माध्वमतेन मायास्वरूपं .....।

विकिपुस्तकानि तः

माध्वमतेन मायास्वरूपं विवृणुत।

माया इति माध्वमते भगवतः इच्छा ।महामाया, अविद्या नियतिः मोहिनी, प्रकृतिः, वासना एतानि सर्वाणि तस्याः नामानि।एतेषु नामसु गूढाः अर्थाः एवम्-
१ अकारः इत्युक्ते विष्णुः।तस्य अकारस्य या विद्या सा अविद्या।
२ सर्वं जगद् वासयते अतः सा एव वासना इति उच्यते।
३ प्र इति उपसर्गः प्रकृष्टार्थकः।प्रकृष्टा कृतिः यस्याः सा प्रकृतिः।प्रपञ्चः एव एषा प्रकृष्टा कृतिः।
४ प्रकृष्टार्थकः मयशब्दः।अतः सा माया इति उच्यते।
मायामात्रम् इदं द्वैतम् इति माण्डूक्ये (१.१७)उक्तम् ।तत्र मायया मीयते, त्रायते यत्, तत् मायामात्रम् इति अर्थः माध्वमते ग्राह्यः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे माध्वमतम्