माध्वमते भेदसिद्धिः .....
माध्वमते भेदसिद्धिः कथं क्रियते?
माध्वमते पञ्च भेदाः मताः-
१ जड-जडयोः भेदः
२ जड-जीवयोः भेदः
३ जड-ईश्वरयोः भेदः
४ जीवजीवयोः भेदः
५ जीव-ईश्वरयोः भेदः
सर्वः अपि अयं भेदः सत्यः, अनादिः अविनाशः च।
भेदस्य सत्यत्वे अनुमानम् -
भेदः सत्यः अनिवर्त्यत्वात्
यः यः अनिवर्त्यः सः सः सत्यः यथा ईश्वरः
भेदसिद्धिः प्रत्यक्षप्रमाणेन
नीलः पीताद् भिन्नः।घटः पटाद् भिन्नः ।एतादृशं ज्ञानं प्रत्यक्षं भवति।अतः भेदः प्रत्यक्षसिद्धः।
जीवेश्वरभेदसिद्धिः प्रत्यक्षप्रमाणेन
जीवरश्वरयोः भेदः प्रत्यक्षग्राह्यः नास्ति।यतो हि ईश्वरः अतीन्द्रियः।
जीवेश्वरभेदसिद्धिः अनुमानेन
ईश्वरः जीवाद् भिन्नः, तं प्रति सेव्यत्वात्
यो यं प्रति सेव्यः, सः तस्माद् भिन्नः यथा भृत्याद् राजा।
ईश्वरः जीवाद् भिन्नः, तं प्रति ज्ञेयत्वात्
यो यं प्रति ज्ञेयः, सः तस्माद् भिन्नः, यथा भृत्याद् राजा।
जीवेश्वरभेदसिद्धिः श्रुत्या
‘सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गुणतो मघोनः’।
‘सत्यः सोऽस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये’।
‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’।
जीवेश्वरभेदसिद्धिः स्मृत्या
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।
यस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः।अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः। भ.गी.१५.१६-१८
भेदवादे आक्षेपाः तेषां समाधानं च-
आक्षेपः १
भेदप्रतिपादने श्रुतेः तात्पर्यं नास्ति।मानान्तरप्राप्तत्वात्।भेदः प्रत्यक्षं ग्रहीतुं शक्यते।अतः ‘अप्राप्ते शास्त्रम् अर्थवत्’ इति न्यायात् श्रुतिः भेदप्रतिपादनपरा नास्ति।
समाधानम्-
जीवेश्वरयोः भेदः प्रत्यक्षग्राह्यः नास्ति।अनुमानं च शब्दानुसारि एव ग्राह्यं भवति, न स्वतन्त्रम्।अतः मानान्तराभावे श्रुतिः भेदं प्रतिपादयति इति सिद्धम्।
आक्षेपः २
भेदज्ञानं धर्मिप्रतियोगिज्ञानाधीनं भवति, यथा नीले पीताद् भेदः।अत्र भेदस्य धर्मी नीलः।भेदस्य प्रतियोगी पीतः।एतयोः धर्मिप्रतियोगिनोः ज्ञानं यावत् न भवति, तावद् भेदज्ञानम् न भवति।
धर्मिप्रतियोगिज्ञानं च भेदज्ञानाधीनं भवति।भेदज्ञानाभावे धर्मिणः धर्मित्वावच्छेदेन ज्ञानं न भवति तथा प्रतियोगिनः अपि प्रतियोगितावच्छेदेन ज्ञानं न भवति।
एवं भेदज्ञानं धर्मिप्रतियोगिज्ञानाधीनं तथा धर्मिप्रतियोगिज्ञानं भेदज्ञानाधीनं भवति।एषः अन्योऽन्याश्रयदोषः।
समाधानम्
अयं दोषः तदानीम् एव सम्भवति, यदा भेदः धर्मत्वेन अङ्गीक्रियते।वयं तु भेदं पदार्थस्य स्वरूपम् एव मन्यामहे।अतः अयं दोषः अस्मन्मते न प्रसक्तः।
अक्षेपः ३
जीवेश्रर-अभेदप्रतिपादकानि नैकानि श्रुतिवचनानि उपलभ्यन्ते।जीवेश्वरयोः भेदं मन्यामहे चेत् तेषां वचनानां व्यकोपः भवति।
समाधानम्
जीवेश्वर-अभेदप्रतिपादकानि श्रुतिवचनानि सादृश्यपराणि सन्ति।
अल्पज्ञः जीवः, सर्वज्ञः ईश्वरः।परतन्त्रः जीवः, स्वतन्त्रः ईश्वरः।अपूर्णः जीवः, परिपूर्णः ईश्वरः।एवम् उभयोः ऐक्यं न सम्भवति।
अतः ‘तयोः अभेदः’ इति अर्थः बाधितः भवति।
मुख्यार्थबाधे ईश्वरवाचकपदस्य ईश्वरसदृशार्थे लक्षणा कार्या।यथा ‘आदित्यो यूपः’ इति श्रुतिवचने यूपादित्ययोः अभेदः ख्यापितः।तथैव अभेदवाक्येषु लक्षणया ईश्वरसदृशः जीवः इति अर्थः कार्यः।तेन श्रुतिव्याकोपः न शङ्कनीयः।
सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि सर्वदर्शनसङ्र्लहे माध्वमतम्