महोक्षः खट्वाङ्गं...

विकिपुस्तकानि तः

मूलम्
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः।
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्।।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां।
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति।। ८।।

पदच्छेदः-
महा-उक्षः खट्वाङ्गं परशुः अजिनं भस्म फणिनः।कपालं च इति इयत् तव वरद तन्त्र-उपकरणम्।।
सुराः तां ताम् ऋद्धिं दधति तु भवद् भ्रू-प्रणिहितां।न हि स्वात्मारामं विषय-मृगतृष्णा भ्रमयति।। ८।।

अन्वयः
हे वरद, महा-उक्षः, खट्वाङ्गं, परशुः, अजिनं, भस्म, फणिनः, कपालं च इति इयत् तव तन्त्र-उपकरणम्। तु सुराः भवद् भ्रू-प्रणिहितां तां ताम् ऋद्धिं दधति ।हि स्वात्मारामं विषय-मृगतृष्णा न भ्रमयति।। ८।।

सरलार्थः-
हे वरद, महान् वृषभः, नरमुण्डमण्डितः दण्डः, परशुः, पशुचर्म, भस्म, सर्पाः, कपालं च इति एतानि तव साधनानि।तथापि तव भ्रूभङ्गमात्रेण देवाः वैभवं प्राप्नुवन्ति।सत्यमेतद् यत् यः आत्मनि रतः, तं विषयरूपं मृगजलं न भ्रमयति॥८


शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=महोक्षः_खट्वाङ्गं...&oldid=6163" इत्यस्माद् प्रतिप्राप्तम्