महिम्नः पारं...

विकिपुस्तकानि तः

पुष्पदन्त उवाच -
मूलम्
महिम्नः पारं ते परमविदुषो यद्यसदृशी।
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्।
ममाप्येष स्तोत्रे हर निरपवादः परिकरः।। १।।

पदच्छेदः -
महिम्नः पारं ते परम् अविदुषः यदि असदृशी।स्तुतिः ब्रह्मादीनाम् अपि तद् अवसन्नाः त्वयि गिरः।।
अथ अवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्।मम अपि एषः स्तोत्रे हर निरपवादः परिकरः।। १।।

अन्वयः-
हे हर , ते महिम्नः परं पारम् अविदुषः (मम)स्तुतिः यदि असदृशी तद् ब्रह्मादीनाम् अपि गिरः त्वयि अवसन्नाः।अथ (यदि) स्वमतिपरिणामा-वधि गृणन् सर्वः अवाच्यः, (तर्हि) मम अपि एषः स्तोत्रे परिकरः निरपवादः ।। १।।


शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=महिम्नः_पारं...&oldid=6156" इत्यस्माद् प्रतिप्राप्तम्