मातरिश्वाधिकरणम्

विकिपुस्तकानि तः

एतेन मातरिश्वा व्याख्यात:।२.३.८
पू. न वायुरुत्पद्यते, छान्दोगानाम् उत्पत्तिप्रकरणे अनाम्नातत्वात्।
वे.- अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरणे आम्नानम्- आकाशाद्वायु: (तैत्ति. २.१) इति।
पू.- वायूत्पत्तिश्रुतिरियं गौणी मन्तव्या, वायोरुत्पत्त्यसम्भवात्।
वे.- कुत: उत्पत्त्यसम्भव:?
पू.- ‘सैषा अनस्तमिता देवता यद्वायु:’ (बृ. १.५.२२) इति श्रुते:।अमृतत्ववचनाच्च।
वे.- प्रतिज्ञानुपरोधात्, यावद्विकारं विभागाभ्युपगमात् च उत्पद्यते वायु:।अस्तमयनिषेध: अपराविद्याविषयक:, आपेक्षिक:।यथाग्नेरस्तो न भवति, तथा वायो: न भवतीत्याशय:। अमृतत्वश्रुते: प्रत्याख्यानं कृतमेव।
पू.- वायोराकाशस्य च उत्पत्तिविषयकम् एकमेवाधिकरणं कुतो न कृतम्? किमतिदेशेन असति विशेषे?
वे.- सत्यमेवम्।तथापि संवर्गविद्यादिषु उपास्यतया वायोर्महाभागत्वश्रवणात् अस्तमय-प्रतिषेधादिभ्यश्च नित्यत्वाशङ्का जायते कस्यचिन्मन्दबुद्धे:।अत: पृथगधिकरणं कृतम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=मातरिश्वाधिकरणम्&oldid=5619" इत्यस्माद् प्रतिप्राप्तम्