नैश्वर्यं स्थितिमत्तरंगचपलं न्णां वयो धावति ।
९७४८-२ संकल्पाः समदाङ्गनाक्षितरला मृत्युः परं निश्चितो मत्यैवं मतिसत्तमा विदधतां धर्मे मतिं तत्त्वतः ।।

९७४९-१ कार्याण्यर्थोपमर्देन स्वानुरक्तोऽपि साधयन् ।
९७४९-२ नोपेक्ष्यः सचिवो राज्ञा स तं मथ्नात्युपेक्षितः ।।

९७५०-१ कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैऽव ते मन्त्रिणः ।
९७५०-२ निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस् तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलां ।।

९७५१-१ कार्या न प्रतिकूलता न च बहिर्गन्तव्यमस्माद्गृहाथ्कोपश्च क्षणमात्रमाहितरुषा कार्यः प्रणामावधिः ।
९७५१-२ इत्येवं प्रमदाव्रतं यदि भवान्गृह्णाति नात्यन्तिकं तत्राहं दयितीभवामि शठ हे कोपानुबन्धेन किं ।।

९७५२-१ कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण ।
९७५२-२ अविनोददीर्घयामा कथं नु रात्रिर्गमयितव्या ।।

९७५३-१ कार्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्तदिशि प्रदिष्टा ।
९७५३-२ शिवा प्रदीप्ते तु दिशःप्रदेशे समारटन्ती महते भयाय ।।

९७५४-१ कार्यापेक्षी जनः प्रायः प्रीतिमाविष्करोत्यलं ।
९७५४-२ ल्ॐआर्थी शौण्डिकः शष्पैर्मेषं पुष्णाति पेशलैः ।।

९७५५-१ कार्यारम्भः फलोल्लासं आलोक्य प्रायशो जनैः ।
९७५५-२ अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ।।

९७५६-१ कार्यार्थिनः क्षीणतरस्य नैव निःशेषकार्यं कुटिलस्य कुर्यात् ।
९७५६-२ दोषाकरः प्राप्तविवृद्धदर्पः पलायते दूरतरं हि मित्रात् ।।

९७५७-१ कार्यार्थिनो दीर्घमिवाध्वखेदं विक्रीतदासा इव कर्मभारं ।
९७५७-२ कष्टं कटुद्रव्यमिवामयार्ताः स्वभर्तृगेहं वनिता सहन्ते ।।

९७५८-१ कार्यार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्राणि ।
९७५८-२ दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ।।

९७५९-१ कार्यार्थी भजते लोके यावत्कार्यं न सिध्यति ।
९७५९-२ उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनं ।।

९७६०-१ कार्यार्थी भजते लोको न प्रियः पारमार्थिकः ।
९७६०-२ वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरं ।।

९७६१-१ कार्यार्थी संगतिं याति कृतार्थे नास्ति संगतिः ।
९७६१-२ तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ।।

९७६२-१ कार्यावेतौ हि कालेन धर्मो हि विजयावहः ।
९७६२-२ त्रयाणामपि लोकानां आलोककरणो भवेत् ।।

९७६३-१ कार्यासमर्थे महति न कुर्यात्परिहासकं ।
९७६३-२ लम्बोदरं नत्यशक्तं अप्रेष्योऽभूच्छशी हसन् ।।

९७६४-१ कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
९७६४-२ शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीं ।।

९७६५-१ कार्यं कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् ।
९७६५-२ पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।।

९७६६-१ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।
९७६६-२ यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ।।

९७६७-१ कार्येण लोके निजधर्मगर्हणा विचारचर्चाचरणैस्तु यैर्भुवि ।
९७६७-२ स्यात्तन्न कार्यं सुहितावहं भवदपीह भव्यं स्वविचारदृष्टितः ।।

९७६७आ-१ कार्येणापि विलम्बनं परगृहे श्वश्रूर्न संमन्यते शङ्कामारचयन्ति यूनि भवनं प्राप्ते मिथो यातरः ।
९७६७आ-२ वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा ननान्दा पुनः कष्टं हन्त मृगीदृशां पतिगृहं प्रायेण कारागृहं ।।

९७६८-१ कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः ।
९७६८-२ कार्ये सिद्धे श्रमो न स्यादसिद्धे श्रम एव हि ।।

९७६९-१ कार्ये दासी रतौ वेश्या भोजने जननीसमा ।
९७६९-२ विपत्तौ बुद्धिदात्री च सा भार्या सर्वदुर्लभा ।।

९७६९आ-१ कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया ।
९७६९आ-२ स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च ।
९७६९आ-३ मूर्खामात्यप्रतप्तानि शुष्यन्ति जलबिन्दुवत् ।।

९७७०-१ कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा ।
९७७०-२ धर्मेऽनुकूला क्षमया धरित्री भार्या च षाड्गुण्यवतीह धन्या ।।

९७७१-१ कार्येषु मन्त्री करणेषु दासी स्नेहेषु माता क्षमया धरित्री ।
९७७१-२ धर्मस्य पत्नी शयने च वेश्या षट्कर्मभिः स्त्री कुलमुद्धरन्ति ।।

९७७२-१ कार्ये सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती गुरुजनं श्वश्रूं च शुश्रूषते ।
९७७२-२ विस्रम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुनर् निद्राणे सकले जने शशिमुखी निर्याति रन्तुं विटैः ।।

९७७३-१ कार्येहानुसरणतो वारंवारं परं पुमांसमनु ।
९७७३-२ यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनं ।।

९७७४-१ कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छन् बीजानां गर्भितानां फलमतिगहनं गूढमुद्भेदयंश्च ।
९७७४-२ कुर्वन्बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन्कार्यजातं कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा ।।

९७७५-१ कार्श्यं क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले ।
९७७५-२ एतान्येव गृहे वहन्त्यवनतिं यान्त्युन्नतिं कानने दोषा एव गुणीभवन्ति मुनिभिर्योग्ये पदे योजिताः ।।

९७७६-१ कार्श्यं चेत्प्रतिपत्कला हिमनिधेः स्थूलाथ चेत्पाण्डिमा लीला एव मृणालिका यदि घना बाष्पाः कियान्वारिधिः ।
९७७६-२ सन्तापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यते राम त्वत्स्मृतिमात्रमेव हृदये लावण्यशेषं वपुः ।।

९७७७-१ कार्श्यजागरसन्तापान्यः करोति श्रुतोऽप्यलं ।
९७७७-२ तमेव दुर्लभं कान्तं चेतः कस्माद्दिदृक्षते ।।

९७७८-१ कार्षकः सर्वबीजानि समालोड्य प्रवापयेत् ।
९७७८-२ उत्पन्नबीजसद्भावं त्वङ्कुरेण विभावयेत् ।।

९७७९-१ कालं कपालमालाङ्कं एकमन्धकसूदनं ।
९७७९-२ वन्दे वरदमीशानं शासनं पुष्पधन्वनः ।।

९७८०-१ कालं नियम्य कर्माणि ह्याचरेन्नान्यथा क्वचित् ।
९७८०-२ गवादिष्वात्मवज्ज्ञानं आत्मानं चार्थधर्मयोः ।
९७८०-३ नियुञ्जीतान्नसंसिद्ध्यै मातरं शिक्षणे गुरुं ।।

९७८१-१ कालं निरीक्ष्य कुरुते कार्यं तस्याशु सिध्यति ।
९७८१-२ ग्रहं विचार्य क्रीडायां दीव्यतो न पराजयः ।।

९७८२-१ कालं पुरा गरलमम्बुनिधेरुदस्थादद्येन्दुनाम धवलं विषमभ्युदेति ।
९७८२-२ अद्यादिदं स गिरिशो यदि हन्त हन्याथ्कार्ष्ण्यं स्वकण्ठनिहितं सखि मद्भयं च ।।

९७८३-१ कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तं ।
९७८३-२ रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ।।

९७८४-१ कालः करोति कार्याणि काल एव निहन्ति च ।
९७८४-२ कर्ॐईति विहन्मीति मूर्खो मुह्यति केवलं ।।

९७८५-१ कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्बिपस्य ।
९७८५-२ तस्येव सन्ध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ।।

९७८६-१ कालः पचति भूतानि कालः संहरते प्रजाः ।
९७८६-२ कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।।

९७८७-१ कालः पचति भूतानि कालः संहरति प्रजाः ।
९७८७-२ निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ।।

९७८८-१ कालः संप्रति वर्तते कलियुगं सत्या नरा दुर्लभाः देशाश्च प्रलयं गताः करभरैर्लोभं गताः पार्थिवाः ।
९७८८-२ नानाचौरगणा मुषन्ति पृथिवीमार्यो जनः क्षीयते पुत्रस्यापि न विश्वसन्ति पितरः कष्टं युगे वर्तते ।।

९७८९-१ कालः सदागतिरपि स्थायीव परिचेष्टते ।
९७८९-२ चण्डमारुतवद्विश्वं अधरोत्तरयन्क्षणात् ।।

९७९०-१ कालः समविषमकरः परिभवसन्मानकारकः कालः ।
९७९०-२ कालः करोति पुरुषं दातारं याचितारं च ।।

९७९१-१ कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
९७९१-२ कालः सर्वेषु भूतेषु चरत्यविधृतः समः ।।

९७९२-१ कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते ।
९७९२-२ स्थूलसंग्रहचारेण सूक्ष्माचारान्तरेण च ।।

९७९३-१ कालः मृजति भूतानि कालः संहरते प्रजाः ।
९७९३-२ सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ।।

९७९४-१ काल एवात्र कालेन निग्रहानुग्रहौ ददत् ।
९७९४-२ बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ।।

९७९५-१ कालकालगलकालकालमुखकालकाल! कालकाल घनकालकाल पनकालकाल ! ।
९७९५-२ कालकालसितकालका ललनिकालकाल- कालकालगतु कालकाल! कलिकालकाल! ।।

९७९६-१ कालकूटमधुनापि निहन्तुं हन्त नो वहसि लाञ्छनभङ्ग्या ।
९७९६-२ यद्भयादिव निगीर्णमपि त्वां आशु मुञ्चति सुधाकर राहुः ।।

९७९७-१ कालकूटमिह निन्दति लोको येन शम्भुरजरामर एव ।
९७९७-२ अन्तकं विरहिणीशु सुधांशुं स्तौत्यमुं तु विरलो हि विवेकः ।।

९७९८-१ कालकूटादयो भेदा विषस्य नव सन्ति ये ।
९७९८-२ चिकित्सा कथ्यते तेषां मन्त्रपूर्वमविस्तरात् ।।

९७९९-१ कालक्रमं प्रत्यकथैव तावथ्क्षणं वियोगो मरणेन तुल्यः ।
९७९९-२ प्रियामुखोद्वीक्षणलालसानां अक्ष्णोर्निमेषोऽपि हि विघ्नभूतः ।।

९८००-१ कालक्रमकमनीय- क्रोडेयं केतकीति काशंसा ।
९८००-२ वृद्धिर्यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ।।

९८०१-१ कालक्रमत्रुटितसंश्रयभूः स्वमूल- मात्राश्रयी तटतरुः सरितोऽम्बुपूरैः ।
९८०१-२ यैः शङ्क्यते निपततीति वितीर्णमृद्धिस् तैरेव तस्य हि भवेत्स्थितिभुमिदार्ढ्यं ।।

९८०२-१ कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः ।
९८०२-२ मुक्तामणिर्जलदतोयकणोऽप्यणीयान् सम्पद्यते च चिरकीचकरन्ध्रमध्ये ।।

९८०३-१ कालक्षेपो न कर्तव्य आयुर्याति दिने दिने ।
९८०३-२ निरीक्षते यमो राजा धर्मस्य विविधां गतिं ।।

९८०४-१ का लक्ष्मीः पदमुन्नतं, किमु पदं यद्गौरवं स्वामिनः किं तद्गौरव, मन्तरायरहितापूर्वैव गुर्वी स्थितिः ।
९८०४-२ का चासौ स्थिति, रात्मभूषणपरव्यापारसम्भावना कस्यैतत्सकलं समस्ति, शशिनः श्रीकण्ठचुडामणेः ।।

९८०५-१ कालञ्जरपतिश्चक्रे भीमटः पञ्चनाटकीं ।
९८०५-२ प्राप प्रबन्धराजत्वं तेषु स्वप्नदशाननं ।।

९८०५आ-१ कालत्रयेऽपि यत्किंचिदात्मप्रत्ययवर्जितं ।
९८०५आ-२ एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ।।

९८०६-१ कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ।
९८०६-२ अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ।।

९८०७-१ कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् ।
९८०७-२ अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते ।।

९८०८-१ कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।
९८०८-२ अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् ।।

९८०९-१ कालयापनमाशानां वर्धनं फलखण्डनं ।
९८०९-२ विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः ।।

९८१०-१ कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससे ।
९८१०-२ तज्जगत्त्रितयं त्रातुं तात ताडय ताटकां ।।

९८११-१ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
९८११-२ त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।।

९८१२-१ कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
९८१२-२ सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ।।

९८१३-१ कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।
९८१३-२ अनध्यार्पित एवासौ तज्ज्ञश्चेद्दैवमुत्तमं ।।

९८१४-१ कालविद्भिविर्निर्णीता यस्यातिचिरजीविता ।
९८१४-२ स चेज्जीवति संच्छिन्नशिरास्तद्दैवमुत्तमं ।।

९८१५-१ कालव्यालहतं वीक्ष्य पतन्तं भानुमम्बरात् ।
९८१५-२ ओषधीशं समादाय धावतीव पितृप्रसूः ।।

९८१६-१ कालविच्छ्रोत्रियो राजा नदी साधुश्च पञ्चमः ।
९८१६-२ एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ।।

९८१७-१ कालश्चालयति प्रायः पण्डितान्पामरानपि ।
९८१७-२ तं चेच्चिकीर्षसि वशे तितिक्षैव महौषधं ।।

९८१८-१ कालश्चेत्करुणापरः कलियुगं यद्यद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः सन्तोषदायी यदि ।
९८१८-२ अग्निश्चेदतिशीतलं खलजनः सर्वोपकारी स चेदायुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी ।।

९८१९-१ कालस्य कारणं राजा सदसत्कर्मणस्त्वतः ।
९८१९-२ सुकार्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत्प्रजाः ।।

९८२०-१ ... ... ... ... ... ... ।
९८२०-२ कालस्य सुमहद्बीर्यं सर्वभूतेषु लक्ष्मण ।।

९८२१-१ कालस्यैव वशो सर्वं दुर्गं दुर्गतरं च यत् ।
९८२१-२ काले क्रुद्धे कथं कालात्त्राणं नोऽद्य भविष्यति ।।

९८२१आ-१ कालागरूद्गारसुगन्धिगन्ध- धूपाधिवासाश्रयभूगृहेषु ।
९८२१आ-२ न तत्र सुर्माघसमीरणेभ्यः श्यामाकुचोष्माश्रयिणः पुमांसः ।।

९८२२-१ कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः ।
९८२२-२ श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ।।

९८२३-१ कालागुरौ सुरभितातिशयेऽपि सङ्गादारभ्यते सुरभितापरपादपेऽपि ।
९८२३-२ पाटीरपाटवमिदं तव सङ्गिवातैस् तादात्म्यमेति कतरो न तरोः समूहः ।।

९८२४-१ कालाग्निरुद्र आधारे शक्तिः कुण्डलिनी तथा ।
९८२४-२ आनन्दाख्या स्वधिष्ठाने शक्त्या कामाख्यया सह ।।

९८२५-१ कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय स्फारैर्भीषय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।
९८२५-२ यस्यानन्यगतेः पयोद मनसो जिंज्ञासया चातक- स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ।।

९८२६-१ कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः ।
९८२६-२ कदाचित्तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ।।

९८२७-१ कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः ।
९८२७-२ भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः ।।

९८२८-१ कालातिपातः कार्याणां धर्मार्थपरिपीडनं ।
९८२८-२ नित्याभ्यन्तरवर्तित्वात्साधुप्रकृतिकोपनं ।।

९८२९-१ रहस्यभेदस्तत्पक्षादकार्येषु प्रवर्तनं ।
९८२९-२ ईर्ष्यामर्षस्तथा क्रोधो निरोधः साहसानि च ।।

९८३०-१ इत्यादि च स्त्रीव्यसने यच्च पूर्वं प्रकीर्तितं ।
९८३०-२ तस्मात्स्त्रीव्यसनं राजा राज्यकामः परित्यजेत् ।।

९८३१-१ कालात्प्ररोहति विश्वं पुनः कालः प्रवर्तते ।
९८३१-२ स्थूलसूक्ष्मगतिः कालो विविधं तस्य चोच्यते ।।

९८३२-१ कालात्प्रवर्तते बीजं कालाद्गर्भं प्रमुञ्चति ।
९८३२-२ कालो जनयते पुत्रं पुनः कालोऽपि संहरेत् ।।

९८३३-१ कालाद्प्ररोहते बीजं फलं कालात्प्रवर्तते ।
९८३३-२ कालो हि वर्तयेत्सृष्टिं पुनः कालो हि संहरेत् ।।

९८३४-१ कालानपास्य विषुवायनसंक्रमादीन् अस्तंगते हिमकरे च दिवाकरे च ।
९८३४-२ अम्ब स्मरेयमपि ते चरणारविन्दं आनन्दलक्षणमपास्तसमस्तभेदं ।।

९८३५-१ कालानुकूल्यं विस्पष्टं राघवस्यार्जुनस्य च ।
९८३५-२ अनुकूले यदा दैवे क्रियाल्पा सुफला भवेत् ।।

९८३६-१ कालान्तरे ह्मनर्थाय गृध्रो गेहोपरि स्थितः ।
९८३६-२ खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनां ।।

९८३७-१ कालञ्जराः भारसहास्तेषां वक्ष्यामि लक्षणं ।
९८३७-२ शतार्धमङ्गुलानां तु श्रेष्ठं खड्गं प्रकीर्तितं ।।

९८३८-१ कालिदास कलावास दासवच्चालितो यदि ।
९८३८-२ राजमार्गे व्रजन्नत्र परेषां तत्र का त्रपा ।।

९८३९-१ कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः ।
९८३९-२ एणमांसमबला च क्ॐअला सम्भवन्तु मम जन्मजन्मनि ।।

९८४०-१ कालिदासकवेर्वाणी कदाचिन्मद्गिरा सह ।
९८४०-२ कलयत्यर्थसाम्यं चेद्भीता भीता पदे पदे ।।

९८४१-१ कालिन्दि, ब्रूहि कुम्भोद्भव, जलधिरहं नाम गृह्णासि कस्माछ्छत्रोर्मे, नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः ।
९८४१-२ मालिन्यं तर्हि कस्मादनुभवसि, मिलत्कज्जलैर्मालवीनां नेत्राम्भोभिः, किमासां समजनि, कुपितः कुन्तलक्षोणिपालः ।।

९८४२-१ कालिन्दीं वीक्ष्य यातां सुललितवदनो मातरं गेहगोपीः कार्यासक्ताः समन्तादनुगतनयनो गोरसागारमन्तः ।
९८४२-२ गत्वा भाण्डानि भित्त्वा मधुमधु शनकैर्गोरसं भक्षमाणः शीघ्रप्रत्याप्तनन्दाकलितसितमुखो नन्दसूनुः शिवाय ।।

९८४३-१ कालिन्दीकलकूलकाननकृतक्रीडाकलापोल्लस द्- गोगोपालकबालकैः प्रतिदिशं सानन्दमाविष्टितं ।
९८४३-२ वंशीनादवशीकृतव्रजवधूस्वान्तं सदाह्नादकं सद्भक्त्या समुपास्महे वयमघध्वंसैकधीरं महः ।।

९८४४-१ कालिन्दीकेशपाशः परिलसति महीनायिकायास्तनूजा जह्नीः सत्पुण्यसंघो गुण इह सलिलं यच्च सारस्वसं तु ।
९८४४-२ वेणी त्वेषा विशेषादमरवरलसत्स्नेहयुक्ता वियुक्ता बन्धेनेत्यत्र चित्रं विलसति नितरां यत्तमोवर्णहीना ।।

९८४५-१ कालिन्दीचारुवीचीनिचय इति मुदा गाहिता नैचिकीभिर् बाला कादम्बिनीति प्रमुदितहृदयं वीक्षिता नीलकण्ठैः ।
९८४५-२ उत्तंसार्थं तमालस्तबक इति हृता मुग्धगोपाङ्गनाभिः श्रेयो नः कल्पयन्तां मधुमथनतनुस्वच्छकान्तिप्रवाहाः ।।

९८४६-१ कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।
९८४६-२ तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नत- ग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ।।

९८४७-१ कालिन्दीजलकेलिलोलतरुणीरावीतचीनांशु का निर्गत्याङ्गजलानि सारितवतीरालोक्य सर्वा दिशः ।
९८४७-२ तीरोपान्तमिलन्निकुञ्जभवने गूढं चिरात्पश्यतः शौरेः संभ्रमयन्निमा विजयते साकूतवेणुध्वनिः ।।

९८४७आ-१ कालिन्दीतटभेदि हास्तिनपुरीदौस्थ्यादिभिः ख्यापित- स्थेमा यस्य जयत्यखण्डजगदानन्दैककन्दो भूजः ।
९८४७आ-२ मुष्ट्या निष्ठुरयैष मुष्टिकशिरोनिष्ट्यूतरक्तक्छटाच्- छद्मोद्वान्तरुषा भिनत्तु भवतां भद्रेतरं लाङ्गलं ।।

९८४८-१ कालिन्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिनौ पुष्पवन्तौ विभ्राणः कुम्भयुग्मं गगनतलततः स्वर्धुनीपूरशुण्डः ।
९८४८-२ घण्टालः साधुवादैरनभिमतयशो देव मृद्नन्मृणालं कीर्तिस्त्ॐआभ्रकुम्भी जगदुदरसरःसंभ्रमी बम्भ्रमीति ।।

९८४९-१ कालिन्दीपुलिनान्तवञ्जुललताकुञ्जे कुतश्चित्क्रमाथ्सुप्तस्यैव मिथः कथाजुषि शनैः सम्वाहिकामण्डले ।
९८४९-२ वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो हुं हुं वत्स धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ।।

९८५०-१ कालिन्दीपुलिने मया, न न मया शैलोपशल्ये, न न न्यग्रोधस्य तले मया, न न मया राधापितुः प्राङ्गणे ।
९८५०-२ दृष्टः कृष्ण इतीरितस्य सभयं गोपैर्यशोदापतेर् विस्मेरस्य पुरो हसन्निजगृहान्निर्यन्हरिः पातु वः ।।

९८५१-१ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं तावत्कर्बुरिकापयः पिब हरे वार्धिष्यते ते शिखा ।
९८५१-२ इत्थं बालतया प्रतारणपरा श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेऽर्धपीते हरिः ।।

९८५२-१ कालिन्दीमनुकूलक्ॐअलरयामिन्दीवरश्यामलाः शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरान् ।
९८५२-२ राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन् अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ।।

९८५३-१ कालिन्दीयं द्विरददलिंताम्भोजिनीरेणुरम्या यस्याः कृष्णः शिशिरपयसस्तीरकेदारचारी ।
९८५३-२ गायन्तीनां किमपि मधुरं बालगोपालिकानां लीलालोलः कमलकलिकाः कर्णपूरीचकार ।।

९८५४-१ कालिन्दीयति कज्जलीयति कलानाथाङ्कमालीयति व्यालीयत्यहिमण्डलीयति मुहुः श्रीकण्ठकण्ठीयति ।
९८५४-२ शैवालीयति कोकिलीयति महानीलाभ्रजालीयति भ्रह्माण्डे रिपुदुर्यशस्तव नृपालंकारचूडामणे ।।

९८५५-१ कालिन्दीराशिरूर्ध्वं ननु मधुपकुलं मालतीपुञ्जगं वा सन्दोहं वैणनाभेर्जयति शशिमुखीकेशजालं मनोज्ञं ।
९८५५-२ भ्रान्तिं प्राप्नोषि किं त्वं बत गरलधराभोग एष प्रचण्डो लोकं प्रत्यक्षभूतं ग्रसति बत बलाद्यन्न भूयःसुखित्वं ।।

९८५६-१ कालिन्दीवीचिपुञ्जैः कुवलयविपिनैरिन्द्रनीलच्छटाभिः शैवालैः कज्जलौघैरलितिमिरभरैर्बालजीमूतजालैः ।
९८५६-२ कस्तूरीकोकिलानां ततिभिरिव सहाचाकचिक्यप्रपञ्चैस् त्रैलोक्यं पूरयन्ती शमयतु विपदः शांभवी कण्ठनाला ।।

९८५७-१ कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशाङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः ।
९८५७-२ सन्दष्टं व्रजयोषितामिह हरेः संशृण्वतोऽन्तःपुरे निःश्वासा प्रसृता चयन्ति रमणीसौभाग्यगर्वच्छिदः ।।

९८५८-१ कालिन्द्याः पुलिनेन्द्रनीलशकलश्यामाम्भसोऽन्तर्जले मग्नस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणं ।
९८५८-२ ताराभाः फणचक्रवालमणयो न स्युर्यदि द्योतिनो यैरेवोन्नतिमाप्नुवन्ति गुणिनस्तैरेव यान्त्यापदं ।।

९८५९-१ कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकां ।
९८५९-२ तत्पादप्रतिमानिवेशितपदस्योद्भूतर्ॐओद्गतेर् अक्षुण्णोऽनुनयः प्रसन्नदयितादृप्टस्य पुष्णातु वः ।।

९८५९आ-१ काली कलकलरूपा महिषासुरविनाशिनी वीरा ।
९८५९आ-२ शुम्भादाननिशुम्भा- स्वादनतोषावतु त्वां न्पते ।।

९८६०-१ कालीकेलीकलापक्रमकलितकलाकौतुकी कुन्दकान्तिः कल्पान्ते कालकल्पः क्रतुकदनकथाकन्दलीकूटकन्दः ।
९८६०-२ काकोलक्रूरकण्ठः कलितकलकलत्क्लान्तकन्दर्पकान्ता- कारुण्याक्रान्तकान्तः कलयतु कुशलं किङ्कराणां कपर्दी ।।

९८६१-१ कालीनागग्रहव्यग्रे श्रीकृष्णे यमुनातटे ।
९८६१-२ झंपयाध्ॐउखे जाते विपरीतं जगत्त्रयं ।।

९८६२-१ कालीयकक्षोदविलेपनश्रियं दिशद्दिशामुल्लसदंशुमद्द्युति ।
९८६२-२ खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः ।।

९८६३-१ कालीयैः कुचकाञ्चनाचलचमत्कारः किमुत्सार्यते कीदृक्कुङ्कमकेसरत्विषि मुखे कस्तूरिकालेपनं ।
९८६३-२ स्फीतेऽस्मित्जघने सरोजवदने किं नीलचोलार्पणं कस्मै साहसिनि त्वमिच्छसि विधेर्विन्यासमन्यादृशं ।।

९८६४-१ कालुष्यं जनयञ्जडस्य रचयन्धर्मद्रुमोन्सूलनं क्लिश्यन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वधैयन् ।
९८६४-२ मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशन् किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ।।

९८६५-१ कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता धाराजर्जरकेसरास्फुटरुचः पद्मा निमग्ना जले ।
९८६५-२ सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः कष्टं तादृगपि स्वभावविमलं वृद्ध्यैव नष्टं सरः ।।

९८६६-१ कालुष्यमुद्वीक्ष्य विधुं कलङ्किनं बुधा यदाहुर्मम सङ्गतं न तत् ।
९८६६-२ जाने निजाङ्के दयितास्य वर्तते निशीथिनीनाथकलङ्किता नहि ।।

९८६७-१ काले काले न किमुपनतं भुञ्जते भोज्यजातं गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु ।
९८६७-२ पुष्णन्ति स्वान्न किमु पृथुकान्स्त्रीषु किं नो रमन्ते कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ।।

९८६८-१ काले काले विरेच्यं स्यात्पात्रं पूरयितुं पुनः ।
९८६८-२ सज्जीकुर्मो यदावाप्तुं गुर्वीं ग्रहणशीलतां ।
९८६८-३ स्वात्मनोऽन्तस्तदस्माभी रिक्ततैवानुभूयते ।।

९८६८आ-१ काले कथंचिच्चरतां धवानां कान्त्या स्वया कर्दमितेऽन्तरिक्षे ।
९८६८आ-२ अम्भोधराः श्रान्तिजुषामभूवन् आलम्बदण्डा इव वारिधाराः ।।

९८६९-१ काले खल्वागता देव्यः पुत्रे मोहमुपागते ।
९८६९-२ हस्तस्पर्शो हि मात्णां अजलस्य जलाञ्जलिः ।।

९८६९आ-१ काले तरोरनुपकारि फलं फलित्वा लज्जावशादुचित एव विनाशयोगः ।
९८६९आ-२ एतत्तु चित्रमुपकृत्य फलैः परेभ्यः प्राणान्निजान्झटिति यत्कदली जहाति ।।

९८७०-१ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः ।
९८७०-२ मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ।।

९८७१-१ काले देशे यथायुक्तं नरः कुर्वन्नुपैति कां ।
९८७१-२ भुक्तवन्तावलप्स्येतां किमन्नमकरिष्यतां ।।

९८७२-१ काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह ।
९८७२-२ निषेवेतात्मवांल्लोके न स व्यसनमाप्नुयात् ।।

९८७३-१ कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः ।
९८७३-२ नाकालतः पुष्पफलं नगानां नाकालवेगाः सरितो वहन्ति ।।

९८७४-१ कालेन क्षितिवारिवह्निपवनव्य्ॐआदियुक्तं जगद्ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विद्मो विवारादिति ।
९८७४-२ पश्यामोऽपि विनश्यतेऽनवरतं लोकाननेकान्मुधा मायामोहमयीं भवप्रणयिनीं नास्थां जहीमो वयं ।।

९८७५-१ कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति ।
९८७५-२ अयं प्रथीयानयमप्रतिष्ठ इत्येष निष्ठानुचितोऽभिमानः ।।

९८७६-१ कालेन रिपुणा संधिः काले मित्रेण विग्रहः ।
९८७६-२ कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ।।

९८७७-१ कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति ।
९८७७-२ कालेन पद्मोत्पलवज्जलं च कालेन पुष्पन्ति नगा वनेषु ।।

९८७८-१ काले नीलबलाहके सतडिति प्रीतिप्रदे बर्हिणा आश्चर्यं कथयामि वः शृणुत भो यद्वृत्तमस्मिन्गृहे ।
९८७८-२ सौभाग्यव्ययशङ्कयैकशयने कान्ताप्रियाभ्यामहो मानिभ्यां बत रात्रिमेव सकलां चीर्णं प्रवासिव्रतं ।।

९८७९-१ कालेऽन्नस्य क्षुधमवहितो दित्समानो विधृत्य नो भोक्तव्यं प्रथममतिथेर्यः सदा तिष्ठतीति ।
९८७९-२ तस्याप्राप्तावपि गतमलं पुण्यराशिं श्रयन्तं तं दातारं जिनपतिमते मुख्यमाहुर्जिनेद्राः ।।

९८८०-१ काले महत्यनवधावपतन्कदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत ।
९८८०-२ इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नञर्थे ।।

९८८१-१ काले मृदुर्यो भवति काले भवति दारुणः ।
९८८१-२ राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ।।

९८८२-१ काले मृदुर्यो भवति काले भवति दारुणः ।
९८८२-२ स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ।।

९८८३-१ काले मृदुर्यो भवति काले भवति दारुणः ।
९८८३-२ स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ।।

९८८४-१ काले भृदुश्च तीक्ष्णश्च नृपः स्याद्यदि सूर्यवत् ।
९८८४-२ उदयः क्रियते तस्य मण्डलेनानुरागिणा ।।

९८८५-१ काले यथावधिगत- नरपतिकोपाद्यशेषवृत्तान्तः ।
९८८५-२ नृपभवने नतमूर्तिः संयतवस्त्रः शनैः प्रविशेत् ।।

९८८६-१ काले वाप्यथवाकाले संध्यावन्दनतत्परः ।
९८८६-२ अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ।।

९८८७-१ काले वारिधराणां अपतितया नैव शक्यते स्थातुं ।
९८८७-२ उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ।।

९८८८-१ काले विद्युत्प्रभाजाले शिखिताण्डवमण्डिते ।
९८८८-२ कान्तः सर्वजनाभीष्टो बालेन्दुः खे न लभ्यते ।।

९८८९-१ काले संततवर्षिणो जलमुचः सस्यैः समृद्धा धरा भूपाला निजधर्मपालनपरा विप्रास्त्रयीनिर्भराः ।
९८८९-२ स्वादुक्षीरनतोधसः प्रतिदिनं गावो निरस्तापदः सन्तः शान्तिपरा भवन्तु कृतिनः सौजन्यभाजो जनाः ।।

९८९०-१ काले सहिष्णुर्गिरिवदसहिष्णुश्च वह्निवत् ।
९८९०-२ स्कन्धेनापि वहेच्छत्रून्प्रियाणि समुदाहरन् ।।

९८९१-१ काले हितं मितं ब्रूयादविसंवादि पेशलं ।
९८९१-२ पूर्वाभिभाषी सुमुखः सुशीलः करुणो मृदुः ।।

९८९२-१ काले हितमिताहारविहारी विधसाशनः ।
९८९२-२ अदीनात्मा च सुस्वप्नः शुचिः स्यात्सर्वदा नरः ।।

९८९३-१ का लोकमाता किमु देहमुख्यं रते किमादौ कुरुते मनुष्यः ।
९८९३-२ को दैत्यहन्ता वद वै क्रमेण गौरीमुखं चुम्बति वासुदेवः ।।

९८९४-१ कालो देशः क्रिया कर्ता करणं कार्यमागमः ।
९८९४-२ द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ।।

९८९५-१ कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
९८९५-२ तत्संघातो बीजरोहप्रवाहस् त्वन्मायैषा तन्निषेधं प्रपद्ये ।।

९८९६-१ कालोपभोगिनः सर्वे नित्यमानन्दिता नराः ।
९८९६-२ सर्वे सत्यरता नित्यं सर्वे धर्मपरायणाः ।।

९८९६आ-१ कालोपलब्धं कलहंसनाद- माकर्ण्य कर्णामृतमन्तरिक्षे ।
९८९६आ-२ सलीलमुद्धाटितवारिपूरा सरोजिनी सादरमुज्जगाम ।।

९८९७-१ कालोऽभ्युपैति सकृदेव नरं कथंचिथ्प्राप्नोति तं न स पुनः खलु कालकाङ्क्षी ।
९८९७-२ कालेन गोचरगताननपेक्ष्य भक्ष्यान् मन्दक्रमोऽप्यजगरः समुपैति सिद्धिं ।।

९८९८-१ कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
९८९८-२ केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर् दूरे पतिः कथय किं करणीयमद्य ।।

९८९९-१ कालोऽयं भूतमशकघुंधुमानां प्रपातिनां ।
९८९९-२ ब्रह्माण्डोदुम्बरोत्थानां बृहत्पादपतां गतः ।।

९९००-१ कालो याति गलत्यायुः क्षीयन्ते च मनोरथाः ।
९९००-२ सुकृतं च कृतं किंचित्सतां संस्मरणोचितं ।।

९९०१-१ कालो वा कारणं राज्ञो राजा वा कालकारणं ।
९९०१-२ इति ते संशयो मा भूद्राजा कालस्य कारणं ।।

९९०२-१ कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् ।
९९०२-२ कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ।।

९९०३-१ कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ।
९९०३-२ स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ।।

९९०४-१ का विद्या कवितां विनार्थिनि जने त्यागं विना श्रीश्च का को धर्मश्च कृपां विना नरपतिः को नाम नीतिं विना ।
९९०४-२ कः सूनुर्विनयं विना कुलवधूः का स्वामिभक्तिं विना भोग्यं किं रमणीं विना क्षितितले किं जन्म कीर्तिं विना ।।

९९०५-१ का विषमा दैवगतिः किं लष्टं यज्जनो गुणग्राही ।
९९०५-२ किं सौख्यं सुकलत्रं किं दुर्ग्राह्यं खलो लोकः ।।

९९०६-१ कावेरीं तां समासाद्य विहृतामप्सरोगणैः ।
९९०६-२ तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ।।

९९०७-१ कावेरी कबरीव भामिनि भुवो देव्याः पुरो दृश्यतां पूगैर्नागलताश्रितैरुपदिशत्याश्लेषविद्यां इव ।
९९०७-२ कर्णाटीजनमज्जनेषु जघनैर्यस्याः पयः प्लावितं पीत्वा नाभिगुहाभिरात्तरुचिभिः प्राचीं दिशं नीयते ।।

९९०८-१ कावेरीतीरकर्पूरपरागामोदसोदराः ।
९९०८-२ रतिस्वेदलवानेते पुरन्ध्रीणां समीरणाः ।।

९९०९-१ कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशिष्टः कर्णाटीचीनपीनस्तनवसनदशान्दोलनास्प न्दमन्दः ।
९९०९-२ लोलल्लाटीललाटालकतिलकलतालास्यलीलाविलोलः कष्टं भो दाक्षिणात्य प्रचलति पवनः पान्थ कान्ताकृतान्तः ।।

९९०९आ-१ कावेरीरम्यराजीवविलसद्गन्धबन्धुना ।
९९०९आ-२ मधुमाससमीरेण वर्धते कुत्र कस्य का ।।

९९१०-१ कावेरीवारिवेल्लल्लहरिपरिकरक्रीडनक्रान्तशीताः स्फीतश्रीखण्डषण्डभ्रमणभरभव द्भूरिसौरभ्यगर्भाः ।
९९१०-२ चोलस्त्रीलोलचेलाञ्चलचलनकलाक्रान्तकान्तास्तनान्ता वान्ति प्रेयोवियोगातुरतररमणीवैरिणोऽमी समीराः ।।

९९१०आ-१ कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले चन्द्राम्भोजवतीतटे परिसरे धात्रा समाराधिते ।
९९१०आ-२ श्रीरङ्गे भुजगेन्द्रभोगशयने लक्ष्मीमहीसेविते शेते यः पुरुषोत्तमः स भगवान्नारायणः पातु नः ।।

९९१०भ्-१ का वेश्या को विरोधोऽयं का प्रशस्तिश्च सङ्गरे ।
९९१०भ्-२ वृथा प्राणजिहीर्षूणां मूर्खानामीदृशी मतिः ।।

९९११-१ काव्यं करोति सुकविः सहृदय एव व्यनक्ति तत्तत्त्वं ।
९९११-२ रत्नं खनिः प्रसूते रचयति शिल्पी तु तत्सुषमान् ।।

९९११आ-१ काव्यं करोतु परिजल्पतु संस्कृतं वा सर्वाः कलाः समधिगच्छतु वाच्यमानाः ।
९९११आ-२ लोकस्थितिं यदि न वेत्ति यथानुरूपां सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ।।

९९१२-१ काव्यं कर्ॐइ न हि चारुतरं कर्ॐइ यत्नात्कर्ॐइ यदि चारुतरं कर्ॐइ ।
९९१२-२ भूपालमौलिमणिमण्डितपादपीठ हे साहसाङ्क कवयामि वयामि यामि ।।

९९१३-१ काव्यं करोषि किमु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं विनिवारयन्ति ।
९९१३-२ गव्यं घृतं पिब निवातगृहं प्रविश्य वाताधिका हि पुरुषाः कवयो भवन्ति ।।

९९१४-१ काव्यं चार्वपि रसिक- प्रीतिकरं भवति नैकरसबद्धं ।
९९१४-२ सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ।।

९९१४आ-१ काव्यं चेत्सरसं किमर्थममृतं वक्त्रं कुरङ्गीदृशां चेत्कन्दर्पविपाण्डुगण्डफलकं राकाशशाङ्केन किं ।
९९१४आ-२ स्वातन्त्र्यं यदि जीवितावधि मुधा स्वर्भूर्भुवो वैभवं वैदर्भी यदि बद्धयौवनभरा प्रीत्या सरत्यापि किं ।।

९९१५-१ काव्यं यदीयं गृहमम्बरं वा सुवर्णचित्रोज्ज्वलमाविभाति ।
९९१५-२ स नन्दनो नन्दति कुन्दनस्य श्रीकृष्णरामः कविराप्तकामः ।।

९९१६-१ काव्यं यद्यपि रसिकं प्रीतिकरं भवति नैकरसबद्धं ।
९९१६-२ सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ।।

९९१७-१ काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
९९१७-२ सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ।।

९९१८-१ काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा ।
९९१८-२ धनं सुधा सलोभानां शान्तिः सन्यसिनां सुधा ।।

९९१९-१ काव्यप्रपञ्चचुञ्चू रचयति काव्यं न सारविद्भवति ।
९९१९-२ तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ।।

९९२०-१ काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।
९९२०-२ तावत्सारस्वतं स्थानं कविरासाद्य मोदते ।।

९९२१-१ काव्यशास्त्रविनोदेन कालो गच्छति धीमतां ।
९९२१-२ व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ।।

९९२२-१ काव्यस्याक्षरमैत्री- भाजो न च कर्कशा न च ग्राम्याः ।
९९२२-२ शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ।।

९९२३-१ काव्यस्याम्रफलस्यापि क्ॐअलस्येतरस्य च ।
९९२३-२ बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ।।

९९२४-१ काऽव्याकुलिता माद्यति काञ्चनमुद्रां मनोरमामाहुः ।
९९२४-२ इह कालिकावतंसित- चन्द्रकला कामिता योग्या ।।

९९२५-१ काव्यात्मना मनसि पर्यणमन्पुरा मे पीयूषसारसरसास्तव ये विलासाः ।
९९२५-२ तानन्तरेण रमणी रमणीयशीले चेतोहरा सुकविता भविता कथं नः ।।

९९२६-१ काव्यामृतं दुर्जनराहुनीतं प्राप्यं भवेन्नो सुमनोजनस्य ।
९९२६-२ सच्चक्रमव्याजविराजमान- तैक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ।।

९९२६आ-१ काव्ये गान्धर्वे नृत्तशास्त्रे विधिज्ञं दक्षं दातारं दक्षिणं दाक्षिणात्यं ।
९९२६आ-२ वेश्या का नेच्छेत्स्वामिनं कोङ्कणानां स्याच्चेदस्य स्त्रीष्वार्जवात्संनिपातः ।।

९९२७-१ काव्येन मूर्खधनिनं प्रणयेन नीचं वेश्यां श्रुतेन शठशात्रवमार्जवेन ।
९९२७-२ इच्छन्ति ये जगति रञ्जयितुं विमूढास् तेषामरण्यरुदितेन समः प्रयासः ।।

९९२८-१ काव्ये भाव्यं गुणैस्तत्र दुर्जना दूषयन्ति यत् ।
९९२८-२ न दुर्गतगृहे संधिर्दीयते जातु दस्युभिः ।।

९९२९-१ काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुर् दोषान्वेषणमेव मत्सरजुषां नैसर्गिको दुर्ग्रहः ।
९९२९-२ कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः शम्बूकमन्वेषते ।।

९९३०-१ काव्ये शुभे विरचिते खलु नो खलेभ्यः कश्चिद्गुणो भवति यद्यपि सम्प्रतीह ।
९९३०-२ कुर्यां तथापि सुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ।।

९९३१-१ काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला ।
९९३१-२ तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयं ।।

९९३२-१ काव्यैकपात्रविलसद्गुणदोषदुग्ध- पाथःसमूहपृथगुद्धरणे विदग्धाः ।
९९३२-२ जानन्ति कर्तुमभियुक्ततया विभागं चन्द्रावदातमतयः कविराजहंसाः ।।

९९३३-१ काव्यैरुपहता वेदाः पुत्रा जामातृभिर्हताः ।
९९३३-२ अश्वैरुपहता गावः पण्यस्त्रीभिः कुलाङ्गनाः ।।

९९३४-१ का शम्भुकान्ता किमु चन्द्रकान्तं कान्तामुखं किं कुरुते भुजंगः ।
९९३४-२ कः श्रीपतिः का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ।।

९९३५-१ काशांशुका विकचपद्ममनोज्ञवक्त्रा सोन्मादहंसरवनूपुरनादरम्या ।
९९३५-२ आपक्वशालिरुचिरा तनुगात्रयष्टिः प्रात्पा शरन्नववधूरिव रूपरम्या ।।

९९३६-१ काशाः काशा इवाभान्ति सरांसीव सरांसि च ।
९९३६-२ चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निम्नगाः ।।

९९३७-१ काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि ।
९९३७-२ नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ।।

९९३८-१ काशीयं समलंकृता निरुपमस्वर्गापगासंभव- स्थूलोत्तारतरङ्गबिन्दुविलसन्मुक्ताफलश्रेणिभिः ।
९९३८-२ चञ्चच्चञ्चलचञ्चरीकनिकरश्यामाम्बरा राजते कासारस्थविनिद्रपद्मनयना विश्वेश्वरप्रेयसी ।।

९९३९-१ का शृङ्गारकथा कुतूहलकथा गीतादिविद्याकया मद्यत्कुम्भिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा ।
९९३९-२ एकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षःपतेर् देव श्रीरघुनाथ तस्य नगरे स्वप्नेऽपि नान्या कथा ।।

९९४०-१ काशैर्मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः सरांसि ।
९९४०-२ सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ।।

९९४१-१ का शैलपुत्री किमु नेत्ररम्यं शुकार्भकः किं कुरुते फलानि ।
९९४१-२ मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः ।।

९९४२-१ काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपः पूर्णिकाः ।
९९४२-२ दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः ।।

९९४२आ-१ काश्मीरकर्दमकषायकपोलपाली कह्लारदामकलिकाकमनीयचूली ।
९९४२आ-२ काचिद्विहारविशिखामुपयाति चोली पालीलसत्करतलामलकस्तनाली ।।

९९४३-१ काश्मीरगौरवपुषामभिसारिकाणां आबद्धरेखमभितो रुचिमञ्जरीभिः ।
९९४३-२ एतत्तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ।।

९९४४-१ काश्मीरद्रवगौरि हन्त किमयं भूयोऽङ्गरागे ग्रहः को वा नीलसरोरुहाक्षि नितरां नेत्राञ्जने संभ्रमः ।
९९४४-२ रक्ताशोकदलोपमेयचरणे किं लाक्षया दत्तया नो रागान्तरमीहते निजरुचा विभ्राजमानो मणिः ।।

९९४४आ-१ काश्मीरधूलीकलिकाविराजद्- बालेन्दुरेखातिलकाभिरामा ।
९९४४आ-२ कृकाटिकाकीलितकेशपाशा सा वैष्णवी सारसपत्रनेत्रा ।।

९९४५-१ काश्मीरपङ्कखचितस्तनपृष्ठताम्र- पट्टावकीर्णदयितार्द्रनखाक्षराली ।
९९४५-२ एणीदृशः कुसुमचापनरेन्द्रदत्त- तारुण्यशासनमिव प्रकटीकरोति ।।

९९४६-१ काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु ।
९९४६-२ द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकं ।।

९९४७-१ काश्मीरेण दिहानमम्बरतलं वामभ्रुवामानन- द्वैराज्यं विदधानमिन्दुदृषदां भिन्दानमम्भःशिराः ।
९९४७-२ प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- क्षीवोत्सङ्गकुरङ्गमैन्दवमिदं तद्विम्बमुज्जृम्भते ।।

९९४८-१ काश्यां तिष्ठ सखे सुपर्वनिवहैर्नित्यं नुतायां भज श्रीकण्ठं निजभक्तरक्षणविधौ दक्षं दयावारिधिं ।
९९४८-२ गाङ्गे वारिणि पापहारिणि कुरु स्नानं स्मर श्रीपतिं त्वं कष्टेन विनैव मोक्षपदवीं प्राणात्यये प्राप्स्यसि ।।

९९४९-१ काश्यां तु मरणान्मुक्तिर्जननात्कमलालये ।
९९४९-२ दर्शनादभ्रसरसः स्मरणादरुणाचले ।।

९९५०-१ काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं वा ।
९९५०-२ अद्यैव वा कुरु दयां पुनरायतौ वा कः संभ्रमो मम, धने धनिनः प्रमाणं ।।

९९५१-१ काश्यामाकृतिमीशितुर्न लभते हृद्याहितातत्त्वधीर् यस्य श्रीरिव साऽऽभवत्प्रियतमा या सर्वदाराधिका ।
९९५१-२ शश्वत्तद्रतचेतसस्तव पुरापुण्यान्यगण्यानि यद्ब्रह्माद्वैतसुखेऽपि तद्भजनतो मन्दादरं ते मनः ।।

९९५२-१ का श्लाघ्या गुणिनां, क्षमा, परिभवः को, यः स्वकुल्यैः कृतः किं दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते ।
९९५२-२ को मृत्युर्व्यसनं, शुचं जहति के, यैर्निर्जिताः शत्रवः कैर्विज्ञातमिदं, विराटनगरे छन्नस्थितैः पाण्डवैः ।।

९९५३-१ काषायान्न च भोजनादिनियमान्नो वा वने वासतो व्याख्यानादथ वा मुनिव्रतभराच्चित्तोद्भवः क्षीयते ।
९९५३-२ किं तु स्फीतकलिन्दशैलतनयातीरेषु विक्रीडतो गोविन्दस्य पदारविन्दभजनारम्भस्य लेशादपि ।।

९९५४-१ काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः सूर्यस्तीव्रकरः शशी च विकलः क्षारो हि वारां निधिः ।
९९५४-२ कामो नष्टतनुर्बलिर्दितिसुतो नन्दी पशुः कामगो नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ।।

९९५५-१ काष्ठं वह्न्युज्झितमपि भवेच्छीतशान्त्यै कपीनां ल्ॐनो शुद्ध्यै सलिलमनलश्चाग्निशौचैणकानां ।
९९५५-२ जन्तोर्भावा विदधति यथाभाविनः कार्यसिद्धिं तत्त्वं तेषां क्वचन सहजं वस्तुतो नास्ति किंचित् ।।

९९५६-१ काष्ठं शिरसि संस्थाप्य तथा काष्ठेन ताडयेत् ।
९९५६-२ लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ।।

९९५७-१ काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरःस्थितैः ।
९९५७-२ अप्राप्तधारं पृष्ठेन गच्छेत्पुच्छमुखेन हि ।।

९९५८-१ काष्ठपाषाणधातूनां कृत्वा भावेन सेवनं ।
९९५८-२ श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ।।

९९५८आ-१ काष्ठमङ्गारतां याति भस्मतां ग्ॐअयादिकं ।
९९५८आ-२ वह्नौ कीर्णं सुवर्णं तु सुवर्णोत्कर्षतां व्रजेत् ।।

९९५९-१ काष्ठाग्निं निर्हरेच्चैव तथा कूपांश्च खातयेत् ।
९९५९-२ संशोधयेत्तथा कुपान्कृतान्पूर्वं पयोऽर्थिभिः ।।

९९६०-१ काष्ठादग्निर्जायते मथ्यमानाद्भूमिस्तोयं खन्यमाना ददाति ।
९९६०-२ सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ।।

९९६०आ-१ काष्ठाद्यथाग्निरुत्पन्नः स्वाश्रयं दहति क्षणात् ।
९९६०आ-२ क्रोधाग्निर्देहजस्तद्वत्तमेव दहति ध्रुवं ।।

९९६१-१ काष्ठानुषङ्गात्परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये ।
९९६१-२ श्रीकार्तवीर्यं प्रसभं पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गाः ।।

९९६२-१ काष्ठेऽश्वकेशं संयम्य तत्र बद्ध्वा वराटिकां ।
९९६२-२ हस्तेन भ्राम्यमाणां च यो हन्ति स धनुर्धरः ।।

९९६३-१ का संबुद्धिः सुभट भवतो ब्रूहि पृच्छामि सम्यक् प्रातः कीदृग्भवति विपिनं संप्रबुद्धैर्विहंगैः ।
९९६३-२ लोकः कस्मिन्प्रथयति मुदं, का त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ।।

९९६४-१ का संसृतिः किमपचारनिबन्धनेयं कीदृग्विधस्य तव किं क्षतमेतयेति ।
९९६४-२ प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ।।

९९६४आ-१ कासश्वासज्वराजीर्णशोकतृष्णास्य पाकयुक् ।
९९६४आ-२ न च कुर्याच्छिरोनेत्रहृत्कर्णामयवानपि ।।

९९६५-१ कासांचिद्धवलश्चिरं निवसतां वित्तेपरासां पुनर् नीलो वा कपिलोऽथवा वरवृषो रक्तोऽथवा मेचकः ।
९९६५-२ ग्रामीणैरवधीरितोऽपि शिथिलस्कन्धोऽप्यनूर्ध्वश्रवाः स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः ।।

९९६६-१ ... ... ... ... ... ... ।।

९९६६-२ कासां हि नापदां हेतुरतिलोभान्धबुद्धिता ।।

९९६७-१ कासारशोषिणि नवोदयमानमुग्ध- सद्वर्तिकानिवहदाहिनि दारुणेऽपि ।
९९६७-२ मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्य- स्मेरं सुखं जयति चित्रचरित्रमब्जं ।।

९९६८-१ कासारे पद्मिनीऽयं मुकुलयुगमनत्यन्तरं यत्र हृद्यं यस्मिन्सद्यःसमुद्यद्ग्रहपतिकरजव्यापृतिः श्लाघनीया ।
९९६८-२ तस्मादेतद्विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं वर्यं शौर्यंचनादौ न गमय समयं त्वं व्रजस्त्रीहितज्ञः ।।

९९६९-१ कासारेऽपि पयः पिबन्ति पथिका न क्वापि वारि त्वयि क्षारत्वादुदधेः समुद्र इति ते नामैतदेवोचितं ।
९९६९-२ न त्वेतानि निरर्थकानि भवतो नामान्यनर्थान्तराण्य् अम्भोधिर्जलधिः पयोनिधिरुदधिर्वारांनिधिर्वारिधिः ।।

९९७०-१ कासारे मदमत्तवारणगणैराकुम्भमग्नं पयः पीतं यत्प्रभवोरुवीचिवलनैर्व्याप्तं समस्तं जगत् ।
९९७०-२ तस्मिन्नेव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि प्राप्ताः पान्थनखंपचाः प्रतिपदं मध्यस्थलीभूमयः ।।

९९७१-१ कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक्तत्रापि शिरोनतिः किमपरं हेयं भवेन्मानिनां ।
९९७१-२ इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादरादुद्ग्रीवस्तव वारिवाह कुरुते धाराधरालोकनं ।।

९९७१आ-१ कासार्यवर्य कलिताम्बुरुहावतंस मुक्तासमानजलबिन्दुतरङ्गरङ्ग ।
९९७१आ-२ किं भूषणं तव बकैर्बहुभिः कुरार्वैर् हंसैर्विना कलरवैर्नरदेवपूज्यैः ।।

९९७२-१ कासि त्वं वद चौर्यकारिणि कुतः, कस्त्वं, पुरोयामिकः किं ब्रूषे, मुषितौ सुवर्णकलशौ भूपस्य, केन, त्वया ।
९९७२-२ कुत्र स्तः, प्रकटौ तवाञ्चलतटे, कुत्रेति, तप्तश्यतां इत्युक्ते धृतवल्लवीकुचयुगस्त्वं पातु पीताम्बरः ।।

९९७३-१ कासी विवर्जयेच्चौर्यं निद्रालुश्चर्मंचौरिकां ।
९९७३-२ जिह्वालौल्यं च रोगाढ्यो जीवितुं योऽत्र वाञ्छति ।।

९९७४-१ कासे श्वासे तथा शोषे मन्दाग्नौ विषमज्वरे ।
९९७४-२ प्रमेहे मूत्रकृच्छ्रे च सेवयेन्मधुपिप्पलीं ।।

९९७५-१ का स्त्री न प्रणयिवशा का विलसितयो मनोभवविहीनाः ।
९९७५-२ को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानां ।।

९९७६-१ कास्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
९९७६-२ मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणां ।।

९९७७-१ काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरं ।
९९७७-२ कथमुक्तं न जानासि कदर्थयसि यत्सखे ।।

९९७८-१ काहर्निशमनुचिन्त्या सम्सारासारता न तु प्रमदा ।
९९७८-२ का प्रेयसी विधेया करुणा दाक्षिण्यमथ मैत्री ।।

९९७९-१ का हि तुलामधिरोहति भुजगलतायाः प्रतानिनीष्वन्या ।
९९७९-२ या खण्डितापि रदनैर् जनयति वदने विचक्षणां सुषमां ।।