माध्वमतेन ईश्वरसेवां .....।

विकिपुस्तकानि तः

माध्वमतेन ईश्वरसेवां स्पष्टीकुरुत।

माध्वमते जीवः सेवकः, ईश्वरः सेव्यः।जीवेन ईश्वरसेवा मुक्त्यर्थं करणीया।सा सेवा त्रिविधा अङ्कनं नामकरणं भजनं च।

अङ्कनसेवा
नारायणस्य आयुधानां देहे तप्तमुद्रया मुद्रणम् अङ्कनम्।सुदर्शनचक्रस्य तथा शङ्खस्य धारणं विष्णुभक्तैः करणीयम्।तेन सततं नारायणस्य स्मरणं भवति, प्रपञ्चे इष्टार्थसिद्धिः च भवति।

नामकरणसेवा
पुत्रादीनां नामकरणं केशवः नारायणः इत्यादिकं करणीयम्।तेन सततं विष्णुस्मरणं भवति, मुखेन विष्णुनामोच्चारः च भवति।

भजनसेवा
एषा दशविधा वर्तते -
वाचा सेवा – सत्यवचनं, प्रियवचनं, हितवचनं स्वाध्यायः इति चतुर्विधा सेवा।
कायेन सेवा- दानं, परित्राणं, परिरक्षणम् इति त्रिविधा सेवा।
मनसा सेवा- दया स्पृहा, श्रद्धा इति त्रिविधा सेवा।


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे माध्वमतम्