माध्वमतं तथा रामानुजमतम् .....

विकिपुस्तकानि तः

माध्वमतं तथा रामानुजमतम् इति एतयोः सादृश्यं किं वैलक्षण्यं किम्?

सादृश्यम्
१ उभयत्र जीवः अणुपरिमाणः अङ्गीकृतः।
२ उभयत्र जीवः ईश्वरस्य दासः इति अभ्युपगतम्।
३ उभयत्र वेदानाम् अपौरुषेयत्वं सम्मतम्।
४उभयत्र वेदानां सिद्धार्थबोधकत्वं(ब्रह्म इति सिद्धार्थः।तद्बोधकत्वम्) मान्यम्।
५ उभयत्र वेदानां स्वतःप्रामाण्यं मतम्।
६ उभयत्र प्रत्यक्षं, श्रुतिः तथा अनुमानम् इति प्रमाणत्रितयस्य स्वीकारः।
७ उभयत्र पञ्चरात्रागमस्य आधारः गृहीतः।
८ उभयत्र प्रपञ्चः सत्यः।
९ उभयत्र प्रपञ्चः ईश्वराद् भिन्नः।

वैदृश्यम् १
रामानुजमते भेदः, अभेदः भेदाभेदः इति सर्वं ग्राह्यम्।
१ सर्वस्य शरीरतया ब्रह्म एव स्थितम्।अतः अभेदः ग्राह्यः।
२ एकमेव ब्रह्म नानाकारेण चिदचितप्रकारकं जातम् इति भेदाभेदः मान्यः।
३ चित् अचित् तथा ईश्वरः इति एतेषां स्वरूपतः स्वभावतः च भेदः अस्ति।

माध्वाः एतद् न अनुमन्यन्ते।तेषां मते
जीवेशयोः भेदः अस्ति।
जीवजीवयोः भेदः अस्ति।
जीवजडयोः भेदः अस्ति।
जडेशयोः भेदः अस्ति।
जडजडयोः भेदः अस्ति।
अभेदः तथा भेदाभेदयोः अवसरः एव नास्ति।

वैदृश्यम् २
जीवेशयोः ऐक्यपराणां श्रुतिवचनानाम् अर्थः रामानुजमते विशिष्टाद्वैतपरः क्रियते।यथा जीवः ईश्वरस्य शरीरम्।अतः तयोः ऐक्यम् आत्यन्तिकं नास्ति परं शरीरात्मनोः ऐक्यवत् विशिष्टम् अस्ति।
जीवेशयोः ऐक्यपराणां श्रुतिवचनानाम् अर्थः माध्वमते द्वैतपरः क्रियते।यथा जीवः ईशसदृशः अस्ति।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे माध्वमतम्