मोक्षः

विकिपुस्तकानि तः
Jump to navigation Jump to search

मोक्षविषये साङ्ख्य़मतम् [सम्पाद्यताम्]

एवं तत्त्वाभ्यासात् नास्ति न मे नाहमित्यपरिशेषम्।अविपर्यायाद् विशुद्धं केवलमुत्पद्यते ज्ञानम्॥सां.का.६४

' ' ‘अहं पुरुषः, प्रकृतेर्भिन्नः।‘इति तत्त्वम्।तस्य अभ्यासात् सन्देहरहितं विशुद्धं ज्ञानम् उत्पद्यते।अहं क्रियावान् नास्मि, अहं कर्ता नास्ति, मम क्वापि स्वामित्वं नास्ति इति तस्य विशुद्धज्ञानस्य स्वरूपम्।अस्य ज्ञानस्य साक्षात्कारः अभ्यासेन भवति।
सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणप्राप्तौ।तिष्ठति संस्कारवशात् चक्रभ्रमिवत् धृतशरीरः॥सां.का.६७
‘अहं कर्ता न’ इति विशुद्धं ज्ञानं यदा लभ्यते, तदा धर्मः अधर्मः इत्यादीनि जन्मकारणानि अकारणानि भवन्ति।तेषां जन्मजनकत्वसामर्थ्यं दग्धं भवति।ततः पुनर्जन्म न सम्भवति। विद्यमानं शरीरं तु पूर्वकर्मणां संस्कारवशात् आरब्धम् अस्ति।यावत्कालं सः संस्कारः विद्यते , तावत्कालं शरीरमिदं ध्रियते।यथा कुलालः दण्डेन चक्रं भ्रमयति।अत्र दण्डः भ्रमिकारणम्। अपनीते अपि दण्डे कञ्चित्कालं यावत् चक्रं भ्रमति एव।तत्र दण्डजन्यवेगस्य स संस्कारः कारणम्।एवमेवात्र पूर्वकर्मणां संसारजनकत्वं समाप्तं चेदपि कञ्चित्कालं विद्यमानदेहः अवतिष्ठते। पूर्वकर्मजन्ये समाप्ते देहः अपि पतति।

प्राप्ते शरीरभेदे चरितार्थात्वात् प्रधानविनिवृत्तेः।ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति॥सां.का.६८

यदा शरीरं पतति, तदा प्रधानं निवृत्तं भवति, यतो हि तस्य प्रयोजनं समाप्तम्।पुरुषस्य मोक्षः इति तस्य प्रयोजनम्।तत् सिद्धम् अतः प्रधानं विनिवृत्तं भवति।तदा ऐकान्तकः तथा आत्यन्तिकः मोक्षः प्राप्यते।

आयुर्वेदे मोक्षविषयकं विवरणम्[सम्पाद्यताम्]

अधुना आयुर्वेदे मोक्षविषयकं विवरणं पश्यामः।वस्तुतः आयुर्वेदः इति मोक्षविषयकं शास्त्रं न।तथापि प्रसङ्गात् आयुर्वेदग्रन्थेषु मोक्षविषये प्रतिपादनं कृतम्।

मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्।वियोगः सर्वसंयोगैरपुनर्भव उच्यते।। च.शा.१.१४२।।

यदा रजसः तमसः च अभावः भवति, प्रबलकर्मणां च क्षयः भवति, तदा सर्वैः संयोगैः आत्यन्तिकः वियोगः भवति।सः मोक्षः उच्यते।एषः सूत्रार्थः।१४२

अथ कथं मोक्षः भवति, कश्च इति आह – मोक्षः इत्यादि।बलवत्-कर्मसङ्क्षयाद् इति अवश्यभोक्तव्य-फलस्य कर्मणः क्षयात्। सर्वसंयोगैः इति सर्वैः आत्मसम्बन्धिभिः शरीर-बुद्धि-अहङ्कार-आदिभिः। न पुनः शरीरादिसम्बन्धः भवति इति अपुनर्भवः॥१४२॥चक्रपाणिः

मोक्षस्य स्वरूपं किं मोक्षस्य उपायः कः तथा इति अधुना अस्मिन् सूत्रे प्रतिपाद्यते। ‘सर्वसंयोगैः वियोगः’ इति प्रथमान्तं पदम्।तत् मोक्षस्वरूपवाचकम्।

‘रजस्तमोऽभावात्’ तथा ‘बलवत्कर्मसङ्क्षयात्’ इति पञ्चम्यन्ते द्वे पदे।एताभ्यां पदाभ्यां  मोक्षोपायः अभिहितः। 

बलवत् कर्म यदत्र उक्तं तत् पूर्वमपि(च.शा.१.११७) महत्कर्म इति उल्लिखितम्।यस्य कर्मणः परिहारः नास्ति,यद् भोक्तव्यमेव तद् बलवत्कर्म।तस्य क्षयः भोगादेव भवति।

सर्वैः संयोगाः सर्वसंयोगाः।आत्मनः स्वसम्बन्धिभिः शरीरादिभिः संयोगाः अत्र विवक्षिताः।

|- !रजस्तमोऽभावः+ !बलवत्कर्मसङ्क्षयः= !आत्मनः सर्वसंयोगानां विनाशः।(अपुनर्भवः) | |} रजस्तमोऽभावः कथं सिद्ध्यति? तदर्थम् उपायाः दत्ताः -

सतामुपासनं सम्यगसतां परिवर्जनम् । च.शा.१.१४३

इत्यतः आरभ्य

स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते।च.शा.१.१४७

इतिएतावत्पर्यन्तम्।
साङ्ख्यशास्त्रे सम्यगज्ञानाधिगमात् मोक्षः सिद्ध्यति इति उक्तम्।सम्यगज्ञानाधिगमः सत्त्वगुणाधीनः।तत्र च रजस्तमोगुणौ प्रतिबन्धकौ।अतः सम्यगज्ञानाधिगमाय सत्त्ववृद्धिः रजस्तमोनाशः च अनिवार्यः।सः कथं करणीयः इति साङ्ख्यकारिकायां नोक्तम्।तत् चरकाचार्येण अत्र प्रतिपादितम्। आदौ सत्सेवनादि-धृत्यन्तोपायानाम् (च.शा.१.१४३-१४७)अनुष्ठानम्।ततः तत्त्वस्मृतिः।ततः कर्म-असमारम्भादयः।ततः मोक्षः इति एषा कार्यकारणपरम्परा।

साङ्ख्यायुर्वेदयोः 
"https://sa.wikibooks.org/w/index.php?title=मोक्षः&oldid=6783" इत्यस्माद् प्रतिप्राप्तम्