मिमांसा
अथातो धर्मजिज्ञासा / मीमांसा-१,१.१ /
चोदनालक्षणो ऽर्थो धर्मः / मिमांसा-१,१.२ /
तस्य निमित्तपरीष्टिः / मिमांसा-१,१.३ /
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् / मिमांसा-१,१.४ /
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् / मिमांसा-१,१.५ /
कर्मैके तत्र दर्शनात् / मिमांसा-१,१.६ /
अस्थानात् / मिमांसा-१,१.७ /
करोति शब्दात् / मिमांसा-१,१.८ /
सत्त्वान्तरे च यौगपद्यात् / मिमांसा-१,१.९ /
प्रकृति विकृत्योश् च / मिमांसा-१,१.१० /
वृद्धिश् च कर्तृभूम्नास्य / मिमांसा-१,१.११ /
समं तु तत्र दर्शनम् / मिमांसा-१,१.१२ /
सतः परमदर्शनं विषयानागमात् / मिमांसा-१,१.१३ /
प्रयोगस्य परम् / मिमांसा-१,१.१४ /
आदित्त्यवद्यौगपद्यम् / मिमांसा-१,१.१५ /
वर्णान्तरम् अविकारः / मिमांसा-१,१.१६ /
नादवृद्धिपरा / मिमांसा-१,१.१७ /
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् / मिमांसा-१,१.१८ /
सर्वत्र यौगपद्यात् / मिमांसा-१,१.१९ /
संख्याभावात् / मिमांसा-१,१.२० /
अनपेक्षत्वात् / मिमांसा-१,१.२१ /
प्रख्याभावाच् च योगस्य / मिमांसा-१,१.२२ /
लिङ्गदर्शनाच् च / मिमांसा-१,१.२३ /
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् / मिमांसा-१,१.२४ /
तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् / मिमांसा-१,१.२५ /
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् / मिमांसा-१,१.२६ /
वेदांश् चैके सन्निकर्षं पुरुषाख्याः / मिमांसा-१,१.२७ /
अनित्यदर्शनाच् च / मिमांसा-१,१.२८ /
उक्तं तु शब्दपूर्वत्वम् / मिमांसा-१,१.२९ /
आख्या प्रवचनात् / मिमांसा-१,१.३० /
परन्तु श्रुतिसामान्यमात्रम् / मिमांसा-१,१.३१ /
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् / मिमांसा-१,१.३२ /
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते / मिमांसा-१,२.१ /
शास्त्रदृष्टाविरोधाच् च / मिमांसा-१,२.२ /
तथाफलाभावात् / मिमांसा-१,२.३ /
अन्यानर्थक्यात् / मिमांसा-१,२.४ /
अभागिप्रतिषेधाच् च / मिमांसा-१,२.५ /
अनित्यसंयोगात् / मिमांसा-१,२.६ /
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः / मिमांसा-१,२.७ /
तुल्यं च साम्प्रदायिकम् / मिमांसा-१,२.८ /
आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत / मिमांसा-१,२.९ /
गुणवादस् तु / मिमांसा-१,२.१० /
रूपात् प्रायात् / मिमांसा-१,२.११ /
दूरभूयस्त्वात् / मिमांसा-१,२.१२ /
अपराधात् कर्तुश् च पुत्रदर्शनम् / मिमांसा-१,२.१३ /
आकालिकेप्सा / मिमांसा-१,२.१४ /
विद्याप्रशंसा / मिमांसा-१,२.१५ /
सर्वत्वम् आधिकारिकम् / मिमांसा-१,२.१६ /
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् / मिमांसा-१,२.१७ /
अन्त्ययोर् यथोक्तम् / मिमांसा-१,२.१८ /
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् / मिमांसा-१,२.१९ /
लोकवद् इति चेत् / मिमांसा-१,२.२० /
न पूर्वत्वात् / मिमांसा-१,२.२१ /
उक्तं तु वाक्यशेषत्वम् / मिमांसा-१,२.२२ /
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् / मिमांसा-१,२.२३ /
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति / मिमांसा-१,२.२४ /
विधौ च वाक्यभेदः स्यात् / मिमांसा-१,२.२५ /
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् / मिमांसा-१,२.२६ /
स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य / मिमांसा-१,२.२७ /
व्यर्थे स्तुतिर् अन्याय्येति चेत् / मिमांसा-१,२.२८ /
अर्थस् तु विधिशेषत्वाद् यथा लोके / मिमांसा-१,२.२९ /
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् / मिमांसा-१,२.३० /
तदर्थशास्त्रात् / मिमांसा-१,२.३१ /
वाक्यनियमात् / मिमांसा-१,२.३२ /
बुद्धिशास्त्रात् / मिमांसा-१,२.३३ /
अविद्यमानवचनात् / मिमांसा-१,२.३४ /
अचेतने ऽर्थबन्धनात् / मिमांसा-१,२.३५ /
अर्थविप्रतिषेधात् / मिमांसा-१,२.३६ /
स्वाध्यायवद्वचनात् / मिमांसा-१,२.३७ /
अविज्ञेयात् / मिमांसा-१,२.३८ /
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् / मिमांसा-१,२.३९ /
अविशिष्टस् तु वाक्यार्थः / मिमांसा-१,२.४० /
गुणार्थेन पुनः श्रुतिः / मिमांसा-१,२.४१ /
परिसंख्या / मिमांसा-१,२.४२ /
अर्थवादो वा / मिमांसा-१,२.४३ /
अविरुद्धं परम् / मिमांसा-१,२.४४ /
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् / मिमांसा-१,२.४५ /
अभिधाने ऽर्थवादः / मिमांसा-१,२.४६ /
गुणाद् अप्रतिषेधः स्यात् / मिमांसा-१,२.४७ /
विद्यावचनम् असंयोगात् / मिमांसा-१,२.४८ /
सतः परमविज्ञानम् / मिमांसा-१,२.४९ /
उक्तश् चानित्यसंयोगः / मिमांसा-१,२.५० /
लिङ्गोपदेशश् च तदर्थवत् / मिमांसा-१,२.५१ /
ऊहः / मिमांसा-१,२.५२ /
विधिशब्दाश् च / मिमांसा-१,२.५३ /
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् / मिमांसा-१,३.१ /
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् / मिमांसा-१,३.२ /
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् / मिमांसा-१,३.३ /
हेतुदर्शनाच् च / मिमांसा-१,३.४ /
शिष्टाकोपे ऽविरुद्धम् इति चेत् / मिमांसा-१,३.५ /
न शास्त्रपरिमाणत्वात् / मिमांसा-१,३.६ /
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् / मिमांसा-१,३.७ /
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् / मिमांसा-१,३.८ /
शास्त्रस्था वा तन्निमित्तत्वात् / मिमांसा-१,३.९ /
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन / मिमांसा-१,३.१० /
प्रयोगशास्त्रम् इति चेत् / मिमांसा-१,३.११ /
नासन्नियमात् / मिमांसा-१,३.१२ /
अवाक्यशेषाच् च / मिमांसा-१,३.१३ /
सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च / मिमांसा-१,३.१४ /
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् / मिमांसा-१,३.१५ /
अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य / मिमांसा-१,३.१६ /
दर्शनाद् विनियोगः स्यात् / मिमांसा-१,३.१७ /
लिङ्गाभावाच् च नित्यस्य / मिमांसा-१,३.१८ /
आख्या हि देशसंयोगात् / मिमांसा-१,३.१९ /
न स्याद् देशान्तरेष्व् इति चेत् / मिमांसा-१,३.२० /
स्याद्योगाख्या हि माथुरवत् / मिमांसा-१,३.२१ /
कर्मधर्मो वा प्रवणवत् / मिमांसा-१,३.२२ /
तुल्यं तु कर्तृधर्मेण / मिमांसा-१,३.२३ /
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् / मिमांसा-१,३.२४ /
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् / मिमांसा-१,३.२५ /
अन्यायश् चानेकशब्दत्त्वम् / मिमांसा-१,३.२६ /
तत्र तत्त्वम् अभियोगविशेषात् स्यात् / मिमांसा-१,३.२७ /
तदशक्तिश् चानुरूपत्वात् / मिमांसा-१,३.२८ /
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् / मिमांसा-१,३.२९ /
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् / मिमांसा-१,३.३० /
अद्रव्यशब्दत्वात् / मिमांसा-१,३.३१ /
अन्यदर्शनाच् च / मिमांसा-१,३.३२ /
आकृतिस् तु क्रियार्थत्वात् / मिमांसा-१,३.३३ /
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् / मिमांसा-१,३.३४ /
तदर्थत्वात् प्रयोगस्याविभागः / मिमांसा-१,३.३५ /
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् / मिमांसा-१,४.१ /
अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् / मिमांसा-१,४.२ /
यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः / मिमांसा-१,४.३ /
तत्प्रख्यञ् चान्यशास्त्रम् / मिमांसा-१,४.४ /
तद्व्यपदेशं च / मिमांसा-१,४.५ /
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् / मिमांसा-१,४.६ /
तुल्यत्वात् क्रिययोर् न / मिमांसा-१,४.७ /
ऐकशब्द्ये परार्थवत् / मिमांसा-१,४.८ /
तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः / मिमांसा-१,४.९ /
बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः / मिमांसा-१,४.१० /
प्रोक्षणीष्व् अर्थसंयोगात् / मिमांसा-१,४.११ /
तथानिर्मन्थ्ये / मिमांसा-१,४.१२ /
वैश्वदेवे विकल्प इति चेत् / मिमांसा-१,४.१३ /
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य / मिमांसा-१,४.१४ /
मिथश् चानर्थसम्बन्धः / मिमांसा-१,४.१५ /
परार्थत्वाद् गुणानाम् / मिमांसा-१,४.१६ /
पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये / मिमांसा-१,४.१७ /
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति / मिमांसा-१,४.१८ /
तच्छेषो नोपपद्यते / मिमांसा-१,४.१९ /
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् / मिमांसा-१,४.२० /
कारणं स्याद् इति चेत् / मिमांसा-१,४.२१ /
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते / मिमांसा-१,४.२२ /
तत्सिद्धिः / मिमांसा-१,४.२३ /
जातिः / मिमांसा-१,४.२४ /
सारूप्यात् / मिमांसा-१,४.२५ /
प्रशंसा / मिमांसा-१,४.२६ /
भूमा / मिमांसा-१,४.२७ /
लिङ्गसमवायात् / मिमांसा-१,४.२८ /
सन्दिग्धेषु वाक्यशेषात् / मिमांसा-१,४.२९ /
अर्थाद् वा कल्पनैकदेशत्वात् / मिमांसा-१,४.३० /
भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते / मिमांसा-२,१.१ /
सर्वेषां भावो ऽर्थ इति चेत् / मिमांसा-२,१.२ /
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै / मिमांसा-२,१.३ /
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य / मिमांसा-२,१.४ /
चोदना पुनर् आरम्भः / मिमांसा-२,१.५ /
तानि द्वैधं गुणप्रधानभूतानि / मिमांसा-२,१.६ /
यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् / मिमांसा-२,१.७ /
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् / मिमांसा-२,१.८ /
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् / मिमांसा-२,१.९ /
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् / मिमांसा-२,१.१० /
द्रव्योपदेश इति चेत् / मिमांसा-२,१.११ /
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् / मिमांसा-२,१.१२ /
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् / मिमांसा-२,१.१३ /
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् / मिमांसा-२,१.१४ /
वशावद् वा गुणार्थं स्यात् / मिमांसा-२,१.१५ /
न श्रुतिसमवायित्वात् / मिमांसा-२,१.१६ /
व्यपदेशभेदाच् च / मिमांसा-२,१.१७ /
गुणश् चानर्थकः स्यात् / मिमांसा-२,१.१८ /
तथा याज्यापुरोरुचोः / मिमांसा-२,१.१९ /
वशायाम् अर्थसमवायात् / मिमांसा-२,१.२० /
यच् चेति वार्थवत्त्वात् स्यात् / मिमांसा-२,१.२१ /
न त्वाम्नातेषु / मिमांसा-२,१.२२ /
दृश्यते / मिमांसा-२,१.२३ /
अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् / मिमांसा-२,१.२४ /
शब्दपृथक्त्वाच् च / मिमांसा-२,१.२५ /
अनर्थकं च तद्वचनम् / मिमांसा-२,१.२६ /
अन्यश् चार्थः प्रतीयते / मिमांसा-२,१.२७ /
अभिधानं च कर्मवत् / मिमांसा-२,१.२८ /
फलनिर्वृत्तिश् च / मिमांसा-२,१.२९ /
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् / मिमांसा-२,१.३० /
अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् / मिमांसा-२,१.३१ /
तच्चोदकेषु मन्त्राख्या / मिमांसा-२,१.३२ /
शेषे ब्राह्मणशब्दः / मिमांसा-२,१.३३ /
अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः / मिमांसा-२,१.३४ /
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था / मिमांसा-२,१.३५ /
गीतिषु स माख्या / मिमांसा-२,१.३६ /
शेषे यजुः शब्दाः / मिमांसा-२,१.३७ /
निगदो वा चतुर्थं स्याद् धर्मविशेषात् / मिमांसा-२,१.३८ /
व्यपदेशाच् च / मिमांसा-२,१.३९ /
यजूंषि वा तद्रूपत्वात् / मिमांसा-२,१.४० /
वचनाद् धर्मविशेषः / मिमांसा-२,१.४१ /
अर्थाच् च / मिमांसा-२,१.४२ /
गुणार्थो व्यपदेशः / मिमांसा-२,१.४३ /
सर्वेषाम् इति चेत् / मिमांसा-२,१.४४ /
न, ऋग्व्यपदेशात् / मिमांसा-२,१.४५ /
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् / मिमांसा-२,१.४६ /
समेषु वाक्यभेदः स्यात् / मिमांसा-२,१.४७ /
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् / मिमांसा-२,१.४८ /
व्यवायान् नानुषज्येत / मिमांसा-२,१.४९ /
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् / मिमांसा-२,२.१ /
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् / मिमांसा-२,२.२ /
प्रकरणं तु पौर्णमास्यां रूपावचनात् / मिमांसा-२,२.३ /
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् / मिमांसा-२,२.४ /
गुणस् तु श्रुतिसंयोगात् / मिमांसा-२,२.५ /
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत / मिमांसा-२,२.६ /
व्यपदेशश् च तद्वत् / मिमांसा-२,२.७ /
लिङ्गदर्शनाच् च / मिमांसा-२,२.८ /
पौर्णमासीवद् उपांशुयाजः स्यात् / मिमांसा-२,२.९ /
चोदना वाप्रकृतत्वात् / मिमांसा-२,२.१० /
गुणोपबन्धात् / मिमांसा-२,२.११ /
प्राये वचनाच् च / मिमांसा-२,२.१२ /
आघाराग्निहोत्रम् अरूपत्वात् / मिमांसा-२,२.१३ /
संज्ञोपबन्धात् / मिमांसा-२,२.१४ /
अप्रकृतत्वाच् च / मिमांसा-२,२.१५ /
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः / मिमांसा-२,२.१६ /
द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन / मिमांसा-२,२.१७ /
अचोदकाश् च संस्काराः / मिमांसा-२,२.१८ /
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् / मिमांसा-२,२.१९ /
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् / मिमांसा-२,२.२० /
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् / मिमांसा-२,२.२१ /
संज्ञा चोत्पत्तिसंयोगात् / मिमांसा-२,२.२२ /
गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् / मिमांसा-२,२.२३ /
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत / मिमांसा-२,२.२४ /
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् / मिमांसा-२,२.२५ /
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत / मिमांसा-२,२.२६ /
समेषु कर्मयुक्तं स्यात् / मिमांसा-२,२.२७ /
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः / मिमांसा-२,२.२८ /
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः / मिमांसा-२,२.२९ /
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् / मिमांसा-२,३.१ /
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् / मिमांसा-२,३.२ /
अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते / मिमांसा-२,३.३ /
आधाने सर्वशेषत्वात् / मिमांसा-२,३.४ /
अयनेषु चोदनान्तरं संज्ञोपबन्धात् / मिमांसा-२,३.५ /
अगुणाच् च कर्मचोदना / मिमांसा-२,३.६ /
समाप्तं च फले वाक्यम् / मिमांसा-२,३.७ /
विकारो वा प्रकरणात् / मिमांसा-२,३.८ /
लिङ्गदर्शनाच् च / मिमांसा-२,३.९ /
गुणात् संज्ञोपबन्धः / मिमांसा-२,३.१० /
समाप्तिर् अविशिष्टा / मिमांसा-२,३.११ /
संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् / मिमांसा-२,३.१२ /
यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् / मिमांसा-२,३.१३ /
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् / मिमांसा-२,३.१४ /
लिङ्गदर्शनाच् च / मिमांसा-२,३.१५ /
विषये प्रायदर्शनात् / मिमांसा-२,३.१६ /
अर्थवादोपपत्तेश् च / मिमांसा-२,३.१७ /
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् / मिमांसा-२,३.१८ /
पात्नीवते तु पूर्वत्वाद् अवच्छेदः / मिमांसा-२,३.१९ /
अद्रव्यत्वात् कवेले कर्मशेषः स्यात् / मिमांसा-२,३.२० /
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत / मिमांसा-२,३.२१ /
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् / मिमांसा-२,३.२२ /
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि / मिमांसा-२,३.२३ /
प्रकरणान्तरे प्रयोजनान्यत्वम् / मिमांसा-२,३.२४ /
फलं चाकर्मसंनिधौ / मिमांसा-२,३.२५ /
संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः / मिमांसा-२,३.२६ /
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत / मिमांसा-२,३.२७ /
अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते / मिमांसा-२,३.२८ /
अन्यार्था वा पुनः श्रुतिः / मिमांसा-२,३.२९ /
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् / मिमांसा-२,४.१ /
कर्तुर् वा श्रुतिसंयोगात् / मिमांसा-२,४.२ /
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् / मिमांसा-२,४.३ /
व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् / मिमांसा-२,४.४ /
अनित्यत्वात् तु नैवं स्यात् / मिमांसा-२,४.५ /
विरोधश् चापि पूर्ववत् / मिमांसा-२,४.६ /
कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् / मिमांसा-२,४.७ /
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् / मिमांसा-२,४.८ /
एकं वा संयोगरूपचोदनाख्याविशेषात् / मिमांसा-२,४.९ /
न नाम्ना स्याद् अचोदनाभिधानत्वात् / मिमांसा-२,४.१० /
सर्वेषां चैककर्म्यं स्यात् / मिमांसा-२,४.११ /
कृतकं चाभिधानम् / मिमांसा-२,४.१२ /
एकत्वे ऽपि परम् / मिमांसा-२,४.१३ /
विद्यायां धर्मशास्त्रम् / मिमांसा-२,४.१४ /
अग्नेयवत्पुनर्वचनम् / मिमांसा-२,४.१५ /
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् / मिमांसा-२,४.१६ /
अर्थासन्निधेश् च / मिमांसा-२,४.१७ /
न चैकं प्रतिशिष्यते / मिमांसा-२,४.१८ /
समाप्तिवच् च संप्रेक्षा / मिमांसा-२,४.१९ /
एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि / मिमांसा-२,४.२० /
प्रायश्चित्तं निमित्तेन / मिमांसा-२,४.२१ /
प्रक्रमाद् वा नियोगेन / मिमांसा-२,४.२२ /
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत / मिमांसा-२,४.२३ /
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् / मिमांसा-२,४.२४ /
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् / मिमांसा-२,४.२५ /
विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् / मिमांसा-२,४.२६ /
सारस्वते विप्रतिषेधाद्यदेति स्यात् / मिमांसा-२,४.२७ /
उपहव्ये ऽप्रतिप्रसवः / मिमांसा-२,४.२८ /
गुणार्था वा पुनः श्रुतिः / मिमांसा-२,४.२९ /
प्रत्ययं चापि दर्शयति / मिमांसा-२,४.३० /
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत / मिमांसा-२,४.३१ /
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् / मिमांसा-२,४.३२ /
अथातः शेषलक्षणम् / मिमांसा-३,१.१ /
शेषः परार्थत्वात् / मिमांसा-३,१.२ /
द्रव्यगुणसंस्कारेषु बादरिः / मिमांसा-३,१.३ /
कर्माण्यपि जैमिनिः फलार्थत्वात् / मिमांसा-३,१.४ /
फलं च पुरुषार्थत्वात् / मिमांसा-३,१.५ /
पुरुषश् च कर्मार्थत्वात् / मिमांसा-३,१.६ /
तेषाम् अर्थेन सबन्धः / मिमांसा-३,१.७ /
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च / मिमांसा-३,१.८ /
अर्थलोपाद् अकर्मे स्यात् / मिमांसा-३,१.९ /
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् / मिमांसा-३,१.१० /
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत / मिमांसा-३,१.११ /
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् / मिमांसा-३,१.१२ /
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् / मिमांसा-३,१.१३ /
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् / मिमांसा-३,१.१४ /
चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता / मिमांसा-३,१.१५ /
संस्काराद् वागुणानाम् अव्यवस्था स्यात् / मिमांसा-३,१.१६ /
व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् / मिमांसा-३,१.१७ /
आनर्थक्यात्तदङ्गेषु / मिमांसा-३,१.१८ /
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् / मिमांसा-३,१.१९ /
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण / मिमांसा-३,१.२० /
सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् / मिमांसा-३,१.२१ /
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् / मिमांसा-३,१.२२ /
मिथश् चानर्थसम्वन्धात् / मिमांसा-३,१.२३ /
आनन्तर्यम् अचोदना / मिमांसा-३,१.२४ /
बाक्यानां च समाप्तत्वात् / मिमांसा-३,१.२५ /
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् / मिमांसा-३,१.२६ /
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः / मिमांसा-३,१.२७ /
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् / मिमांसा-३,२.१ /
संस्कारकत्वाद् अचोदितेन स्यात् / मिमांसा-३,२.२ /
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् / मिमांसा-३,२.३ /
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् / मिमांसा-३,२.४ /
तथाहवानम् अपीति चेत् / मिमांसा-३,२.५ /
नकालविधिश् चोदितत्वात् / मिमांसा-३,२.६ /
गुणाभावात् / मिमांसा-३,२.७ /
लिङ्गाच् च / मिमांसा-३,२.८ /
विधिकोपश् चोपदेशे स्यात् / मिमांसा-३,२.९ /
तथोत्थानविसर्जने / मिमांसा-३,२.१० /
सूक्तवाके च कालविधिः परार्थत्वात् / मिमांसा-३,२.११ /
उपदेशो वा याज्याशब्दो हि नाकस्मात् / मिमांसा-३,२.१२ /
सदेवतार्थस् तत्संयोगात् / मिमांसा-३,२.१३ /
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् / मिमांसा-३,२.१४ /
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् / मिमांसा-३,२.१५ /
यथार्थं वा शेषभूतसंस्कारात् / मिमांसा-३,२.१६ /
वचनाद् इति चेत् / मिमांसा-३,२.१७ /
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः / मिमांसा-३,२.१८ /
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् / मिमांसा-३,२.१९ /
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् / मिमांसा-३,२.२० /
तदाख्यो वा प्रकरणोपपत्तिभ्याम् / मिमांसा-३,२.२१ /
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् / मिमांसा-३,२.२२ /
सर्वेषां चोपदिष्टत्वात् / मिमांसा-३,२.२३ /
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य / मिमांसा-३,२.२४ /
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् / मिमांसा-३,२.२५ /
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् / मिमांसा-३,२.२६ /
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् / मिमांसा-३,२.२७ /
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति / मिमांसा-३,२.२८ /
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् / मिमांसा-३,२.२९ /
अनयाद् वा पूर्वस्यानुपलक्षणम् / मिमांसा-३,२.३० /
ग्रहणाद् वापनयः स्यात् / मिमांसा-३,२.३१ /
पात्नीवते तु पूर्ववत् / मिमांसा-३,२.३२ /
ग्रहणाद् वापनीतं स्यात् / मिमांसा-३,२.३३ /
त्वष्टारं तूपलक्षयेत् पानात् / मिमांसा-३,२.३४ /
अतुल्यत्वात् तु नैवं स्यात् / मिमांसा-३,२.३५ /
त्रिंशच् च परार्थत्वात् / मिमांसा-३,२.३६ /
वषट्कारश् च कर्तृवत् / मिमांसा-३,२.३७ /
छन्दः प्रतिषेधस् तु सर्वगामित्वात् / मिमांसा-३,२.३८ /
ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् / मिमांसा-३,२.३९ /
एकस्मिन् वा देवतान्तराद् विभागवत् / मिमांसा-३,२.४० /
छन्दश् च देवतावत् / मिमांसा-३,२.४१ /
सर्वेषु वाभावाद् एकच्छन्दसः / मिमांसा-३,२.४२ /
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि / मिमांसा-३,२.४३ /
श्रुतेर् जाताधिकारः स्यात् / मिमांसा-३,३.१ /
वेदो वा प्रायदर्शनात् / मिमांसा-३,३.२ /
लिङ्गाच् च / मिमांसा-३,३.३ /
धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः / मिमांसा-३,३.४ /
त्रयीविद्याख्या च तद्विद् धि / मिमांसा-३,३.५ /
व्यक्तिक्रमे यथाश्रुतीति चेत् / मिमांसा-३,३.६ /
न सर्वस्मिन् निवेशात् / मिमांसा-३,३.७ /
वेदसंयोगान् न प्रकरणेन बाध्यते / मिमांसा-३,३.८ /
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः / मिमांसा-३,३.९ /
भूयस्त्वेनोभयश्रुति / मिमांसा-३,३.१० /
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् / मिमांसा-३,३.११ /
क्रमश् च देशसामान्यात् / मिमांसा-३,३.१२ /
आख्या चैवम तदर्थत्वात् / मिमांसा-३,३.१३ /
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् / मिमांसा-३,३.१४ /
अहीनो वा प्रकरणाद् गौणः / मिमांसा-३,३.१५ /
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत / मिमांसा-३,३.१६ /
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य / मिमांसा-३,३.१७ /
पक्षेणार्थकृतस्येति चेत् / मिमांसा-३,३.१८ /
नकृतेर् एकसंयोगात् / मिमांसा-३,३.१९ /
जाघनी चैकदेशत्वात् / मिमांसा-३,३.२० /
चोदना वापूर्वत्वात् / मिमांसा-३,३.२१ /
एकदेश इति चेत् / मिमांसा-३,३.२२ /
न प्रकृतेर् अशास्त्रनिष्पत्तेः / मिमांसा-३,३.२३ /
सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् / मिमांसा-३,३.२४ /
उत्कर्षो वा ग्रहणाद् विशेषस्य / मिमांसा-३,३.२५ /
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् / मिमांसा-३,३.२६ /
क्रतुतो वार्थवादान् उपपत्तेः स्यात् / मिमांसा-३,३.२७ /
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् / मिमांसा-३,३.२८ /
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् / मिमांसा-३,३.२९ /
अविशेषात् स्तुतिर् व्यर्थेति चेत् / मिमांसा-३,३.३० /
स्याद् अनित्यत्वात् / मिमांसा-३,३.३१ /
सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् / मिमांसा-३,३.३२ /
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् / मिमांसा-३,३.३३ /
पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ / मिमांसा-३,३.३४ /
तत्सर्वार्थम् अविशेषात् / मिमांसा-३,३.३५ /
चरौवार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् / मिमांसा-३,३.३६ /
चराव् अपीति चेत् / मिमांसा-३,३.३७ /
न पक्तिनामत्वात् / मिमांसा-३,३.३८ /
एकस्मिन्न् एकसंयोगात् / मिमांसा-३,३.३९ /
धर्माविप्रतिषेधाच् च / मिमांसा-३,३.४० /
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात / मिमांसा-३,३.४१ /
लिङ्गदर्शनाच् च / मिमांसा-३,३.४२ /
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति / मिमांसा-३,३.४३ /
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् / मिमांसा-३,३.४४ /
हेतुमात्रम् अदन्तत्वम् / मिमांसा-३,३.४५ /
वचनं परम् / मिमांसा-३,३.४६ /
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् / मिमांसा-३,४.१ /
अपदेशो वार्थस्य विद्यमानतत्त्वात् / मिमांसा-३,४.२ /
विधिस्तवर्पूर्वत्वात् स्यात् / मिमांसा-३,४.३ /
स प्रायात् कर्मधर्मः स्यात् / मिमांसा-३,४.४ /
वाक्यशेषत्वात् / मिमांसा-३,४.५ /
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् / मिमांसा-३,४.६ /
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् / मिमांसा-३,४.७ /
अर्थवादो वा प्रकरणात् / मिमांसा-३,४.८ /
विधिना चैकवाक्यत्वात् / मिमांसा-३,४.९ /
दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् / मिमांसा-३,४.१० /
परुषि दितपूर्णघृतविदग्धं च तद्वत् / मिमांसा-३,४.११ /
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् / मिमांसा-३,४.१२ /
विधिर् वा संयोगान्तरात् / मिमांसा-३,४.१३ /
अहीनवत् पुरुषस् तदर्थत्वात् / मिमांसा-३,४.१४ /
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् / मिमांसा-३,४.१५ /
व्यपदेशाद् अपकृष्येत / मिमांसा-३,४.१६ /
शंयौ च सर्वपरिदानात् / मिमांसा-३,४.१७ /
प्रागपरोधान् मलवद् वाससः / मिमांसा-३,४.१८ /
अन्नप्रतिषेधाच् च / मिमांसा-३,४.१९ /
अप्रकरणे तु तद्वर्मस् ततो विशेषात् / मिमांसा-३,४.२० /
अद्रव्यत्वात् तु शेषः स्यात् / मिमांसा-३,४.२१ /
वेदसंयोगात् / मिमांसा-३,४.२२ /
द्रव्यसंयोगाच् च / मिमांसा-३,४.२३ /
स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः / मिमांसा-३,४.२४ /
शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् / मिमांसा-३,४.२५ /
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् / मिमांसा-३,४.२६ /
शेषश् च समाख्यानात् / मिमांसा-३,४.२७ /
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् / मिमांसा-३,४.२८ /
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत / मिमांसा-३,४.२९ /
अचोदित च कर्मभेदात् / मिमांसा-३,४.३० /
लिङ्गाद् आर्त्विजे स्यात् / मिमांसा-३,४.३१ /
पानव्यापच् च तद्वत् / मिमांसा-३,४.३२ /
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् / मिमांसा-३,४.३३ /
तत्सर्वत्राविशेषात् / मिमांसा-३,४.३४ /
स्वामिनो वा तदर्थत्वात् / मिमांसा-३,४.३५ /
लिङ्गदर्शनाच् च / मिमांसा-३,४.३६ /
सर्वप्रदानं हविषस् तदर्थत्वात् / मिमांसा-३,४.३७ /
निरवदानात् तु शेषः स्यात् / मिमांसा-३,४.३८ /
उपायो वा तदर्थत्वात् / मिमांसा-३,४.३९ /
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् / मिमांसा-३,४.४० /
शेषदर्शनाच् च / मिमांसा-३,४.४१ /
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् / मिमांसा-३,४.४२ /
संस्कृतत्वाच् च / मिमांसा-३,४.४३ /
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् / मिमांसा-३,४.४४ /
लिङ्गदर्शनाच् च / मिमांसा-३,४.४५ /
एकस्माच् चेद् यथाकाम्यम् अविशेषात् / मिमांसा-३,४.४६ /
मुख्याद् वा पूर्वकालत्वात् / मिमांसा-३,४.४७ /
भक्षाश्रवणाद् दानशब्दः परिक्रये / मिमांसा-३,४.४८ /
तत्संस्तवाच् च / मिमांसा-३,४.४९ /
भक्षार्थो वा द्रव्ये समत्वात् / मिमांसा-३,४.५० /
व्यादेशाद् दानसंस्तुतिः / मिमांसा-३,४.५१ /
आज्याच् च सर्वसंयोगात् / मिमांसा-३,५.१ /
कारणाच् च / मिमांसा-३,५.२ /
एकस्मिन्त् समवत्तशब्दात् / मिमांसा-३,५.३ /
आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य / मिमांसा-३,५.४ /
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता / मिमांसा-३,५.५ /
साधारण्यान् न ध्रुवायां स्यात् / मिमांसा-३,५.६ /
अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् / मिमांसा-३,५.७ /
चमसवद् इति चेत् / मिमांसा-३,५.८ /
न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च / मिमांसा-३,५.९ /
उत्पन्नाधिकारात् सति सर्ववचनम् / मिमांसा-३,५.१० /
जातिविशेषात् परम् / मिमांसा-३,५.११ /
अन्त्यम् अरेकार्थे / मिमांसा-३,५.१२ /
साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् / मिमांसा-३,५.१३ /
सौत्रामण्यां च ग्रहेषु / मिमांसा-३,५.१४ /
तद्वच् च शेषवचनम् / मिमांसा-३,५.१५ /
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् / मिमांसा-३,५.१६ /
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् / मिमांसा-३,५.१७ /
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् / मिमांसा-३,५.१८ /
सोमे ऽवचनाद् भक्षो न विद्यते / मिमांसा-३,५.१९ /
स्याद् वान्यार्थदर्शनात् / मिमांसा-३,५.२० /
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः / मिमांसा-३,५.२१ /
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् / मिमांसा-३,५.२२ /
उद्गातृचमसमेकः श्रुतिसंयोगात् / मिमांसा-३,५.२३ /
सर्वे वा सर्वसंयोगात् / मिमांसा-३,५.२४ /
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः / मिमांसा-३,५.२५ /
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् / मिमांसा-३,५.२६ /
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् / मिमांसा-३,५.२७ /
हारियोजने वा सर्वसंयोगात् / मिमांसा-३,५.२८ /
चमसिनां वा सन्निधानात् / मिमांसा-३,५.२९ /
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः / मिमांसा-३,५.३० /
वषट्काराच् च भक्षयेत् / मिमांसा-३,५.३१ /
होमाभिषबाभ्यां च / मिमांसा-३,५.३२ /
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे / मिमांसा-३,५.३३ /
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् / मिमांसा-३,५.३४ /
चमसे चान्यदर्शनात् / मिमांसा-३,५.३५ /
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् / मिमांसा-३,५.३६ /
होता वा मन्त्रवर्णात् / मिमांसा-३,५.३७ /
वचनाच् च / मिमांसा-३,५.३८ /
कारणानुपूर्व्याच् च / मिमांसा-३,५.३९ /
वचनाद् अनुज्ञातभक्षणम् / मिमांसा-३,५.४० /
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् / मिमांसा-३,५.४१ /
तत्रार्थात् प्रतिवचनम् / मिमांसा-३,५.४२ /
तदेकत्राणां समवायात् / मिमांसा-३,५.४३ /
याज्यापनयेनापनीतो भक्षः प्रवरवत् / मिमांसा-३,५.४४ /
यष्टुर् वा कारणागमात् / मिमांसा-३,५.४५ /
प्रवृत्तत्वात् प्रवरस्यानपायः / मिमांसा-३,५.४६ /
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् / मिमांसा-३,५.४७ /
इज्याबिकारो वा संस्कारस्य तदर्थत्वात् / मिमांसा-३,५.४८ /
होमात् / मिमांसा-३,५.४९ /
चमसैश् च तुल्यकालत्वात् / मिमांसा-३,५.५० /
लिङ्गदर्शनाच् च / मिमांसा-३,५.५१ /
अनुप्रसर्पिषु सामान्यात् / मिमांसा-३,५.५२ /
ब्रह्मणा वा तुल्यशब्दत्वात् / मिमांसा-३,५.५३ /
तत् सर्वार्थम् अप्रकरणात् / मिमांसा-३,६.१ /
प्रकृतौ वाद्विरुक्तत्वात् / मिमांसा-३,६.२ /
तद्वर्जं तु वचनप्राप्ते / मिमांसा-३,६.३ /
दर्शनाद् इति चेत् / मिमांसा-३,६.४ /
न चोदनैकार्थ्यात् / मिमांसा-३,६.५ /
उत्पत्तिर् इति चेत् / मिमांसा-३,६.६ /
न तुल्यत्वात् / मिमांसा-३,६.७ /
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः / मिमांसा-३,६.८ /
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् / मिमांसा-३,६.९ /
नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् / मिमांसा-३,६.१० /
इष्टयर्थमग्न्याधेयं प्रकरणात् / मिमांसा-३,६.११ /
न वा तासां तदर्थत्वात् / मिमांसा-३,६.१२ /
लिङ्गदर्शनाच् च / मिमांसा-३,६.१३ /
तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः / मिमांसा-३,६.१४ /
सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् / मिमांसा-३,६.१५ /
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् / मिमांसा-३,६.१६ /
न वा तासां तदर्थत्वात् / मिमांसा-३,६.१७ /
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् / मिमांसा-३,६.१८ /
स्थानाच् च पूर्वस्य / मिमांसा-३,६.१९ /
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था / मिमांसा-३,६.२० /
तेनोत्कृष्टस्य कालविधिर् इति चेत् / मिमांसा-३,६.२१ /
नैकदेशत्वात् / मिमांसा-३,६.२२ /
अर्थेनेति चेत् / मिमांसा-३,६.२३ /
न श्रुतिविप्रतिषेधात् / मिमांसा-३,६.२४ /
स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् / मिमांसा-३,६.२५ /
लिङ्गदर्शनाच् च / मिमांसा-३,६.२६ /
अचोदना गुणार्थेन / मिमांसा-३,६.२७ /
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् / मिमांसा-३,६.२८ /
प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् / मिमांसा-३,६.२९ /
तद्वत् सवनान्तरे ग्रहाम्नानम् / मिमांसा-३,६.३० /
रशना च लिङ्गदर्शनात् / मिमांसा-३,६.३१ /
आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् / मिमांसा-३,६.३२ /
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् / मिमांसा-३,६.३३ /
निर्देशाद् व्यवतिष्ठेत / मिमांसा-३,६.३४ /
अग्न्यङ्गम् अप्रकरणे तद्वत् / मिमांसा-३,६.३५ /
नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् / मिमांसा-३,६.३६ /
प्रतिनिधिश् च मिमांसा-३,६.३७ /
तद्वत्प्रयोजनैकत्वात् / मिमांसा-३,६.३८ /
अशास्त्रलक्षणत्वाच्च / मिमांसा-३,६.३९ /
नियमार्था गुणश्रुतिः / मिमांसा-३,६.४० /
संस्थास् तु समानविधानाः प्रकरणाविशेषात् / मिमांसा-३,६.४१ /
व्यपदेशश् च तुल्यवत् / मिमांसा-३,६.४२ /
विकासस् तु कामसंयोगे नित्यस्य समत्वात् / मिमांसा-३,६.४३ /
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति / मिमांसा-३,६.४४ /
बचनात् तु समुच्चयः / मिमांसा-३,६.४५ /
प्रतिषेधाच् च पूर्वलिङ्गनाम् / मिमांसा-३,६.४६ /
गुणविशेषाद् एकस्य व्यपदेशः / मिमांसा-३,६.४७ /
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य / मिमांसा-३,७.१ /
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् / मिमांसा-३,७.२ /
आरादपीति चेत् / मिमांसा-३,७.३ /
न तद्वाक्यं हि तदर्थत्वात् / मिमांसा-३,७.४ /
लिङ्गदर्शनाच् च / मिमांसा-३,७.५ /
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य / मिमांसा-३,७.६ /
चिकीर्षयो च संयोगात् / मिमांसा-३,७.७ /
तथाभिधानेन / मिमांसा-३,७.८ /
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् / मिमांसा-३,७.९ /
गुणाभिधानात् सर्वार्थम् अभिधानम् / मिमांसा-३,७.१० /
दीक्षादक्षिणं तु वचनात् प्रधानस्य / मिमांसा-३,७.११ /
निवृत्तिदर्शनाच्च / मिमांसा-३,७.१२ /
तथा यूपस्य वेदि / मिमांसा-३,७.१३ /
देशमात्रं वा शिष्टेनैकवाक्यत्वात् / मिमांसा-३,७.१४ /
सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् / मिमांसा-३,७.१५ /
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य / मिमांसा-३,७.२६ /
समाख्यानं च तद्वत् / मिमांसा-३,७.१७ /
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् / मिमांसा-३,७.१८ /
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् / मिमांसा-३,७.१९ /
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि / मिमांसा-३,७.२० /
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् / मिमांसा-३,७.२१ /
अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः / मिमांसा-३,७.१२ /
एकस्य कर्मभेदाद् इति चेत् / मिमांसा-३,७.१३ /
नोत्पत्तौ हि / मिमांसा-३,७.१४ /
चमसाध्वर्यवश् च तैर् व्यपदेशात् / मिमांसा-३,७.१५ /
उत्पत्तौ तु बहुश्रुतेः / मिमांसा-३,७.१६ /
दशत्वं लिङ्गदर्शनात् / मिमांसा-३,७.१७ /
शमिता च शब्दभेदात् / मिमांसा-३,७.१८ /
प्रकरणाद् वोत्पत्त्यसंयोगात् / मिमांसा-३,७.२९ /
उपगाश् च लिङ्गदर्शनात् / मिमांसा-३,७.३० /
विक्रयी त्वन्यः कर्मणो ऽचोदित्वात् / मिमांसा-३,७.३१ /
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् / मिमांसा-३,७.३२ /
न वा परिसंख्यानात् / मिमांसा-३,७.३३ /
पक्षेणेति चेत् / मिमांसा-३,७.३४ /
न सर्वेषाम् अधिकारः / मिमांसा-३,७.३५ /
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् / मिमांसा-३,७.३६ /
उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् / मिमांसा-३,७.३७ /
स्वामिसप्तदशाः कर्मसामान्यात् / मिमांसा-३,७.३८ /
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् / मिमांसा-३,७.३९ /
तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् / मिमांसा-३,७.४० /
तस्योपदेशसमाख्यानेन निर्देशः / मिमांसा-३,७.४१ /
तद्वच् च लिङ्गदर्शम् / मिमांसा-३,७.४२ /
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् / मिमांसा-३,७.४३ /
पुरो ऽनुवाक्याधिकारो वा प्रैषसन्निधानात् / मिमांसा-३,७.४४ /
प्रातर् अनुवाके च होतृदर्शनात् / मिमांसा-३,७.४५ /
चमसांश्चमसाध्वर्यवः सामाख्यानात् / मिमांसा-३,७.४६ /
अध्वर्युर्वा तन्न्यायत्वात् / मिमांसा-३,७.४७ /
चमसे चान्यदर्शनात् / मिमांसा-३,७.४८ /
अशक्तौ ते प्रतीयेरन् / मिमांसा-३,७.४९ /
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः / मिमांसा-३,७.५० /
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे / मिमांसा-३,७.५१ /
स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् / मिमांसा-३,८.१ /
वचनाद् इतरेषां स्यात् / मिमांसा-३,८.२ /
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् / मिमांसा-३,८.३ /
याजमानास् तु तत्प्रधानत्वात् कर्मवत् / मिमांसा-३,८.४ /
व्यपदेशाच् च / मिमांसा-३,८.५ /
गुणत्त्वे तस्य निर्देशः / मिमांसा-३,८.६ /
चोदना प्रति भावाच् च / मिमांसा-३,८.७ /
अतुल्यत्वाद् असमानविधानाः स्युः / मिमांसा-३,८.८ /
तपश् च फलसिद्धित्वाल् लोकवत् / मिमांसा-३,८.९ /
वाक्यशेषश् च तद्वत् / मिमांसा-३,८.१० /
वचनाद् इतरेषां स्यात् / मिमांसा-३,८.११ /
गुणत्वाच् च वेदेन न व्यवस्था स्यात् / मिमांसा-३,८.१२ /
तथा कामो ऽर्थसंयोगात् / मिमांसा-३,८.१३ /
व्यपदेशाद् इतरेषां स्यात् / मिमांसा-३,८.१४ /
मन्त्राश् चाकर्मकरणास् तद्वत् / मिमांसा-३,८.१५ /
विप्रयोगे च दर्शनात् / मिमांसा-३,८.१६ /
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् / मिमांसा-३,८.१७ /
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति / मिमांसा-३,८.१८ /
याजमाने समाख्यानात् कर्माणि याजमानं स्युः / मिमांसा-३,८.१९ /
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् / मिमांसा-३,८.२० /
विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् / मिमांसा-३,८.२१ /
प्रैषेणु च पराधिकारात् / मिमांसा-३,८.२२ /
अध्वर्युस् तु दर्शनात् / मिमांसा-३,८.२३ /
गौणो वा कर्मसामान्यात् / मिमांसा-३,८.२४ /
ऋत्विक् फलं करणेष्व् अर्थत्त्वात् / मिमांसा-३,८.२५ /
स्वामिनो वा तदर्थत्वात् / मिमांसा-३,८.२६ /
लिङ्गदर्शनाच् च / मिमांसा-३,८.२७ /
कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् / मिमांसा-३,८.२८ / व्यपदेशाच् च / मिमांसा-३,८.२९ /
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् / मिमांसा-३,८.३० /
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः / मिमांसा-३,८.३१ /
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे / मिमांसा-३,८.३२ /
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् / मिमांसा-३,८.३३ /
विकृतौ सर्वार्थः शेषः प्रकृतिवत् / मिमांसा-३,८.३४ /
मुख्यार्थो वाङ्गस्याचोदितत्वात् / मिमांसा-३,८.३५ /
सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् / मिमांसा-३,८.३६ /
आधाने ऽपि तथेति चेत् / मिमांसा-३,८.३७ /
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् / मिमांसा-३,८.३८ /
तत्काले वा लिङ्गदर्शनात् / मिमांसा-३,८.३९ /
सर्वेषां वाविशेषात् / मिमांसा-३,८.४० /
न्यायोक्ते लिङ्गदर्शनम् / मिमांसा-३,८.४१ /
मांसं तु सवनीयानां चोदनाविशेषात् / मिमांसा-३,८.४२ /
भक्तिर् असन्निधावन्याय्येति चेत् / मिमांसा-३,८.४३ /
स्यात् प्रकृतिलिङ्गाद् वैराजवत् / मिमांसा-३,८.४४ /
अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा / मिमांसा-४,१.१ /
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् / मिमांसा-४,१.२ /
तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः / मिमांसा-४,१.३ /
अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः / मिमांसा-४,१.४ /
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् / मिमांसा-४,१.५ /
तथा च लोकभूतेषु / मिमांसा-४,१.६ /
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् / मिमांसा-४,१.७ /
स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः / मिमांसा-४,१.८ /
चोद्यन्ते चार्थकर्मसु / मिमांसा-४,१.९ /
लिङ्गदर्शनाच् च / मिमांसा-४,१.१० /
तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् / मिमांसा-४,१.११ /
एकश्रुतित्वाच् च / मिमांसा-४,१.१२ /
प्रतीयते इति चेत् / मिमांसा-४,१.१३ /
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् / मिमांसा-४,१.१४ /
शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् / मिमांसा-४,१.१५ /
तद्वच् च लिङ्गदर्शनम् / मिमांसा-४,१.१६ /
तथा च लिङ्गम् / मिमांसा-४,१.१७ /
आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत / मिमांसा-४,१.१८ /
चोदनायां त्व् अनारम्भो ऽविभक्तत्वान् न ह्य् अन्येन विधीयते / मिमांसा-४,१.१९ /
स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः / मिमांसा-४,१.२० /
अर्थे समवैषम्यतो द्रव्यकर्मणाम् / मिमांसा-४,१.२१ /
एकनिष्पत्तेः सर्वे समं स्यात् / मिमांसा-४,१.२२ /
संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् / मिमांसा-४,१.२३ /
मुख्यशब्दाभिसंस्तवाच् च / मिमांसा-४,१.२४ /
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् / मिमांसा-४,१.२५ /
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते / मिमांसा-४,१.२६ /
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् / मिमांसा-४,१.२७ /
एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् / मिमांसा-४,१.२८ /
निर्देशात् तस्यान्यद् अर्थाद् इति चेत् / मिमांसा-४,१.२९ /
न शेषसन्निधानात् / मिमांसा-४,१.३० /
कर्मकार्यात् / मिमांसा-४,१.३१ /
लिङ्गदर्शनाच् च / मिमांसा-४,१.३२ /
अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् / मिमांसा-४,१.३३ /
न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् / मिमांसा-४,१.३४ /
हेतुत्वाच् च सहप्रयोगस्य / मिमांसा-४,१.३५ /
अभावदर्शनाच् च / मिमांसा-४,१.३६ /
सति सव्यवचनम् / मिमांसा-४,१.३७ /
न तस्येति चेत् / मिमांसा-४,१.३८ /
स्यात् तस्य मुख्यत्वात् / मिमांसा-४,१.३९ /
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् / मिमांसा-४,१.४० /
वचने हि हेत्वसामर्थ्यम् / मिमांसा-४,१.४१ /
तत्रोत्पत्तिर् अविभक्ता स्यात् / मिमांसा-४,१.४२ /
तत्र जौहवम् अनूयाजप्रतिषेधार्थम् / मिमांसा-४,१.४३ /
औपभृतं तथेति चेत् / मिमांसा-४,१.४४ /
स्याज् जुहूप्रतिषेधान् नित्यानुवादः / मिमांसा-४,१.४५ /
तदष्टसङ्ख्यं श्रवणात् / मिमांसा-४,१.४६ /
अनुग्रहाच् च जौहवस्य / मिमांसा-४,१.४७ /
द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने / मिमांसा-४,१.४८ /
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् / मिमांसा-४,२.१ /
जात्यन्तराच् च शङ्कते / मिमांसा-४,२.२ /
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् / मिमांसा-४,२.३ /
शकलश्रुतेश् च / मिमांसा-४,२.४ /
प्रतियूपं च दर्शनात् / मिमांसा-४,२.५ /
आदाने करोतिशब्दः / मिमांसा-४,२.६ /
शाखायां तत्प्रधानत्वात् / मिमांसा-४,२.७ /
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् / मिमांसा-४,२.८ /
श्रुत्यपायाच् च / मिमांसा-४,२.९ /
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् / मिमांसा-४,२.१० /
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् / मिमांसा-४,२.११ /
अर्थे ऽपि चेत् / मिमांसा-४,२.१२ /
न तस्यानधिकाराद् अर्थस्य च कृतत्वात् / मिमांसा-४,२.१३ /
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् / मिमांसा-४,२.१४ /
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् / मिमांसा-४,२.१५ /
प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् / मिमांसा-४,२.१६ /
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् / मिमांसा-४,२.१७ /
कर्मयुक्ते च दर्शनात् / मिमांसा-४,२.१८ /
उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् / मिमांसा-४,२.१९ /
सौमिके च कृतार्थत्वात् / मिमांसा-४,२.२० /
अर्थकर्म वाभिधानसंयोगात् / मिमांसा-४,२.२१ /
प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः / मिमांसा-४,२.२२ /
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् / मिमांसा-४,२.२३ /
नियमार्था वा श्रुतिः / मिमांसा-४,२.२४ /
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् / मिमांसा-४,२.१५ /
संस्कारे च तत्प्रधानत्वात् / मिमांसा-४,२.२६ /
यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् / मिमांसा-४,२.२७ /
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् / मिमांसा-४,२.२८ /
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् / मिमांसा-४,२.२९ /
अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् / मिमांसा-४,२.३० /
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् / मिमांसा-४,२.३१ /
उत्पत्तेश् चातत्प्रधानत्वात् / मिमांसा-४,३.२ /
फलं तु तत्प्रधानायाम् / मिमांसा-४,३.३ /
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् / मिमांसा-४,३.४ /
एकस्य तूभयत्वे संयोगपृथक्त्वम् / मिमांसा-४,३.५ /
शेष इति चेत् / मिमांसा-४,३.६ /
नार्थपृथक्त्वात् / मिमांसा-४,३.७ /
द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् / मिमांसा-४,३.८ /
पृथक्त्वाद्व्यवतिष्ठेत / मिमांसा-४,३.९ /
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते / मिमांसा-४,३.१० /
अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्ते ऽर्थतोप्य् असमर्थानाम् आनन्तर्ये ऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः / मिमांसा-४,३.११ /
वाक्यार्थश् च गुणार्थवत् / मिमांसा-४,३.१२ /
तत्सर्वार्थम् अनादेशात् / मिमांसा-४,३.१३ /
एकं वा चोदनैकत्वात् / मिमांसा-४,३.१४ /
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् / मिमांसा-४,३.१५ /
प्रत्ययाच् च / मिमांसा-४,३.१६ /
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः / मिमांसा-४,३.१७ /
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् / मिमांसा-४,३.१८ /
अङ्गेषु स्तुतिः परार्थत्वात् / मिमांसा-४,३.१९ /
काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः / मिमांसा-४,३.२० /
वीते च कारणे नियमात् / मिमांसा-४,३.२१ /
कामो वा तत्संयोगेन चोद्यते / मिमांसा-४,३.२२ /
अङ्गेषु स्तुतिः परार्थत्वात् / मिमांसा-४,३.२३ /
वीते च नियमस् तदर्थम् / मिमांसा-४,३.२४ /
सर्वकाम्यम् अङ्गकामैः प्रकरणात् / मिमांसा-४,३.२५ /
फलोपदेशो वा प्रधानशब्दसंयोगात् / मिमांसा-४,३.२६ /
तत्र सर्वे ऽविशेषात् / मिमांसा-४,३.२७ /
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् / मिमांसा-४,३.२८ /
समवाये चोदनासंयोगस्यार्थवत्वात् / मिमांसा-४,३.२९ /
कालश्रुतौ काल इति चेत् / मिमांसा-४,३.३० /
नासमवायात्प्रयोजनेन / मिमांसा-४,३.३१ /
उभयार्थाम् इति चेत् / मिमांसा-४,३.३२ /
न शब्दैकत्वात् / मिमांसा-४,३.३३ /
प्रकरणाद् इति चेत् / मिमांसा-४,३.३४ /
नोत्पत्तिसंयोगात् / मिमांसा-४,३.३५ /
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् / मिमांसा-४,३.३६ / उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् / मिमांसा-४,३.३७ /
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् / मिमांसा-४,३.३८ /
अङ्गानां तूपघातसंयोगो निमित्तार्थः / मिमांसा-४,३.३९ /
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् / मिमांसा-४,३.४० /
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् / मिमांसा-४,३.४१ /
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् / मिमांसा-४,४.१ /
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् / मिमांसा-४,४.२ /
मध्यस्थं यस्य तन्मध्ये / मिमांसा-४,४.३ /
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये / मिमांसा-४,४.४ /
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् / मिमांसा-४,४.५ /
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य / मिमांसा-४,४.६ /
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् / मिमांसा-४,४.७ /
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् / मिमांसा-४,४.८ /
नित्यश् च ज्येष्ठशब्दात् / मिमांसा-४,४.९ /
सार्वरूप्याच् च / मिमांसा-४,४.१० /
नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य / मिमांसा-४,४.११ /
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् / मिमांसा-४,४.१२ /
पक्षे वोत्पन्नसंयोगात् / मिमांसा-४,४.१३ /
षट्चितिः पूर्ववत्त्वात् / मिमांसा-४,४.१४ /
ताभिश् च तुल्यसंख्यानात् / मिमांसा-४,४.१५ /
अर्थवादोपपत्तेश् च / मिमांसा-४,४.१६ /
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन / मिमांसा-४,४.१७ /
विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् / मिमांसा-४,४.१८ /
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् / मिमांसा-४,४.१९ /
तुल्यवच् च प्रसङ्ख्यानात् / मिमांसा-४,४.२० /
प्रतिषिद्धे च दर्शनात् / मिमांसा-४,४.२१ /
पश्वङ्ग रशमा स्यात् तदागमे विधानात् / मिमांसा-४,४.२२ /
यूपाङ्गं वा तत्संस्कारात् / मिमांसा-४,४.२३ /
अर्थवादश् च तदर्थवत् / मिमांसा-४,४.२४ /
स्वरुश्चाप्य् एकदेशत्वात् / मिमांसा-४,४.२५ /
निष्क्रयश् च तदङ्गवत् / मिमांसा-४,४.२६ /
पश्वङ्गं वार्थकर्मत्वात् / मिमांसा-४,४.२७ /
भक्त्या निष्क्रयवादः स्यात् / मिमांसा-४,४.२८ /
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् / मिमांसा-४,४.२९ /
अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः / मिमांसा-४,४.३० /
तथा चान्यार्थदर्शनम् / मिमांसा-४,४.३१ /
अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् / मिमांसा-४,४.३२ /
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् / मिमांसा-४,४.३३ /
पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः / मिमांसा-४,४.३४ /
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते / मिमांसा-४,४.३५ /
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः / मिमांसा-४,४.३६ /
उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् / मिमांसा-४,४.३७ /
तथा चान्यार्थदर्शनम् / मिमांसा-४,४.३८ /
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् / मिमांसा-४,४.३९ /
गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् / मिमांसा-४,४.४० /
तथा चान्यार्थदर्शनम् / मिमांसा-४,४.४१ /
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् / मिमांसा-५,१.१ /
अर्थाच् च / मिमांसा-५,१.२ /
अनियमो ऽन्यत्र / मिमांसा-५,१.३ /
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् / मिमांसा-५,१.४ /
अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् / मिमांसा-५,१.५ /
अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत / मिमांसा-५,१.६ /
तथा चान्यार्थदर्शनम् / मिमांसा-५,१.७ /
प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् / मिमांसा-५,१.८ /
सर्वम् इति चेत् / मिमांसा-५,१.९ /
नाकृतत्वात् / मिमांसा-५,१.१० /
क्रत्वन्तरवद् इति चेत् / मिमांसा-५,१.११ /
नासमवायात् / मिमांसा-५,१.१२ /
स्थानाच् चोत्पत्तिसंयोगात् / मिमांसा-५,१.१३ /
मुख्यक्रमेण वाङ्गानां तदर्थत्वात् / मिमांसा-५,१.१४ /
प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत / मिमांसा-५,१.१५ /
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः / मिमांसा-५,१.१६ /
तद्वचनाद् विकृतौ यथा प्रधानं स्यात् / मिमांसा-५,१.१७ /
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति / मिमांसा-५,१.१८ /
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् / मिमांसा-५,१.१९ /
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् / मिमांसा-५,१.२० /
कालोत्कर्ष इति चेत् / मिमांसा-५,१.२१ /
न तत्सम्बन्धात् / मिमांसा-५,१.२२ /
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् / मिमांसा-५,१.२३ /
तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् / मिमांसा-५,१.२४ /
प्रवृत्या कृतकालानाम् / मिमांसा-५,१.२५ /
शब्दविप्रतिषेधाच् च / मिमांसा-५,१.२६ /
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत. मिमांसा-५,१.२७ /
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् / मिमांसा-५,१.२८ /
तथापूर्वम् / मिमांसा-५,१.२९ /
सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् / मिमांसा-५,१.३० /
अञ्यवायाच् च मिमांसा-५,१.३१ /
असम्बन्धात् तु नोत्कर्षेत् / मिमांसा-५,१.३२ /
प्रापणाच् च निमित्तस्य / मिमांसा-५,१.३३ /
सम्बन्धात् सवनोत्कर्मः / मिमांसा-५,१.३४ /
षोडशी चोक्थ्यसंयोगात् / मिमांसा-५,१.३५ /
सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् / मिमांसा-५,२.१ /
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् / मिमांसा-५,२.२ /
कारणाद् अभ्यावृत्तिः / मिमांसा-५,२.३ /
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन / मिमांसा-५,२.४ /
सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् / मिमांसा-५,२.५ /
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् / मिमांसा-५,२.६ /
वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् / मिमांसा-५,२.७ /
कारणाद्वा(न) वसर्गः स्याद् यथा पात्रवृद्धिः / मिमांसा-५,२.८ /
न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः / मिमांसा-५,२.९ /
पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् / मिमांसा-५,२.१० /
दैवतैर् वैककर्म्यात् / मिमांसा-५,२.११ /
मन्त्रस्य चार्थवत्त्वात् / मिमांसा-५,२.१२ /
नानाबीजेष्वेकमुलूखलं विभवात् / मिमांसा-५,२.१३ /
विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् / मिमांसा-५,२.१४ /
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् / मिमांसा-५,२.१५ /
विकारे त्व् अनूयाजानां पात्रभेदो ऽर्थभेदात् स्यात् / मिमांसा-५,२.१६ /
प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् / मिमांसा-५,२.१७ /
मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् / मिमांसा-५,२.१८ /
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् / मिमांसा-५,२.१९ /
तथा चान्यार्थदर्शनम् / मिमांसा-५,२.२० /
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् / मिमांसा-५,२.२१ /
प्रकृताच् च पुरस्ताद् यत् / मिमांसा-५,२.२२ /
सन्निपातश् चेद् यथोक्तमन्ते स्यात् / मिमांसा-५,२.२३ /
विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत / मिमांसा-५,३.१ /
अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत / मिमांसा-५,३.२ /
स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् / मिमांसा-५,३.३ /
समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् / मिमांसा-५,३.४ /
तच्छब्दो वा / मिमांसा-५,३.५ /
उष्णिक्ककुभोरन्ते दर्शनात् / मिमांसा-५,३.६ /
स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे / मिमांसा-५,३.७ /
पर्यास इति चान्ताख्या / मिमांसा-५,३.८ /
अन्ते वा तदुक्तम् / मिमांसा-५,३.९ /
वचनात् तु द्वादशाहे / मिमांसा-५,३.१० /
अतद्विकारश् च / मिमांसा-५,३.११ /
तद्विकारे ऽप्य् अपूर्वत्वात् / मिमांसा-५,३.१२ /
अन्ते तूत्तरयोर् दध्यात् / मिमांसा-५,३.१३ /
अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् / मिमांसा-५,३.१४ /
ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् / मिमांसा-५,३.१५ /
क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य / मिमांसा-५,३.१६ /
अन्ते स्युर् अव्यवायात् / मिमांसा-५,३.१७ /
लिङ्गदर्शनाच् च / मिमांसा-५,३.१८ /
मध्यमायां तु वचनाद् ब्राह्मणवत्यः / मिमांसा-५,३.१९ /
प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् / मिमांसा-५,३.२० /
संस्कृते कर्म संस्काराणां तदर्थत्वात् / मिमांसा-५,३.२१ /
अनन्तरं व्रतं तद्भूतत्वात् / मिमांसा-५,३.२२ /
पूर्वं च लिङ्गदर्शनात् / मिमांसा-५,३.२३ / अर्थवादो वार्थस्य विद्यमानत्वात् / मिमांसा-५,३.२४ /
न्यायविप्रतिषेधाच् च / मिमांसा-५,३.२५ /
सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य / मिमांसा-५,३.२६ /
क्रत्वन्ते वा प्रयोगवचनाभावात् / मिमांसा-५,३.२७ /
अग्नेः कर्मत्वनिर्देशात् / मिमांसा-५,३.२८ /
परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् / मिमांसा-५,३.२९ /
इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् / मिमांसा-५,३.३० /
समाख्यानं च तद्वत् / मिमांसा-५,३.३१ /
अङ्गवत् क्रतूनाम् आनुपूर्व्यम् / मिमांसा-५,३.३२ /
न वासम्बन्धात् / मिमांसा-५,३.३३ /
काम्यत्वाच् च / मिमांसा-५,३.३४ /
आनर्थक्यान् नेति चेत् / मिमांसा-५,३.३५ /
स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् / मिमांसा-५,३.३६ /
य एतेनेत्य् अग्निष्टोमः प्रकरणात् / मिमांसा-५,३.३७ /
लिङ्गाच् च / मिमांसा-५,३.३८ /
अथान्येनेति संस्थानां सन्निधानात् / मिमांसा-५,३.३९ /
तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते / मिमांसा-५,३.४० /
प्रशसा च विहरणाभावात् / मिमांसा-५,३.४१ /
विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् / मिमांसा-५,३.४२ /
एकस्तोमे वा क्रतुसंयोगात् / मिमांसा-५,३.४३ /
सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् / मिमांसा-५,३.४४ /
क्रमकोयो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च / मिमांसा-५,४.१ /
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् / मिमांसा-५,४.२ /
यथारप्रदानं वा तदर्थत्वात् / मिमांसा-५,४.३ /
लिङ्गदर्शनाच् च / मिमांसा-५,४.४ /
वचनाद् इष्टिपूर्वत्वम् / मिमांसा-५,४.५ /
सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् / मिमांसा-५,४.६ /
तदर्थवचनाच् च नाविशेषात् तदर्थत्वं / मिमांसा-५,४.७ /
अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् / मिमांसा-५,४.८ /
इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् / मिमांसा-५,४.९ /
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् / मिमांसा-५,४.१० /
पौर्णमासी वा श्रुतिसंयोगात् / मिमांसा-५,४.११ /
सर्वस्य वैककर्म्यात् / मिमांसा-५,४.१२ /
स्याद् वा विधिस् तदर्थेन / मिमांसा-५,४.१३ /
प्रकरणात् तु कालः स्यात् / मिमांसा-५,४.१४ /
स्वकाले स्याद् अविप्रतिषेधात् / मिमांसा-५,४.१५ /
अपनयो वाधानस्य सर्वकालत्वात् / मिमांसा-५,४.१६ /
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् / मिमांसा-५,४.१७ /
एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् / मिमांसा-५,४.१८ /
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् / मिमांसा-५,४.१९ /
आज्यमपीति चेत् / मिमांसा-५,४.२० /
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् / मिमांसा-५,४.२१ /
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् / मिमांसा-५,४.२२ /
द्वैयहकाल्ये तु यथान्यायम् / मिमांसा-५,४.२३ /
वचनाद् वैककाल्यं स्यात् / मिमांसा-५,४.२४ /
सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् / मिमांसा-५,४.२५ /
तथा सोमविकारा दर्शपूर्णमासाभ्याम् / मिमांसा-५,४.२६ /
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः / मिमांसा-६,१.१ /
असाधकं तु तादर्थ्यात् / मिमांसा-६,१.२ /
प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् / मिमांसा-६,१.३ /
फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् / मिमांसा-६,१.४ /
कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते / मिमांसा-६,१.५ /
लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः / मिमांसा-६,१.६ /
तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते / मिमांसा-६,१.७ /
जातिं तु बादरायणो ऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् / मिमांसा-६,१.८ /
चोदितत्वाद् यथाश्रुति / मिमांसा-६,१.९ /
द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् / मिमांसा-६,१.१० /
तथा चान्यार्थदर्शनम् / मिमांसा-६,१.११ /
तादर्थ्यात् कर्म तादर्थ्यम् / मिमांसा-६,१.१२ /
फलोत्साहाविशेषात् तु / मिमांसा-६,१.१३ /
अर्थेन च समवेतत्वात् / मिमांसा-६,१.१४ /
क्रयस्य थर्ममात्रत्वम् / मिमांसा-६,१.१५ /
स्ववत्ताम् अपि दर्शयति / मिमांसा-६,१.१६ /
स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् / मिमांसा-६,१.१७ /
लिङ्गदर्शनाच् च / मिमांसा-६,१.१८ /
क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते / मिमांसा-६,१.१९ /
फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः / मिमांसा-६,१.२० /
फलवत्तां च दर्शयति / मिमांसा-६,१.२१ /
द्व्याधानं च द्वियज्ञवत् / मिमांसा-६,१.२२ /
गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् / मिमांसा-६,१.२३ /
तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् / मिमांसा-६,१.२४ /
चातुर्वर्ण्यम् अविशेषात् / मिमांसा-६,१.२५ /
निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः / मिमांसा-६,१.२६ /
निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् / मिमांसा-६,१.२७ /
अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत / मिमांसा-६,१.२८ /
निर्देशात् तु पक्षे स्यात् / मिमांसा-६,१.२९ /
वैगुण्यान् नेति चेत् / मिमांसा-६,१.३० /
न काम्यत्वात् / मिमांसा-६,१.३१ /
संस्कारे च तत्प्रधानत्वात् / मिमांसा-६,१.३२ /
अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत / मिमांसा-६,१.३३ /
गुणार्थित्वान् नेति चेत् / मिमांसा-६,१.३४ /
संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः / मिमांसा-६,१.३५ /
विद्यानिर्देशान् नेति चेत् / मिमांसा-६,१.३६ /
अबैद्यत्वाद् अभावः कर्मणि स्यात् / मिमांसा-६,१.३७ /
तथा चान्यार्थदर्शनम् / मिमांसा-६,१.३८ /
त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् / मिमांसा-६,१.३९ /
अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः / मिमांसा-६,१.४० /
अङ्गहीनश् च तद्धर्मा / मिमांसा-६,१.४१ /
उत्पत्तौ नित्यसंयोगात् / मिमांसा-६,१.४२ /
अत्र्यार्षेयस्य हानं स्यात् / मिमांसा-६,१.४३ /
वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात् / मिमांसा-६,१.४४ /
न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् / मिमांसा-६,१.४५ /
अकर्मत्वात् तु नैवं स्यात् / मिमांसा-६,१.४६ /
आनर्थक्यं च संयोगात् / मिमांसा-६,१.४७ /
गुणार्थेनेति चेत् / मिमांसा-६,१.४८ /
उक्तम् अनिमित्तत्वम् / मिमांसा-६,१.४९ /
सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् / मिमांसा-६,१.५० /
रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् / मिमांसा-६,१.५१ /
लिङ्गदर्शनाच् च / मिमांसा-६,१.५२ /
पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् / मिमांसा-६,२.१ /
अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् / मिमांसा-६,२.२ /
प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् / मिमांसा-६,२.३ /
प्रत्यर्थं श्रुतिभाव इति चेत् / मिमांसा-६,२.४ /
तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् / मिमांसा-६,२.५ /
अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् / मिमांसा-६,२.६ /
अन्यस्य स्याद् इति चेत् / मिमांसा-६,२.७ /
अन्यार्थेनाभिसम्बन्धः / मिमांसा-६,२.८ /
फलकामो निमित्तम् इति चेत् / मिमांसा-६,२.९ /
न नित्यत्वात् / मिमांसा-६,२.१० /
कर्म तथेति चेत् / मिमांसा-६,२.११ /
न समवायात् / मिमांसा-६,२.१२ /
प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् / मिमांसा-६,२.१३ /
फलार्थित्वाद् वानियमो यथानुपक्रान्ते / मिमांसा-६,२.१४ /
नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् / मिमांसा-६,२.१५ /
लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम् / मिमांसा-६,२.१६ /
अपराधे ऽपि च तैः शास्त्रम् / मिमांसा-६,२.१७ /
अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् / मिमांसा-६,२.१८ /
प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् / मिमांसा-६,२.१९ /
शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः / मिमांसा-६,२.२० /
तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् / मिमांसा-६,२.२१ /
अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् / मिमांसा-६,२.२२ /
अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते / मिमांसा-६,२.२३ /
तस्मिन्न् असम्भवन्न् अर्थात् / मिमांसा-६,२.२४ /
न कालेभ्य उपदिश्यन्ते / मिमांसा-६,२.२५ /
दर्शनात् काललिङ्गानां कालविधानम् / मिमांसा-६,२.२६ /
तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत / मिमांसा-६,२.२७ /
तथा हि लिङ्गदर्शनम् / मिमांसा-६,२.२८ /
तथान्तःक्रतुप्रयुक्तानि / मिमांसा-६,२.२९ / आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् / मिमांसा-६,२.३० /
ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् / मिमांसा-६,२.३१ /
सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् / मिमांसा-६,३.१ /
अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् / मिमांसा-६,३.२ /
तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् / मिमांसा-६,३.३ /
कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति / मिमांसा-६,३.४ /
अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु / मिमांसा-६,३.५ /
विध्यपराधे च दर्शनात् समाप्तेः / मिमांसा-६,३.६ /
प्रायश्चित्तविधानाच् च / मिमांसा-६,३.७ /
काम्येषु चैवम् अर्थित्वात् / मिमांसा-६,३.८ /
असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् / मिमांसा-६,३.९ /
अकर्मणि चाप्रत्यवायात् / मिमांसा-६,३.१० /
क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् / मिमांसा-६,३.११ /
अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् / मिमांसा-६,३.१२ /
श्रुतिप्रमाणत्वाच् छिष्टाभावे ऽनागमो ऽन्यस्याशिष्टत्वात् / मिमांसा-६,३.१३ /
क्वचिद् विधानाच् च / मिमांसा-६,३.१४ /
आगमो वा चोदनार्थाविशेषात् / मिमांसा-६,३.१५ /
नियमार्थः क्वाचिद् विधिः / मिमांसा-६,३.१६ /
तन् नित्यं तच्चिकीर्षा हि / मिमांसा-६,३.१७ /
न देवताग्निशब्दक्रियमन्यार्थसंयोगात् / मिमांसा-६,३.१८ /
देवतायां च तदर्थत्वात् / मिमांसा-६,३.१९ /
प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः / मिमांसा-६,३.२० /
तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् / मिमांसा-६,३.२१ /
बहूनां तु प्रवृत्ते ऽन्यमागमयेद् अवैगुण्यात् / मिमांसा-६,३.२२ /
स स्वामी स्यात् संयोगात् / मिमांसा-६,३.२३ /
कर्मकरो वा भृतत्वात् / मिमांसा-६,३.२४ /
तस्मिंश् च फलदर्शनात् / मिमांसा-६,३.२५ /
स तद्धर्मा स्यात् कर्मसंयोगात् / मिमांसा-६,३.२६ /
सामान्यं तच्चिकीर्षा हि / मिमांसा-६,३.२७ /
निर्देशात् तु विकल्पे यत् प्रवृत्तम् / मिमांसा-६,३.२८ /
अशब्दम् इति चेत् / मिमांसा-६,३.२९ /
नानङ्गत्वात् / मिमांसा-६,३.३० /
वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य / मिमांसा-६,३.३१ /
न प्रतिनिधौ समत्वात् / मिमांसा-६,३.३२ /
स्याच् छ्रुतिलक्षणे नियतत्वात् / मिमांसा-६,३.३३ /
न तदीप्सा हि / मिमांसा-६,३.३४ /
मुख्याधिगमे मुख्यम् आगमो हि तदभावात् / मिमांसा-६,३.३५ /
प्रबृत्ते ऽपीति चेत् / मिमांसा-६,३.३६ /
नानर्थकत्वात् / मिमांसा-६,३.३७ /
द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् / मिमांसा-६,३.३८ /
अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् / मिमांसा-६,३.३९ /
विधिर् अप्य् एकदेशे स्यात् / मिमांसा-६,३.४० /
अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् / मिमांसा-६,३.४१ /
शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् / मिमांसा-६,४.१ /
निर्देशाद् वान्यद् आगमयेत् / मिमांसा-६,४.२ /
अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् / मिमांसा-६,४.३ /
निर्देशाच् छेषभक्षो ऽन्यैः प्रधानवत् / मिमांसा-६,४.४ /
सर्वैर् वा समवायात् स्यात् / मिमांसा-६,४.५ /
निर्देशस्य गुणार्थत्वम् / मिमांसा-६,४.६ /
प्रधाने श्रुतिलक्षणम् / मिमांसा-६,४.७ /
अर्थवद् इति चेत् / मिमांसा-६,४.८ /
न चोदनाविरोधात् / मिमांसा-६,४.९ /
अर्थसमवायत् प्रायश्चित्तम् एकदेशे ऽपि / मिमांसा-६,४.१० /
न त्व् अशेषे वैगुण्यात् तदर्थं हि / मिमांसा-६,४.११ /
स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् / मिमांसा-६,४.१२ /
गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् / मिमांसा-६,४.१३ /
भेदार्थम् इति / मिमांसा-६,४.१४ /
न शेषभूतत्वात् / मिमांसा-६,४.१५ /
अनर्थकश् च सर्वनाशे स्यात् / मिमांसा-६,४.१६ /
क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् / मिमांसा-६,४.१७ /
दर्शनाद् एकदेशे स्यात् / मिमांसा-६,४.१८ /
अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः / मिमांसा-६,४.१९ /
तद्धविःशब्दान् नेति चेत् / मिमांसा-६,४.२० /
स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् / मिमांसा-६,४.२१ /
यथाश्रुतीति चेत् / मिमांसा-६,४.२२ /
न तल्लक्षणत्वाद् उपपातो हि कारणम् / मिमांसा-६,४.२३ /
होमाभिषवभक्षणं च तद्वत् / मिमांसा-६,४.२४ /
उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् / मिमांसा-६,४.२५ /
पुनर् आधेयम् ओदनवत् / मिमांसा-६,४.२६ /
द्रव्योत्पत्तेर् वोभयोः स्यात् / मिमांसा-६,४.२७ /
पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् / मिमांसा-६,४.२८ /
चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि / मिमांसा-६,४.२९ /
स प्रत्यामनेत् स्थानात् / मिमांसा-६,४.३० /
अङ्गविधिर् वा निमित्तसंयोगात् / मिमांसा-६,४.३१ /
विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् / मिमांसा-६,४.३२ /
निष्क्रयवादाच् च / मिमांसा-६,४.३३ /
वत्ससंयोगे व्रतचोदना स्यात् / मिमांसा-६,४.३४ /
कालो वोत्पन्नसंयोगाद् यथोक्तस्य / मिमांसा-६,४.३५ /
अर्थापरिमाणाच् च / मिमांसा-६,४.३६ /
वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् / मिमांसा-६,४.३७ /
कालस् तु स्याद् अचोदनात् / मिमांसा-६,४.३८ /
अनर्थकश् च कर्मसंयोगे / मिमांसा-६,४.३९ /
अवचनाच् च स्वशब्दस्य / मिमांसा-६,४.४० /
कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् / मिमांसा-६,४.४१ /
कालार्थत्वाद् वोभयोः प्रतीयेत / मिमांसा-६,४.४२ /
प्रस्तरे शाखाश्रयणवत् / मिमांसा-६,४.४३ /
कालविधिर् वोभयोर् विद्यामानत्वात् / मिमांसा-६,४.४४ /
अतत्संस्कारार्थत्वाच् च / मिमांसा-६,४.४५ /
तस्माच् च विप्रयोगे स्यात् / मिमांसा-६,४.४६ /
उपवेषश् च पक्षे स्यात् / मिमांसा-६,४.४७ /
अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे / मिमांसा-६,५.१ /
अपनयो वा विद्यानत्वात् / मिमांसा-६,५.२ /
तद्रूपत्वाच् च शब्दानाम् / मिमांसा-६,५.३ /
आतञ्चनाभ्यासस्य दर्शनात् / मिमांसा-६,५.४ /
अपूर्वत्वाद् विधानं स्यात् / मिमांसा-६,५.५ /
पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत् / मिमांसा-६,५.६ /
सान्नाय्यो ऽपि तथेति चेत् / मिमांसा-६,५.७ /
न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् / मिमांसा-६,५.८ /
लक्षणार्थाश्रुतिः / मिमांसा-६,५.९ /
उपांशुयाजे ऽवचनाद् यथाप्रकृति / मिमांसा-६,५.१० /
अपनयो वा प्रवृत्या यथेतरेषाम् / मिमांसा-६,५.११ /
निरुप्ते स्यात् तत्संयोगात् / मिमांसा-६,५.१२ /
प्रवृत्ते वा प्रापणान् निमित्तस्य / मिमांसा-६,५.१३ /
लक्षणमात्रम् इतरत् / मिमांसा-६,५.१४ /
तथा चान्यार्थदर्शनम् / मिमांसा-६,५.१५ /
अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् / मिमांसा-६,५.१६ /
व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य / मिमांसा-६,५.१७ /
विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् / मिमांसा-६,५.१८ /
अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् / मिमांसा-६,५.१९ /
अभावाच् चेतरस्य स्यात् / मिमांसा-६,५.२० /
सान्नाय्यसंयोगान् नासन्नायतः स्यात् / मिमांसा-६,५.२१ /
औषधसंयोगाद् वोभयोः / मिमांसा-६,५.२२ /
वैगुण्यान् नेति चेत् / मिमांसा-६,५.२३ /
नातत्संस्कारत्वात् / मिमांसा-६,५.२४ /
साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् / मिमांसा-६,५.२५ /
प्रवृते वा प्रापणान् निमित्तस्य / मिमांसा-६,५.२६ /
आदेशार्थेतरा श्रुतिः / मिमांसा-६,५.२७ /
दीक्षापरिमाणे यथाकाम्यविशेषात् / मिमांसा-६,५.२८ /
द्वादशाहस् तु लिङ्गात् स्यात् / मिमांसा-६,५.२९ /
पौर्णमास्याम् अनियमो ऽविशेषात् / मिमांसा-६,५.३० /
आनन्तर्यात् तु चैत्री स्यात् / मिमांसा-६,५.३१ /
माघी वैकाष्टकाश्रुतेः / मिमांसा-६,५.३२ /
अन्या अपीति चेत् / मिमांसा-६,५.३३ /
न भक्तित्वाद् एषा हि लोके / मिमांसा-६,५.३४ /
दीक्षापराधे चानुग्रहात् / मिमांसा-६,५.३५ /
उत्थाने चानुप्ररोहात् / मिमांसा-६,५.३६ /
अस्यां च सर्वलिङ्गानि / मिमांसा-६,५.३७ /
दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् / मिमांसा-६,५.३८ /
उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् / मिमांसा-६,५.३९ / तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् / मिमांसा-६,५.४० /
कालप्राधान्याच् च / मिमांसा-६,५.४१ /
प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे / मिमांसा-६,५.४२ /
प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् / मिमांसा-६,५.४३ /
प्रातस् तु षोडशिनि / मिमांसा-६,५.४४ /
प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् / मिमांसा-६,५.४५ /
प्रकरणे वा शब्दहेतुत्वात् / मिमांसा-६,५.४६ /
अतिद्विकारश् च / मिमांसा-६,५.४७ /
व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत / मिमांसा-६,५.४८ /
विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते / मिमांसा-६,५.४९ /
स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् / मिमांसा-६,५.५० /
तत्र विप्रतिषेधाद् विकल्पः स्यात् / मिमांसा-६,५.५१ /
प्रयोगान्तरे वोभयानुग्रहः स्यात् / मिमांसा-६,५.५२ /
न चैकसंयोगात् / मिमांसा-६,५.५३ /
पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् / मिमांसा-६,५.५४ /
यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् / मिमांसा-६,५.५५ /
अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् / मिमांसा-६,५.५६ /
सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् / मिमांसा-६,६.१ /
वचनाद् वाशिरोवत्स्यात् / मिमांसा-६,६.२ /
न वानारभ्यवादत्वात् / मिमांसा-६,६.३ /
स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् / मिमांसा-६,६.४ /
न तत्प्रधानत्वात् / मिमांसा-६,६.५ /
औदुम्बर्याः परार्थत्वात् कपालवत् / मिमांसा-६,६.६ /
अन्येनापीति चेत् / मिमांसा-६,६.७ /
नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् / मिमांसा-६,६.८ /
सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये / मिमांसा-६,६.९ /
अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् / मिमांसा-६,६.१० /
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् / मिमांसा-६,६.११ /
वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् / मिमांसा-६,६.१२ /
अर्थाभावात् तु नैवं स्यात् / मिमांसा-६,६.१३ /
अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः / मिमांसा-६,६.१४ /
प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत / मिमांसा-६,६.१५ /
सत्राणि सर्ववर्णामाम् अविशेषात् / मिमांसा-६,६.१६ /
लिङ्गदर्शनाच् च / मिमांसा-६,६.१७ /
ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् / मिमांसा-६,६.१८ /
वचनाद् इति चेत् / मिमांसा-६,६.१९ /
न स्वामित्वं हि विधीयते / मिमांसा-६,६.२० /
गार्हपते वा स्याताम् अविप्रतिषेधात् / मिमांसा-६,६.२१ /
न वा कल्पविरोधात् / मिमांसा-६,६.२२ /
स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् / मिमांसा-६,६.२३ /
वासिष्ठानां वा ब्रह्मत्वनियमात् / मिमांसा-६,६.२४ /
सर्वेषां वा प्रतिप्रसवात् / मिमांसा-६,६.२५ /
विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः / मिमांसा-६,६.२६ /
विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् / मिमांसा-६,६.२७ /
सारस्वते च दर्शनात् / मिमांसा-६,६.२८ /
प्रायश्चित्तविधानाच् च / मिमांसा-६,६.२९ /
साग्नीनां वेष्टिपूर्वत्वात् / मिमांसा-६,६.३० /
स्वार्थेन च प्रयुक्तत्वात् / मिमांसा-६,६.३१ /
सन्निवापं च दर्शयति / मिमांसा-६,६.३२ /
जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत / मिमांसा-६,६.३३ /
अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् / मिमांसा-६,६.३४ /
प्रायश्चित्तम् आपदि स्यात् / मिमांसा-६,६.३५ /
पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् / मिमांसा-६,६.३६ /
लिङ्गाच् चेज्याविशेषवत् / मिमांसा-६,६.३७ /
न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना / मिमांसा-६,६.३८ /
इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत / मिमांसा-६,६.३९ /
स्वदाने सर्वम् अविशेषात् / मिमांसा-६,७.१ /
यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् / मिमांसा-६,७.२ /
न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् / मिमांसा-६,७.३ /
अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् / मिमांसा-६,७.४ /
नित्यत्वाच् चानित्यैर् नास्ति संबन्धः / मिमांसा-६,७.५ /
शूद्रश् च धर्मशास्त्रत्वात् / मिमांसा-६,७.६ /
दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् / मिमांसा-६,७.७ /
अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् / मिमांसा-६,७.८ /
अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् / मिमांसा-६,७.९ /
तथा चान्यार्थदर्शनम् / मिमांसा-६,७.१० /
अशेषं तु समञ्जसादानेन शेषकर्म स्यात् / मिमांसा-६,७.११ /
नादानस्यानित्यत्वात् / मिमांसा-६,७.१२ /
दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् / मिमांसा-६,७.१३ /
अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् / मिमांसा-६,७.१४ /
द्वादशशतं वा प्रकृतिवत् / मिमांसा-६,७.१५ /
अतद्गुणत्वात् नैवं स्यात् / मिमांसा-६,७.१६ /
लिङ्गदर्शनाच् च / मिमांसा-६,७.१७ /
विकारः सन्न् उभयतो ऽविशेषात् / मिमांसा-६,७.१८ /
अधिकं वा प्रतिप्रसवात् / मिमांसा-६,७.१९ /
अनुग्रहाच् च पादवत् / मिमांसा-६,७.२० /
अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् / मिमांसा-६,७.२१ /
कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् / मिमांसा-६,७.२२ /
अनियमो ऽविशेषात् / मिमांसा-६,७.२३ /
अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् / मिमांसा-६,७.२४ /
अर्थवादश् च तदर्थवत् / मिमांसा-६,७.२५ /
परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् / मिमांसा-६,७.२६ /
तद्युक्ते च प्रतिषेधात् / मिमांसा-६,७.२७ /
निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् / मिमांसा-६,७.२८ /
विधौ तु वेदसंयोगाद् उपदेशः स्यात् / मिमांसा-६,७.२९ /
अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् / मिमांसा-६,७.३० /
सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु / मिमांसा-६,७.३१ /
अपि वा तदधिकारान् मनुष्यधर्मः स्यात् / मिमांसा-६,७.३२ /
नासामर्थ्यात् / मिमांसा-६,७.३३ /
सम्बन्धादर्शनात् / मिमांसा-६,७.३४ /
स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् / मिमांसा-६,७.३५ /
अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् / मिमांसा-६,७.३६ /
विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः / मिमांसा-६,७.३७ /
संवत्सरो विचालित्वात् / मिमांसा-६,७.३८ /
सा प्रकृतिः स्याद् अधिकारात् / मिमांसा-६,७.३९ /
अहानि वाभिसंख्यत्वात् / मिमांसा-६,७.४० /
इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वो ऽप्य् आधानस्य सर्वशेषत्वात् / मिमांसा-६,८.१ /
इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति / मिमांसा-६,८.२ /
उपदेशस् त्व् अपूर्वत्वात् / मिमांसा-६,८.३ /
स सर्वेषाम् अविशेषात् / मिमांसा-६,८.४ /
अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः / मिमांसा-६,८.५ /
जपो वानग्निसंयोगात् / मिमांसा-६,८.६ /
इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् / मिमांसा-६,८.७ /
उभयोः पितृयज्ञवत् / मिमांसा-६,८.८ /
निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् / मिमांसा-६,८.९ /
पितृयज्ञे संयुक्तस्य पुनर् वचनम् / मिमांसा-६,८.१० /
उपनयन्न् आदधीत होमसंयोगात् / मिमांसा-६,८.११ /
स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् / मिमांसा-६,८.१२ /
आधानं च भार्यासंयुक्तम् / मिमांसा-६,८.१३ /
अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः / मिमांसा-६,८.१४ /
श्राद्धवद् इति चेत् / मिमांसा-६,८.१५ /
न श्रुतिविप्रतिषेधात् / मिमांसा-६,८.१६ /
सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् / मिमांसा-६,८.१७ /
सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् / मिमांसा-६,८.१८ /
पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत / मिमांसा-६,८.१९ /
स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत / मिमांसा-६,८.२० /
अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् / मिमांसा-६,८.२१ /
अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् / मिमांसा-६,८.२२ /
उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् / मिमांसा-६,८.२३ /
अहनि च कर्मसाकल्यम् / मिमांसा-६,८.२४ /
इतरेषु तु पित्र्याणि / मिमांसा-६,८.२५ /
याच्ञाक्रयणम् अविद्यमाने लोकवत् / मिमांसा-६,८.२६ /
नियतं वार्थवत्वात् स्यात् / मिमांसा-६,८.२७ /
तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् / मिमांसा-६,८.२८ /
अनर्थकं त्व् अनित्यं स्यात् / मिमांसा-६,८.२९ /
पशुचोदनायाम् अनियमो ऽविशेषात् / मिमांसा-६,८.३० /
छागो वा मन्त्रवर्णात् / मिमांसा-६,८.३१ /
न चोदनाविरोधात् / मिमांसा-६,८.३२ /
आर्षेयवद् इति चेत् / मिमांसा-६,८.३३ / न तत्र ह्य् अचोदित्वात् / मिमांसा-६,८.३४ /
नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् / मिमांसा-६,८.३५ /
अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् / मिमांसा-६,८.३६ /
रूपाल् लिङ्गाच् च / मिमांसा-६,८.३७ /
छागे न कर्माख्या रूपलिङ्गाभ्याम् / मिमांसा-६,८.३८ /
रूपान्यत्वान् न जातिशब्दः स्यात् / मिमांसा-६,८.३९ /
विकारो नौत्पत्तिकत्वात् / मिमांसा-६,८.४० /
स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् / मिमांसा-६,८.४१ /
जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् / मिमांसा-६,८.४२ /
श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् / मिमांसा-७,१.१ /
उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् / मिमांसा-७,१.२ /
चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् / मिमांसा-७,१.३ /
सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत / मिमांसा-७,१.४ /
अविभागात् तु नैवं स्यात् / मिमांसा-७,१.५ /
द्व्यर्थत्वं च विप्रतिषिद्धम् / मिमांसा-७,१.६ /
उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् / मिमांसा-७,१.७ /
यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् / मिमांसा-७,१.८ /
अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् / मिमांसा-७,१.९ /
स्मृतिर् इति चेत् / मिमांसा-७,१.१० /
न पूर्ववत्वात् / मिमांसा-७,१.११ /
अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् / मिमांसा-७,१.१२ /
सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् / मिमांसा-७,१.१३ /
श्येनस्येति चेति / मिमांसा-७,१.१४ /
नासन्निधानात् / मिमांसा-७,१.१५ /
अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् / मिमांसा-७,१.१६ /
पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् / मिमांसा-७,१.१७ /
सर्वस्य वैकशब्द्यात् / मिमांसा-७,१.१८ /
लिङ्गदर्शनाच् च / मिमांसा-७,१.१९ /
विहिताम्नानान् नेति चेत् / मिमांसा-७,१.२० /
नेतरार्थत्वात् / मिमांसा-७,१.२१ /
एककपालैन्द्राग्नौ च तद्वत् / मिमांसा-७,१.२२ /
एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् / मिमांसा-७,१.२३ /
साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् / मिमांसा-७,२.१ /
शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः / मिमांसा-७,२.२ /
स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् / मिमांसा-७,२.३ /
शब्दमात्रम् इति चेत् / मिमांसा-७,२.४ /
नौत्पत्तिकत्वात् / मिमांसा-७,२.५ /
शास्त्रं चैवम् अनर्थकं स्यात् / मिमांसा-७,२.६ /
स्वरस्येति चेत् / मिमांसा-७,२.७ /
नार्थाभावाच् छ्रुतेर् असंबन्धः / मिमांसा-७,२.८ /
स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् / मिमांसा-७,२.९ /
लिङ्गदर्शनाच् च / मिमांसा-७,२.१० /
अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति / मिमांसा-७,२.११ /
शब्दानां चासामञ्जस्यम् / मिमांसा-७,२.१२ /
अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः / मिमांसा-७,२.१३ /
अद्रव्यं चापि दृश्यते / मिमांसा-७,२.१४ /
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् / मिमांसा-७,२.१५ /
तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् / मिमांसा-७,२.१६ /
योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते / मिमांसा-७,२.१७ /
अयोनौ चापि दृश्यते ऽतथायोनि / मिमांसा-७,२.१८ /
ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् / मिमांसा-७,२.१९ /
स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके / मिमांसा-७,२.२० /
शब्दानां च सामञ्जस्यं / मिमांसा-७,२.२१ /
उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् / मिमांसा-७,३.१ /
अपूर्वे वापि भागित्वात् / मिमांसा-७,३.२ /
नाम्नस् त्व् औत्पत्तिकत्वात् / मिमांसा-७,३.३ /
प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात् / मिमांसा-७,३.४ /
अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् / मिमांसा-७,३.५ /
विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः / मिमांसा-७,३.६ /
षडहाद् वा तत्र हि चोदना / मिमांसा-७,३.७ /
लिङ्गाच् च / मिमांसा-७,३.८ /
उत्पन्नाधिकारो ज्योतिष्टोमः / मिमांसा-७,३.९ /
द्वयोर् विधिर् इति चेत् / मिमांसा-७,३.१० /
न व्यर्थत्वात् सर्वशब्दस्य / मिमांसा-७,३.११ /
तथावभृथः सोमात् / मिमांसा-७,३.१२ /
प्रकृतेर् इति चेत् / मिमांसा-७,३.१३ /
न भक्तित्वात् / मिमांसा-७,३.१४ /
लिङ्गदर्शनाच् च / मिमांसा-७,३.१५ /
द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् / मिमांसा-७,३.१६ /
गुणविधिस् तु न गृह्णीयात् समत्वात् / मिमांसा-७,३.१७ /
निर्मन्थ्यादिषु चैवम् / मिमांसा-७,३.१८ /
प्रणयनं तु सौमिकम् अवाच्यं हीतरत् / मिमांसा-७,३.१९ /
उत्तरवेदिप्रतिषेधश् च तद्वत् / मिमांसा-७,३.२० /
प्राकृतं वानामत्वात् / मिमांसा-७,३.२१ /
परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा / मिमांसा-७,३.२२ /
प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् / मिमांसा-७,३.२३ /
मध्यमयोर् वा गत्यर्थवादात् / मिमांसा-७,३.२४ /
औत्तरवेदिको ऽनारभ्यवादप्रतिषेधः / मिमांसा-७,३.२५ /
स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् / मिमांसा-७,३.२६ /
चोदनासामान्याद् वा / मिमांसा-७,३.२७ /
कर्मजे कर्म यूपवत् / मिमांसा-७,३.२८ /
रूपं वाशेषभूतत्वात् / मिमांसा-७,३.२९ /
विशये लौकिकः स्यात् सर्वार्थत्वात् / मिमांसा-७,३.३० /
न वैदिकम् अर्थनिर्देशात् / मिमांसा-७,३.३१ /
तथोत्पत्तिर् इतरेषां समत्वात् / मिमांसा-७,३.३२ /
संस्कृतं स्यात् तच्छब्दत्वात् / मिमांसा-७,३.३३ /
भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् / मिमांसा-७,३.३४ /
कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् / मिमांसा-७,३.३५ /
अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् / मिमांसा-७,३.३६ /
इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् / मिमांसा-७,४.१ /
स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् / मिमांसा-७,४.२ /
वचनात् तु ततो ऽन्यत्वम् / मिमांसा-७,४.३ /
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् / मिमांसा-७,४.४ /
अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः / मिमांसा-७,४.५ /
मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् / मिमांसा-७,४.६ /
भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण / मिमांसा-७,४.७ /
उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् / मिमांसा-७,४.८ /
उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् / मिमांसा-७,४.९ /
विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् / मिमांसा-७,४.१० /
लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् / मिमांसा-७,४.११ /
लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन / मिमांसा-७,४.१२ /
द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् / मिमांसा-७,४.१३ /
लिङ्गाच् च / मिमांसा-७,४.१४ /
न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् / मिमांसा-७,४.१५ /
लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् / मिमांसा-७,४.१६ /
न वार्थधर्मत्वात् संघातस्य गुणत्वात् / मिमांसा-७,४.१७ /
अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् / मिमांसा-७,४.१८ /
प्रवृत्त्या नियतस्य लिङ्गदर्शनम् / मिमांसा-७,४.१९ /
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् / मिमांसा-७,४.२० /
अथ विशेषलक्षणम् / मिमांसा-८,१.१ /
यस्य लिङ्गमर्थसंयोगादभिधानवत् / मिमांसा-८,१.२ /
प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् / मिमांसा-८,१.३ /
लिङ्गदर्शनाच्च / मिमांसा-८,१.४ /
कृत्स्वविधानाद्वापूर्वत्वम् / मिमांसा-८,१.५ /
स्त्रुगभिघारणाभावस्य च नित्यानुवादात् / मिमांसा-८,१.६ /
विधिरिति चेत् / मिमांसा-८,१.७ /
न वाक्यशेषत्वात् / मिमांसा-८,१.८ /
शङ्कतेचानुपोषणात् / मिमांसा-८,१.९ /
दर्शनमैष्टिकानां स्यात् / मिमांसा-८,१.१० /
इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् / मिमांसा-८,१.११ /
पशौ च लिङ्गदर्शनात् / मिमांसा-८,१.१२ /
दैक्षस्य चेतरेषु / मिमांसा-८,१.१३ /
ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् / मिमांसा-८,१.१४ /
तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात् / मिमांसा-८,१.१५ /
अव्यक्तासु तु सोमस्य / मिमांसा-८,१.१६ /
गणेषु द्वादशाहस्य / मिमांसा-८,१.१७ /
गव्यस्य च तदादिषु / मिमांसा-८,१.१८ /
निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् / मिमांसा-८,१.१९ /
कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृ समुदायस्यानन्वयस्तद्बन्धनत्वात् / मिमांसा-८,१.२० /
प्रवृत्तौ चापि तादर्थ्यात् / मिमांसा-८,१.२१ /
अश्रुतित्वाच्च / मिमांसा-८,१.२२ /
गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात् / मिमांसा-८,१.२३ /
निवृत्तिर्वा कर्मभेगात् / मिमांसा-८,१.२४ /
अपि वातद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात् / मिमांसा-८,१.२५ /
एककर्मणि विकत्पो ऽविभागो हि चोदनैकत्वात् / मिमांसा-८,१.२६ /
लिङ्गसाधारण्याद्विकल्पः स्यात् / मिमांसा-८,१.२७ /
ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि / मिमांसा-८,१.२८ /
अश्रुतित्वान्नेति चेत् / मिमांसा-८,१.२९ /
स्याल्लिङ्गभावात् / मिमांसा-८,१.३० /
तथा चान्यार्थदर्शनम् / मिमांसा-८,१.३१ /
विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् / मिमांसा-८,१.३२ /
तेन च कर्मसंयोगात् / मिमांसा-८,१.३३ /
गुणत्वेनदेवताश्रुतिः / मिमांसा-८,१.३४ /
हिरण्यमाज्यधर्मस्तेजस्त्वात् / मिमांसा-८,१.३५ /
धर्मानुग्रहाच्च / मिमांसा-८,१.३६ /
औषधं वा विशदत्वात् / मिमांसा-८,१.३७ /
चरुशब्दाच्च / मिमांसा-८,१.३८ /
तस्मिंश्च श्रपणश्रुतेः / मिमांसा-८,१.३९ /
मधूदके द्रव्यसामान्यात्पयोविकारः स्यात् / मिमांसा-८,१.४० /
आज्यं वा वर्णसामान्यात् / मिमांसा-८,१.४१ /
धर्मानुग्रहाच्च / मिमांसा-८,१.४२ /
पूर्वस्य चाविशिष्टत्वात् / मिमांसा-८,१.४३ /
वाजिने सोमपूर्वत्वं सौत्रामण्याञ्च ग्रहेषु ताच्छब्द्यात् / मिमांसा-८,२.१ /
अनुवषट्कारच्च / मिमांसा-८,२.२ /
समुपहूय भक्षणाच्च / मिमांसा-८,२.३ /
क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् / मिमांसा-८,२.४ /
हविषा वा नियम्येत तद्विकारत्वात् / मिमांसा-८,२.५ /
प्रशंसा सोमशब्दः / मिमांसा-८,२.६ /
वचनानीतराणि / मिमांसा-८,२.७ /
व्यपदेशश्च तद्वत् / मिमांसा-८,२.८ /
पशुपुरोडाशस्य च लिङ्गदर्शनम् / मिमांसा-८,२.९ /
पशुः पुरोडाशविकारः स्याद्देवतासामान्यात् / मिमांसा-८,२.१० /
प्रोक्षणातच्च / मिमांसा-८,२.११ /
पर्यग्निकरणाच्च / मिमांसा-८,२.१२ /
सान्नाय्यं वा तत्प्रभवत्वात् / मिमांसा-८,२.१३ /
तस्य च पात्रदर्शनात् / मिमांसा-८,२.१४ /
दध्नः स्यान्मूर्तिसामान्यात् / मिमांसा-८,२.१५ /
पयो वा कालसामान्यात् / मिमांसा-८,२.१६ /
पश्र्वानन्तर्यात् / मिमांसा-८,२.१७ /
द्रवत्वं चाविशिष्टम् / मिमांसा-८,२.१८ /
आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् / मिमांसा-८,२.१९ /
एकं वा चोदनैकत्वात् / मिमांसा-८,२.२० /
दधिसंघातसामान्यात् / मिमांसा-८,२.२१ /
पयो वा तत्प्रधानत्वाल्लोकवद्दध्नस्तदर्थत्वात् / मिमांसा-८,२.२२ /
धर्मानुग्रहाच्च / मिमांसा-८,२.२३ /
सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककर्म्यात् / मिमांसा-८,२.२४ /
अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्य शब्दत्वात् / मिमांसा-८,२.२५ /
द्विरात्रादीनामेकादशरात्रादहीनत्वं यजतिचोदनात् / मिमांसा-८,२.२६ /
त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् / मिमांसा-८,२.२७ /
लिङ्गाच्च / मिमांसा-८,२.२८ /
अन्यतरतो ऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डगयिनामयनस्य च चद्भूतेष्वहूनत्वं कुण्डगयिनामयनस्य दर्शनात् / मिमांसा-८,२.२९ /
अहीनवचनाच्च / मिमांसा-८,२.३० /
सत्रे वोपायिचोदनात् / मिमांसा-८,२.३१ /
सत्रलिङ्गञ्चदर्शयति / मिमांसा-८,२.३२ /
हविर्गणे परमुत्तरस्य देशसामान्यात् / मिमांसा-८,३.१ /
देवतया वा नियम्येतशब्दत्त्वादितरस्याश्रुतित्वात् / मिमांसा-८,३.२ /
गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् / मिमांसा-८,३.३ /
नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् / मिमांसा-८,३.४ /
तथा चान्यार्थदर्शनम् / मिमांसा-८,३.५ /
कालाभ्यासे ऽपि बादरिः कर्मभेदात् / मिमांसा-८,३.६ /
तदावृत्तिं तु जैमिनिरह्रामप्रत्यक्षसंख्यत्वात् / मिमांसा-८,३.७ /
संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् / मिमांसा-८,३.८ /
अधिकाराद्वा प्रकृतिस्तस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् / मिमांसा-८,३.९ /
गणादुपचयस्तत्प्रकृतित्वात् / मिमांसा-८,३.१० /
एकाहाद्वा तेषां समत्वात्स्यात् / मिमांसा-८,३.११ /
गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्त्याधिकारात्संख्या त्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् / मिमांसा-८,३.१२ /
तन्नित्यवच्च प्रथक्सतीषु तद्वचनम् / मिमांसा-८,३.१३ /
न विंशतौ दशेति चेत् / मिमांसा-८,३.१४ /
ऐकसंख्यमेव स्यात् / मिमांसा-८,३.१४ /
गुणाद्वाद्रव्यशब्दः स्यादसर्वविषयत्वात् / मिमांसा-८,३.१६ /
गोत्वच्च समन्वयः / मिमांसा-८,३.१७ /
संख्यायाश्च शब्दत्वात् / मिमांसा-८,३.१८ /
इतरस्याश्रुतित्वाच्च / मिमांसा-८,३.१९ /
द्रव्यान्तरे ऽनिवेशादुक्थ्यलोपैर्विशिष्टं स्यात् / मिमांसा-८,३.२० /
अशास्त्रलक्षमत्वाच्च / मिमांसा-८,३.२१ /
उत्पत्तिनामधेयत्वाद्भतया पृथक्सतीषु स्यात् / मिमांसा-८,३.२२ /
वचनमिति चेत् / मिमांसा-८,३.२३ /
यावदुक्तम् / मिमांसा-८,३.२४ /
अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् / मिमांसा-८,३.२५ /
ऋग्गुणत्वान्नेति चेत् / मिमांसा-८,३.२६ /
तथा पूर्ववति स्यात् / मिमांसा-८,३.२७ /
गुणावेशश्च सर्वत्र / मिमांसा-८,३.२८ /
निष्पन्नग्रहणान्नेति चेत् / मिमांसा-८,३.२९ /
तथेहापिस्यात् / मिमांसा-८,३.३० /
यदि वाविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् / मिमांसा-८,३.३१ /
द्रष्टः प्रयोग इतिचेत् / मिमांसा-८,३.३२ /
तथा शरेष्वपि / मिमांसा-८,३.३३ /
भत्तयेति चेत् / मिमांसा-८,३.३४ /
तथेतरस्मिन् / मिमांसा-८,३.३५ /
अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् / मिमांसा-८,३.३६ /
दर्विहोमो यज्ञाभिधानं होमसंयोगात् / मिमांसा-८,४.१ /
स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात् / मिमांसा-८,४.२ /
सर्वेषां वा दर्शनाद्वास्तुहोमे / मिमांसा-८,४.३ /
जुहोतिचोदनानां वा तत्संयोगात् / मिमांसा-८,४.४ /
द्रव्योपदेशाद्वा गुणाभिधानं स्यात् / मिमांसा-८,४.५ /
न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात् / मिमांसा-८,४.६ /
दर्शनाच्चान्यपात्रस्य / मिमांसा-८,४.७ /
तथाग्निहविषोः / मिमांसा-८,४.८ /
उक्तश्चार्थसम्बन्धः / मिमांसा-८,४.९ /
तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात् / मिमांसा-८,४.१० /
न वा स्वाहाकारेण संयोगाद्वाषट्कारस्य च निर्देशात्तन्त्रेतेन विप्रतिषेधात् / मिमांसा-८,४.११ /
शब्दान्तरत्वात् / मिमांसा-८,४.१२ /
लिङ्गदर्शनाच्च / मिमांसा-८,४.१३ /
उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर्लिङ्गदर्शनात्पशुवत् / मिमांसा-८,४.१४ /
अनुत्तरार्थोवार्ऽथवत्त्वादानर्थक्याद्धि प्राकृतस्योपरोधःस्यात् / मिमांसा-८,४.१५ /
न प्रकृतावपीति चेत् / मिमांसा-८,४.१६ /
उक्तं समवाये पारदौर्बल्यम् / मिमांसा-८,४.१७ /
तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् / मिमांसा-८,४.१८ /
शब्दसानर्थ्याच्च / मिमांसा-८,४.१९ /
लिङ्गदर्शनाच्च / मिमांसा-८,४.२० /
तत्राभावस्य हेतुत्वाद्गुणार्थेस्याददर्शनम् / मिमांसा-८,४.२१ /
विधिरिति चेत् / मिमांसा-८,४.२२ /
न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते / मिमांसा-८,४.२३ /
येषां वापरयोर्हेमस्तेषां स्यादविरोधात् / मिमांसा-८,४.२४ /
तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् / मिमांसा-८,४.२५ /
लिङ्गाद्वा शेषहोमयोः / मिमांसा-८,४.२६ /
प्रतिपत्ति तु ते भवतस्तस्मादताद्विकारत्वम् / मिमांसा-८,४.२७ /
सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेघत्वाद्वचनाद् अतिदेशः स्यात् / मिमांसा-८,४.१८ /
यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् / मिमांसा-९,१.१ /
संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् / मिमांसा-९,१.२ /
तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसम्बन्धस्तस्माद्यज्ञ प्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात् / मिमांसा-९,१.३ /
फलदेवतयोश्च / मिमांसा-९,१.४ /
न चोदनाती हि ताद्गुण्यम् / मिमांसा-९,१.५ /
देवता वा प्रयोजयेदतिथिवद्भोजनस्यतदर्थत्वात् / मिमांसा-९,१.६ /
अर्थापत्याच / मिमांसा-९,१.७ /
ततश्च तेन सम्बन्धः / मिमांसा-९,१.८ /
अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः / मिमांसा-९,१.९ /
अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् / मिमांसा-९,१.१० /
द्रव्यसंख्याहितुसमुदायं वा श्रुतिसंयोगात् / मिमांसा-९,१.११ /
अर्थकारिते च द्रव्येण न व्यवस्था स्यात् / मिमांसा-९,१.१२ /
अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात् / मिमांसा-९,१.१३ /
अपूर्वत्वाद्व्यवस्था स्यात् / मिमांसा-९,१.१४ /
तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् / मिमांसा-९,१.१५ /
तद्यक्तस्येति चेत् / मिमांसा-९,१.१६ /
नाश्रुतित्वात् / मिमांसा-९,१.१७ /
अधिकारादिति चेत् / मिमांसा-९,१.१८ /
तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस्तस्माद्यज्ञप्रयोजनम् / मिमांसा-९,१.१९ /
देशबद्धमुपांशुत्वं तेषां स्याछ्रुतिनिर्देशात्तस्य च तत्रभावात् / मिमांसा-९,१.२० /
यज्ञस्य वा तत्संयोगात् / मिमांसा-९,१.२१ /
अनुवादश्च तदर्थवत् / मिमांसा-९,१.२२ /
प्रणीतादि तथेति चेत् / मिमांसा-९,१.२३ /
न यज्ञस्याश्रुतित्वात् / मिमांसा-९,१.२४ /
तद्देशानां वा संघातस्यचोदितत्वात् / मिमांसा-९,१.२५ /
अग्निधर्मः प्रतिष्टकं संघातात्पौर्णमासीवत् / मिमांसा-९,१.२६ /
अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थ त्वात् / मिमांसा-९,१.२७ /
चोदनासमुदायात्तु पौर्ण मास्यां तथा स्यात् / मिमांसा-९,१.२८ /
पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् / मिमांसा-९,१.२९ /
लिङ्गाद्वा प्रागुत्तमात् / मिमांसा-९,१.३० /
अनुवादो वा दोक्षा यथा नक्तं संस्थापनस्य / मिमांसा-९,१.३१ /
स्याद्वानारभ्य विधानादन्ते लिङ्ग विरोधात् / मिमांसा-९,१.३२ /
अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मःस्यात् / मिमांसा-९,१.३३ /
इष्ट्यावृतौ प्रयाजवदावर्तेतारम्भणीया / मिमांसा-९,१.३४ /
सकृद्वाऽरम्भसंयागादेकः पुनरारम्भो यावज्जीवप्रयोगात् / मिमांसा-९,१.३५ /
अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात् / मिमांसा-९,१.३६ /
ततश्चावचनन्तेषामितरार्थं प्रयुज्यते / मिमांसा-९,१.३७ /
गुणशब्दस्तथेति चेत् / मिमांसा-९,१.३८ /
नसमवायात् / मिमांसा-९,१.३९ /
चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् / मिमांसा-९,१.४० /
विकारस्तत्प्रधाने स्यात् / मिमांसा-९,१.४१ /
असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत / मिमांसा-९,१.४२ /
कर्माभावादेवमिति चेत् / मिमांसा-९,१.४३ /
न परर्थत्वात् / मिमांसा-९,१.४४ /
लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् / मिमांसा-९,१.४५ /
पश्र्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् / मिमांसा-९,१.४६ /
विशेषो वा तदर्थनिर्देशात् / मिमांसा-९,१.४७ /
पशुत्वं चैकशब्द्यात् / मिमांसा-९,१.४८ /
यथोक्तं वा सन्निधानात् / मिमांसा-९,१.४९ /
आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् / मिमांसा-९,१.५० /
द्वैधं वा तुल्यहेतुत्वात्सामान्याद्विकल्पः स्यात् / मिमांसा-९,१.५१ /
उपदेशाच्च साम्नः / मिमांसा-९,१.५२ /
नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत् / मिमांसा-९,१.५३ /
अगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् / मिमांसा-९,१.५४ /
यत्स्थाने बा तद्गीतिः स्यात्पदान्यत्वप्रधानत्वात् / मिमांसा-९,१.५५ /
गानसंयोगाच्च / मिमांसा-९,१.५६ /
वचनमिति चेत् / मिमांसा-९,१.५७ /
न तत्प्रधानत्वात् / मिमांसा-९,१.५८ /
सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् / मिमांसा-९,२.१ /
तदुक्तदोषम् / मिमांसा-९,१.२ /
कर्म वा विधिलक्षणम् / मिमांसा-९,२.३ /
तादृग्द्रव्यं वचनात्पाकयज्ञवत् / मिमांसा-९,२.४ /
तत्रीविप्रतिपिद्धो द्रव्यान्तरे व्यतिरेतकः प्रदेशश्च / मिमांसा-९,२.५ /
शब्दार्थत्वात्तुनैवं स्यात् / मिमांसा-९,२.६ /
परार्थत्वाच्च शब्दानाम् / मिमांसा-९,२.७ /
असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् / मिमांसा-९,२.८ /
संस्कारश्चाप्रकरणे ऽग्निवत्स्यात्प्रयुक्तत्वात् / मिमांसा-९,२.९ /
अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत / मिमांसा-९,२.१० /
आश्रितत्वाच्च / मिमांसा-९,२.११ /
प्रयुज्यत इति चेत् / मिमांसा-९,२.१२ /
ग्रहणार्थं प्रयुज्येत / मिमांसा-९,२.१३ /
तृचे स्याच्छ्रुतिनिर्देशात् / मिमांसा-९,२.१४ /
शब्दार्थत्वाद्विकारस्य / मिमांसा-९,२.१५ /
दर्शयति च / मिमांसा-९,२.१६ /
वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्सं स्कारस्य तदर्थत्वात् / मिमांसा-९,२.१७ /
तथा चान्यार्थ दर्शनम् / मिमांसा-९,२.१८ /
अनवानोपदेशश्च तद्वत् / मिमांसा-९,२.१९ /
अभ्यासेनेतरा श्रुतिः / मिमांसा-९,२.२० /
तदभ्यासः समासु स्यात् / मिमांसा-९,२.२१ /
लिङ्गदर्शनाच्च / मिमांसा-९,२.२२ /
नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत / मिमांसा-९,२.२३ /
ऐकार्थ्याच्च तदभ्यासः / मिमांसा-९,२.२४ /
प्रागाथिकं तु / मिमांसा-९,२.२५ /
प्रगाथे च / मिमांसा-९,२.२७ /
लिङ्गदर्शनाव्यतिरेतकाच्च / मिमांसा-९,२.२८ /
अर्थैकत्वाद्विकल्पः स्यात् / मिमांसा-९,२.२९ /
अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात् / मिमांसा-९,२.३० /
वचनाद्विनियोगः स्यात् / मिमांसा-९,२.३१ /
सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृत्वात् / मिमांसा-९,२.३२ /
वर्णे तु वादरिर्यथाद्रव्यं द्रव्यप्यतिरेकात् / मिमांसा-९,२.३३ /
स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् / मिमांसा-९,२.३४ /
सर्वातिदेशस्तु सामान्याल्लीकवद्विकारः स्यात् / मिमांसा-९,२.३५ /
अन्वयञ्चापि दर्शयति / मिमांसा-९,२.३६ /
निवृत्तिर्वार्ऽथलोपात् / मिमांसा-९,२.३७ /
अन्वयोवार्थवादः स्यात् / मिमांसा-९,२.३८ /
अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् / मिमांसा-९,२.३९ /
धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोजनानुबन्धः समवायात् / मिमांसा-९,२.४० /
तदुत्पत्तेस्तु निष्टत्तिस्तत्कृतत्वात्स्यात् / मिमांसा-९,२.४१ /
अवेश्येरन्वार्थवत्त्वात्संरकारस्य तदर्थत्वात् / मिमांसा-९,२.४२ /
आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात् / मिमांसा-९,२.४३ /
परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् / मिमांसा-९,२.४४ /
क्रियेरन्वार्थनिर्वृत्तेः / मिमांसा-९,२.४५ /
एकार्थत्वादविभागः स्यात् / मिमांसा-९,२.४६ /
निर्देशाद्वा व्यवतिष्ठेरन् / मिमांसा-९,२.४७ /
अप्राकृते तद्विकाराद्विरोधाद्यवतिष्ठेरन् / मिमांसा-९,२.४८ /
उभयसाम्नि चैवमेकार्थापत्तेः / मिमांसा-९,२.४९ /
स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत् / मिमांसा-९,२.५० /
पार्वणहोमयोस्तवप्रवृत्तिः समुदायार्थसंयोगात्तगभीज्याहि / मिमांसा-९,२.५१ /
कालस्येति चेत् / मिमांसा-९,२.५२ /
नाप्रकरणत्वात् / मिमांसा-९,२.५३ / मन्त्रवर्णाच्च / मिमांसा-९,२.५४ /
तदभावे ऽग्निवगिति चेत् / मिमांसा-९,२.५५ /
नाधिकारकत्वात् / मिमांसा-९,२.५६ /
उभयोरविशेषात् / मिमांसा-९,२.५७ /
यदभीज्या वा तद्विषयौ / मिमांसा-९,२.५८ /
प्रयाजे ऽपीति चेत् / मिमांसा-९,२.५९ /
नाचीदितत्वात् / मिमांसा-९,२.६० /
प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वादर्थे चाकार्यत्वात् / मिमांसा-९,३.१ /
लिङ्गदर्शनाच्च / मिमांसा-९,३.२ /
जातिनैमित्तिकं यथास्थानम् / मिमांसा-९,३.३ /
अविकारमेके ऽनार्षत्वात् / मिमांसा-९,३.४ /
लिङ्गदक्शनाच्च / मिमांसा-९,३.५ /
निकारो वातदुक्तहेतुः / मिमांसा-९,३.६ /
लिङ्गं मन्त्रचिकीर्षार्थम् / मिमांसा-९,३.७ /
नियमो वोभयभागित्वात् / मिमांसा-९,३.८ /
लौकिके दोषसंयोगादपवृक्ते हिचोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात् / मिमांसा-९,३.९ /
अन्यायस्त्वविकारेणा द्रष्टप्रतिघातित्वादविशेषाच्च तेनास्य / मिमांसा-९,३.१० /
विकारो वा तदर्थत्वात् / मिमांसा-९,३.११ /
अपित्वन्यायसम्बन्धात्प्रकृतिवत्परेष्वपियथार्थं स्यात् / मिमांसा-९,३.१२ /
यथार्थं त्वन्यायस्याचोदितत्वात् / मिमांसा-९,३.१३ /
छन्दसि तु यथादृष्टम् / मिमांसा-९,३.१४ /
विप्रतिपत्तौ विकल्पः स्यात्तत्सत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात् / मिमांसा-९,३.१५ /
प्रकरणविशेषाच्च / मिमांसा-९,३.१६ /
अर्थाभावात्तु नैवं स्याद्गुणनात्रमितरत् / मिमांसा-९,३.१७ /
द्यावोस्तथेति चेत् / मिमांसा-९,३.१८ /
नोत्पत्तिशब्दत्वात् / मिमांसा-९,३.१९ /
अपूर्वे त्वविकारो ऽप्रदेशात्प्रतीयेत / मिमांसा-९,३.२० /
विकृतौ चापि तद्वचनात् / मिमांसा-९,३.२१ /
अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् / मिमांसा-९,३.२२ /
प्रतिनिधौ चाविकारात् / मिमांसा-९,३.२३ /
अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् / मिमांसा-९,३.२४ /
तादर्थ्याद्वा तदाख्यंस्यात्संस्कारैरविशिष्चत्वात् / मिमांसा-९,३.२५ /
उक्तञ्च तत्त्वमस्य / मिमांसा-९,३.२६ /
संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् / मिमांसा-९,३.२७ /
लिङ्गदर्शनाच्च / मिमांसा-९,३.२८ /
एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् / मिमांसा-९,३.२९ /
अविकारो वा बहूनामेककर्मवत् / मिमांसा-९,३.३० /
सकृत्त्वं चैकध्यं स्यादेकत्वात्त्वचो ऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानां स्यात् / मिमांसा-९,३.३१ /
मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्याचान्यायनिगदत्वात्सर्वत्रैवाविकारः स्यात् / मिमांसा-९,३.३२ /
अपि वा द्विसमवायो ऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् / मिमांसा-९,३.३३ /
स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात् / मिमांसा-९,३.३४ /
देवता तु तदाशीष्ट्वात्सम्प्राप्तत्वात्स्वात्स्वामिन्यनर्थिका स्यात् / मिमांसा-९,३.३५ /
उत्सर्गाच्च भक्त्यातस्मिन्पतित्वं स्यात् / मिमांसा-९,३.३६ /
उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् / मिमांसा-९,३.३७ /
एकस्तु समवायात्तस्य तल्लक्षणत्वात् / मिमांसा-९,३.२८ /
संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात् / मिमांसा-९,३.३९ /
एकत्वेपि गुणानपायात् / मिमांसा-९,३.४० /
नियमो बहुदेवते विकारः स्यात् / मिमांसा-९,३.४१ /
विकल्पो वा प्रकृतिवत् / मिमांसा-९,३.४२ /
अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात् / मिमांसा-९,३.४३ /
षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गाणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः / मिमांसा-९,४.१ /
अभ्यासे ऽपि तथेति चेत् / मिमांसा-९,४.२ /
न गुणादर्थकृतत्वाच्च / मिमांसा-९,४.३ /
समासे ऽपि तथेति चेत् / मिमांसा-९,४.४ /
नासम्भवात् / मिमांसा-९,४.५ /
स्वाभिश्च वचनं प्रकृतौ तथेह स्यात् / मिमांसा-९,४.६ /
वङ्क्रीणान्तु प्रधानत्त्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात् / मिमांसा-९,४.७ /
तासां च कृत्स्नवचनात् / मिमांसा-९,४.८ /
अपि त्वसन्निपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात् / मिमांसा-९,४.९ /
विकारस्तु प्रदेशत्वाद्यजमानवत् / मिमांसा-९,४.१० /
अपूर्वत्वात्तथा पत्न्याम् / मिमांसा-९,४.११ /
अनाम्नातस्त्वविकारात्सङ्ख्यासु सर्वगामित्वात् / मिमांसा-९,४.१२ /
सङ्खाया त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम् / मिमांसा-९,४.१३ /
अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः / मिमांसा-९,४.१४ /
अभ्यासो वाविकारात्स्यात् / मिमांसा-९,४.१५ /
पशुस्त्वेवं प्राधानंस्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात् / मिमांसा-९,४.१६ /
अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम् / मिमांसा-९,४.१७ /
तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् / मिमांसा-९,४.१८ /
ऋगावास्यादाम्नातत्वादविकल्पश्च न्याय्यः / मिमांसा-९,४.१९ /
तस्यां तु वचनादैरवत्पदविकारः स्यात् / मिमांसा-९,४.२० /
सर्वप्रतिषेधो वासंयागात्पदेन स्यात् / मिमांसा-९,४.२१ /
वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् / मिमांसा-९,४.२२ /
प्रशसास्याभिधानम् / मिमांसा-९,४.२३ /
बाहुप्रशंसा वा / मिमांसा-९,४.२४ /
श्येन-शला-कश्यप- कवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् / मिमांसा-९,४.२५ /
कार्त्स्न्यं वा स्यात्तथाभावात् / मिमांसा-९,४.२६ /
अध्रिगोश्च तदर्थत्वात् / मिमांसा-९,४.२७ /
प्रासङ्गिके प्रायश्चत्तं न विद्यते परार्थत्वात्तदर्थे हिविधीयते / मिमांसा-९,४.२८ /
धारणे च परार्थत्वात् / मिमांसा-९,४.२९ /
क्रियार्थत्वादितरेषु कर्म स्यात् / मिमांसा-९,४.३० /
न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् / मिमांसा-९,४.३१ /
प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत् / मिमांसा-९,४.३२ /
संस्कारप्रतिषेधश्च तद्वत् / मिमांसा-९,४.३३ /
तत्प्रतिषेधे च तथाभूतस्य वर्जनात् / मिमांसा-९,४.३४ /
अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः / मिमांसा-९,४.३५ /
परो नित्यानुवादः स्यात् / मिमांसा-९,४.३६ /
विहितप्रतिषेधो वा / मिमांसा-९,४.३७ /
वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम् / मिमांसा-९,४.३८ /
व्रतधर्माच्चलेपवत् / मिमांसा-९,४.३९ /
रसप्रतिषेधो वा पुरुषधर्मत्वात् / मिमांसा-९,४.४० /
अभ्युदये दोगापनयः स्वधर्मा स्यात्प्रवृत्तत्वात् / मिमांसा-९,४.४१ /
शृतोपदेशाच्च / मिमांसा-९,४.४२ /
अपनयो वार्थान्तरे विधानाच्चरुपयोवत् / मिमांसा-९,४.४३ /
लक्षणार्था शृतश्रुतिः / मिमांसा-९,४.४४ /
श्रयणानां त्वपूर्वत्वात्प्रदानार्थेविधानं स्यात् / मिमांसा-९,४.४५ /
गुणो वा श्रयणार्थत्वात् / मिमांसा-९,४.४६ /
अर्थवादश्च तदथवत् / मिमांसा-९,४.४७ /
श्रुतेश्च तत्प्रधानत्वत् / मिमांसा-९,४.४८ /
अर्थवादश्च तदथवत / मिमांसा-९,४.४९ /
संस्कारं प्रति भावाच्च तस्मादप्यप्रधानम् / मिमांसा-९,४.५० /
पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् / मिमांसा-९,४.५१ /
शेषप्रतिषेधो वार्ऽथाभावादिडान्तवत् / मिमांसा-९,४.५२ /
पूर्वत्त्वाच्च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते / मिमांसा-९,४.५३ /
प्रबृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाजेयस्य / मिमांसा-९,४.५४ /
क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् / मिमांसा-९,४.५५ /
आज्यसंस्थाप्रतिनिधिः स्याद्द्रब्योत्सर्गात् / मिमांसा-९,४.५६ /
समाप्तिवचनात् / मिमांसा-९,४.५७ /
चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् / मिमांसा-९,४.५८ /
अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति / मिमांसा-९,४.५९ /
संस्था तद्देवतत्वात्स्यात् / मिमांसा-९,४.६० /
विधेः प्रकरणान्तरे ऽतिदेशात्सर्वकर्म स्यात् / मिमांसा-१०,१.१ /
अपि वाभिधानसंस्कारद्रव्यर्थे क्रियेत तादर्थ्यात् / मिमांसा-१०,१.२ /
तेषामप्रत्यक्षविशिष्टत्वात् / मिमांसा-१०,१.३ /
इष्ठिरारम्भसंयोगादङ्गभूतान्निवर्तेतारमभस्य प्रधानसंयोगात् / मिमांसा-१०,१.४ /
प्रधानाच्चान्यसंयुक्तात्कसर्वारम्भान्निवर्तेतानङ्गत्वात् / मिमांसा-१०,१.५ /
तस्यां तु स्यात्प्रयाजवत् / मिमांसा-१०,१.६ /
न वाङ्गभूतत्वात् / मिमांसा-१०,१.७ /
एकवाक्यत्वाच्च / मिमांसा-१०,१.८ /
कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् / मिमांसा-१०,१.९ /
स्थाणौ तु देशमात्रत्वादनिबृत्तिः प्रतीयेत / मिमांसा-१०,१.१० /
अपि वा शेषभूतत्वात्संस्कारः प्रतीयेत / मिमांसा-१०,१.११ /
समाख्यानं च तद्वत् / मिमांसा-१०,१.१२ /
मन्त्रवर्णश्च तद्वत् / मिमांसा-१०,१.१३ /
प्रयाजे च तन्न्यायत्वात् / मिमांसा-१०,१.१४ /
लिङ्गदर्शनाच्च / मिमांसा-१०,१.१५ /
तथाज्यभागाग्निरपीति चेत् / मिमांसा-१०,१.१६ /
व्यपदेशाद्देवतान्तरम् / मिमांसा-१०,१.१७ /
समत्वाच्च / मिमांसा-१०,१.१८ /
पशावपीति चेत् / मिमांसा-१०,१.१९ /
न तदभूतवचनात् / मिमांसा-१०,१.२० /
लिङ्गदर्शनाच्च / मिमांसा-१०,१.२१ /
गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च / मिमांसा-१०,१.२२ /
अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात् / मिमांसा-१०,१.२३ /
व्यृद्धवचनञ्च विप्रतिपत्तौ तदर्थत्वात् / मिमांसा-१०,१.२४ /
गुणेपीति चेत् / मिमांसा-१०,१.२५ /
नासंहानात्करालवत् / मिमांसा-१०,१.२६ /
ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् / मिमांसा-१०,१.२७ /
ग्रहाभावे च तद्वचनम् / मिमांसा-१०,१.२८ /
देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति / मिमांसा-१०,१.२९ /
अविरुद्वोपपत्तिरर्थापत्तेः शृतवद्भूतविकारः स्यात् / मिमांसा-१०,१.३० /
स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्लमुक्तं तस्यार्थवादत्वम् / मिमांसा-१०,१.३१ /
विप्रतिपत्तौ तासामाख्याविकारः स्यात् / मिमांसा-१०,१.३२ /
अभ्यासो वा प्रयाजवदेकदेशो ऽन्यदेवत्यः / मिमांसा-१०,१.३३ /
चरुर्हविर्विकारः स्यादिज्यासंयोगात् / मिमांसा-१०,१.३४ /
प्रसिद्धग्रहणत्वाच्च / मिमांसा-१०,१.३५ /
ओदनो वान्नसंयोगात् / मिमांसा-१०,१.३६ /
न द्व्यर्थत्वात् / मिमांसा-१०,१.३७ /
कपालविकारो वा विशये ऽर्थोपपत्तिभ्याम् / मिमांसा-१०,१.३८ /
गुणमुख्यविशेषाच्च / मिमांसा-१०,१.३९ /
तच्छ्रुतौ चान्यहविष्ठात् / मिमांसा-१०,१.४० /
लिङ्गदर्शनाच्च / मिमांसा-१०,१.४१ /
ओदनो वा प्रयुक्तत्वात् / मिमांसा-१०,१.४२ /
अपूर्वव्यपदेशाच्च / मिमांसा-१०,१.४३ /
तथा च लिङ्गदर्शनम् / मिमांसा-१०,१.४४ /
स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् / मिमांसा-१०,१.४५ /
एकस्मिन्वाविप्रतिषेधात् / मिमांसा-१०,१.४६ /
न वार्ऽथान्चरसंयोगादपूपे पाकसंयुक्तं धारणार्थं तरौ भवति तत्रार्थात्पात्रलाभः स्यादन्यमो ऽविशेषात् / मिमांसा-१०,१.४७ /
चरौ वा लिङ्गदर्शनात् / मिमांसा-१०,१.४८ /
तस्मिन्पेषणमनर्थलोपात्स्यात् / मिमांसा-१०,१.४९ /
अक्रिया वा अपूपहेतुत्वात् / मिमांसा-१०,१.५० /
पिण्डार्थत्वाच्च संयवनम् / मिमांसा-१०,१.५१ /
संवपनञ्च तादर्थ्यात् / मिमांसा-१०,१.५२ /
सन्तापनमधःश्रपणात् / मिमांसा-१०,१.५३ /
उपधानं च तादर्थ्यात् / मिमांसा-१०,१.५४ /
पृथुश्र्लक्ष्णे वानपूपत्वात् / मिमांसा-१०,१.५५ /
अभ्यूहश्चोपरिपाकार्थत्वात् / मिमांसा-१०,१.५६ /
तथावज्वलनम् / मिमांसा-१०,१.५७ /
व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् / मिमांसा-१०,१.५८ /
कृष्णलेष्वर्थलोपाकः स्यात् / मिमांसा-१०,२.१ /
स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत् / मिमांसा-१०,२.२ /
उपस्तरणाभिघारणयोपमृतार्थत्वादकर्म स्यात् / मिमांसा-१०,२.३ /
क्रियेत वार्ऽथवादत्वात्तयोः संसर्गबेतुत्वात् / मिमांसा-१०,२.४ /
अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम् / मिमांसा-१०,२.५ /
क्रिया वा मुख्यावदानपरिमाणात्सामन्यात्तद्गुणत्वम् / मिमांसा-१०,२.६ /
तेषां चैकावदानत्वात् / मिमांसा-१०,२.७ /
आप्तिः संख्या समानत्वात् / मिमांसा-१०,२.८ /
सतोस्त्वाप्तिवचनं व्यर्थम् / मिमांसा-१०,२.९ /
विकल्पस्त्वेकावदानत्वात् / मिमांसा-१०,२.१० /
सर्वविकारे त्वभ्यसानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः स्यादितरस्यान्याय्यत्वात् / मिमांसा-१०,२.११ /
अकर्म वा संसर्गार्थनिवृत्तस्मादाप्तिसमर्थत्वं / मिमांसा-१०,२.१२ /
भक्षाणां तु प्रत्यर्थत्वादकर्म स्यात् / मिमांसा-१०,२.१३ /
स्याद्वा निर्धानदर्शनात् / मिमांसा-१०,२.१४ /
वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् / मिमांसा-१०,२.१५ /
वचनं वा हिरण्यस्य प्रदानवदाज्यस्. गुणभूतत्वात् / मिमांसा-१०,२.१६ /
एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् / मिमांसा-१०,२.१७ /
सर्वत्वं च तेषामधिकारात्स्यात् / मिमांसा-१०,२.१८ /
पुरिषापनयो वा तेषामवाच्यत्वात् / मिमांसा-१०,२.१९ /
पुरुषापनयात्स्वकालत्वम् / मिमांसा-१०,२.२० /
एकार्थत्वादविभागः स्यात् / मिमांसा-१०,२.२१ /
ऋत्विद्जानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् / मिमांसा-१०,२.२२ /
परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् / मिमांसा-१०,२.२३ /
दक्षिणायुक्तवचनाच्च / मिमांसा-१०,२.२४ /
नचान्येनानम्येत परिक्रीयात्कर्मणः परार्थत्वात् / मिमांसा-१०,२.२५ /
परिक्रीतवचनाच्च / मिमांसा-१०,२.२६ /
सनिवन्येव भृति वचनात् / मिमांसा-१०,२.२७ /
नैष्कर्तृकेण समस्तवाच्च / मिमांसा-१०,२.२८ /
शेषभक्षाश्च तद्वत् / मिमांसा-१०,२.२९ /
संस्कारो वा द्रव्यस्य परार्थत्वात् / मिमांसा-१०,२.३० /
शेषे च समत्वात् / मिमांसा-१०,२.३१ /
स्वामिनि त दर्शनात्तत्सामान्यादितरेषान्तथात्वम् / मिमांसा-१०,२.३२ /
तथा चान्यार्थदर्शनम् / मिमांसा-१०,२.३३ /
वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात् / मिमांसा-१०,२.३४ /
परिक्रयश्च तादर्थ्यात् / मिमांसा-१०,२.३५ /
प्रतिषेघश्च कर्मवत् / मिमांसा-१०,२.३६ /
स्याद्वाप्रासर्पिकस्य धर्ममात्रत्वात् / मिमांसा-१०,२.३७ /
न दक्षिणाशब्दात्तस्मान्नित्यानुवादः स्यात् / मिमांसा-१०,२.३८ /
उदवसानीयः सत्रधर्मा स्यात्तदङ्गत्वात्तत्र दाने धर्ममात्रं स्यात् / मिमांसा-१०,२.३९ /
न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च / मिमांसा-१०,२.४० /
तेषां तु वचवाद्द्वियज्ञवत्सहप्रयोगः स्यात् / मिमांसा-१०,२.४१ /
तत्रान्यानृत्विजो वृणीरन् / मिमांसा-१०,२.४२ /
एकैकशस्तवविप्रतिषेधात्प्रकृतेश्चैकसंयोगात् / मिमांसा-१०,२.४३ /
कामेष्टौ च दानशब्दात् / मिमांसा-१०,२.४४ /
वचनं वा सत्रत्वात् / मिमांसा-१०,२.४५ /
द्वेष्ये च चोदनाद्दक्षिणापनयात् / मिमांसा-१०,२.४६ /
अस्थियज्ञो ऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम् / मिमांसा-१०,२.४७ /
यावादुक्तमुपयोगः स्यात् / मिमांसा-१०,२.४८ /
यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात / मिमांसा-१०,२.४९ /
काम्यानि तु न विद्यन्ते कामा ज्ञामाद्यथेतरस्यानुच्यमानानि / मिमांसा-१०,२.५० /
ईहार्थाश्चाभावात्सूक्तवाकवत् / मिमांसा-१०,२.५१ /
स्युर्वार्ऽथवादत्वात् / मिमांसा-१०,२.५२ /
नेच्छाभिधानात्तदभावादितरस्मिन् / मिमांसा-१०,२.५३ /
स्युर्वा होतृकामाः / मिमांसा-१०,२.५४ /
न तदाषीष्ट्वात् / मिमांसा-१०,२.५५ /
सर्वस्वारस्यदिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् / मिमांसा-१०,२.५६ /
स्याद्वोभयोः प्रत्क्षशिष्टत्वात् / मिमांसा-१०,२.५७ /
गते करमास्थियज्ञवत् / मिमांसा-१०,२.५८ /
जीवत्यवचनमायुराशिषस्तदर्थत्वात् / मिमांसा-१०,२.५९ /
वचनं वा भागित्वात्प्राग्यथोक्तात् / मिमांसा-१०,२.६० /
क्रिया स्याद्धर्ममात्राणाम् / मिमांसा-१०,२.६१ /
गुणलोपे च मुख्यस्य / मिमांसा-१०,२.६२ /
मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात् / मिमांसा-१०,२.६३ /
न निर्वापशेषत्वात् / मिमांसा-१०,२.६४ /
संख्यातु चोदनां प्रति सामान्यात्तद्विकारः संयोगाच्च परं मुष्ठेः / मिमांसा-१०,२.६५ /
न चोदनाभिसम्बन्धात्प्रक्रतौ संस्कारयोगात् / मिमांसा-१०,२.६६ /
औतपत्तिके तु द्रव्यतो विकारः स्यादकार्यात्वात् / मिमांसा-१०,२.६७ /
नैमितेतिके तु कार्यत्वात्प्रकृतेः स्यात्त दापत्तेः / मिमांसा-१०,२.६८ /
विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेनच कर्मसंयोगात् / मिमांसा-१०,२.६९ /
परेषां प्रतिषेधः स्यात् / मिमांसा-१०,२.७० /
प्रतिषेधाच्च / मिमांसा-१०,२.७१ /
अर्थाभावे संस्कारत्वं स्यात् / मिमांसा-१०,२.७२ /
अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् / मिमांसा-१०,२.७३ /
विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् / मिमांसा-१०,३.१ /
प्रकृतिवत्तस्य चानुपरोधः / मिमांसा-१०,३.२ /
चोदनाप्रभुत्वाच्च / मिमांसा-१०,३.३ /
प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः / मिमांसा-१०,३.४ /
न चाङ्गविधिरनङ्गे स्यात् / मिमांसा-१०,३.५ /
कर्मणश्चै कशब्द्यात्सन्निधाने विधेराख्यासंयोगो गुणेनतद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात् / मिमांसा-१०,३.६ /
अकार्यत्वाच्च नाम्नः / मिमांसा-१०,३.७ /
तुल्याच प्रभुता गुणे / मिमांसा-१०,३.८ /
सर्वमेवंप्रधानमिति चेत् / मिमांसा-१०,३.९ /
तथाभूतेनसंयोगाद्यथार्थविधयः स्युः / मिमांसा-१०,३.१० /
विधित्वं चाविशिष्ठ मेवं प्राकृतानां वैकृतैः कर्मणायोगात्तस्मात्सर्वं प्रधानार्थम् / मिमांसा-१०,३.११ /
समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् / मिमांसा-१०,३.१२ /
हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् / मिमांसा-१०,३.१३ /
प्रकृत्यनुपरोधाच्च / मिमांसा-१०,३.१४ /
उत्तरस्य वा मन्त्रार्थित्वात् / मिमांसा-१०,३.१५ /
विध्यतिदेशात्तच्छ्रुतौ बिकारः स्याद्गुणानामुपदेश्यत्वात् / मिमांसा-१०,३.१६ /
पूर्वस्मिश्चामन्त्रत्वदर्शनात् / मिमांसा-१०,३.१७ /
संस्कारे तु क्रियान्तर तस्य विधयकत्वात् / मिमांसा-१०,३.१८ /
प्रकृत्यनुपरोधाच्च / मिमांसा-१०,३.१९ /
विधेस्तु तत्र भावात्सन्देहे यस्य शब्दस्तदर्थः स्यात् / मिमांसा-१०,३.२० /
संस्कारसामर्थ्याद्गुणसंयोगाच्च / मिमांसा-१०,३.२१ /
विप्रतिषेधात्क्रियाप्रकरणे स्यात् / मिमांसा-१०,३.२२ /
षड्भिर्ःदीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् / मिमांसा-१०,३.२३ /
अभ्यासात्तु प्रधानस्य / मिमांसा-१०,३.२४ /
आवृत्त्या मन्त्रकर्म स्यात् / मिमांसा-१०,३.२५ /
अपिवा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्च कृते ऽभ्यासः / मिमांसा-१०,३.२६ /
पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् / मिमांसा-१०,३.२७ /
तत्प्रथक्त्वं च दर्शयति / मिमांसा-१०,३.२८ /
न चाविशेषाद्व्यपदेशः स्यात् / मिमांसा-१०,३.२९ /
अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् / मिमांसा-१०,३.३० /
शैष्ठत्वाच्चेतरासां यथास्थानम् / मिमांसा-१०,३.३१ /
विकारस्त्वप्रकरणे हि काम्यानि / मिमांसा-१०,३.३२ /
शङ्कते च निवृत्तेरुभयत्वंहिश्रूयते / मिमांसा-१०,३.३३ /
वासो वत्सञ्च सामान्यात् / मिमांसा-१०,३.३४ /
अर्थापत्तेस्तद्धर्माः स्यान्निमित्ताख्याभिसंयोगात् / मिमांसा-१०,३.३५ /
दाने पाको ऽर्थलक्षणः / मिमांसा-१०,३.३६ /
पाकस्थ चान्नकारित्त्वात् / मिमांसा-१०,३.३७ /
तथाभिघारणस्य / मिमांसा-१०,३.३८ /
द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् / मिमांसा-१०,३.३९ /
समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात् / मिमांसा-१०,३.४० /
यस्य वा सन्निधाने स्याद्वाक्यतोह्यभिसम्बन्धः / मिमांसा-१०,३.४१ /
असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् / मिमांसा-१०,३.४२ /
असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः / मिमांसा-१०,३.४३ /
शब्जार्थश्चापि लोकवत् / मिमांसा-१०,३.४४ /
सापशूनामुत्पत्तितो विभागात् / मिमांसा-१०,३.४५ /
अनियमो ऽविशेषात् / मिमांसा-१०,३.४६ /
भागित्वाद्वा गवां स्यात् / मिमांसा-१०,३.४७ /
प्रत्ययात् / मिमांसा-१०,३.४८ /
लिङ्गदर्शनाच्च / मिमांसा-१०,३.४९ /
तत्र दानं विभागेन प्रदानानां पृथक्त्वात् / मिमांसा-१०,३.५० /
परिक्राच्च लोकवत् / मिमांसा-१०,३.५१ /
विभागं चापि दर्शयति / मिमांसा-१०,३.५२ /
समं स्यादश्रुतित्वात् / मिमांसा-१०,३.५३ /
अपि वा कर्मवैषम्यात् / मिमांसा-१०,३.५४ /
अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये / मिमांसा-१०,३.५५ /
तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन / मिमांसा-१०,३.५६ /
सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात् समवायाद्धिकर्मभिः / मिमांसा-१०,३.५७ /
चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् / मिमांसा-१०,३.५८ /
एका पञ्चेति धेनुवत् / मिमांसा-१०,३.५९ /
त्रिवत्सश्च / मिमांसा-१०,३.६० /
तथा च लिङ्गदर्शनम् / मिमांसा-१०,३.६१ /
एके ति श्रुतिभूतत्वात्सङ्ख्यया गवां लिङ्गविशेषेण / मिमांसा-१०,३.६२ /
प्राकाशौ तथेति चेत् / मिमांसा-१०,३.६३ /
अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदन्ताविकारः स्यात् / मिमांसा-१०,३.६४ /
धेनुवच्चाश्चदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य / मिमांसा-१०,३.६५ /
एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण / मिमांसा-१०,३.६६ /
अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् / मिमांसा-१०,३.६७ /
तथा च सोमचमसः / मिमांसा-१०,३.६८ /
सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां / मिमांसा-१०,३.६९ /
ब्रह्मदाने ऽविशिष्टमिति चेत् / मिमांसा-१०,३.७० /
उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्मस्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात् / मिमांसा-१०,३.७१ /
यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् / मिमांसा-१०,३.७२ /
सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् / मिमांसा-१०,३.७३ /
यजुर्युक्ते ऽध्वर्योर्दक्षिणा विकारः स्यात् / मिमांसा-१०,३.७४ /
अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते / मिमांसा-१०,३.७५ /
प्रकृतिलिङ्गासंयागात्कर्मसंस्कारंविकृतावधिकं स्यात् / मिमांसा-१०,४.१ /
चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् / मिमांसा-१०,४.२ /
सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत् / मिमांसा-१०,४.३ /
अधिकैश्चैकवाक्यत्वात् / मिमांसा-१०,४.४ /
लिङ्गदर्शनाच्च / मिमांसा-१०,४.५ /
प्राजापत्येषु चाम्नानात् / मिमांसा-१०,४.६ /
आमने लिङ्गदर्शनात् / मिमांसा-१०,४.७ /
उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसयोगात् / मिमांसा-१०,४.८ /
आनर्थक्यात्त्वधिकं स्यात् / मिमांसा-१०,४.९ /
संस्कारे चान्यसंयोगात् / मिमांसा-१०,४.१० /
प्रयाजवदिति चेत् / मिमांसा-१०,४.११ /
नार्थान्यत्वात् / मिमांसा-१०,४.१२ /
आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात् / मिमांसा-१०,४.१३ /
अधिकं वान्यार्थत्वात् / मिमांसा-१०,४.१४ /
समुच्चयं च दर्शयति / मिमांसा-१०,४.१५ /
सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत / मिमांसा-१०,४.१६ /
अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात् / मिमांसा-१०,४.१७ /
सर्वेषामविशेषात् / मिमांसा-१०,४.१८ /
एकस्या वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात् / मिमांसा-१०,४.१९ /
स्तोमविबृद्धौ त्वधिकं स्यादविबृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च / मिमांसा-१०,४.२० /
पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् / मिमांसा-१०,४.२१ /
वचनानित्वपूर्वत्वात् / मिमांसा-१०,४.२२ /
विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना / मिमांसा-१०,४.२३ /
शेषाणां वा चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते / मिमांसा-१०,४.२४ /
तथोत्तरस्यान्ततौ तत्प्रकृतित्वात् / मिमांसा-१०,४.२५ /
प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् / मिमांसा-१०,४.२६ /
अविकारो वार्ऽथशब्दानपायात्स्याद्द्रव्यवत् / मिमांसा-१०,४.२७ /
तथारम्भासमवायद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशाःस्त्रमनर्थकंस्यात् / मिमांसा-१०,४.२८ /
द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात् / मिमांसा-१०,४.२९ /
बुधन्वान्पवमानवद्विशेषनिर्देशात् / मिमांसा-१०,४.३० /
मन्त्रनिशेषनिर्देशान्न देवताविकारः स्यात् / मिमांसा-१०,४.३१ /
विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपिभेदः स्यात् / मिमांसा-१०,४.३२ /
यथोक्तं वा विप्रतिपत्तेर्न चोदना / मिमांसा-१०,४.३३ /
स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निवर्तेत / मिमांसा-१०,४.३४ /
संयोगो वार्ऽथापत्तेरभिधानस्य कर्मजत्वात् / मिमांसा-१०,४.३५ /
सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् / मिमांसा-१०,४.३६ /
सर्वस्य वैककर्म्यात् / मिमांसा-१०,४.३७ /
स्विष्टकृदावापिको ऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात् / मिमांसा-१०,४.३८ /
अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात् / मिमांसा-१०,४.३९ /
संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् / मिमांसा-१०,४.४० /
स्याद्गुणार्थत्वात् / मिमांसा-१०,४.४१ /
मनोतायां तु वचनादविकारः स्यात् / मिमांसा-१०,४.४२ /
पृष्ठार्थे ऽन्यद्रथन्तरात्तद्योनिपूर्वत्वादृचां प्रविभक्तत्वात् / मिमांसा-१०,४.४३ /
स्वयोनौ वा सर्वाख्यत्वात् / मिमांसा-१०,४.४४ /
यूपवदिति चेत् / मिमांसा-१०,४.४५ /
न कर्मसंयोगात् / मिमांसा-१०,४.४६ /
कार्यत्वादुत्तरयोर्यथाप्रकृति / मिमांसा-१०,४.४७ /
समानदेवते वा तृचस्याविभागात् / मिमांसा-१०,४.४८ /
ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् / मिमांसा-१०,४.४९ /
उभयपानात्पृषदाज्ये दध्नःस्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् / मिमांसा-१०,४.५० /
न वा परार्थत्वाद्यज्ञपतिवत् / मिमांसा-१०,४.५१ /
सायाद्वा आवाहनस्य तादर्थ्यात् / मिमांसा-१०,४.५२ /
न वा संस्कारशब्दत्वात् / मिमांसा-१०,४.५३ /
स्याद्वाद्रव्याभिधानात् / मिमांसा-१०,४.५४ /
दध्नस्तुगुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् / मिमांसा-१०,४.५५ /
दधिवा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात् / मिमांसा-१०,४.५६ /
अपिवाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् / मिमांसा-१०,४.५७ /
अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम् / मिमांसा-१०,४.५८ /
न वा स्याद्गुणशास्त्रत्वात् / मिमांसा-१०,४.५९ /
आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् / मिमांसा-१०,५.१ /
लिङ्गदर्शनाच्च / मिमांसा-१०,५.२ /
विकल्पो वा समत्वात् / मिमांसा-१०,५.३ /
क्रमादुपजनो ऽन्तेस्यात् / मिमांसा-१०,५.४ /
लिङ्गमविशिष्टं सङ्ख्याया हि तद्वचनम् / मिमांसा-१०,५.५ /
आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यत्यविधिः स्यात् / मिमांसा-१०,५.६ /
एकत्रिके तृचादिषु माध्यन्दिनेछंन्दसां श्रुतिभूतत्वात् / मिमांसा-१०,५.७ /
आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् / मिमांसा-१०,५.८ /
यथानिवेशञ्च प्रकृतिवत्सङ्ख्यामात्रविकारत्वात् / मिमांसा-१०,५.९ /
त्रिकस्तृचे धुर्ये स्यात् / मिमांसा-१०,५.१० /
एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् / मिमांसा-१०,५.११ /
चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् / मिमांसा-१०,५.१२ /
प्राप्तिस्तु रात्रिशब्दसम्बन्धात् / मिमांसा-१०,५.१३ /
अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात् / मिमांसा-१०,५.१४ /
स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूरणमविकारात्सङ्ख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात् / मिमांसा-१०,५.१५ /
आगमेन वाभ्यासस्याश्रुतित्वात् / मिमांसा-१०,५.१६ /
सङ्ख्यायाश्च पृथक्त्वनिवेशात् / मिमांसा-१०,५.१७ /
पराक्शब्दत्वात् / मिमांसा-१०,५.१८ /
उक्ताविकाराच्च / मिमांसा-१०,५.१९ /
अश्रुतित्वान्नेति चेत् / मिमांसा-१०,५.२० /
स्यादर्थचोदितानां परिमाणशास्त्रम् / मिमांसा-१०,५.२१ /
आवापवचनं चाभ्यासे नोपपद्यते / मिमांसा-१०,५.२२ /
साम्नाञ्चोत्पत्तिसामर्थ्यात् / मिमांसा-१०,५.२३ /
धूर्येष्वपीति चेत् / मिमांसा-१०,५.२४ /
नावृत्तिधर्मत्वात् / मिमांसा-१०,५.२५ /
वहिष्पवमाने न ऋगागमः सामैकत्वात् / मिमांसा-१०,५.२६ /
अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात् / मिमांसा-१०,५.२७ /
अविशेषान्नेति चेत् / मिमांसा-१०,५.२८ /
स्यात्तद्धर्मत्वात् प्रकृतिवदभ्यस्येताऽसङ्ख्यापूरणात् / मिमांसा-१०,५.२९ /
यावदुक्तं वा कृतपरिमाणत्वात् / मिमांसा-१०,५.३० /
अधिकानाञ्च दर्शनात् / मिमांसा-१०,५.३१ /
कर्मस्वपीति चेत् / मिमांसा-१०,५.३२ /
न चोदितत्वात् / मिमांसा-१०,५.३३ /
षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् / मिमांसा-१०,५.३४ /
प्रकृतौ चाभावदर्शनात् / मिमांसा-१०,५.३५ /
अयज्ञवचनाच्च / मिमांसा-१०,५.३६ /
प्रकृतौ वा शिष्टत्वात् / मिमांसा-१०,५.३७ /
प्रकृतिदर्शनाच्च / मिमांसा-१०,५.३८ /
आम्नातंपरिसङ्ख्यार्थम् / मिमांसा-१०,५.३९ /
उक्तमभावदर्शनम् / मिमांसा-१०,५.४० /
गुणादयज्ञत्वम् / मिमांसा-१०,५.४१ /
तस्याग्रणाद्ग्रहणम् / मिमांसा-१०,५.४२ /
उक्थ्याच्च वचनात् / मिमांसा-१०,५.४३ /
तृतीयसवने वचनात्स्यात् / मिमांसा-१०,५.४४ /
अनभ्यासे पराक्शब्दस्य तादर्थ्यात् / मिमांसा-१०,५.४५ /
उक्थ्यविच्छेदवचनत्वाच्च / मिमांसा-१०,५.४६ /
आग्रयणाद्वा पराक्शब्दस्य देशवाचत्वात्पुनराधेयवत् / मिमांसा-१०,५.४७ /
विच्छेदः स्तोमसामान्यात् / मिमांसा-१०,५.४८ /
उक्थ्याग्निष्टोमसंयागादस्तुतशस्त्रः स्यात्सतिहि संस्थान्यत्वम् / मिमांसा-१०,५.४९ /
संस्तुतशस्त्रो वा तदङ्गत्वात् / मिमांसा-१०,५.५० /
लिङ्गदर्शनाच्च / मिमांसा-१०,५.५१ /
वचनात्संस्थान्यत्वम् / मिमांसा-१०,५.५२ /
अभावादतिरात्रेषुगृह्मते / मिमांसा-१०,५.५३ /
अन्वयो वानारभ्य वानारभ्य विधानात् / मिमांसा-१०,५.५४ /
चतुर्थेचतुर्थे ऽहन्यहीनस्य गृह्मतैत्यभ्यासेन प्रतीयेतभोजनवत् / मिमांसा-१०,५.५५ /
अपि वा सङ्ख्यावत्त्वान्नानाहीनेषौ गृह्मते पक्षवदेकस्मिन्संख्यार्थभावात् / मिमांसा-१०,५.५६ /
भोजने तत्सङ्ख्यं स्यात् / मिमांसा-१०,५.५७ /
जगक्साम्नि सामाभावागृक्तः सामतदाख्यं स्यात् / मिमांसा-१०,५.५८ /
उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात् / मिमांसा-१०,५.५९ /
मुख्येन वा नियम्येत / मिमांसा-१०,५.६० /
निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात् / मिमांसा-१०,५.६१ /
ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् / मिमांसा-१०,५.६२ /
अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रतरणादग्रत्वमुच्यते / मिमांसा-१०,५.६३ /
धारासंयोगाच्च / मिमांसा-१०,५.६४ /
कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् / मिमांसा-१०,५.६५ /
तद्देशानां वाग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात् / मिमांसा-१०,५.६६ /
परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु / मिमांसा-१०,५.६७ /
प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् / मिमांसा-१०,५.६८ /
प्रतिकर्षञ्च दर्शयति / मिमांसा-१०,५.६९ /
पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् / मिमांसा-१०,५.७० /
तुल्यधर्मत्वाच्च / मिमांसा-१०,५.७१ /
तथा च लिङ्गदर्शनम् / मिमांसा-१०,५.७२ /
सादनं चापि शेषत्वात् / मिमांसा-१०,५.७३ /
लिङ्ग दर्शनाच्च / मिमांसा-१०,५.७४ /
प्रदानं चापि सादनवत् / मिमांसा-१०,५.७५ /
न वा प्रधानत्वाच्छेषत्वात्सादनन्तथा / मिमांसा-१०,५.७६ /
त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् / मिमांसा-१०,५.७७ /
अपि वाहर्गणेष्वग्निवत्समानविधानं स्यात् / मिमांसा-१०,५.७८ /
द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात् / मिमांसा-१०,५.७९ /
व्यूढो वा लिङ्गदर्शनात्समूढविकारः स्यात् / मिमांसा-१०,५.८० /
कामसंयोगात् / मिमांसा-१०,५.८१ /
तस्योभयथा प्रवृत्तिरैककर्म्यात् / मिमांसा-१०,५.८२ /
एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् / मिमांसा-१०,५.८३ /
स्वस्थानविवृद्धिर्वाह्रामप्रत्यक्षसङ्ख्यत्वात् / मिमांसा-१०,५.८४ /
पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् / मिमांसा-१०,५.८५ /
वचनात्परिवृत्तिरैकादशिनेषु / मिमांसा-१०,५.८६ /
लिङ्गदर्शनाच्च / मिमांसा-१०,५.८७ /
छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकरालस्यम न्त्राणां यथोत्पत्तिवचनमूहवत्स्यात् / मिमांसा-१०,५.८८ /
एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् / मिमांसा-१०,६.१ /
तृचे वा लिङ्गदर्शनात् / मिमांसा-१०,६.२ /
स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् / मिमांसा-१०,६.३ /
पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम् / मिमांसा-१०,६.४ /
विभक्ते वा समस्तविधानात्तद्विभागेविप्रतिषिद्धम् / मिमांसा-१०,६.५ /
समासस्त्वेकादशिनेषु तत्प्रकृतित्वात् / मिमांसा-१०,६.६ /
विहारप्रतिषेधाच्च / मिमांसा-१०,६.७ /
श्रुतितो वा लोकवद्विभागः स्यात् / मिमांसा-१०,६.८ /
विहाप्रकृतित्वाच्च / मिमांसा-१०,६.९ /
विशये च तदासत्तेः / मिमांसा-१०,६.१० /
त्रयस्तथेति चेत् / मिमांसा-१०,६.११ /
न समत्वात्प्रयाजवत् / मिमांसा-१०,६.१२ /
सर्वपृष्ठे पृष्ठशब्दात्तोषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् / मिमांसा-१०,६.१३ /
विधेस्तु विप्रकर्षः स्यात् / मिमांसा-१०,६.१४ /
वैरूपसामा क्रतुसंयागात् त्रिवृदेवदेकसामा स्यात् / मिमांसा-१०,६.१५ /
पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् / मिमांसा-१०,६.१६ /
त्रिवृद्वदिति चेत् / मिमांसा-१०,६.१७ /
न प्रकृतावकृत्स्नसंयोगात् / मिमांसा-१०,६.१८ /
विधित्वात्नेति चेत् / मिमांसा-१०,६.१९ /
स्याद्विशये तन्नयायत्वात्कर्माविभागात् / मिमांसा-१०,६.२० /
प्रकृतेश्चाविकारात् / मिमांसा-१०,६.२१ /
त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् / मिमांसा-१०,६.२२ /
स्तोमस्य वा तल्लिङ्गत्वात् / मिमांसा-१०,६.२३ /
उभयसाम्नि विश्वजिद्वद्विभागः स्यात् / मिमांसा-१०,६.२४ /
पृष्टार्थे वातदर्थत्वात् / मिमांसा-१०,६.२५ /
लिङ्गदर्शनाच्च / मिमांसा-१०,६.२६ /
पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशे ऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत् / मिमांसा-१०,६.२७ /
अन्ते वा कृतकालत्वात् / मिमांसा-१०,६.२८ /
अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् / मिमांसा-१०,६.२९ /
अन्ते वा कृतकालत्वात् / मिमांसा-१०,६.३० /
आवृत्तिश्चु व्यवाये कालभेदात् स्यात् / मिमांसा-१०,६.३१ /
मधु न दीक्षिता ब्रह्मचारित्वात् / मिमांसा-१०,६.३२ /
प्राश्येत यज्ञार्थत्वात् / मिमांसा-१०,६.३३ /
मानसमहरन्तरं स्याद्भेदव्यपदेशात् / मिमांसा-१०,६.३४ /
तेन च संस्तवात् / मिमांसा-१०,६.३५ /
अहरन्ताच्च परेण चोदना / मिमांसा-१०,६.३६ /
पक्षे सङ्ख्या सहस्रवत् / मिमांसा-१०,६.३७ /
अहरङ्ग वांशुवच्चोदनाभावात् / मिमांसा-१०,६.३८ /
दशमविसर्गवचनाच्च / मिमांसा-१०,६.३९ /
दशमे ऽहनीति च तद्गुणशास्त्रात् / मिमांसा-१०,६.४० /
सङ्ख्यासामञ्जस्यात् / मिमांसा-१०,६.४१ /
पश्वतिरेके चैकस्य भावात् / मिमांसा-१०,६.४२ /
स्तुतिव्यपदेशमङ्गेनविप्रतिषिद्धं व्रतवत् / मिमांसा-१०,६.४३ /
वचनादतदन्तत्वम् / मिमांसा-१०,६.४४ /
सत्रमेकः प्रकृतिवत् / मिमांसा-१०,६.४५ /
वचनात्तु बहूनां स्यात् / मिमांसा-१०,६.४६ /
अपदेशः स्यादिति चेत् / मिमांसा-१०,६.४७ /
नैकव्यपदेशात् / मिमांसा-१०,६.४८ /
सन्निवापञ्च दर्शयति / मिमांसा-१०,६.४९ /
बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम् / मिमांसा-१०,६.५० /
अन्ये स्युर् ऋत्विजः प्रकृतिवत् / मिमांसा-१०,६.५१ /
अपि वा यजमानाः स्युर् ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम् / मिमांसा-१०,६.५२ /
कर्तृ संस्कारो वचनादाधातृवदिति चेत् / मिमांसा-१०,६.५३ /
स्याद्विशये तन्नयायत्वात्प्रकृतिवत् / मिमांसा-१०,६.५४ /
स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् / मिमांसा-१०,६.५५ /
न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण / मिमांसा-१०,६.५६ /
दीक्षितादीक्षितव्यपदेशश्च नोपपद्यते ऽर्थयोर्नित्यभावित्वात् / मिमांसा-१०,६.५७ / अदक्षिणत्वाच्च / मिमांसा-१०,६.५८ /
द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् / मिमांसा-१०,६.५९ /
यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् / मिमांसा-१०,६.६० /
अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यह कर्मभेदः स्यात् / मिमांसा-१०,६.६१ /
सर्वस्य वैककर्म्यात् / मिमांसा-१०,६.६२ /
पृषदाज्यवद्वाह्रां गुणशास्त्रं स्यात् / मिमांसा-१०,६.६३ /
ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात् / मिमांसा-१०,६.६४ /
द्वादशाहे तु वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात् / मिमांसा-१०,६.६५ /
परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् / मिमांसा-१०,६.६६ /
भेदस्तु गुणसंयोगात् / मिमांसा-१०,६.६७ /
प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात् / मिमांसा-१०,६.६८ /
एकार्थत्वान्नेति चेत् / मिमांसा-१०,६.६९ /
स्यादुत्पत्तौ कालभेदात् / मिमांसा-१०,६.७० /
विभज्य तु संस्कारवचनाद्द्वादशाहवत् / मिमांसा-१०,६.७१ /
लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत् / मिमांसा-१०,६.७२ /
यावदर्थंवार्थ शेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम् / मिमांसा-१०,६.७३ /
आग्नेये कृत्स्त्रविधिः / मिमांसा-१०,६.७४ /
ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात् / मिमांसा-१०,६.७५ /
वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् / मिमांसा-१०,६.७६ /
तत्राहर्गणे ऽर्थाद्वासःप्रकृतिः स्यात् / मिमांसा-१०,६.७७ /
मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य / मिमांसा-१०,६.७८ /
हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन / मिमांसा-१०,६.७९ /
पशोरेकहविष्ट्वं समस्तचोदितत्वात् / मिमांसा-१०,७.१ /
प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्कल्पनत्वात् / मिमांसा-१०,७.२ /
हविर्भेदात्कर्मणे ऽभ्यासस्तस्मात्तेभ्यो ऽवदानं स्यात् / मिमांसा-१०,७.३ /
आज्यभागवद्वा विर्देशात्परिसंख्यास्यात् / मिमांसा-१०,७.४ /
तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेतपशोः पञ्चावदानत्वात् / मिमांसा-१०,७.५ /
अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्घ्याने ऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात् / मिमांसा-१०,७.६ /
अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् / मिमांसा-१०,७.७ /
अब्राह्मणे च दर्शनात् / मिमांसा-१०,७.८ /
शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वं / मिमांसा-१०,७.९ /
इज्याशेषात्सिवष्टकृदिज्येत प्रकृचिवत् / मिमांसा-१०,७.१० /
त्र्यङ्गैर्वा शरवद्विकारः स्यात् / मिमांसा-१०,७.११ /
अध्यूध्नी होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् / मिमांसा-१०,७.१२ /
शेषे वा समवैति तस्माद्रथवन्नियमः स्यात् / मिमांसा-१०,७.१३ /
अशास्त्रत्वात्तु नैवं स्यात् / मिमांसा-१०,७.१४ /
अपि वा दानमात्रं स्याद्भक्षशब्दानभिसम्बन्धात् / मिमांसा-१०,७.१५ /
दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्चत्वात् / मिमांसा-१०,७.१६ /
अग्नीधश्च वविष्ठुपध्यूध्नीवत् / मिमांसा-१०,७.१७ /
अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम् / मिमांसा-१०,७.१८ /
स्याद्वा होत्रध्वर्युविकारत्वात्तयो कर्माभिसम्बन्धात् / मिमांसा-१०,७.१९ /
द्विभागः स्याद्द्विकर्मत्वात् / मिमांसा-१०,७.२० /
एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात् / मिमांसा-१०,७.२१ /
प्रतिप्रस्थातुश्च वपाश्ररणात् / मिमांसा-१०,७.२२ /
अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् / मिमांसा-१०,७.२३ /
विकृतौ प्राकृतस्य विधेर्ग्रहणात्पुनः श्रुतिरनर्थिका स्यात् / मिमांसा-१०,७.२४ /
अपि वाऽग्नेयवद्द्विशब्दत्वं स्यात् / मिमांसा-१०,७.२५ /
न वा शब्दपृथक्त्वात् / मिमांसा-१०,७.२६ /
अधिकं वार्थवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्यं स्यादपूर्वत्वात् / मिमांसा-१०,७.२७ /
प्रतिषेधः स्यादिति चेत् / मिमांसा-१०,७.२८ /
नाश्रुतत्वात् / मिमांसा-१०,७.२९ /
अग्रहणादिति चेत् / मिमांसा-१०,७.३० /
न तुल्यत्वात् / मिमांसा-१०,७.३१ /
तथा तद्ग्रहणे स्यात् / मिमांसा-१०,७.३२ /
अपूर्वतां तु दर्शयोद्ग्रहणस्यार्थवत्त्वात् / मिमांसा-१०,७.३३ /
ततो ऽपि यावदुक्तं स्यात् / मिमांसा-१०,७.३४ /
स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात् / मिमांसा-१०,७.३५ /
अतिषेधो वा दर्शनादिडायां स्यात् / मिमांसा-१०,७.३६ /
प्रतिषेधो वा विधिपूर्वस्य दर्शनात् / मिमांसा-१०,७.३७ /
शंय्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधो ऽनर्थकः स्यात् / मिमांसा-१०,७.३८ /
नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् / मिमांसा-१०,७.३९ /
प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात् / मिमांसा-१०,७.४० /
प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् / मिमांसा-१०,७.४१ /
प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम् / मिमांसा-१०,७.४२ /
उपसत्सु यावदुक्तमकर्म स्यात् / मिमांसा-१०,७.४३ /
स्त्रोवेण वागुणत्वाच्छेपप्रतिषेधः स्यात् / मिमांसा-१०,७.४४ /
अतिषेझं वा प्रतिषिध्यप्रतिप्रसवात् / मिमांसा-१०,७.४५ /
अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् / मिमांसा-१०,७.४६ /
अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात् / मिमांसा-१०,७.४७ /
आज्यभागयोर्वा गुणत्वाच्छेषप्रतिषेधः स्यात् / मिमांसा-१०,७.४८ /
प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वं तस्मान्नित्यानुवादः स्यात् / मिमांसा-१०,७.४९ /
आज्यभागयोर्ग्रहणं वित्यानुवादो वा गृहमेधीयवत्स्यात् / मिमांसा-१०,७.५० /
विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात् / मिमांसा-१०,७.५१ /
उभयप्रदेशान्नेतिचेत् / मिमांसा-१०,७.५२ /
शरेष्वपीति चेत् / मिमांसा-१०,७.५३ /
विरोध्यग्रहणात्तथा शरेष्विति चेत् / मिमांसा-१०,७.५४ /
तथेतरास्मिन् / मिमांसा-१०,७.५५ /
श्रुत्यानर्थक्यमिति चेत् / मिमांसा-१०,७.५६ /
ग्रहणस्यार्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् / मिमांसा-१०,७.५७ /
अधिकं स्यादिति चेत् / मिमांसा-१०,७.५८ /
अधिकं स्यादिति चेत् / मिमांसा-१०,७.५९ /
नार्थाभावात् / मिमांसा-१०,७.६० /
तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् / मिमांसा-१०,७.६१ /
यावच्छ्रतीति चेत् / मिमांसा-१०,७.६२ /
न प्रकृतावशब्दत्वात् / मिमांसा-१०,७.६३ /
विकृतौ त्वनियमः स्यात्प्रषदाज्यवद्ग्रहणस्य गुणार्थत्वादुभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात् / मिमांसा-१०,७.६४ /
ऐकार्थ्याद्वा नियभ्येत श्रुतितो विशिष्टत्वात् / मिमांसा-१०,७.६५ /
विरोधित्वाच्च लोकवत् / मिमांसा-१०,७.६६ /
क्रतोश्चतद्गुणत्वात् / मिमांसा-१०,७.६७ /
विरोधिनाञ्च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात् / मिमांसा-१०,७.६८ /
पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम् / मिमांसा-१०,७.६९ /
यद्यपिचतुरवत्तीति तु नियमे नोपपद्यते / मिमांसा-१०,७.७० /
क्रत्वन्तरे वा तन्नयायत्वात्कर्मभेदात् / मिमांसा-१०,७.७१ /
यथाश्रुतीति चेत् / मिमांसा-१०,७.७२ /
न चोदनैकत्वात् / मिमांसा-१०,७.७३ /
प्रतिषेधः प्रदेशे ऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्वि कल्पःस्यात् / मिमांसा-१०,८.१ /
अर्थप्राप्तवदिति चेत् / मिमांसा-१०,८.२ /
न तुल्यहेतुत्वादुभयं शब्दलक्षणम् / मिमांसा-१०,८.३ /
अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधोनामेकदेशः स्यात् / मिमांसा-१०,८.४ /
अपूर्वे चार्थवादः स्यात् / मिमांसा-१०,८.५ /
शिष्ट्वा तु प्रतिषेधः स्यात् / मिमांसा-१०,८.६ /
न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च / मिमांसा-१०,८.७ /
पूर्वैश्चच तुल्यकालत्वात् / मिमांसा-१०,८.८ /
उपवादश्च तद्वत् / मिमांसा-१०,८.९ /
प्रतिषेधादकर्मेति चेत् / मिमांसा-१०,८.१० /
न शब्दपूर्वत्वात् / मिमांसा-१०,८.११ /
दीक्षितस्य दानहोमपाकप्रतिषेधो ऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात् / मिमांसा-१०,८.१२ /
अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् / मिमांसा-१०,८.१३ /
तस्य वाप्यानुमानिकमविशेषात् / मिमांसा-१०,८.१४ /
अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् / मिमांसा-१०,८.१५ /
अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्ट स्यात् / मिमांसा-१०,८.१६ /
अकरणे तु यच्छास्त्रं विशेषे श्रुयमाणमविकृतमाज्य भागवत्प्राकृतप्रतिषेधार्थम् / मिमांसा-१०,८.१७ /
विकारे तु तदर्थं स्यात् / मिमांसा-१०,८.१८ /
वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य / मिमांसा-१०,८.१९ /
मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात् / मिमांसा-१०,८.२० /
अनाम्नाते च दर्शनात् / मिमांसा-१०,८.२१ /
प्रतिषेधाच्च / मिमांसा-१०,८.२२ /
अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् / मिमांसा-१०,८.२३ /
मासि ग्रहणञ्च तद्वात् / मिमांसा-१०,८.२४ /
ग्रहणं वा तुल्यत्वात् / मिमांसा-१०,८.२५ /
लिङ्गदर्शनाच्च / मिमांसा-१०,८.२६ /
ग्रहणं समानविधानं स्यात् / मिमांसा-१०,८.२७ /
मासिग्रहणमभ्यासप्रतिषेधार्थम् / मिमांसा-१०,८.२८ /
उत्पत्तितादर्थ्याच्चतुरवत्तम प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् / मिमांसा-१०,८.२९ /
तत्संस्कारश्रुतेश्च / मिमांसा-१०,८.३० /
ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् / मिमांसा-१०,८.३१ /
तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् / मिमांसा-१०,८.३२ /
साप्तदश्यवन्नियम्येत / मिमांसा-१०,८.३३ /
हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात् / मिमांसा-१०,८.३४ /
पुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत् / मिमांसा-१०,८.३५ /
न त्वनित्याधिकारो ऽस्ति विधौ नित्येनसम्बन्धस्तस्मादवाक्यशेषत्वम् / मिमांसा-१०,८.३६ /
सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् / मिमांसा-१०,८.३७ /
कृत्स्नत्वात्तु तथा स्तोमे / मिमांसा-१०,८.३८ /
कर्तुः स्यादिति चेत् / मिमांसा-१०,८.३९ /
न गुणार्थत्वात्प्राप्ते न चोपदेशार्थः / मिमांसा-१०,८.४० /
कर्मणोस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात् / मिमांसा-१०,८.४१ /
यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोस्ति विभक्तकालत्वात् / मिमांसा-१०,८.४२ /
अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्यथानभिप्रेतस्तथाऽग्नेयो दर्शनादेकदेवते / मिमांसा-१०,८.४३ /
विधिं तु बादरायणः / मिमांसा-१०,८.४४ /
प्रतिषिद्धविज्ञानाद्वा / मिमांसा-१०,८.४५ /
तथा चान्यार्थदर्शनम् / मिमांसा-१०,८.४६ /
उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत / मिमांसा-१०,८.४७ /
ध्रौवाद्वा सर्वसंयोगात् / मिमांसा-१०,८.४८ /
तद्वच्च देवतायां स्यात् / मिमांसा-१०,८.४९ /
तान्द्रीणां प्रकरणात् / मिमांसा-१०,८.५० /
धर्माद्वा स्यात्प्रजापतिः / मिमांसा-१०,८.५१ /
देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण / मिमांसा-१०,८.५२ /
विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात् / मिमांसा-१०,८.५३ /
अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधान स्यात् / मिमांसा-१०,८.५४ /
आनन्तर्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयत्यमावास्या विकारे / मिमांसा-१०,८.५५ /
अगनीषामविधानासत्तु पौर्णमास्यामुभयत्र विधीयते / मिमांसा-१०,८.५६ /
प्रतिषिद्ध्यविधानाद्वा विष्णुः समानदेशः स्यात् / मिमांसा-१०,८.५७ /
तथा चान्यार्थदर्शनम् / मिमांसा-१०,८.५८ /
न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् / मिमांसा-१०,८.५९ /
गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति / मिमांसा-१०,८.६० /
विकारे चाश्रुतित्वात् / मिमांसा-१०,८.६१ /
द्विपुरोडाशायां स्यादन्तरार्थत्वात् / मिमांसा-१०,८.६२ /
अजामिकरणार्थत्वाच्च / मिमांसा-१०,८.६३ /
तदर्थमिति चेन्नतत्प्रधानत्वात् / मिमांसा-१०,८.६४ /
अशिष्ठेन च सम्बन्धात् / मिमांसा-१०,८.६५ /
उत्पत्तेस्तु निवेशः स्याद्गुस्यानुपरोधेनार्थस्य निद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावे ऽश्रुतौ स्यात् / मिमांसा-१०,८.६६ /
उभयोस्तु विधानात् / मिमांसा-१०,८.६७ /
गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् / मिमांसा-१०,८.६८ /
अनपायश्च कालस्य लक्षणं हि पुरोडाशौ / मिमांसा-१०,८.६९ /
प्रशंसार्थमजामित्वम् / मिमांसा-१०,८.७० /
प्रयोजनाभिसम्बन्धात्पृथक् सतौततः स्यादैककर्म्यमेक शब्दाभिसंयोगात् / मिमांसा-११,१.१ /
शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत / मिमांसा-११,१.२ /
अविधानात्तु नैवं स्यात् / मिमांसा-११,१.३ /
शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् / मिमांसा-११,१.४ /
अङ्गनान्तु शब्दभेदात्क्रतुवत्स्या त्फलानयत्वम् / मिमांसा-११,१.५ /
अर्थभेदस्तु तत्राथेहैतार्थ्यदैककर्म्यम् / मिमांसा-११,१.६ /
शब्दभेदान्नेति चेत् / मिमांसा-११,१.७ /
कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् / मिमांसा-११,१.८ /
कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु / मिमांसा-११,१.९ /
आरम्भस्य शब्दपूर्वत्वात् / मिमांसा-११,१.१० /
एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषुप्राप्तेषुचो त्तरावत्स्यात् / मिमांसा-११,१.११ /
फलाभावान्नेति चेत् / मिमांसा-११,१.१२ /
न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् / मिमांसा-११,१.१३ /
एकशब्द्यादिति चेत् / मिमांसा-११,१.१४ /
नार्थपृथक्त्वात्,मत्वादगुणत्वम् / मिमांसा-११,१.१५ /
विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सप्वप्रयोगे प्रवृत्तिः स्यात्ष मिमांसा-११,१.१६ /
तथा कर्मोपदेशत्वात् / मिमांसा-११,१.१७ /
क्रत्वन्तरेषु पुनर्वचनम् / मिमांसा-११,१.१८ /
उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत / मिमांसा-११,१.१९ /
कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारभ्भं फलानि स्युः / मिमांसा-११,१.२० /
अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः / मिमांसा-११,१.२१ /
सकृत्तु स्यात्कृतार्थत्वादङ्गवत् / मिमांसा-११,१.२२ /
शब्दार्थश्च तथा लोके / मिमांसा-११,१.२३ /
अपि वा संप्रयोगे यथाकामी प्रतायेताश्रुतित्वाद्विधिषप वचनानि स्युः / मिमांसा-११,१.२४ /
एकशब्द्यात्तथाङ्गेषु / मिमांसा-११,१.२५ /
लोके कर्मार्ऽथ लक्षणम् / मिमांसा-११,१.२६ /
क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृ त्त्यापवर्गः स्यात् / मिमांसा-११,१.२७ /
घर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् / मिमांसा-११,१.२८ /
क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् / मिमांसा-११,१.२९ /
सकृद्वा कारणैकत्वात् / मिमांसा-११,१.३० /
परिमाणं चानियमेन स्यात् / मिमांसा-११,१.३१ /
फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् / मिमांसा-११,१.३२ /
अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् / मिमांसा-११,१.३३ /
पृथक्त्वाद्विधितः परिमाणं स्यात् / मिमांसा-११,१.३४ /
अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वम्ययुगपच्छास्त्रा दफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् / मिमांसा-११,१.३५ /
अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य / मिमांसा-११,१.३६ /
अनभ्यासस्तु वाच्यत्वात् / मिमांसा-११,१.३७ /
बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् / मिमांसा-११,१.३८ /
दृष्टः प्रयोग इति चेत् / मिमांसा-११,१.३९ /
भक्तयेति चेत् / मिमांसा-११,१.४० /
तथोतरस्मिन् / मिमांसा-११,१.४१ /
प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् / मिमांसा-११,१.४२ /
श्रुत्यर्थाविशेषात् / मिमांसा-११,१.४३ /
तथा चान्यार्थदर्शनम् / मिमांसा-११,१.४४ /
प्रक-त्या च पूर्ववत्तदासत्तेः / मिमांसा-११,१.४५ /
उत्तरासु यावत्स्वमपूर्वत्वात् / मिमांसा-११,१.४६ /
यावत्स्वं वान्यविधानेनावादः स्यात् / मिमांसा-११,१.४७ /
साकल्यविधानात् / मिमांसा-११,१.४८ /
बहूर्थत्वाच्च / मिमांसा-११,१.४९ /
अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधःकुमांराणाम् / मिमांसा-११,१.५० /
सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् / मिमांसा-११,१.५१ /
पूधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् / मिमांसा-११,१.५२ /
क्रमकोपश्च यौगपद्यात् स्यात् / मिमांसा-११,१.५३ /
तुल्यानां तु यौग पद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् / मिमांसा-११,१.५४ /
एकार्थ्यादव्यवायः स्यात् / मिमांसा-११,१.५५ /
तथाचान्यार्थदर्शनं कामुकायनः / मिमांसा-११,१.५६ /
तन्नयायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् / मिमांसा-११,१.५७ /
असंसृष्टो ऽपि तादर्थ्यात् / मिमांसा-११,१.५८ /
विभवाद्वा प्रदीपवत् / मिमांसा-११,१.५९ /
अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् / मिमांसा-११,१.६० /
सकृदिज्यां कामुकायनः परिमाणविरोधात् / मिमांसा-११,१.६१ /
विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् / मिमांसा-११,१.६२ /
विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः / मिमांसा-११,१.६३ /
अपि चैकेन सन्निधानमविशेषकोहेतुः / मिमांसा-११,१.६४ /
क्कतिद्विधानान्नेति चेत् / मिमांसा-११,१.६५ /
न विधेश्चोदित्वात् / मिमांसा-११,१.६६ /
व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् / मिमांसा-११,१.६७ /
भदर्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिप्रधानकात्वात् / मिमांसा-११,१.६८ /
तथा चान्यार्थदर्शनम् / मिमांसा-११,१.६९ /
विधिरिति चेन्न वर्तमानापदेशात् / मिमांसा-११,१.७० /
एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् / मिमांसा-११,२.१ /
अविधिश्तेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् / मिमांसा-११,२.२ /
अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् / मिमांसा-११,२.३ /
यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्याल्प्रधानार्थाभिधासंयोगात् / मिमांसा-११,२.४ /
तथा तान्यार्थदर्शनम् / मिमांसा-११,२.५ /
श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् / मिमांसा-११,२.६ /
कर्मणो ऽश्रुतित्वाच्च / मिमांसा-११,२.७ /
अङ्गानि तु विधिनत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादे कगेशत्वम् / मिमांसा-११,२.८ /
द्रव्यदेवतं तथेति चेत् / मिमांसा-११,२.९ /
न चोदनाविधिशेषरवान्नियमार्थो विशेषः / मिमांसा-११,२.१० /
तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भैदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् / मिमांसा-११,२.११ /
इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् / मिमांसा-११,२.१२ /
कालभेगान्नेति चेत् / मिमांसा-११,२.१३ /
नैकदेशत्वात्पशुवत् / मिमांसा-११,२.१४ /
अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् / मिमांसा-११,२.१५ /
तथा चान्यार्थदर्शनम् / मिमांसा-११,२.१६ /
तथा तदवयवेषु स्यात् / मिमांसा-११,२.१७ /
पशौ तु चेदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् / मिमांसा-११,२.१८ /
तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् / मिमांसा-११,२.१९ /
इष्टिरिति चैकवच्छ्रुतिः / मिमांसा-११,२.२० /
अपि वाकर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् / मिमांसा-११,२.२१ /
प्रथमस्य वा कालवचनम् / मिमांसा-११,२.२२ /
फलैकत्वादिष्टिशब्दो यथान्यत्र / मिमांसा-११,२.२३ /
वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् / मिमांसा-११,२.२४ /
कालभेदात्वावृत्तिर्देवताभेदे / मिमांसा-११,२.२५ / अन्ते यूपाहुतिस्तद्वत् / मिमांसा-११,२.२६ /
इतरप्रतिषेधो वा / मिमांसा-११,२.२७ /
अशास्त्रत्वाच्च देशानाम् / मिमांसा-११,२.२८ /
अवभृथे प्रधाने ऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः / मिमांसा-११,२.२९ /
साङ्गो वा प्रयोदवचनैकत्वात् / मिमांसा-११,२.३० /
लिङ्गदर्शनाच्च / मिमांसा-११,२.३१ /
शब्दविभागाच्च देवतानपनयः / मिमांसा-११,२.३२ /
दक्षिणे ऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते / मिमांसा-११,२.३३ /
अचोदनेतिचेत् / मिमांसा-११,२.३४ /
स्यात्पौर्णमासीवत् / मिमांसा-११,२.३५ /
प्रयोगचेदनेति चेत् / मिमांसा-११,२.३६ /
इहापिमारुत्याः प्रयागश्चोद्यते / मिमांसा-११,२.३७ /
आसादानमिति चेत् / मिमांसा-११,२.३८ /
नोत्तरेणैकवाक्यत्वात् / मिमांसा-११,२.३९ /
अवाच्यत्वात् / मिमांसा-११,२.४० /
आमनायवचनं तद्वत् / मिमांसा-११,२.४१ /
कर्तृभेदस्तथेति चेत् / मिमांसा-११,२.४२ /
न समवायात् / मिमांसा-११,२.४३ /
लिङ्गदर्शनाच्च / मिमांसा-११,२.४४ /
वेदिसंयोगादिति चेत् / मिमांसा-११,२.४५ /
न देशमात्रत्वात् / मिमांसा-११,२.४६ /
एकवाक्यत्वात् / मिमांसा-११,२.४७ /
एकाग्नित्वादपरेषु तन्त्रं स्यात् / मिमांसा-११,२.४८ /
नाना वा कर्तृभेदात् / मिमांसा-११,२.४९ /
पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्भ्मसाम्नि चोदनापृथक्तवं स्यात् / मिमांसा-११,२.५० /
संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् / मिमांसा-११,२.५१ /
वाक्यैकत्वे क्रतुसामान्यात् / मिमांसा-११,२.५२ /
वपानां चानभिघारणस्य दर्शनात् / मिमांसा-११,२.५३ /
पञ्चशारदीयास्तथेति चेत् / मिमांसा-११,२.५४ /
न चेदनैकवाक्यत्वात् / मिमांसा-११,२.५५ /
यातयामत्वाच्च / मिमांसा-११,२.५६ /
संस्कारणां च तद्दर्शनात् / मिमांसा-११,२.५७ /
दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् / मिमांसा-११,२.५८ /
समानवचनं तद्वत् / मिमांसा-११,२.५९ /
अतिकर्षो वार्ऽथहेतुत्वात् / मिमांसा-११,२.६० /
पूर्वस्मिंश्चावभृथस्य दर्शनात् / मिमांसा-११,२.६१ /
समानः कालसामान्यात् / मिमांसा-११,२.६२ /
विष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् / मिमांसा-११,२.६३ /
अपनयो वा प्रसिद्धेनाभिसंयोगात् / मिमांसा-११,२.६४ /
प्रतिपत्तिरिति चेन्न कर्मसंयोगात् / मिमांसा-११,२.६५ /
उदयनीये च तद्वत् / मिमांसा-११,२.६६ /
प्रतिपत्तिर्वातकर्मसंयोगात् / मिमांसा-११,२.६७ /
अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् / मिमांसा-११,२.६८ /
अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् / मिमांसा-११,३.१ /
द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्बकालत्वात् / मिमांसा-११,३.२ /
यूपश्चाकर्मकालत्वात् / मिमांसा-११,३.३ /
एकयूपं च दर्षयति / मिमांसा-११,३.४ /
संस्कारास्त्वावर्तेरन्नर्थकालत्वात् / मिमांसा-११,३.५ /
तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् / मिमांसा-११,२.६ /
सकृन्मानं च दर्शयति / मिमांसा-११,२.७ /
स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् / मिमांसा-११,२.८ /
साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् / मिमांसा-११,३.९ /
सोमान्ते च प्रतिपत्तिदर्शनात् / मिमांसा-११,३.१० /
न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा / मिमांसा-११,३.११ /
अहर्गणे विषाणाप्रासनं धरमविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् / मिमांसा-११,३.१२ /
पाणेस्त्वश्रुतिभूतत्वाद्विशाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् / मिमांसा-११,३.१३ /
शिष्ठे चाभिप्रवृत्तत्वात् / मिमांसा-११,३.१४ /
वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् / मिमांसा-११,३.१५ /
यथाह्वानमपीतिचेत् / मिमांसा-११,३.१६ /
पशौ च पुरोडाशे समानतन्त्रं भवेत् / मिमांसा-११,३.१७ /
अङ्गप्रधानार्थोयोगः सर्वापवर्गे विमोकः स्यात् / मिमांसा-११,३.१८ /
प्रधानापवर्गे वा तदर्थत्वात् / मिमांसा-११,३.१९ /
अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधो ऽपवृक्तार्थत्वात् / मिमांसा-११,३.२० /
अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् / मिमांसा-११,३.२१ /
सुब्पह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् / मिमांसा-११,३.२२ /
तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् / मिमांसा-११,३.२३ /
अयोदाङ्गमिति चेत् / मिमांसा-११,३.२४ /
प्रयोगनिर्देशात्कर्सृभेदवत् / मिमांसा-११,३.२५ /
तद्भूतस्थानादग्निवदिति चेत्तदपरगस्तदर्थत्वात् / मिमांसा-११,३.२६ /
अग्निवदिति चेत् / मिमांसा-११,३.२७ /
न प्रयोगसाधारण्यात् / मिमांसा-११,३.२८ /
लिङ्गदर्शनाच्च / मिमांसा-११,३.२९ /
तद्धि तथेति चेत् / मिमांसा-११,३.३० /
नाशिष्टत्वादितरन्यायत्वाच्च / मिमांसा-११,३.३१ /
विध्येकत्वादिति चेत् / मिमांसा-११,३.३२ /
न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् / मिमांसा-११,३.३३ /
लौकिकेतु यथाकामी संस्कारानर्थलोपात् / मिमांसा-११,३.३४ /
यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत् / मिमांसा-११,३.३५ /
यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थ त्वात् / मिमांसा-११,३.३६ /
मुख्यधारणं वा मरणस्यानियत्वात् / मिमांसा-११,३.३७ /
यो वा यजनीयेहनि म्रियेत सो ऽधिकृतः स्यादुपवेषवत् / मिमांसा-११,३.३८ /
न शास्त्रलक्षणत्वात् / मिमांसा-११,३.३९ /
उत्पत्तिर्वा प्रयोजकत्वादाशिपवत् / मिमांसा-११,३.४० /
शब्दासामझ्जस्यमिति चेत् / मिमांसा-११,३.४१ /
तथाऽशिरे ऽपि / मिमांसा-११,३.४२ /
शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रतावथेहापूर्वार्थवद्भूतोपदेशः / मिमांसा-११,३.४३ /
प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् / मिमांसा-११,३.४४ /
अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् / मिमांसा-११,३.४५ /
प्रतिपत्तिर्वा यथान्येषाम् / मिमांसा-११,३.४६ /
उपरिष्टात्सोमानां प्राजापत्यैश्र्तपन्तीति / मिमांसा-११,३.४७ /
अङ्गविपर्यासोविनावचनादिति चेत् / मिमांसा-११,३.४८ /
उत्कर्षः संयोगात्कालमात्रमितरत्र / मिमांसा-११,३.४९ /
प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् / मिमांसा-११,३.५० /
न श्रुतिप्रतिषेधात् / मिमांसा-११,३.५१ /
विकारस्थाने इति चेत् / मिमांसा-११,३.५२ /
न चोदनापृथक्त्वात् / मिमांसा-११,३.५३ /
उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः / मिमांसा-११,३.५४ /
वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादन्नवयः / मिमांसा-११,३.५५ /
चोदनैकत्वाद्राजसूये ऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि / मिमांसा-११,४.१ /
प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् / मिमांसा-११,४.२ /
तथा चान्यार्थदर्शनम् / मिमांसा-११,४.३ /
अनियमः स्यादिति चेत् / मिमांसा-११,४.४ /
नोपदिष्टत्वात् / मिमांसा-११,४.५ /
प्रयोजनैकत्वात् / मिमांसा-११,४.६ /
अविशेषार्था पुनः श्रुतिः / मिमांसा-११,४.७ /
अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात् कामसंयोगेन / मिमांसा-११,४.८ /
क्रत्वर्थायामिति चेन्न वर्णसंयोगात् / मिमांसा-११,४.९ /
पवमानहविःष्वैकतन्त्र्. प्रयोगवचनैकत्वात् / मिमांसा-११,४.१० /
लिङ्गदर्शनाच्च / मिमांसा-११,४.११ /
वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् / मिमांसा-११,४.१२ /
सहत्वे नित्यानुवादः स्यात् / मिमांसा-११,४.१३ /
द्वादशाहे तु प्रकृतित्वादेकैकमहपरवृज्येत कर्मपृथक्त्वात् / मिमांसा-११,४.१४ /
अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने / मिमांसा-११,४.१५ /
अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् / मिमांसा-११,४.१६ /
साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् / मिमांसा-११,४.१७ /
दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् / मिमांसा-११,४.१८ /
वसतीवरीपर्यन्तानिपूर्वाणितन्त्र मन्यकालत्वादवभृथादीन्युत्तराणिदीक्षाविसर्गार्थत्वात् / मिमांसा-११,४.१९ /
तथा चान्यार्थदर्शनम् / मिमांसा-११,४.२० /
चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् / मिमांसा-११,४.२१ /
भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् / मिमांसा-११,४.२२ /
तथा चान्यार्थदर्शनम् / मिमांसा-११,४.२३ /
श्वासुत्यावचनं तद्वत् / मिमांसा-११,४.२४ /
पश्वतिरेकश्च / मिमांसा-११,४.२५ /
सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्व यादावाहनवत् / मिमांसा-११,४.२६ /
अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्यलक्षणार्थत्वात् / मिमांसा-११,४.२७ /
अविभागाच्च / मिमांसा-११,४.२८ /
पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रमावः स्यात् / मिमांसा-११,४.२९ /
भेदस्तु सन्देहाद्देवतान्तरे स्यात् / मिमांसा-११,४.३० /
अर्ताद्वा लिङ्गकर्म स्यात् / मिमांसा-११,४.३१ /
प्रतिपाद्यत्वाद्वसानांभेदः स्यात्स्वयाज्याप्रदानत्वात् / मिमांसा-११,४.३२ /
अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वस्याश्रुतिभूतत्वात् / मिमांसा-११,४.३३ /
सकृदिति चेत् / मिमांसा-११,४.३४ /
न कालभेदात् / मिमांसा-११,४.३५ /
पक्तिभेदात्कुम्भोशूलवपाश्ररणीनांभेदः स्यात् / मिमांसा-११,४.३६ /
जात्यन्तरेषु भेदः पक्तिवैषम्यात् / मिमांसा-११,४.३७ /
वृद्धिदर्शनाच्च / मिमांसा-११,४.३८ /
कपालानि च कुम्भीवत्तुल्यसंख्यानाम् / मिमांसा-११,४.३९ /
प्रतिप्रधानं वा प्रकृतिवत् / मिमांसा-११,४.४० /
सर्वेषां वाभिप्रथमं स्यात् / मिमांसा-११,४.४१ /
एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् / मिमांसा-११,४.४२ /
द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् / मिमांसा-११,४.४३ /
निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् / मिमांसा-११,४.४४ /
द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् / मिमांसा-११,४.४५ /
वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् / मिमांसा-११,४.४६ /
एकस्य वा गुणविधिर्द्रव्याकत्वात्तस्मात्सकृत्प्रयोगः स्यात् / मिमांसा-११,४.४७ /
कण्डूयने प्रत्.ङ्गं कर्मभेदात्स्यात् / मिमांसा-११,४.४८ /
अपि वा चोदनैककालमैककर्म्यं स्यात् / मिमांसा-११,४.४९ /
स्वप्ननदीतरणाभिवर्षणामेध्यप्रतमन्त्रणेषु चैवम् / मिमांसा-११,४.५० /
प्रयाणे त्वार्थनिर्वृत्तेः / मिमांसा-११,४.५१ /
उपरवमम्त्रस्तन्त्रं स्याल्लोकवद्बहुनचनात् / मिमांसा-११,४.५२ /
न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे का लैकत्वात्सकृद्वचनम् / मिमांसा-११,४.५३ /
हविष्कृदध्रिगुपुरो ऽनुलाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् / मिमांसा-११,४.५४ /
अध्रिगोश्च विपर्यासात् / मिमांसा-११,४.५५ /
करिष्यद्वचनात् / मिमांसा-११,४.५६ /
तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तुभेदः स्याद्विधिप्रक्रमतादर्थ्यात् श्रुतिकालनिर्देशात् / मिमांसा-१२,१.१ /
गिणकालविकाराच्च तन्त्रभेदः स्यात् / मिमांसा-१२,१.२ /
तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिःस्यात्तन्त्रार्थस्याविशिष्टत्वात् / मिमांसा-१२,१.३ /
विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् / मिमांसा-१२,१.४ /
एकेषां वाशक्यत्वात् / मिमांसा-१२,१.५ /
आहोपुरीषकं स्यात् / मिमांसा-१२,१.६ /
एकाग्निवच्च दर्शनम् / मिमांसा-१२,१.७ /
जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् / मिमांसा-१२,१.८ /
नानार्थत्वात्सोमे दर्शपूर्णमासप्रक-तीनां वेदिकर्म स्यात् / मिमांसा-१२,१.९ /
अकर्म वा कृतदूषा स्यात् / मिमांसा-१२,१.१० /
पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् / मिमांसा-१२,१.११ /
न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् / मिमांसा-१२,१.१२ /
शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् / मिमांसा-१२,१.१३ /
श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यनानत्वात् / मिमांसा-१२,१.१४ /
हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् / मिमांसा-१२,१.१५ /
असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् / मिमांसा-१२,१.१६ /
अनसाञ्च दर्शनात् / मिमांसा-१२,१.१७ /
तद्युक्तत्व च कालभेदात् / मिमांसा-१२,१.१८ /
मन्त्राश्च सन्निपातित्वात् / मिमांसा-१२,१.१९ /
धारणार्थत्वात्सोमे ऽग्न्यन्वाधानं न विद्यते / मिमांसा-१२,१.२० /
तथा व्रतमपेतत्वात् / मिमांसा-१२,१.२१ /
विप्रतिषेधाच्च / मिमांसा-१२,१.२२ /
सत्यवदिति चेत् / मिमांसा-१२,१.२३ /
न संयोगपृथक्त्वात् / मिमांसा-१२,१.२४ /
ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् / मिमांसा-१२,१.२५ /
शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् / मिमांसा-१२,१.२६ /
न गुणार्थत्वात् / मिमांसा-१२,१.२७ /
सन्नहनञ्च वृत्तत्वात् / मिमांसा-१२,१.२८ /
अन्यविधानादारण्यभोजनं न स्यादुभयं हि बृत्त्यर्थम् / मिमांसा-१२,१.२९ /
शेषभक्षास्तथेति चेन्नान्यार्थत्वात् / मिमांसा-१२,१.३० /
भृत्वाच्च परिक्रयः / मिमांसा-१२,१.३१ /
शेषभक्षास्तथेति चेत् / मिमांसा-१२,१.३२ /
न कर्मसंयोगात् / मिमांसा-१२,१.३३ /
प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतु क्रियेत / मिमांसा-१२,१.३४ /
ब्रह्मापीति चेत् / मिमांसा-१२,१.३५ /
न प्राङ्नियमात्तदर्थं हि / मिमांसा-१२,१.३६ /
विर्दिष्टस्येति चेत् / मिमांसा-१२,१.३७ /
न श्रुतत्वात् / मिमांसा-१२,१.३८ /
हीतुस्तथेति चेत् / मिमांसा-१२,१.३९ /
न कर्मसंयोगात् / मिमांसा-१२,१.४० /
यज्ञोत्पत्त्युपदेशे विष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत / मिमांसा-१२,१.४१ /
देशपृथक्त्वान्मन्त्रोव्यावर्तते / मिमांसा-१२,१.४२ /
सन्नहनहरणे तथेति चेत् / मिमांसा-१२,१.४३ /
नान्यार्थत्वात् / मिमांसा-१२,१.४४ /
विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् / मिमांसा-१२,२.१ /
मांसपाकप्रतिषेधश्च तद्वत् / मिमांसा-१२,२.२ /
निर्देशाद्वा वैदिकानां स्यात् / मिमांसा-१२,२.३ /
सति चोपासनस्य दर्शनात् / मिमांसा-१२,२.४ /
अभावदर्शनाच्च / मिमांसा-१२,२.५ /
मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् / मिमांसा-१२,२.६ /
वाक्यशेषो वा दक्षिणस्मिन्नमारभ्यविधानस्य / मिमांसा-१२,२.७ /
सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्याद्न्येषामेवमर्थत्वात् / मिमांसा-१२,२.८ /
क्रिया वा देवतार्थत्वात् / मिमांसा-१२,२.९ /
लिङ्गदर्शनात् / मिमांसा-१२,२.१० /
हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्वुद्यमानत्वात् / मिमांसा-१२,२.११ /
पशौ तु संस्कृते विधानात् / मिमांसा-१२,२.१२ /
योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् / मिमांसा-१२,२.१३ /
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् / मिमांसा-१२,२.१४ /
कालवाक्यभेदाच्च तन्त्रभेदः स्यात् / मिमांसा-१२,२.१५ /
वेद्युद्धननव्रतंविप्रतिषेधात्त देव स्यात् / मिमांसा-१२,२.१६ /
तत्रंमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् / मिमांसा-१२,२.१७ /
वेगुण्यादिध्मवर्हिर्नसाधयेदग्न्य्वाधानं च यदि देवतार्थम् / मिमांसा-१२,२.१८ /
अग्न्यन्वाधानं च यदि देवतार्थम् / मिमांसा-१२,२.१९ /
आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् कृता पुमस्तदर्थेन / मिमांसा-१२,२.२० /
सकृदाऽरम्भसंयोगात् / मिमांसा-१२,२.२१ /
स्याद्वा कालस्याशेषभूतत्वात् / मिमांसा-१२,२.२२ /
आरंभविभागाच्च / मिमांसा-१२,२.२३ /
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् / मिमांसा-१२,२.२४ /
मुख्यं वा पूर्वचोदनाल्लोकवत् / मिमांसा-१२,२.२५ /
तथा चान्यार्थदर्शनम् / मिमांसा-१२,२.२६ /
अङ्गगुणविरोधे च तादर्थ्यात् / मिमांसा-१२,२.२७ /
परिधेद्व्यर्थत्वाद भयधर्मा स्यात् / मिमांसा-१२,२.२८ /
यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् / मिमांसा-१२,२.२९ /
इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः / मिमांसा-१२,२.३० /
पशुसवनीयेषु विकल्पः स्याद्वैकृतश्तेदुभयोपश्रुतिभूतत्वात् / मिमांसा-१२,१.३१ /
पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् / मिमांसा-१२,१.३२ /
पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् / मिमांसा-१२,२.३३ /
अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् / मिमांसा-१२,२.३४ /
अधिकश्च गुणः साधारणे ऽविरोधात्कांस्यभोजिवदमुख्ये ऽपि / मिमांसा-१२,२.३५ /
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन / मिमांसा-१२,२.३६ /
न वाविरोधात् / मिमांसा-१२,२.३७ /
अशास्त्रलक्षणत्वाच्च / मिमांसा-१२,२.३८ /
विश्र्वजिति वत्सत्वङ्नामधेयादितर था तन्त्रभूय त्वादहतं स्यात् / मिमांसा-१२,३.१ /
अविरोधी वा उपरिवासो हि वत्सत्वक् / मिमांसा-१२,३.२ /
अनुनुर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च / मिमांसा-१२,३.३ /
आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् / मिमांसा-१२,३.४ /
स्वस्थानत्वाच्च / मिमांसा-१२,३.५ /
स्विष्टकृच्छ्रपणान्नेतिचोद्विकारः पवमानवत् / मिमांसा-१२,३.६ /
अविकारो वा प्रकृतिवच्चोदनां प्रति भानाच्च / मिमांसा-१२,३.७ /
एक कर्मणिशिष्टत्वाद्गुणानां सर्वकर्म स्यात् / मिमांसा-१२,३.८ /
एकार्थास्तुविकल्पेरन्,मुच्चये ह्यावृत्तिः स्यात्प्रधानस्य / मिमांसा-१२,३.९ /
अभ्यस्योतार्थवत्त्वादिति चेत् / मिमांसा-१२,३.१० /
नाश्रुतत्वाद्धि विकल्पवच्चदर्शयति कालान्तरे ऽर्थवत्त्वं स्यात् / मिमांसा-१२,३.११ /
प्रायश्चित्तेषुचैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात् सर्वस्य निर्घातः / मिमांसा-१२,३.१२ /
समुच्चयस्तु दोषार्थः / मिमांसा-१२,३.१३ /
मन्त्राणाङ्कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् / मिमांसा-१२,३.१४ /
विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात् कर्मार्तत्वात् प्रयोगस्य / मिमांसा-१२,३.१५ /
भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः / मिमांसा-१२,३.१६ /
मन्त्रोपदेशोवा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः / मिमांसा-१२,३.१७ /
विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टे ऽप्येवम् / मिमांसा-१२,३.१८ /
तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् / मिमांसा-१२,३.१९ /
मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् / मिमांसा-१२,३.२० /
सन्ततवचनाद्धारायामादिसंयोगः / मिमांसा-१२,३.२१ /
करमसन्तानो वा नानाकर्मत्वादितरस्याशक्चत्वात् / मिमांसा-१२,३.२२ /
आघारे च दीर्घधारत्वात् / मिमांसा-१२,३.२३ / मन्त्राणां सन्निपातित्वादेकार्थानांविकल्पः स्यात् / मिमांसा-१२,३.२४ /
संख्याविहितेषु समुच्चयो ऽसन्निपातित्वात् / मिमांसा-१२,३.२५ /
ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् / मिमांसा-१२,३.३६ /
याज्यावषद्कारयोश्र्त समुच्चयदर्शनं तद्वत् / मिमांसा-१२,३.२७ /
विकल्पो वा समुच्चयस्याश्रुतित्वात् / मिमांसा-१२,३.२८ /
गुणार्थत्वादुपदेशस्य / मिमांसा-१२,३.२९ /
वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् / मिमांसा-१२,३.३० /
क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् / मिमांसा-१२,३.३१ /
समुच्चयं च दर्शयति / मिमांसा-१२,३.३२ /
जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् / मिमांसा-१२,४.१ /
समुच्चयं च दर्शयति / मिमांसा-१२,४.२ /
याज्यानुवाक्यासु तु विकल्पः स्याद्देवतीपलक्षणार्थत्वात् / मिमांसा-१२,४.३ /
लिङ्गदर्शनाच्च / मिमांसा-१२,४.४ /
क्रयेषु ति विकल्पः स्यादेकार्थत्वात् / मिमांसा-१२,४.५ /
समुच्चयो वा प्रयोगद्रव्यसमवायात् / मिमांसा-१२,४.६ /
समुच्चयञ्चदर्शयति / मिमांसा-१२,४.७ /
संस्कारे च तत्प्रधानत्वात् / मिमांसा-१२,३.८ /
संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिधात् / मिमांसा-१२,३.९ /
द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् / मिमांसा-१२,३.१० /
द्रव्यत्वे ऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति / मिमांसा-१२,४.११ /
कपाले ऽपि तथेतिचेत् / मिमांसा-१२,४.१२ /
न कर्मणः परार्थत्वात् / मिमांसा-१२,४.१३ /
प्रतिपत्तिस्तु शेषत्वात् / मिमांसा-१२,४.१४ /
शृते ऽपि पूर्ववत्स्यात् / मिमांसा-१२,४.१५ /
मवायात्तसमात्तेनार्थकर्म स्यात् / मिमांसा-१२,४.१६ /
उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् / मिमांसा-१२,४.१७ /
तस्यत देवतार्थत्वात् / मिमांसा-१२,४.१८ /
विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः / मिमांसा-१२,४.१९ /
वचनादसंस्कृतेषु कर्म स्यात् / मिमांसा-१२,४.२० /
संसर्गे चापि दोषः स्यात् / मिमांसा-१२,४.२१ /
वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणःकृतत्वात् / मिमांसा-१२,४.२२ /
स आहवनीयः स्यादाहुतिसंयोगात् / मिमांसा-१२,४.२३ /
अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् / मिमांसा-१२,४.२४ /
स्थानात्तु परिलुप्येरन् / मिमांसा-१२,४.२५ /
नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् / मिमांसा-१२,४.२६ /
नित्यधारणाद्वा प्रतिषेधो गतश्रियः / मिमांसा-१२,४.२७ /
परार्थान्योकः प्रतियन्तिवत् सत्राहीनयो यजमानगणे ऽनियमो ऽविशेषात् / मिमांसा-१२,४.२८ /
मुख्यो वाविप्रतिषेधात् / मिमांसा-१२,४.२९ /
सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च / मिमांसा-१२,४.३० /
सर्वैः वा तदर्थत्वात् / मिमांसा-१२,४.३१ /
विप्रतिषेधे परम् / मिमांसा-१२,४.३२ /
हौत्रे परार्थत्वात् / मिमांसा-१२,४.३३ /
वचनं परम् / मिमांसा-१२,४.३४ /
प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् / मिमांसा-१२,४.३५ /
स्मृतेर्वा स्याद्व्राह्मणानाम् / मिमांसा-१२,४.३६ /
फलचमसविधानाच्चेतरेषाम् / मिमांसा-१२,४.३७ /
सान्नाय्येप्येवं प्रतिषेधः सौमपीयहेतुत्वात् / मिमांसा-१२,४.३८ /
चतुर्धाकरणे च विर्देशात् / मिमांसा-१२,४.३९ /
अन्वाहहर्ये च दर्शनात् / मिमांसा-१२,४.४० /
सन्दर्भ
[सम्पाद्यताम्]उपरोक्त सामग्री
यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (26-01-2008)