मोक्षोपायान्तर्गतं मुमुक्षुप्रकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search


तद् एवाह

अनर्थः प्राप्यते यत्र शास्त्रिताद् अपि पौरुषात् ।
अनर्थकं तु बलवत् तत्र ज्ञेयं स्वपौरुषम् ॥ (मो_२,५.६ ॥

"यत्र" पुरुषेण "शास्त्रिताद् अपि पौरुषात् अनर्थः प्राप्यते तत्र अनर्थकम्" अनर्थोत्पादकं "स्वपौरुषम्" अशास्त्रीयं पौरुषं । "बलवज् ज्ञेयम्" । तन्मध्ये प्रविष्टाद् बलवतः स्वपौरुषाद् एवासौ अनर्थ उत्पन्न इति "ज्ञेयम्" इति भावः । अर्थात् तु यत्र अनर्थः न प्राप्यते तत्र शास्त्रीयम् एव बलवज् ज्ञेयम् । द्वयोः पौरुषयोश् च सर्वत्र सन्धिर् अस्ति असहायस्यैककस्योत्थानासंभवात् ॥ (मोटी_२,५.६ ॥

पुरुषस्य कर्तव्यं दर्शयति

परं पौरुषम् आश्रित्य दन्तैर् दन्तान् विचूर्णयन् ।
शुभेनाशुभम् उद्युक्तः प्राक्तनं पौरुषं जयेत् ॥ (मो_२,५.७ ॥

"परं पौरुषम्" शास्त्रोक्तं पौरुषम् । "उद्युक्तः" उद्योगयुक्तः । "प्राक्तनं पौरुषम्" वासनाख्यम् प्राक्तनम् । अपि "शुभं" शुभकार्य् एव । यतः शुभा वासनैव मोक्षदायिनी प्रोक्तेत्य् "अशुभम्" इत्य् उक्तम् ॥ (मोटी_२,५.७ ॥

प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः ।
बलाद् अधस्पदीकार्या प्रत्यक्षाद् अधिका न सा ॥ (मो_२,५.८ ॥

प्रत्यक्षेण तु पौरुषस्यैव नियोजने सामर्थ्यं दृष्टम् इत्य् एतद् अभिप्रेत्य "प्रत्यक्षाद् अधिका न से"त्य् उक्तम् ॥ (मोटी_२,५.८ ॥

तावत् तावत् प्रयत्नेन यतितव्यं स्वपौरुषं ।
प्राक्तनं पौरुषं यावद् अशुभं शाम्यति स्वयम् ॥ (मो_२,५.९ ॥

"स्वपौरुषं यतितव्यम्" शास्त्रानुसारेण स्वविषयं प्रति यत्नयुक्तं कार्यं । "यतितव्यम्" इति णिच्युक्तः प्रयोगः ॥ (मोटी_२,५.९ ॥

दोषः शाम्यत्य् असन्देहं प्राक्तनोऽद्यतनैर् गुणैः ।
दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्यगुणैः क्षयः ॥ (मो_२,५.१० ॥

स्पष्टम् ॥ (मोटी_२,५.१० ॥

असद्दैवम् अधः कृत्वा नित्यम् उद्युक्तया धिया ।
संसारोत्तरणं भूत्यै यतेताधातुम् आत्मनि ॥ (मो_२,५.११ ॥

"भूत्यै" मुक्तिरूपायैश्वर्याय ॥ (मोटी_२,५.११ ॥

न गन्तव्यम् अनुद्योगैः साम्यं पुरुषगर्दभैः ।
उद्योगस् तु यथाशास्त्रं लोकद्वितयसिद्धये ॥ (मो_२,५.१२ ॥

स्पष्टम् ॥ (मोटी_२,५.१२ ॥

संसारकुहराद् अस्मान् निर्गन्तव्यं स्वयं बलात् ।
पौरुषं यत्नम् आश्रित्य हरिणेवारिपञ्जरात् ॥ (मो_२,५.१३ ॥

"संसारकुहरात्" संसारश्वभ्रात् । "हरिणा" सिंहेन । "अरिपञ्जरात्" अरिभूतात् पञ्जरात् ॥ (मोटी_२,५.१३ ॥

प्रत्यहं प्रत्यवेक्षेत नरश् चरितम् आत्मनः ।
संत्यजेत् पशुभिस् तुल्यं श्रयेत् सत्पुरुषोचितम् ॥ (मो_२,५.१४ ॥

"प्रत्यवेक्षेत" कीदृशम् इति विमर्शविषयं कुर्यात् ॥ (मोटी_२,५.१४ ॥

किंचित्कान्तान्नपानादिकलिलं कोमलं गृहे ।
व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥ (मो_२,५.१५ ॥

"कलिलं" पापजनकम् । "कोमलं" आमुखे कोमलतया प्रतिभासमानम् । "व्रणे" रन्ध्रे ॥ (मोटी_२,५.१५ ॥

शुभेन पौरुषेणाशु शुभम् आसाद्यते फलम् ।
अशुभेनाशुभं नित्यं दैवं नाम न किंचन ॥ (मो_२,५.१६ ॥

स्पष्टम् ॥ (मोटी_२,५.१६ ॥

प्रत्यक्षदृष्टम् उत्सृज्य योऽनुमानमनास् त्व् असौ ।
स्वभुजाभ्याम् इमौ सर्पाव् इति प्रेक्ष्य पलायताम् ॥ (मो_२,५.१७ ॥

"स्वभुजाभ्याम्" इति पञ्चमी ॥ (मोटी_२,५.१७ ॥

दैवं संप्रेरयति माम् इति मुग्धधियां मुखम् ।
अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर् निवर्तते ॥ (मो_२,५.१८ ॥

"अदृष्टा" । "श्रेष्ठा" उत्तमा । "दृष्टिः" पौरुषाख्या दृष्टिः । यैः तेषाम् ॥ (मोटी_२,५.१८ ॥

तस्मात् पुरुषयत्नेन विवेकं पूर्णम् आश्रयेत् ।
आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् ॥ (मो_२,५.१९ ॥

"आत्मज्ञानम्" एव "महान् अर्थः" येषां तानि ॥ (मोटी_२,५.१९ ॥

चित्ते चिन्तयताम् अर्थं यथाशास्त्रं निजेहितैः ।
असंसाधयताम् एव मूढानां धिग् दुरीप्सितम् ॥ (मो_२,५.२० ॥

"निजेहितैः" स्वपौरुषैः । "दुरीप्सितम्" दुष्टकाङ्क्षितम् ॥ (मोटी_२,५.२० ॥

पौरुषं च न चानन्तं न यत्नम् अभिवाञ्छते ।
न यत्नेनापि महता तैलम् आसाद्यतेऽश्मनः ॥ (मो_२,५.२१ ॥

"पौरुषम् अनन्तं" अन्तरहितं । "न च" भवति । किं तु नियतम् एव भवति । "पौरुषं" कर्तृ । "यत्नम् न अभिवाञ्छते" न स्वोत्पादकत्वेन काङ्क्षते । यत्नेन स्वस्य नियमं न लङ्घयति इति यावत् । पुरुषो "महतापि यत्नेन" स्वस्मिन् नियतं पौरुषं न लङ्घयितुं शक्नोतीति भावः । एतद् दृष्टान्तेन सुगमं करोति । "न यत्नेने"ति ॥ (मोटी_२,५.२१ ॥

पूर्वोक्तम् एवार्थं स्फुटयति

यथा घटः परिमितो यथा परिमितः पटः ।
नियतः परिमाणस्थः पुरुषार्थस् तथैव वः ॥ (मो_२,५.२२ ॥

अतः स्वपौरुषाविषये आकाशगमनादौ न यतितव्यम् इति भावः ॥ (मोटी_२,५.२२ ॥

स च शास्त्रार्थसत्सङ्गसमाचारैर् निजं फलम् ।
ददातीति स्वभावोऽयम् अन्यथानर्थसिद्धये ॥ (मो_२,५.२३ ॥

"अन्यथा" शास्त्रार्थसत्सङ्गसमाचाराणाम् अभावे ॥ (मोटी_२,५.२३ ॥

स्वरूपं पौरुषस्यैतद् दैवं व्यवहरन् नरः ।
याति निष्फलयत्नत्वं न कदाचन कश्चन ॥ (मो_२,५.२४ ॥

"पौरुषस्य स्वरूपम् दैवम् व्यवहरन्" दैवम् इति नाम्ना व्यवहरन् । न तु परमार्थतो दैवम् इति जानन्न् इति यावत् ॥ (मोटी_२,५.२४ ॥

दैन्यदारिद्र्यदुःखार्ता अप्य् अन्ये पुरुषोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ (मो_२,५.२५ ॥

स्पष्टम् ॥ (मोटी_२,५.२२ ॥

आ बाल्याच् चैवम् अभ्यस्तैः शास्त्रसत्सङ्गमादिभिः ।
गुणैः पुरुषयत्नेन स्वोऽर्थः संप्राप्यते हि तैः ॥ (मो_२,५.२६ ॥

"स्वोऽर्थः" मोक्षाख्यः काङ्क्षितोऽर्थः । "पुरुषेणे"ति शेषः । "हि"शब्दः निश्चये । "तैः" प्रसिद्धैः "गुणैर्" इति करणे तृतीया । "यत्नेने"ति तु हेतौ ॥ (मोटी_२,५.२६ ॥

उपसंहारं करोति

इति प्रत्यक्षतो दृष्टम् अनुभूतं कृतं श्रुतम् ।
दैवोत्थम् इति मन्यन्ते ये हतास् ते कुबुद्धयः ॥ (मो_२,५.२७ ॥

"कृतम् श्रुतम्" अनुष्ठितम् । सर्वम् "दैवात् उत्थम्" अस्ति । "इति ये मन्यन्ते" । "ते कुबुद्धयः हताः" नष्टाः ॥ (मोटी_२,५.२७ ॥

आलस्यं यदि न भवेज् जगत्य् अनर्थः
को न स्याद् बहुधनिको बहुश्रुतो वा ।
आलस्याद् इयम् अवनिः ससागरान्ता
संपूर्णा नरपशुभिश् च निर्धनैश् च ॥ (मो_२,५.२८ ॥

"नरपशुभिः" अज्ञानिभिः । "निर्धनैः" दरिद्रैः । तस्माद् धनकाङ्क्षिभिः मोक्षकाङ्क्षिभिर् वा पौरुषम् एव कार्यम् इति भावः ॥ (मोटी_२,५.२८ ॥

पौरुषानुष्ठानप्रकारं कथयति

बाल्ये गतेऽविरतकल्पितकेलिलोले
पौगण्डमण्डनवयःप्रभृति प्रयत्नात् ।
सत्सङ्गमैः पदपदार्थविबुद्धबुद्धिः
कुर्यान् नरः स्वगुणदोषविचारणानि ॥ (मो_२,५.२९ ॥

"अविरतं कल्पिता" या "केलिः" । तया "लोले बाल्ये" । बालभावे "गते" सति । पुरुषः "पौगण्डस्या"वस्थाविशेषस्य "मण्डन"भूतं यत् "वयः" । ततः "प्रभृति" यौवनात् प्रभृति इति यावत् । "प्रयत्नात्" यत्नेन । "स्वगुणदोषविचारणानि कुर्यात्" । कैः कृत्वा । "सत्सङ्गमैः" साधुसङ्गमैः । सत्सङ्गमाभावे हि स्वगुणदोषविचारणम् अशक्यक्रियम् एव । पुरुषः कथंभूतः । "पदपदार्थविबुद्धबुद्धिः" । पदपदार्थयोः विबुद्धा बुद्धिः यस्य । तादृशः । पदपदार्थज्ञ इत्य् अर्थः ॥ (मोटी_२,५.२९ ॥

श्रीवाल्मीकिः सर्गान्तश्लोकेन भरद्वाजं प्रति तत्रत्यं दिनावसानं कथयति

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश् च सहाजगाम ॥ (मो_२,५.३० ॥

"मुनौ" वसिष्ठे । "इति" एवम् । "उक्तवति" सति । "दिवसः जगाम" अवसानं गतः । यतः "इनः" सूर्यः । "अस्तं जगाम" । "सभा" दाशरथी सभा । "कृतनमस्करणा" कृतमुनिनमस्कारा सती । "सायन्तनाय" "विधये" सायं सन्ध्यार्थं । "स्नातुं जगाम" । सा "सभा श्यामाक्षये" रात्रिक्षये । "रविकरैः" सूर्यकरैः । "सह आजगाम च" । इति शिवम् ॥ (मोटी_२,५.३० ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे पञ्चमः सर्गः ॥ २,५ ॥




प्रभाते श्रीवसिष्ठः श्रीरामं प्रति पूर्वसर्गोक्तवस्तुफलितं कथयति

तस्मात् प्राक्पौरुषं दैवं नान्यत् तत् प्रोज्झ्य दूरतः ।
साधुसङ्गमसच्छास्त्रैर् जीवम् उत्तारयेद् बलात् ॥ (मो_२,६.१ ॥

"तस्मात्" पूर्वसर्गोक्तात् हेतोः । "प्राक्पौरुषं" प्राक्तनं पौरुषं । "दैवम्" भवति । "अन्यत्" पौरुषाद् भिन्नं किंचिद् दैवम् । "न" भवति । अतः पुरुषः "तत्" दैवं । "दूरतः प्रोज्झ्य" अर्थात् अद्यतनं शुभं पौरुषम् आश्रित्य । "साधुसङ्गमसच्छास्त्रैः" हेतुभूतैः । "जीवम् बलात्" हठेन । "उत्तारयेत्" । "संसाराद्" इति शेषः ॥ (मोटी_२,६.१ ॥

यथा यथा प्रयत्नः स्याद् भवेद् आशु फलं तथा ।
इति पौरुषम् एवास्ति दैवम् अस्तु तद् एव वः ॥ (मो_२,६.२ ॥

"प्रयत्नः" पौरुषम् । "तत्" युष्माभिः अङ्गीकृतं "दैवम्" । "वः एव" युष्माकम् एव्"आस्तु" ॥ (मोटी_२,६.२ ॥

दुःखाद् यथा दुःखकाले हा कष्टम् इति कथ्यते ।
हाकष्टशब्दपर्यायस् तथा हा दैवम् इत्य् अपि ॥ (मो_२,६.३ ॥

"तथा हा कष्टम् इति"वत् "हा दैवम् इति" दीनानाम् एवोक्तिर् अस्तीति भावः ॥ (मोटी_२,६.३ ॥

प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते ।
बालः प्रबलपुंसेव तज् जेतुम् इव शक्यते ॥ (मो_२,६.४ ॥

"प्राक्स्वकर्मणः" प्राक्तनस्वकर्मणः । "इतराकारम् दैवं नाम न विद्यते" । प्राक्तनात् स्वकर्मणः पृथक्सत्तां न भजते इत्य् अर्थः । अतः पुंसा "तत्" दैवं । "जेतुं शक्यते" केन्"एव" । "प्रबलपुंसा इव" । यथा तेन "बालो जेतुं शक्यते" तथेत्य् अर्थः ॥ (मोटी_२,६.४ ॥

ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा ।
यथाशु शुभतां याति प्राक्तनं कुकृतं तथा ॥ (मो_२,६.५ ॥

"अद्याचारेण" अद्य कृतेनाचारेण । "तथा" तद्वत् । "प्राक्तनं कुकृतम्" अद्यतनेन सुकृतेन "शुभतां याति" ॥ (मोटी_२,६.५ ॥

तज्जयाय यतन्ते ये न लाभलवलम्पटाः ।
ते मूढाः प्राकृता दीनाः स्थिता दैवपरायणाः ॥ (मो_२,६.६ ॥

"तज्जयाय" कुवासनारूपप्राक्तनाशुभपौरुषजयाय । "लाभलवे" सांसारिकपदार्थाप्तिरूपे लाभलेशे । "लंपटाह्" लोभयुक्ताः । "प्राकृताः" नीचाः ॥ (मोटी_२,६.६ ॥

पौरुषेण कृतं कर्म दैवाद् यद् अभिनश्यति ।
तत्र नाशयितुर् ज्ञेयं पौरुषं बलवत्तरम् ॥ (मो_२,६.७ ॥

"नाशयितुः" नाशकस्य कालादेः ॥ (मोटी_२,६.७ ॥

यद् एकवृन्तफलयोर् अप्य् एकं शून्यकोटरम् ।
तत्र प्रयत्नः स्फुरितस् तथा तद्रससंविदः ॥ (मो_२,६.८ ॥

एकस्मिन् वृन्ते स्थितौ फलौ "एकवृन्तफलौ" । तयोः "अपि" मध्यात् "एक"फलं "शून्यकोटरम्" साररहितमध्यं "यत्" भवति । अर्थात् द्वितीयं सारभरितमध्यं ज्ञेयम् । "तत्र" तस्मिन् स्थाने । "तद्रससंविदः" तयोः फलयोः या रसरूपा संवित् । तस्याः तद्रसस्येति यावत् । "तथा" तेन प्रकारेण । "यत्नः" पौरुषं "स्फुरितः" । रसेनेव तादृशं पौरुषं कृतं येनैकं फलं साररहितं संपन्नं । न त्व् अन्यशङ्कितस्य दैवस्यात्र कापि शक्तिर् अस्तीति भावः ॥ (मोटी_२,६.८ ॥

यत् प्रयान्ति जगद्भावाः संसिद्धा अपि संक्षयम् ।
क्षयकारकयत्नस्य तत्र ज्ञेयं महद् बलम् ॥ (मो_२,६.९ ॥

"क्षयकारकस्य" नाशकर्तुः कालस्य । यः "यत्नः" पौरुषम् । तस्य ॥ (मोटी_२,६.९ ॥

भिक्षुको मङ्गलेभेन नृपो यत् क्रियते बलात् ।
तद् अमात्येभपौराणां प्रयत्नस्य महत् फलम् ॥ (मो_२,६.१० ॥

"मङ्गलेभेन" मङ्गलहस्तिना । "भिक्षुकः नृपः" राजा । "बलात् यत् क्रियते अमात्येभपौराणां" राज्यप्रदातॄणां मन्त्रिमङ्गलहस्तिनागराणां । "प्रयत्नस्य" तद्राज्यदानरूपस्य पौरुषस्य सह"फलं" भवति । न दैवस्य ॥ (मोटी_२,६.१० ॥

पौरुषेनान्नम् आक्रम्य यथा दन्तैर् विचूर्ण्यते ।
अल्पं पौरुषम् आक्रम्य तथा शूरेण चूर्ण्यते ॥ (मो_२,६.११ ॥

"यथा दन्तैः पौरुषेण अन्नम् आक्रम्य" स्ववशीकृत्य । "चूर्ण्यते" । "तथा शूरेणा"द्यतनपौरुषयुक्तेन पुरुषेण । "अल्पं" प्राक्तनत्वेन जीर्णप्रायं । "पौरुषं आक्रम्य चूर्ण्यते" ॥ (मोटी_२,६.११ ॥

अनुभूतं हि महतां लाघवं यत्नशालिनां ।
यथेष्टं विनियुज्यन्ते ते तैः कर्मसु लोष्टवत् ॥ (मो_२,६.१२ ॥

"हि" यस्मात् । अस्माभिः "यत्नशालिनां" पौरुषशालिनां । "महतां लाघवं" चातुर्यम् । "अनुभूतं" प्रत्यक्षं दृष्टम् । कथं अनुभूतम् इत्य् । अत्राह । "यथेष्टम्" इति । यतः "तैः" यत्नशालिभिः । "ते" अर्थात् पौरुषरहिताः पुरुषाः । "यथेष्टं" स्वेच्छानुसारेण । "लोष्टवत् कर्मसु विनियुज्यन्ते" ॥ (मोटी_२,६.१२ ॥

शक्तस्य पौरुषं दृश्यम् अदृश्यं वापि यद् भवेत् ।
तद् दैवम् इत्य् अशक्तेन बुद्धम् आत्मन्य् अबुद्धिना ॥ (मो_२,६.१३ ॥

"शक्तस्य" महता पौरुषेण युक्तस्य । दृश्यस्य पुरुषादेर् अदृश्यस्य कालादेश् च । "दृश्यम् अदृश्यं वा यत् पौरुषं भवेत्" । "अबुद्धिना" सम्यग्ज्ञानरहितेन । "अशक्तेन" तदपेक्षया शक्तिरहितेन पुरुषेण । "तत्" शक्तस्य पौरुषम् । "आत्मनि" स्वस्मिन् विषये । "दैवं बुद्धम्" ज्ञातम् । अन्यथा दैवेन मे कृतम् इति न ब्रूयात् ॥ (मोटी_२,६.१३ ॥

भूतानां बलवद्भूतयत्नो दैवम् इति स्थितम् ।
तस्थुषाम् अप्य् अधिष्ठातृवताम् एतत् स्फुटं मिथः ॥ (मो_२,६.१४ ॥

"बलवद्भूतयत्नः" । "भूतानाम्" क्षुद्रभूतानां उपरि । "दैवम् इति स्थितम्" भवति । पुरुषो हि यत्र न पर्याप्तो भवति तत्रैव दैवेन मे कृतम् इति कथयति । न केवलम् एतन् मयैव ज्ञातं किंत्व् अन्यैर् अपीत्य् आह । "तस्थुषाम्" इति । "अपि"शब्दः समुच्चये । "मिथः" अन्योऽन्यम् । "अधिष्ठातृवतां तस्थुषाम्" प्रेरकयुक्तानां स्थितानाम् पुरुषाणाम् "अपि" । "एतत्" मया उक्तः अर्थः । "स्फुटं" प्रकटो भवति । ते हि परस्परं क्षुद्रतरतमादिभेदेनाधिष्ठेयाः भवन्ति । उत्कृष्टतरतमादिभेदेन त्व् अधिष्ठातारः । अधिष्ठाता एव चाधिष्ठेयं प्रति दैवम् । अतः एतेषु मदुक्तोऽर्थः स्फुट एव भवति इति भावः ॥ (मोटी_२,६.१४ ॥

ननु भिक्षुकराज्यविषयेऽयं न्यायो नास्तीत्य् । अत्राह

शास्त्रमात्येभपौराणाम् अविकल्प्या स्वभावधीः ।
सा या भिक्षुकराज्यस्य कर्त्री धर्त्री प्रजास्थितेः ॥ (मो_२,६.१५ ॥

"शास्ता" पुरोहितः । स च "अमात्यश्" च । "इभश्" च मङ्गलहस्ती च । "पौराश्" च । तेषाम् । "सा स्वभावधीः" स्वभावात् उत्थिता भिक्षुराज्यदानरूपा बुद्धिः । "अविकल्प्या" नाशयितुम् अशक्याशक्ता इति यावत् भवति । "सा" का । "या भिक्षुकराज्यस्य कर्त्री" भवति । तद्द्वारेण "प्रजास्थितेः धर्त्री" च भवति । अतोऽत्राप्य् अयम् एव न्याय इति भावः । इयं हि रीतिः । यत्र देशे राजा म्रियते । तस्य पुत्रश् च न स्यात् । तत्र मङ्गलहस्ती यं नमति । तम् एव राजानं कुर्वन्तीति ॥ (मोटी_२,६.१५ ॥

ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् ।
सर्वदा पुरुषस्पन्दस् तत्रानुद्वेगवाञ् जयी ॥ (मो_२,६.१६ ॥

"पुरुषस्पन्दः" पौरुषम् । "तत्र" द्वयोः पौरुषयोः मध्ये । "अनुद्वेगवान्" उद्वेगरहितः । लक्षणया अतिबल इत्य् अर्थः ॥ (मोटी_२,६.१६ ॥

ननु तत्र कः प्रायः बलवान् अस्तीत्य् । अत्राह

द्वयोर् अद्यतनस्यैव प्रत्यक्षाद् बलिता भवेत् ।
दैवं जेतुम् अतो यत्नैर् बालो यूनेव शक्यते ॥ (मो_२,६.१७ ॥

"प्रत्यक्षात्" प्रत्यक्षप्रमाणेन । दृश्यते हि अद्यतनः शुभाचारः ह्यस्तनम् अशुभं नाशयन् । फलितम् आह । "दैवम्" इति । "अतः यत्नैः" अद्यतनैः पौरुषैः । "दैवं" प्राक्तनं पौरुषं । "जेतुम् शक्यते" । केनेव । "यूनेव" । यथा "यूना बालः जेतुं शक्यते" तथेत्य् अर्थः ॥ (मोटी_२,६.१७ ॥

मेघेन नीयते यद् वा वत्सरोपार्जिता कृषिः ।
मेघस्य पुरुषार्थोऽसौ जयत्य् अधिकयत्नवान् ॥ (मो_२,६.१८ ॥

अत्रापि न दैवस्य काचिच् छक्तिर् अस्तीति भावः ॥ (मोटी_२,६.१८ ॥

क्रमेणोपार्जितेऽप्य् अर्थे नष्टे कार्या न खेदिता ।
न बलं यत्र मे शक्तं तत्र का परिदेवना ॥ (मो_२,६.१९ ॥

"बलम्" पौरुषम् । न हि जनः अशक्यः राज्यादिवस्तुप्राप्त्यर्थं प्रत्यहं "परिदेवना"युक्तो भवतीति भावः ॥ (मोटी_२,६.१९ ॥

यन् न शक्नोमि तस्यार्थे यदि दुःखं करोम्य् अहम् ।
तद् अमानितमृत्योर् मे युक्तं प्रत्यहरोदनम् ॥ (मो_२,६.२० ॥

"अमानितमृत्योः" तावद् मृत्युपातम् अपि अनङ्गीकुर्वतः ॥ (मोटी_२,६.२० ॥

देशकालक्रियाद्रव्यवशतो विस्फुरन्त्य् अमी ।
सर्व एव जगद्भावा जयत्य् अधिकयत्नवान् ॥ (मो_२,६.२१ ॥

"भावाः" मृत्य्वादिरूपाः पदार्थाः ॥ (मोटी_२,६.२१ ॥

फलितं कथयति

तस्मात् पौरुषम् आश्रित्य सच्छास्त्रैः सत्समागमैः ।
प्रज्ञाम् अमलतां नीत्वा संसाराम्बुनिधिं तर ॥ (मो_२,६.२२ ॥

"अमलताम्" रागादिमलराहित्यम् ॥ (मोटी_२,६.२२ ॥

प्राक्तनश् चैहिकश् चासौ पुरुषार्थौ फलद्रुमौ ।
ऐहिकः पुरुषार्थश् च जगत्य् अभ्यधिकस् तयोः ॥ (मो_२,६.२३ ॥

फलोत्पादकौ द्रुमौ "फलद्रुमौ" ॥ (मोटी_२,६.२३ ॥

कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः ।
अज्ञो जन्तुर् अनीशोऽसौ वाङ्मनःसुखदुःखयोः ॥ (मो_२,६.२४ ॥

"कर्म" पौरुषम् । "अनीशः" असमर्थः । "वाङ्मनःसुखदुःखौ" अप्य् "असौ" नाशयितुं न शक्नोति । शरीरदुःखनाशे तु का कथेति भावः ॥ (मोटी_२,६.२४ ॥

यस् तूदारचमत्कारः सदाचारविहारवान् ।
स निर्याति जगन्मोहान् मृगेन्द्रः पञ्जराद् इव ॥ (मो_२,६.२५ ॥

"सदाचारेण" साध्वाचारेण । "विहारः" विद्यते यस्य । तादृशः । "स" इति । "स" एव शुभपौरुषभाजनम् इति भावः ॥ (मोटी_२,६.२५ ॥

कश्चिन् मां प्रेरयत्य् एवम् इत्य् अनर्थकुकल्पने ।
यः स्थितो दृष्टम् उत्सृज्य त्याज्योऽसौ दूरतोऽधमः ॥ (मो_२,६.२६ ॥

"दृष्टम्" प्रत्यक्षदृष्टफलं पौरुषम् ॥ (मोटी_२,६.२६ ॥

व्यवहारसहस्राणि यान्य् उपायान्ति यान्ति च ।
यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥ (मो_२,६.२७ ॥

"यथाशास्त्रम्" स्वशास्त्रानतिक्रमेण । "विहर्तव्यं" विहारः कार्यः ॥ (मोटी_२,६.२७ ॥

यथाशास्त्रम् अनुच्छिन्नां मर्यादां स्वाम् अनुज्झतः ।
उपतिष्ठन्ति सर्वाणि रत्नान्य् अम्बुनिधेर् इव ॥ (मो_२,६.२८ ॥

"स्वाम्" स्वजात्यनुसारिणीम् । "उपतिष्ठन्ति" समीपम् आगच्छन्ति । "सर्वाणि" सकलानि श्रेयांसि ॥ (मोटी_२,६.२८ ॥

स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥ (मो_२,६.२९ ॥

"स्वार्थप्रापके" स्वप्रयोजनसाधके "कार्ये" । "एकम्" अत्यन्तं । "प्रयत्नपरता" "शास्त्रयन्त्रिता" शास्त्रबुद्धा ॥ (मोटी_२,६.२९ ॥

क्रियायाः स्पन्दधर्मिण्याः स्वार्थसाधकता स्वयम् ।
साधुसङ्गमशास्त्रार्थतीक्ष्णयाभ्यूह्यते धिया ॥ (मो_२,६.३० ॥

"स्पन्दधर्मिण्याः" स्पन्दस्वरूपायाः "क्रियायाः" । "स्वार्थसाधकता स्वयम्" अन्यनिरपेक्षं भवति । "साधुसङ्गमशास्त्रार्थतीक्ष्णया धिया" सम्बन्धिनी "स्वार्थसाधकता" "अभ्यूह्यते" विवेच्यते । का "स्वार्थसाधकता" । शुभा । का शुभेति व्यवस्थाप्यते इत्य् अर्थः ॥ (मोटी_२,६.३० ॥

अनन्तं समतानन्दं परमार्थं विदुर् बुधाः ।
स येभ्यः प्राप्यतेऽनन्तं ते सेव्याः शास्त्रसाधवः ॥ (मो_२,६.३१ ॥

सर्वत्र समदर्शित्वं "समता" । तद्रूपः "आनन्दः" "समतानन्दः" । "परमार्थम्" परमोपादेयं । "सः" समतानन्दः । पौरुषम् आश्रित्योपास्यः ॥ (मोटी_२,६.३१ ॥

प्राक्तनं पौरुषं तच् चेद् दैवशब्देन कथ्यते ।
तद् युक्तम् एतद् एतस्मिन् नास्ति नापवदामहे ॥ (मो_२,६.३२ ॥

"तत्" प्रसिद्धं । "प्राक्तनं पौरुषं दैवशब्देन चेत्" यदि । "कथ्यते" । "युष्माभिर्" इति शेषः । "तत्" कथनं । "युक्तं" भवति । यत "एतत्" समतानन्दप्राप्त्युपायत्वम् । "एतस्मिन् नास्ति" । अतः वयं "नापवदामहे" तदपवादं न कुर्मः । उपेक्षाविषयत्वाद् इति भावः ॥ (मोटी_२,६.३२ ॥

मूढैः प्रकल्पितं दैवम् अन्यद् यैस् ते क्षयं गताः ।
नित्यं स्वपौरुषाद् एव लोकद्वयहितं भवेत् ॥ (मो_२,६.३३ ॥

"अन्यत्" प्राक्तनपौरुषात् । "क्षयम्" अनुद्योगकृतं नाशम् ॥ (मोटी_२,६.३३ ॥

ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव ॥ (मो_२,६.३४ ॥

"अद्यतनये"ति शेषः । "यथा" अद्यतनया "सत्क्रियया ह्यस्तनी दुष्क्रिया शोभां अभ्येति" । "एवम्" तथा । "प्राक्तनी" प्राग्जन्मभवा वासनारूपा "दुष्क्रिया" । "अद्य" अद्यतनया सच्छास्त्रसेवनादिरूपया "सत्क्रियया" । "शोभाम्" शुद्धत्वम् "अभ्येति" । अतः त्वम् "सत्कार्यवान् भव" ॥ (मोटी_२,६.३४ ॥

करामलकवद् दृष्टं पौरुषाद् एव यत् फलम् ।
मूढः प्रत्यक्षम् उत्सृज्य दैवमोहे निमज्जति ॥ (मो_२,६.३५ ॥

"मूढः" दैवात् फलवादी अज्ञानी । "प्रत्यक्षम्" प्रत्यक्षप्रमाणसिद्धं पौरुषम् "उत्सृज्य" । "दैवमोहे" दैवरूपे भ्रमे "मज्जति" । कुतः तत् । तत् कुतः "यत्" यतः । अस्माभिः "फलम् करामलकवत् पौरुषाद् एव दृष्टम्" प्रत्यक्षम् अनुभूतम् ॥ (मोटी_२,६.३५ ॥

सकलकारणकार्यविवर्जितं
निजविकल्पबलाद् उपकल्पितम् ।
तद् अनपेक्ष्य हि दैवम् असन्मयं
श्रय शुभाशय पौरुषम् आत्मनः ॥ (मो_२,६.३६ ॥

"सकलानि" यानि "कार्यकारणानि" । तैः "वर्जितम्" । अत्यन्तासत्स्वरूपम् इत्य् अर्थः । अत एव "निजविकल्पबलात् उपकल्पितम्" संपादितं । "तत् असन्मयं दैवम् अनपेक्ष्य" । हे "शुभाशय" । त्वम् "आत्मनः पौरुषं आश्रय" । दैववशो मा भवेति भावः ॥ (मोटी_२,६.३६ ॥

शास्त्रैः सदाचरितजृंभितदेशधर्मैर्
यत् कल्पितं फलम् अतीव चिरप्ररूढम् ।
तस्मिन् हृदि स्फुरति नोऽपरम् एति चित्तम्
अङ्गावली तद् अनु पौरुषम् एतद् आहुः ॥ (मो_२,६.३७ ॥

"शास्त्रैः" सच्छास्त्रैः । "सतां" साधूनां । यत् "आचरितं" आचारः । तेन प्रवृत्तः । अविच्छिन्नप्रवाहेणागताः ये "देशधर्माः" । तैः च्"आतीव चिरप्ररूढं" अत्यन्तबहुकालात् प्रभृति प्रसिद्धं । "यत् फलं कल्पितम्" साध्यत्वेन निश्चितं भवति । "तस्मिन्" फले । "हृदि स्फुरति" संपादनीयतया विलसति सति । "चित्तम्" "अपरम्" प्रोक्तफलेतरं वस्तु यत् । "नो एति" न गच्छति । "तद् अनु" चित्तानन्तरं । "अङ्गावली" हस्ताद्यवयवपङ्क्तिर् । अपि "अपरं" यत् । "नो एति" । अपि तु तत्साधनैकपरं भवति । पण्डिताः "एतत् पौरुषम् आहुः" कथयन्ति । न तु यथा तथा हस्तादिचालनम् इति भावः ॥ (मोटी_२,६.३७ ॥

बुद्ध्वैव पौरुषफलं पुरुषत्वम् एतद्
आत्मप्रयत्नपरतैव सदैव कार्या ।
नेया ततः सफलतां परमाम् अथासौ
सच्छास्त्रसाधुजनपण्डितसेवनेन ॥ (मो_२,६.३८ ॥

पुरुषेण "एतत्" स्वेनानुभूयमानं । "पुरुषत्वम्" पुरुषभावम् । "पौरुषफलं" । "पौरुषं" पूर्वश्लोकोक्तस्वरूपपौरुषं । "फलं" यस्य । तादृक् । "बुद्ध्वा" एव । "आत्मप्रयत्नपरता" पौरुषनिर्वृत्तत्वम् । "सदा एव कार्या" । "ततः" करणानन्तरं । पुरुषेण्"आसौ" आत्मप्रयत्नपरता । "सच्छास्त्रसाधुजनपण्डितसेवनेन" "परमाम्" उत्कृष्टाम् । "सफलताम्" मोक्षाख्यफलयुक्तताम् "नेया" । "अथ"शब्दः पादपूरणार्थः ॥ (मोटी_२,६.३८ ॥

दैवपौरुषविचारचारुभिश् चेतसा चरितम् आत्मपौरुषम् ।
नित्यम् एव जयतीति भावितैः कार्य आर्यजनसेवनोद्यमः ॥ (मो_२,६.३९ ॥

पुरुषैः "आर्यजनसेवनोद्यमः कार्यः" । कथंभूतैः । "दैवपौरुषयोः" यः "विचारः" स्वरूपविवेचनं । तेन "चारुभिः " । पुनः कथंभूतैः । मनसा "इति" एवम् । "भावितैः" निश्चितैः इति । किम् "इति" । "चरितम्" अनुष्ठितम् । "आत्मपौरुषम् नित्यम्" सदा "जयति" । सर्वफलजनकत्वात् सर्वोत्कर्षेण वर्तत इति ॥ (मोटी_२,६.३९ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

जन्मप्रबन्धमयम् आमयम् एष जीवो
बुद्ध्वैहिकं सहजपौरुषम् एव सिद्ध्यै ।
शान्तिं नयत्व् अवितथेन वरौषधेन
पृष्टेन तुष्टिपरपण्डितसेवनेन ॥ (मो_२,६.४० ॥

"जीवः" पुरुषः । "ऐहिकं" इह लोके शक्यत्वेन स्थितं "पौरुषं" । "सिद्ध्यै" सिद्ध्यर्थं "बुद्ध्वा" । ततः तदाश्रयणेनानुष्ठितेन "तुष्टिपरपण्डितसेवनेन" हेतुना । "पृष्टेन" तस्माद् एव पण्डितात् "पृष्टेन" । "अवितथेन" सफलेन । "वरौषधेन" सम्यग्ज्ञानाख्यवरौषधेन । "जन्मप्रबन्धमयम्" जन्मसन्तानरूपं । "आमयम्" रोगं । "शान्तिं नयतु" । इति शिवम् ॥ (मोटी_२,६.४० ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे षष्ठः सर्गः ॥ २,६ ॥




ओं अत्यन्तोपादेयत्वेन पुनर् अपि पौरुषचर्चाम् एव प्रस्तौति

प्राप्य व्याधिविनिर्मुक्तं देहम् अल्पाधिवेधितम् ।
तथात्मानं समादध्याद् यथा भूयो न जायते ॥ (मो_२,७.१ ॥

"अल्पो" यः "आधिः" जीवनोपायादिनिमित्ता चित्तपीडा । तेन "वेधितम्" ताडनायुक्तम् कृतम् । "समादध्यात्" चिन्मात्रतत्त्वे समाधानयुक्तं कुर्यात् ॥ (मोटी_२,७.१ ॥

दैवं पुरुषकारेण योऽतिवर्तितुम् इच्छति ।
इह चामुत्र च जयेत् स संपूर्णाभिवाञ्छितः ॥ (मो_२,७.२ ॥

"दैवम्" अनुद्योगरूपम् दैवम् । "संपूर्णे अभिवाञ्छिते" भोगमोक्षरूपे काङ्क्षिते यस्य "सः" ॥ (मोटी_२,७.२ ॥

ये समुद्योगम् उत्सृज्य स्थिता दैवपरायणाः ।
ते धर्मम् अर्थकामौ च नाशयन्त्य् आत्मविद्विषः ॥ (मो_२,७.३ ॥

"आत्मविद्विट्त्वं" च तेषां भोगमोक्षरूपात्मककार्यनाशकत्वाज् ज्ञेयम् ॥ (मोटी_२,७.३ ॥

संवित्स्पन्दो मनःस्पन्द इन्द्रियस्पन्द एव च ।
एतानि पुरुषार्थस्य रूपाण्य् एभ्यः फलोदयः ॥ (मो_२,७.४ ॥

"एभ्यः" संविदादिस्पन्देभ्यः ॥ (मोटी_२,७.४ ॥

संवित्तत्त्वाद् एव पौरुषोत्थानं कथयति

यथा संवेदनं चेतस् तथान्तःस्पन्दम् ऋच्छति ।
तथैव कायश् चलति तथैव फलभोक्तृता ॥ (मो_२,७.५ ॥

"यथा" येन प्रकारेण । "संवेदनम्" संविदः स्फुरणम् स्यात् । "तथा" तेन प्रकारेण । "चेतः अन्तःस्पन्दम्" संकल्पाख्याम् चेष्टाम् । "ऋच्छति" गच्छति । "तथैव" चित्तस्पन्दानुसारेण एव । "कायः चलति" हिताहितप्राप्तिपरिहाररूपां क्रियां प्रति चेष्टते । ततः "तथैव" कायचलनानुसारेणैव । "फलभोक्तृता" भवति । "जीवस्ये"ति शेषः ॥ (मोटी_२,७.५ ॥

आबालम् एतत् संसिद्धं यत्र यत्र यथा तथा ।
दैवं तु न क्वचिद् दृष्टम् अतो जयति पौरुषम् ॥ (मो_२,७.६ ॥

"आबालं" बालपर्यन्तम् । "एतत्" मदुक्तम् । फलितम् आह्"आत" इति ॥ (मोटी_२,७.६ ॥

पुरुषार्थेन देवेशगुरुर् एष बृहस्पतिः ।
शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः ॥ (मो_२,७.७ ॥

देवेशस्य गुरुः "देवेशगुरुः" ॥ (मोटी_२,७.७ ॥

दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः ।
पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ (मो_२,७.८ ॥

"देवेन्द्रतुल्यताम्" इन्द्रसाम्यम् ॥ (मोटी_२,७.८ ॥

महान्तो विभवाढ्या ये नानाश्चर्यसमाश्रयाः ।
पौरुषेणैव दोषेण नरकातिथितां गताः ॥ (मो_२,७.९ ॥

"दोषेण" दोषहेतुना । उच्छास्त्रितेनेति यावत् ॥ (मोटी_२,७.९ ॥

भावाभावसहस्रेषु दशासु विविधासु च ।
स्वपौरुषवशाद् एव विवृत्ता भूतजातयः ॥ (मो_२,७.१० ॥

"विवृत्ताः" रूपान्तरं गताः । "भावाभावा"द्याविष्टाः संपन्ना इति यावत् ॥ (मोटी_२,७.१० ॥

शास्त्रतो गुरुतश् चैव स्वतश् चेति त्रिसिद्धिता ।
सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन ॥ (मो_२,७.११ ॥

त्रिभिः प्रकारैः सिद्धिता "त्रिसिद्धिता" । "फलम्" इति शेषः । "स्वतः" शास्त्रादि विना स्वप्रतिभामात्राद् एव । केचिद् धि "शास्त्रात्" सिद्धा भवन्ति । केचित् "गुरुतः" । केचित् "स्वतः" ॥ (मोटी_२,७.११ ॥

अशुभेषु समाविष्टं शुभेष्व् एवावतारयेत् ।
यत्नेन चित्तम् इत्य् आशु सर्वशास्त्रार्थसंग्रहः ॥ (मो_२,७.१२ ॥

"अशुभेषु" भोगार्जनरूपेष्व् अशुभकार्येषु ॥ (मोटी_२,७.१२ ॥

यच् छ्रेयो यद् अतुच्छं च यद् अपायविवर्जितम् ।
तत् तद् आचर यत्नेन पुत्रेति गुरवः स्थिताः ॥ (मो_२,७.१३ ॥

"पुत्र" हे शिष्य । "स्थिताः" । "उपदेष्टृत्वेने"ति शेषः ॥ (मोटी_२,७.१३ ॥

यथा यथा प्रयत्नो मे फलम् आशु तथा तथा ।
इत्य् अहं पौरुषाद् एव फलभाङ् न तु दैवतः ॥ (मो_२,७.१४ ॥

"इत्य्" एवं । निश्चयवान् भवेद् इति भावः ॥ (मोटी_२,७.१४ ॥

पौरुषाद् दृश्यते सिद्धिः पौरुषं धीमतां क्रमः ।
दैवम् आश्वासनामात्रं दुःखपेलवबुद्धिषु ॥ (मो_२,७.१५ ॥

"दुःखेन पेलवा" उद्योगासहा । "बुद्धिः" येषां तेषु ॥ (मोटी_२,७.१५ ॥

प्रत्यक्षप्रमुखान् नित्यं प्रमाणं पौरुषः क्रमः ।
फलतो दृश्यते लोके देशान्तरगमादिकात् ॥ (मो_२,७.१६ ॥

अस्माभिः "पौरुषः" पुरुषसम्बन्धी "क्रमः" । पादचालनादिरूपं पौरुषम् इति यावत् । "देशान्तरगमादिकात् फलतः" फलात् । "नित्यं प्रमाणं" अर्थक्रियाकारि "दृश्यते" । "फलतः" कथंभूतात् । "प्रत्यक्षं" प्रत्यक्षप्रमाणं । "प्रमुखं" ग्राहकत्वेन प्रधानं यस्य । तादृशात् प्रत्यक्षदृष्टाद् इत्य् अर्थः । अतः पौरुषम् एव सफलं । न दैवम् इति भावः ॥ (मोटी_२,७.१६ ॥

भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः ।
वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् ॥ (मो_२,७.१७ ॥

स्पष्टम् ॥ (मोटी_२,७.१७ ॥

पौरुषेण दुरन्तेभ्यः संकटेभ्यः सुबुद्धयः ।
समुत्तरन्त्य् अयत्नेन न तु मूकतयानया ॥ (मो_२,७.१८ ॥

"मूकतया" दैवपरत्वरूपेण उद्योगराहित्येन ॥ (मोटी_२,७.१८ ॥

यो यो यथा प्रयतते स स तद्वत् फलैकभाक् ।
न तु तूष्णीं स्थितेनेह केनचित् प्राप्यते फलम् ॥ (मो_२,७.१९ ॥

"तद्वत्" तथा । "तूष्णीं स्थितेन" उद्योगरहितेन तिष्ठता ॥ (मोटी_२,७.१९ ॥

शुभेन पुरुषार्थेन शुभम् आसाद्यते फलम् ।
अशुभेनाशुभं राम यथेच्छसि तथा कुरु ॥ (मो_२,७.२० ॥

स्पष्टम् ॥ (मोटी_२,७.२० ॥

पुरुषार्थफलप्राप्तिर् देशकालवशाद् इह ।
प्राप्ता चिरेण शीघ्रं वा यासौ दैवम् इति स्मृता ॥ (मो_२,७.२१ ॥

"प्राप्तिः" "प्राप्ते"ति कार्यं करोति इतिवत् प्रयोगः । "असौ" "पुरुषार्थफलप्राप्तिः" ॥ (मोटी_२,७.२१ ॥

न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् ।
उक्तं दैवाभिधानेन स्वं लोके कर्मणः फलम् ॥ (मो_२,७.२२ ॥

स्पष्टम् ॥ (मोटी_२,७.२२ ॥

पुरुषो जायते लोके वर्धते क्षीयते पुनः ।
न तत्र दृश्यते दैवं जरायौवनबाल्यवान् ॥ (मो_२,७.२३ ॥

"तत्र" पुरुषे ॥ (मोटी_२,७.२३ ॥

देशाद् देशान्तरप्राप्तिर् हस्तस्थद्रव्यधारणम् ।
व्यापारश् च तथाङ्गानां पौरुषेण न दैवतः ॥ (मो_२,७.२४ ॥

स्पष्टम् ॥ (मोटी_२,७.२४ ॥

अर्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सर्वम् आसाद्यतेऽनया ॥ (मो_२,७.२५ ॥

"अर्थप्रापकं" यत् "कार्यं" । तत्र "एकम्" केवलं । "प्रयत्नपरता" ॥ (मोटी_२,७.२५ ॥

अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या ।
सोक्ता प्रोन्मत्तचेष्टेति न किंचित् प्राप्यतेऽनया ॥ (मो_२,७.२६ ॥

"अनर्थप्राप्तौ" अनर्थप्राप्त्यर्थं यत् "कार्यम्" । तत्र "एकम् प्रयत्नपरता" ॥ (मोटी_२,७.२६ ॥

क्रियायाः स्पन्दधर्मिण्याः स्वार्थसाधकता स्वयम् ।
साधुसङ्गमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥ (मो_२,७.२७ ॥

"उन्नीयते" निश्चीयते ॥ (मोटी_२,७.२७ ॥

अनन्तं समतानन्दं परमार्थं स्वकं विदुः ।
तद् येभ्यः प्राप्यते यत्नात् सेव्यास् ते शास्त्रसाधवः ॥ (मो_२,७.२८ ॥

"स्वकम् परमार्थम्" निजं परमप्रयोजनम् ॥ (मोटी_२,७.२८ ॥

सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान् मतिः ।
वर्धेते ते मिथोऽभ्यासात् सरोब्दाव् इव कालतः ॥ (मो_२,७.२९ ॥

"सच्छास्त्रादि"रूपः "गुणः मत्या" भवति । बुद्धिरहितस्य "सच्छास्त्रादौ" प्रवृत्त्यभावात् । "मतिः सच्छास्त्रादिगुणात्" भवति । "ते" सच्छास्त्रादिगुणमती । "मिथः" अन्योन्यं । "अभ्यासात् वर्धेते" वृद्धिं गच्छतः । काव् "इव" । "सरोब्दाव् इव" । यथा "सरोब्दौ" सरोमेघौ । "कालतः मिथः वर्धेते" तथेत्य् अर्थः । कदाचिद् धि सरः मेघवृष्टेन जलेन वर्धते । कदाचित् तु मेघः सरसः गृहीतेन जलेनेति ॥ (मोटी_२,७.२९ ॥

आबाल्याद् अलम् अभ्यस्तैः शास्त्रसत्संगमादिभिः ।
गुणैः पुरुषयत्नेन स्वोऽर्थः संप्राप्यते हितः ॥ (मो_२,७.३० ॥

"पुरुषयत्नेन" पौरुषेण्"आभ्यस्तैः" अनुशीलितैः । "स्वः अर्थः" मोक्षाख्यं निजं प्रयोजनम् ॥ (मोटी_२,७.३० ॥

पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः ।
रचितानि जगन्तीह विष्णुना न तु दैवतः ॥ (मो_२,७.३१ ॥

स्पष्टम् ॥ (मोटी_२,७.३१ ॥

सर्गान्तश्लोकेन श्रीरामस्य पौरुषं कर्तव्यत्वेनोपदिशति

जगति पुरुषकारकारणेऽस्मिन्
कुरु रघुनाथ चिरं तथा प्रयत्नम् ।
व्रजसि तरुसरीसृपाभिधानां
सुभग यथा न दशाम् अशङ्कम् एव ॥ (मो_२,७.३२ ॥

"जगति" कथंभूते । "पुरुषकारः" पौरुषं "कारणं" यस्य । तादृशे । चिन्मात्रपौरुषाद् एव हि जगद् उत्पन्नम् । "प्रयत्नम्" पौरुषम् । "तरुसरीसृपाभिधानां दशां" तर्वादिरूपताम् इत्य् अर्थः । तर्वादयो हि पौरुषराहित्येनैव दुःखम् अनुभवन्तीति तेषां ग्रहणं कृतम् । इति शिवम् ॥ (मोटी_२,७.३२ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे सप्तमः सर्गः ॥ २,७ ॥




ओं पुनः दैवनिराकरणं करोति । ओं

नाकृतिर् न च कर्माणि नास्पदं न पराक्रमः ।
तन् मिथ्याज्ञानवत् प्रौढं दैवं नाम किम् उच्यते ॥ (मो_२,८.१ ॥

पूर्वार्धे "यस्ये"ति शेषः ॥ (मोटी_२,८.१ ॥

स्वकर्मफलसंप्राप्ताव् इदम् इत्थम् इतीह याः ।
गिरस् ता दैवनाम्नैताः प्रसिद्धिं समुपागताः ॥ (मो_२,८.२ ॥

"इदम् इत्थम् इति गिर" इदं इत्थं संपन्नम् इति वाचः ॥ (मोटी_२,८.२ ॥

तथैव मूढमतिभिर् दैवम् अस्तीति निश्चयः ।
आत्तो दुरवबोधेन रज्जाव् इव भुजङ्गमः ॥ (मो_२,८.३ ॥

"आत्तो" गृहीतः । "दुरवबोधेन" अज्ञानेन । "इव"शब्दः यथाशाब्दार्थे ॥ (मोटी_२,८.३ ॥

ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव ॥ (मो_२,८.४ ॥

गतार्थोऽयम् ॥ (मोटी_२,८.४ ॥

मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः ।
दैवाद् दाहोऽस्तु मा वेति वक्तव्यं तेन पावके ॥ (मो_२,८.५ ॥

"मूढानुमानसंसिद्धं दैवं यस्य दुर्मतेः" अज्ञानिनः । "अस्ति" परमार्थसद् अस्ति । "तेन" दुर्मतिना । "पावके" अग्नौ स्थित्वा । "दैवाद् दाहः अस्तु मा"स्तु "वेति वक्तव्यम्" । तत्र त्व् असौ नैतद् वक्तुं शक्नोति दाहैकलब्धेर् इति भावः ॥ (मोटी_२,८.५ ॥

दैवम् एवेह चेत् कर्म पुंसः किम् इव चेष्टया ।
स्नानदानाशनादारान् दैवम् एव करिष्यति ॥ (मो_२,८.६ ॥

"कर्म" कर्मसंपादकम् इत्य् अर्थः । न चैतत् संभवति अकिंचित्कुर्वतः "स्नाना"द्यनुपपत्तेर् इति भावः ॥ (मोटी_२,८.६ ॥

किं वा शास्त्रोपदेशेन मूकोऽयं पुरुषः किल ।
संचार्यते तु दैवेन किं कस्येहोपदिश्यते ॥ (मो_२,८.७ ॥

"संचार्यते" संचरणशीलः संपाद्यते । "किम्" इति । "केन" इति शेषः । दैवाङ्गीकारे न कोऽपि "कस्या"प्य् उपदेशं कुर्याद् इति भावः ॥ (मोटी_२,८.७ ॥

न च निःस्पन्दता लोके दृष्टेह शवतां विना ।
स्पन्दश् च फलसंप्राप्तिस् तस्माद् दैवं निरर्थकम् ॥ (मो_२,८.८ ॥

स्पष्टम् ॥ (मोटी_२,८.८ ॥

ननु दैवेन सहैव पुरुषः कार्यं करोतीत्य् । अत्राह

न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता ।
हस्तादीन् ईहतश् चैव न दैवेन क्वचित् कृतम् ॥ (मोटी_२,८.९ ॥


"अमूर्तेन" मूर्तिरहितेन "दैवेन" । "हस्तादीन् ईहतः" चेष्टतः । "मूर्तस्य" पुरुषस्य । "सहकर्तृता च न" भवति । अतः "दैवेन कृतम्" दैवकर्तृकं कार्यं । "क्वचित् न" भवति ॥ (मोटी_२,८.९ ॥

ननु मनोबुद्ध्यादिवद् अमूर्तस्यापि दैवस्य मूर्तेन सह कर्तृत्वम् अस्त्य् एवेत्य् । अत्राह

मनोबुद्धिवद् अप्य् एतद् दैवं नेहानुभूयते ।
आगोपालं किल प्राज्ञैस् तेन दैवम् असत् सदा ॥ (मो_२,८.१० ॥

मृतशरीरे कर्तृत्वादर्शनान् "मनोबुद्धी" कल्प्येते । न च दैवस्यात्र कश्चिद् उपयोग इति । न तत्कल्पनावसर इति भावः ॥ (मोटी_२,८.१० ॥

ननु कदाचित् तस्माद् एव दृश्यात् शरीरादेः कार्यं दृष्टं कदाचिन् न दृष्टम् इति अदृष्टस्य दैवस्य कल्पना युक्तैवेत्य् । अत्राह

पृथक् चेद् बुद्धिर् अन्योऽर्थः सैव चेत् कान्यता तयोः ।
कल्पना वा प्रमाणं चेत् पौरुषं किं न कल्प्यते ॥ (मो_२,८.११ ॥

"बुद्धिः" ज्ञानं । "पृथक् चेत्" यद्य् अस्ति । तद्"आर्थः अन्य" एकस्मात् द्वितीयः पृथग् इति यावत् । अस्ति बुद्धिः "सा एव" । न तु भिन्ना "चेद्" भवति । तदा "तयोः" अर्थयोः "का अन्यता" भवति । अतोऽत्र केवलसद्दृश्याच् छरीरादेर् एव कार्यं भवत्व् इति भावः । नन्व् अत्र बुद्धिपृथक्त्वोपयोगो नास्ति । कल्पनाया एव प्रमाणत्वाद् इत्य् । अत्राह । "कल्पने"ति । "कल्पना" प्रथमं "प्रमाणं" नास्ति "चेद्" । "वा"स्ति । तदा "पौरुषं किं न कल्प्यते" । कल्पनया संभाव्यते समानन्यायत्वात् ॥ (मोटी_२,८.११ ॥

पुनर् अपि प्रकृतं मूर्तामूर्तयोः सहकर्तृत्वासंभवम् एव कथयति

नामूर्तेन च सङ्गोऽस्ति नभसेव वपुष्मतः ।
मूर्तं च दृश्यते लग्नं तस्माद् दैवं न विद्यते ॥ (मो_२,८.१२ ॥

"वपुष्मतः" मूर्तस्य शरीरिणः । "अमूर्तेन" मूर्तिरहितेन दैवेन । "सङ्गः" सहकर्तृत्वं "नास्ति" । केन्"एव" । "नभसा इव" । ननु तथापि अमूर्तम् एव कर्तृ भवत्व् इत्य् । अत्राह । "मूर्तं चे"ति । अस्माभिः "मूर्तम्" एव "लग्नं" कार्यलग्नं "दृश्यते" । अतः तस्यैव कर्तृत्वं युक्तम् इति भावः । फलितं कथयति । "तस्माद्" इति । "तस्मात्" ततो हेतोः । "दैवं न विद्यते" । तत्कल्पनायाः निरस्तत्वात् ॥ (मोटी_२,८.१२ ॥

विनियोक्ताथ भूतानाम् अस्त्य् अन्यत् तज्जगत्त्रये ।
शेरतां भूतवृन्दानि दैवं सर्वं करिष्यति ॥ (मो_२,८.१३ ॥

"विनियोक्ता" प्रेरकः । "अन्यद्" दैवाख्यं अन्यत् वस्तु । "शेरताम्" कार्येष्व् अनुद्योगं भजन्ताम् ॥ (मोटी_२,८.१३ ॥

दैवेनेत्थं नियुक्तोऽस्मि किं करोमीदृशं स्थितम् ।
समाश्वासनवाग् एषा न दैवं परमार्थतः ॥ (मो_२,८.१४ ॥

"ईदृशम् स्थितम्" ईदृशम् संपन्नम् ॥ (मोटी_२,८.१४ ॥

मूढैः प्रकल्पितं दैवं तत्परास् ते क्षयं गताः ।
प्राज्ञास् तु पुरुषार्थेन पदम् उत्तमम् आगताः ॥ (मो_२,८.१५ ॥

"तत्पराः" स्वयंकल्पितदैवपराः । "ते" मूढाः । "पुरुषार्थेन" पौरुषेण । "उत्तमं पदम्" मोक्षाख्यम् उत्कृष्टं स्थानम् ॥ (मोटी_२,८.१५ ॥

ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः ।
तैस् तैः कैर् इव लोकेऽस्मिन् वद दैवं प्रचक्ष्यते ॥ (मो_२,८.१६ ॥

"प्रचक्ष्यते" कथ्यते । न केनापि प्रचक्ष्यते इति भावः ॥ (मोटी_२,८.&ल्त्॑१६ ॥

कालविद्भिर् विनिर्णीता यस्यास्ति चिरजीविता ।
स चेज् जीवति संछिन्नशिरास् तद् दैवम् उत्तमम् ॥ (मो_२,८.१७ ॥

"कालविद्भिः" दैवज्ञैः ॥ (मोटी_२,८.१७ ॥

कालविद्भिर् विनिर्णीतं पाण्डित्यं यस्य राघव ।
नध्यापित एवासौ तज्ज्ञश् चेद् दैवम् उत्तमम् ॥ (मो_२,८.१८ ॥

"तज्ज्ञः" पण्डितः ॥ (मोटी_२,८.१८ ॥

विश्वामित्रेण मुनिना दैवम् उत्सृज्य दूरतः ।
पौरुषेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा ॥ (मो_२,८.१९ ॥

स्पष्टम् ॥ (मोटी_२,८.१९ ॥

मीभिर् न परै राम पुरुषैर् मुनितां गतैः ।
पौरुषेणैव संप्राप्ता चिरं गगनगमिता ॥ (मो_२,८.२० ॥

"अमीभिः" पौरुषयुक्तैर् एभिर् एव । "परैः" पौरुषरहितैः सामान्यजन्तुभिः । "गगनगमिता" परमाकाशचारित्वम् ॥ (मोटी_२,८.२० ॥

उत्साद्य देवसंघातांश् चक्रुस् त्रिभुवनोदरे ।
पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ॥ (मो_२,८.२१ ॥

"उत्साद्य" बाधित्वा । "देवसंघातान्" देवसमूहान् । "दानवेश्वराः" हिरण्याक्ष्यादयः ॥ (मोटी_२,८.२१ ॥

आलूनशीर्णम् आभोगि जगद् आजह्रुर् ओजसा ।
पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः ॥ (मो_२,८.२२ ॥

"आलूनशीर्णम्" अतिचञ्चलम् ॥ (मोटी_२,८.२२ ॥

राम पौरुषयुक्त्यैव सलिलं धार्यते न वा ।
चिरं करण्डके युक्त्या न दैवं तत्र कारणम् ॥ (मो_२,८.२३ ॥

"करण्डके" रन्ध्रयुक्ते काण्डसाधिते द्रव्यविशेषे । केनचित् प्रयोगेन हि करण्डेऽपि जलं तिष्ठति ॥ (मोटी_२,८.२३ ॥

हरणादानसंरम्भविभ्रमभ्रमभूमिषु ।
शक्तता दृश्यते राम न दैवस्यौषधेर् इव ॥ (मो_२,८.२४ ॥

"हरणे"त्याद्य् उपलक्षणं सर्वक्रियाणाम् ॥ (मोटी_२,८.२४ ॥

सर्गान्तश्लोकेनैतत् समापयति

सकलकारणकार्यविवर्जितं
निजविकल्पवशाद् उपकल्पितम् ।
त्वम् अनवेक्ष्य हि दैवम् असन्मयं
श्रय शुभाशय पौरुषम् उत्तमम् ॥ (मो_२,८.२५ ॥

गतार्थोऽयम् । इति शिवम् ॥ (मोटी_२,८.२५ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणेऽष्टमः सर्गः ॥ २,८ ॥




ओं अत्र श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ प्रतिष्ठाम् अलम् आगतम् ।
यल् लोके तद् वद ब्रह्मन् दैवम् एवं किम् उच्यते ॥ (मो_२,९.१ ॥

हे "भगवन्" । "ब्रह्मन्" वसिष्ठ । कथंभूत । "सर्वधर्मज्ञ" । त्वम् "वद" । "यत् दैवम् लोके एवम् प्रतिष्ठाम्" प्रसिद्धिम् । "आगतं" । "तत्" पण्डितैः "किं"रूपं कथ्यते । न हि असिद्धं वस्तु प्रसिद्धिम् आयाति इति भावः ॥ (मोटी_२,९.१ ॥

श्रीवसिष्ठः उत्तरं कथयति

पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।
फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥ (मो_२,९.२ ॥

हे "राघव" । "पौरुषं सर्वकार्याणां कर्तृ" भवति । "इतरत्" अन्यत् दैवादि । कर्तृ "न" भवति । न केवलं कर्त्र् एव । किं तु "फलभोक्तृ च" भवति । स्वाविष्टपुरुषद्वारेणेति भावः । "दैवं तत्र कारणं न" भवति । अतो दैवं नास्तीति भावः ॥ (मोटी_२,९.२ ॥

दैवं न किंचित् कुरुते न च भुङ्क्ते न विद्यते ।
न दृश्यते नाद्रियते केवलं कल्पनेदृशी ॥ (मो_२,९.३ ॥

"ईदृशी" दैवम् एव सर्वं करोतीत्य् एवंरूपा । न च कल्पनायाः सत्यत्वम् इति भावः ॥ (मोटी_२,९.३ ॥

सिद्धस्य पौरुषेणेह फलस्य फलशालिनाम् ।
शुभाशुभा वा संपत्तिर् दैवशब्देन कथ्यते ॥ (मो_२,९.४ ॥

पण्डितैः "फलशालिनां" फलभाजां । "पौरुषेण" शुभाशुभेन पौरुषेण । "सिद्धस्य फलस्य शुभा अशुभा वा संपत्तिः दैवशब्देन कथ्यते" । "अज्ञव्यवहारार्थम्" इति शेषः ॥ (मोटी_२,९.४ ॥

पौरुषोपरता नित्यम् इष्टानिष्टस्य वस्तुनः ।
प्राप्तिर् इष्टाप्य् अनिष्टा वा दैवशब्देन कथ्यते ॥ (मो_२,९.५ ॥

पण्डितैः "पौरुषे उपरता" निष्ठां गता । "इष्टानिष्टस्य वस्तुनः इष्टा अनिष्टा वा प्राप्तिः दैवशब्देन कथ्यते" । "अपि"शब्दः पादपूरणार्थः ॥ (मोटी_२,९.५ ॥

भावी त्व् अवश्यम् एवार्थः पुरुषार्थैकसाधनः ।
यः सोऽस्मिंल् लोकसंघाते दैवशब्देन कथ्यते ॥ (मो_२,९.६ ॥

"भावी" भवनशीलः । "पुरुषार्थः" पौरुषम् "एकं साधनं" यस्य । तादृशः । "लोकसंघाते" लोकसमूहे ॥ (मोटी_२,९.६ ॥

न तु राघव लोकस्य कस्यचित् किंचिद् एव हि ।
दैवम् आकाशकल्पं हि करोति न करोति वा ॥ (मो_२,९.७ ॥

"हि" यस्मादर्थे । "आकाशकल्पम्" आकाशवद् अत्यन्ततुच्छम् । न हि वन्ध्यासुतः "कस्यचित् किंचित्" "करोति न करोति वे"ति भावः । द्वितीयो "हि"शब्दः निश्चये ॥ (मोटी_२,९.७ ॥

पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये
इदम् इत्थं स्थितम् इति योक्तिस् तद् दैवम् उच्यते ॥ (मोटी_२,९.८ ॥


"उक्तेः" स्वरूपं कथयति । "इदम् इत्थं स्थितम्" " इती"ति । "सिद्धम्" संपन्नम् ॥ (मोटी_२,९.८ ॥

इत्थं ममाभवद् बुद्धिर् इत्थं मे निश्चयो ह्य् अभूत् ।
इति कर्मफलावाप्तौ योक्तिस् तद् दैवम् उच्यते ॥ (मो_२,९.९ ॥

"इत्थं" कर्मफलसाधनरूपा । "कर्मफलस्यावाप्तौ" प्राप्तौ । "उक्ति"मात्रम् एव "दैवम्" इति भावः ॥ (मोटी_२,९.९ ॥

इष्टानिष्टफलप्राप्ताव् एवम् इत्यर्थवाचकम् ।
आश्वासनामात्रवचो दैवम् इत्य् एव कथ्यते ॥ (मो_२,९.१० ॥

"आश्वासनामात्रवचः" कथंभूतं । "एवम्" । "इति" यः "अर्थः" । तस्य "वाचकम्" नियमवाचकम् इत्य् अर्थः ॥ (मोटी_२,९.१० ॥

श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ प्राग् यत् कर्मोपसंचितम् । । तद् एतद् दैवम् इत्य् उक्तम् अपमृष्टं कथं त्वया ॥ (मो_२,९.११ ॥

"प्राक्" पित्रन्तर्गतबीजतावस्थायाम् । "अपमृष्टम्" नाशितम् ॥ (मोटी_२,९.११ ॥

श्रीवसिष्ठः उत्तरं कथयति

साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् ।
दैवं नास्तीति ते येन स्थिरा बुद्धिर् भविष्यति ॥ (मो_२,९.१२ ॥

स्पष्टम् ॥ (मोटी_२,९.१२ ॥

तद् एव कथयति

या मग्ना वासना पूर्वं बभूव किल भूरिशः ।
सैवेयं कर्मभावेन नॄणां परिणतिं गता ॥ (मो_२,९.१३ ॥

"पूर्वम्" पित्रन्तर्गतबीजतावस्थायाम् । "भूरिशः" भूरिप्रकारेण । वर्तमाना "या वासना" शुभाशुभा वा भावना । "मग्ना" । "बीजे" इति शेषः भवति । "सा एवेयं नॄणां कर्मभावेन" कर्मरूपेण । "परिणतिं" रूपान्तरं । "गता" । तदनुरूपम् एव सर्वे कर्म कुर्वन्तीति भावः ॥ (मोटी_२,९.१३ ॥

जन्तुर् यद्वासनो नाम तत्कर्मा भवति क्षणात् ।
न्यकर्मान्यभावश् चेत्य् एतन् नैवोपपद्यते ॥ (मो_२,९.१४ ॥

"अन्यभावः" अन्यवासना ॥ (मोटी_२,९.१४ ॥

ग्रामगो ग्रामम् आप्नोति पत्तनार्थी च पत्तनम् ।
यो यो यद्वासनस् तत् तत् स स प्रयतते तथा ॥ (मो_२,९.१५ ॥

"ग्रामगस्य च " ग्रामगमनवासना स्फुटा एवान्यथा न यायात् ॥ (मोटी_२,९.१५ ॥

यद् एव तीव्रसंवेगाद् इह कर्म कृतं पुरा ।
तद् एव दैवशब्देन पर्यायेण हि कथ्यते ॥ (मो_२,९.१६ ॥

"इह" इहलोकपरलोकतया द्विरूपे संसारे । "पुरा" पित्रन्तर्गतबीजतावस्थायाम् । "कर्म"करणं चात्र पितृद्वारेणैव ज्ञेयम् ॥ (मोटी_२,९.१६ ॥

उपसंहारं करोति

एवं दैवं स्वकर्माणि कर्म प्रौढा स्ववासना ।
वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥ (मो_२,९.१७ ॥

"एवम्" अनेन प्रकारेण । "स्वकर्माणि" प्राक् कृतानि निजकर्माणि । "दैवं" भवति । "प्रौढा वासना कर्म" भवति । तदनुसारेणैव तस्य प्रकृतत्वात् । "वासना मनसः अन्या न" भवति । "हि" निश्चये । "मनः पुरुषः" भवति । अतः दैवस्य पुरुषाद् व्यतिरिक्ता सत्ता नास्तीति भावः ॥ (मोटी_२,९.१७ ॥

पुनर् अप्य् एतद् एव कथयति

यद् दैवं तानि कर्माणि कर्म साधो मनो हि तत् ।
मनो हि पुरुषस् तस्माद् दैवं नास्तीति निश्चयः ॥ (मो_२,९.१८ ॥

"कर्मे"त्य् अत्र यच्छब्दाध्याहारः । "यत्" "कर्म" । "तत् मनो" भवति ॥ (मोटी_२,९.१८ ॥

एकम् एव मनो जन्तोर् यथा प्रयतते हि यत् ।
नूनं तत् तद् अवाप्नोति स्वत एव न दैवतः ॥ (मो_२,९.१९ ॥

स्पष्टम् ॥ (मोटी_२,९.१९ ॥

मनश् चित्तं वासना च कर्म दैवं स्वनिश्चयः ।
राम पुंनिश्चयस्यैताः संज्ञाः सद्भिर् उदाहृताः ॥ (मो_२,९.२० ॥

"पुंनिश्चयस्य" पुंरूपस्य निश्चयस्य । पुरुषस्येति यावत् ॥ (मोटी_२,९.२० ॥

एवंनामा हि पुरुषो दृढभावनया यथा ।
नित्यं प्रयतते राम फलम् आप्नोत्य् अलं तथा ॥ (मो_२,९.२१ ॥

"एवंनामा" मन इत्यादिनामयुक्तः ॥ (मोटी_२,९.२१ ॥

उपसंहारं करोति

एवं पुरुषकारेण सर्वम् एव रघूद्वह ।
प्राप्यते नेतरेणेह तस्मात् स शुभदोऽस्तु ते ॥ (मो_२,९.२२ ॥

"सः" पुरुषकारः । "शुभदो" जीवन्मुक्ताख्यशुभफलप्रदः । "ते" इत्य् उपलक्षणम् । तेन सर्वेषां शुभफलप्रदः भवतु इत्य् अर्थः ॥ (मोटी_२,९.२२ ॥

श्रीरामः पृच्छति

प्राक्तनं वासनाजालं नियोजयति मां यथा ।
मुने तथैव तिष्ठामि कृपणः किं करोम्य् अहम् ॥ (मो_२,९.२३ ॥

अतः पौरुषं किंचिद् अपि नास्तीति भावः ॥ (मोटी_२,९.२३ ॥

श्रीवसिष्ठः उत्तरं कथयति

त एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् ।
स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥ (मो_२,९.२४ ॥

"हि" निश्चये । "अत एव" पूर्वोक्तात् कारणाद् एव । "पौरुषेण" कथंभूतेन । "स्वप्रयत्नोपनीतेन" । राहोः शिर इतिवद् अयं प्रयोगः ॥ (मोटी_२,९.२४ ॥

द्विविधो वासनाव्यूहः शुभश् चैवाशुभश् च ते ।
प्राक्तनो विद्यते राम द्वयोर् एकतरोऽथ वा ॥ (मो_२,९.२५ ॥

"वासनाव्यूहः" वासनासमूहः । "अथ वा" पक्षान्तरे । "द्वयोः" मध्ये । "एकतरः" शुभः अशुभो वा अस्ति ॥ (मोटी_२,९.२५ ॥

वासनौघेन शुद्धेन तत्र चेद् अद्य नीयसे ।
तत् क्रमेण शुभेनैव पदं प्राप्नोषि शाश्वतम् ॥ (मो_२,९.२६ ॥

"नीयसे" स्वानुसारेण कर्म कार्यसे । "पदम्" मोक्षाख्यं स्थानं ॥ (मोटी_२,९.२६ ॥

थ चेद् अशुभो भावस् त्वां योजयति सङ्कटे ।
प्राक्तनस् तद् असौ यत्नाज् जेतव्यो भवता बलात् ॥ (मो_२,९.२७ ॥

"अशुभो भावः" अशुभा वासना । "बलात्" हठात् ॥ (मोटी_२,९.२७ ॥

नन्व् अन्यः चेतनारूपः कश्चिन् मां प्रेरयति । तत् कथम् अहं स्वयं किंचित् कर्तुं शक्नोमीत्य् । अत्राह

प्राज्ञ चेतनामात्रस् त्वं न देहस् त्वं जडात्मकः ।
तद् एव चेतस्य् अन्येन चेत् तत् त्वं क्वेव विद्यसे ॥ (मो_२,९.२८ ॥

हे "प्राज्ञ" । अस्मिञ् श्लोके वक्ष्यमाणे उपदेशे योग्यत्वम् । "चेतनामात्रः" असि "त्वम्" । "जडः देहः ना"सि । "तद् एव" चेतनामात्रम् एव सन् । "त्वम् अन्येन" हेतुकर्तृभूतेन कृत्वा । "चेत्" यदि । "चेतसि" चितिक्रियां प्रति कर्तृत्वं भजसि । "तत्" तदा । "त्वम्" न "विद्यसे" नासि । तस्यैव सत्त्वात् । न हि द्वयोः सत्ता युक्ता व्यर्थत्वात् ॥ (मोटी_२,९.२८ ॥

पुनर् अपि पूर्वश्लोकोत्तरार्धनिश्चितम् अर्थम् एव कथयति

न्यस् त्वां चेतयति चेत् तत् त्वय्य् असति कोऽपरः ।
कम् इमं चेतयेत् तस्माद् अनवस्था न वास्तवी ॥ (मो_२,९.२९ ॥

"अन्यः त्वाम् चेत् चेतयति" चितिक्रियाकर्तृत्वम् प्रेरयति । "तत्" तदा । "त्वयि असति" पूर्वोक्तयुक्त्या सत्ताम् अभजति सति । स इति "कम् इमम्" किंरूपम् । इदन्तास्पन्दं त्वां । "चेतयेत्" चितिक्रियाकर्तृत्वं प्रति प्रेरयेत् । न ह्य् असतः प्रेरणं युक्तम् इति भावः । अतः अन्यः कश्चित् प्रेर्यः कल्पनीयः । सोऽपि त्वत्समानयोगक्षेम एवेति कुत्रापि प्रेर्यतया विश्रान्तिर् न स्याद् । अतः त्वम् एव प्रेर्यप्रेरकभावेन स्थितोऽसीत्य् अभिप्रायेणोपसंहारं करोति । "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अनवस्था" प्रेर्यानवस्थितिः । "वास्तवी" परमार्थभूता । "न" भवति । तवैव प्रेर्यप्रेरकत्वाभ्यां स्थितत्वात् । अतो न कश्चित् तवान्यः प्रेरकः अस्तीति भावः ॥ (मोटी_२,९.२९ ॥

प्रकृतम् अनुसरति

शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ (मो_२,९.३० ॥

"योजनीया" प्रवर्तनीया । भोगत्यागपरामर्शाख्यं शुभानुसन्धानम् एव सततं कार्यम् इति भावः ॥ (मोटी_२,९.३० ॥

शुभेषु समाविष्टं शुभेष्व् एवावतारयेत् ।
स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥ (मो_२,९.३१ ॥

"समाविष्टम्" संलीनम् । "अवतारयेत्" नयेत् ॥ (मोटी_२,९.३१ ॥

शुभाच् चलितं याति शुभं तस्माद् अपीतरत् ।
जन्तोश् चित्तं तु पशुवत् तस्मात् तत् पालयेद् बलात् ॥ (मो_२,९.३२ ॥

"अशुभात्" भोगार्जनपरामर्शरूपात् अशुभानुसन्धानात् । "तस्माद् अपि" शुभाद् अपि । "पालयेद्" अशुभात् रक्षेत् ॥ (मोटी_२,९.३२ ॥

समतासान्त्वनेनाशु न द्राग् इति शनैः शनैः ।
पौरुषेण प्रयत्नेन पालयेच् चित्तबालकम् ॥ (मो_२,९.३३ ॥

"समता" सर्वम् इदं ब्रह्मेत्य् एवंरूपा बुद्धिः । तया यत् "सान्त्वनम्" समाश्वासनं तेन । "न द्राग् इति" न झटिति । एतस्यार्थं स्वकण्ठेन कथयति । "शनैः शनैर्" इति सम्यग्विचारेण । न तु प्राणरोधनादिरूपेण हठेनेत्य् अर्थः ॥ (मोटी_२,९.३३ ॥

वासनौघस् त्वया पूर्वम् अभ्यासेन घनीकृतः ।
शुभो वाप्य् अशुभो राम शुभम् अद्य घनीकुरु ॥ (मो_२,९.३४ ॥

"अद्य" । "मदुपदेशेने"ति शेषः ॥ (मोटी_२,९.३४ ॥

प्रागभ्यासवशाद् याता यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वम् अरिमर्दन ॥ (मो_२,९.३५ ॥

"अभ्यासस्य" समस्तस्याभ्यासस्य ॥ (मोटी_२,९.३५ ॥

इदानीम् अपि ते याति घनतां वासनानघ ।
भ्यासवशतस् तस्माच् छुभाभ्यासम् उपाहर ॥ (मो_२,९.३६ ॥

"इदानीम्" अस्मिन् जन्मनि । "उपाहर" आनय ॥ (मोटी_२,९.३६ ॥

पूर्वं चेद् घनतां याता नाभ्यासात् तव वासना ।
वर्धिष्यते तु नेदानीम् अपि तात सुखी भव ॥ (मो_२,९.३७ ॥

वासनाराहित्यमात्रस्यैव परमे पदे यतत्वात् इति भावः ॥ (मोटी_२,९.३७ ॥

संदिग्धायाम् अपि भृशं शुभम् एव समाहर ।
स्यां तु वासनावृद्धौ शुभाद् दोषो न कश्चन ॥ (मो_२,९.३८ ॥

"अस्यां वासनावृद्धौ संदिग्धायाम्" किम् अभ्यासाद् वर्धते न वेति सन्देहविषयायाम् "अपि" सत्यां । त्वं "भृशं शुभम् एव समाहर" अभ्यासविषयीकुरु । यतः "शुभात् कश्चन दोषो न" भवति ॥ (मोटी_२,९.३८ ॥

सन्देहस्यायुक्ततां कथयति

यद् यद् अभ्यस्यते लोके तन्मयेनैव भूयते ।
इत्य् आकुमारं प्रज्ञेषु दृष्टं सन्देहवर्जितम् ॥ (मो_२,९.३९ ॥

"लोके" संसारे । "पुरुषेणे"ति शेषः ॥ (मोटी_२,९.३९ ॥

शुभवासनया युक्तस् तद् अत्र भव भूतये ।
परं पौरुषम् आश्रित्य विजित्येन्द्रियपञ्चकम् ॥ (मो_२,९.४० ॥

"भूतये" जीवन्मुक्ताख्यसंपत्प्राप्तये ॥ (मोटी_२,९.४० ॥

व्युत्पन्नमना यावद् भवान् अज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस् तु निर्णीतं तावद् आचर ॥ (मो_२,९.४१ ॥

"अव्युत्पन्नमनाः" ज्ञानरहितः । अत एव्"आज्ञाततत्पदः" अज्ञातब्रह्माख्योत्कृष्टस्थानः । "निर्णीतम्" तत्पदनिर्णयम् । भावे क्तप्रयोगे "निर्णीतम्" इति सिद्धम् ॥ (मोटी_२,९.४१ ॥

ततः कषायपाकेन नूनं विज्ञातवस्तुना ।
शुभोऽप्य् असौ त्वया त्याज्यो भावनौघो निराधिना ॥ (मो_२,९.४२ ॥

"कषायपाकेन" लक्षणया परकोटिप्राप्त्या । "भावनौघः" निर्णयरूपः वासनासमूहः । "निराधिना" शुभवासनाख्यचित्तपीडारहितेन ॥ (मोटी_२,९.४२ ॥

सर्गान्तश्लोकेन श्रीरामस्यावस्थानम् अनुष्ठेयत्वेनोपदिशति

यद् अतिसुभगम् आर्यसेवितं तच्
छुभम् अनुसृत्य मनोज्ञभावबुद्ध्या ।
धिगमय पदं सदाविशोकं
तद् अनु तद् अप्य् अवमुच्य साधु तिष्ठ ॥ (मो_२,९.४३ ॥

त्वं । "यत् अतिसुभगम्" अत एव्"आर्यसेवितम्" भवति । "तच् छुभं" पौरुषम् । "मनोज्ञभावा" शुभवासना या मतिः । तया करणभूतया । "अनुसृत्य" सततानुष्ठानविषयतां नीत्वा । "अविशोकं" दुःखरहितं । "पदं" जीवन्मुक्तिरूपं स्थानं । "अधिगमय" प्राप्नुहि । आर्षः स्वार्थे णिच् । "तद् अनु" कालान्तरे । "तद् अपि" जीवन्मुक्तिपदम् अपि "अवमुच्य" । "साधु" सम्यक् । "तिष्ठ" विदेहमुक्तौ स्थिरीभवेत्य् अर्थः । इति शिवम् ॥ (मोटी_२,९.४३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे नवमः सर्गः ॥ २,९ ॥




ओं परमम् उपसंहारं करोति

तः पौरुषम् आश्रित्य श्रेयसे नित्यबान्धवम् ।
एकाग्रं कुरु चित्तं त्वं शृणु चोक्तम् इदं मम ॥ (मो_२,१०.१ ॥

"उक्तम्" उपदेशम् ॥ (मोटी_२,१०.१ ॥

वान्तराभिपातीनि स्वारूढानि मनोरथम् ।
पौरुषेणेन्द्रियाण्य् आशु संयम्य समतां नय ॥ (मो_२,१०.२ ॥

"अवान्तरेषु" भोगरूपेषु मध्यमेषु विश्रान्तिस्थानेषु । न तु परमात्मरूपे परमे विश्रान्तिस्थाने । "अभिपातीनि" पतनशीलानि । "मनोरथं" चित्तानुसन्धानम् । "स्वारूढानि" सुष्ठु आरूढानि । "इन्द्रियाणि संयम्य" प्रत्याहृत्य । "समतां" रागद्वेषरहितत्वम् "नय" । अन्यथा न श्रोष्यसीति भावः ॥ (मोटी_२,१०.२ ॥

इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् ।
मोक्षोपायमयीं वक्ष्ये संहितां सारसम्मिताम् ॥ (मो_२,१०.३ ॥

"मोक्षोपायमयीं" मोक्षस्य यः उपायः तन्मयीम् तद्वाचकाम् इत्य् अर्थः । "संहिताम्" शास्त्रम् । "सारसम्मिताम्" सारतुल्याम् ॥ (मोटी_२,१०.३ ॥

पुनर्ग्रहणायान्तस् त्यक्त्वा संसारवासनाम् ।
संपूर्णौ शमसन्तोषाव् आदायोदारया धिया ॥ (मो_२,१०.४ ॥
सपूर्वापरवाक्यार्थविचारविषयादृतम् ।
मनः समरसं कृत्वा सानुसन्धानम् आत्मनि ॥ (मो_२,१०.५ ॥
सुखदुःखक्षयकरं महानन्दैकसाधनम् ।
मोक्षोपायम् इमं राम वक्ष्यमाणं मया शृणु ॥ (मो_२,१०.६ ॥

हे "राम" । त्वं "मया वक्ष्यमाणं मोक्षोपायं शृणु" । किं कृत्वा । "अपुनर्ग्रहणाये"त्यादि । सुषुप्तौ त्यक्ताम् अपि वासनां पुरुषः पुनः गृह्णातीति "अपुनर्ग्रहणाये"त्य् उक्तम् । "अन्तः" मनसि । अन्यथा न श्रोतुं शक्नोषीति भावः । "आदाय" गृहीत्वा । "मनः" कथंभूतं । "आत्मनि समरसम्" एकरसम् । न तु विषयेषु विक्षिप्तं । तथा "सपूर्वापरः" संपूर्णः यः "वाक्यार्थविचारः" । स एव "विषयः" संचारस्थानम् । तत्र्"आदृतम्" ॥ (मोटी_२,१०.४-६ ॥

इमां मोक्षकथां श्रुत्वा सह सर्वैर् विवेकिभिः ।
पदं यास्यसि निर्दुःखं नाशो यत्र न विद्यते ॥ (मो_२,१०.७ ॥

"पदम्" विश्रान्तिस्थानम् ॥ (मोटी_२,१०.७ ॥

एवं श्रीरामस्य पौरुषम् आश्रयणीयत्वेनोपदिश्य विश्वामित्रप्रेरणया स्मृतं ब्रह्मोक्तम् उपदेशं कथयितुं प्रस्तावं करोति

इदम् उक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना ।
सर्वदुःखक्षयकरं परमाश्वासनं धियः ॥ (मो_२,१०.८ ॥

"इदं" वक्ष्यमाणं । "धियः" बुद्धेः । "परमाश्वासनम्" उत्कृष्टं आश्वासनकारि ॥ (मोटी_२,१०.८ ॥

श्रीरामः पृच्छति

केनोक्तं कारणेनेदं ब्रह्मन् पूर्वं स्वयंभुवा ।
कथं च भवता प्राप्तम् एतत् कथय मे प्रभो ॥ (मो_२,१०.९ ॥

"इदं" वक्ष्यमाणं ज्ञानम् ॥ (मोटी_२,१०.९ ॥

श्रीवसिष्ठः उत्तरं कथयति

स्त्य् अनन्तविलासात्मा सर्वगः सर्वसंश्रयः ।
चिदाकाशोऽविनाशात्मा प्रदीपः सर्ववस्तुषु ॥ (मो_२,१०.१० ॥

"चिदाकाशः" चिद् इति नामधेयः आकाशः "चिदाकाशः" । सः "अस्ति" परमार्थसन् भवति । कथंभूतः । "अनन्ताः" अपरिच्छिन्नाः । ये "विलासाः" सर्गावभासनसंकोचनरूपाः विलासाः ते । "आत्मा" स्वरूपं यस्य सः । तथा "सर्वगः" सर्वव्यापकत्वात् उपचारेण सर्वगन्ता । न हि मुख्यं सर्वगत्वम् अस्य संभवति निष्क्रियत्वेन गमिक्रियानाश्रयत्वात् । पुनः कथंभूतः । "सर्वेषाम्" समस्तानां भावाभावस्वरूपाणां पदार्थानां । "संश्रयः" स्फूर्तिप्रदत्वेन सत्ताप्रदत्वेन चाश्रयः । पुनः कथंभूतः । "अविनाशात्मा" विनाशस्यापि साक्षितया सत्ताप्रदत्वेन च तेन रहितः आत्मा यस्य सः । न हि स्वस्फूर्तिप्रदस्य स्वसत्तापादकस्य च कश्चित् आवरणं कर्तुं शक्तः तदावृतौ स्वस्याप्य् असिद्धत्वात् । पुनः कथंभूतः । "सर्ववस्तुषु प्रदीपः" प्रकाशकत्वात् । ननु कुत्रासाव् अस्तीति चेन् । न । सर्वत्र वर्तमानस्य कुत्रेति वक्तुम् अशक्यत्वात् । ननु तथापि कथं नासौ सर्वत्र दृश्यते इति चेद् । असद् एतत् । द्रष्ट्रेकस्वरूपे तस्मिन् कथं न दृश्यत इत्य् अस्यापि वक्तुम् अशक्यत्वात् । तथापि कोऽसाव् इति चेत् । यः पृच्छति स एवेति ब्रूमः । ननु कः पृच्छति इति चेत् । अहन्तया अतिप्राकट्येन भासमानः सः स्वयम् एव स्वान्तः विचार्यताम् इत्य् अलं रहस्योद्घाटनेन ॥ (मोटी_२,१०.१० ॥

ततः किम् इत्य् । अत्राह

स्पन्दास्पन्दसमाकारात् ततो विष्णुर् अजायत ।
स्पन्दमानरसापूरात् तरङ्गः सागराद् इव ॥ (मो_२,१०.११ ॥

"स्पन्दास्पन्दयोः" सृष्ट्यावेशौदासीन्ययोः "समाकारात्" चित्त्वाख्यसमानाकारयुक्तात् । "ततः" तस्माच् चिदाकाशात् । "विष्णुः" भाविसृष्टिस्थितिकारी नारायणाख्यो देवताविशेषः । समष्टिरूपं शुद्धबुद्धितत्त्वं च्"आजायत" । संहारकारणस्य शुद्धाहङ्काररूपस्य रुद्रस्य कथनं सृष्टिमात्रकथनाकाङ्क्षया न कृतम् । विष्णुः क "इव" । "तरङ्ग इव" । यथा "स्पन्दमानरसापूरात् सागरात् तरङ्गः" जायते तथेत्य् अर्थः ॥ (मोटी_२,१०.११ ॥

सुमेरुकर्णिकात् तस्य दिग्दलाद् धृदयाम्बुजात् ।
तारकाकेसरवतः परमेष्ठी व्यजायत ॥ (मो_२,१०.१२ ॥

"तस्य" नारायणस्य शुद्धबुद्धितत्त्वस्य च । "सुमेरुकर्णिकात्" तथा "तारकाकेसरात् हृदयाम्बुजात्" हृत्कमलात् तदन्तर्गतात् ब्रह्माण्डात् इति यावत् । भाविसर्वजगदाधारत्वयोग्यात् स्वरूपलेशाच् च । "परमेष्ठी" भाविसृष्ट्युत्पत्तिकारी ब्रह्माख्यो देवताविशेषः । समष्टिरूपं शुद्धमनस्तत्त्वं च "व्यजायत" ॥ (मोटी_२,१०.१२ ॥

वेदवेदार्थदेवेशमुनिमण्डलमालितम् ।
सोऽसृजत् सकलं सर्गं विकल्पौघं यथा मनः ॥ (मो_२,१०.१३ ॥

"सकलं" जगत् बाह्यत्वेन भासमानं समस्तं जगत् । समष्टिभूतशुद्धमनस्तत्त्वरूपात् । परमेष्ठिन एव हि सर्वं जगद् उत्पन्नम् । अत्रोपमानत्वं व्यष्टिरूपस्य "मनसः" ज्ञेयम् । समष्टिरूपस्य मनसः उपमेयत्वात् ॥ (मोटी_२,१०.१३ ॥

जम्बुद्वीपस्य कोणेऽस्मिन् वर्षे भारतनामनि ।
स ससर्ज जनं पुत्रैर् आधिव्याधिपरिप्लुतम् ॥ (मो_२,१०.१४ ॥

"जनम्" मानवजनम् । "पुत्रैः" प्रजापतिभिः कृत्वा सामान्यजनैश् च ॥ (मोटी_२,१०.१४ ॥

जनं विशिनष्टि

भावाभावविषण्णाङ्गम् उत्पातध्वंसतत्परम् ।
सर्गेऽस्मिन् भूतजातीनाम् आप्यायनकरं परम् ॥ (मो_२,१०.१५ ॥

"भूतजातीनां" देवादीनाम् । "आप्यायनकरम्" हव्यकव्यादिद्वारेण तृप्तिकरम् ॥ (मोटी_२,१०.१५ ॥

जनस्य तस्य दुःखं सद् दृष्ट्वा सकललोककृत् ।
जगाम करुणाम् ईशः पुत्रदुःखाद् यथा पिता ॥ (मो_२,१०.१६ ॥

"तस्य जनस्य" मानवजनस्य । "ईशः" ब्रह्मा शुद्धमनस्तत्त्वं च । "करुणां" दयाम् । अत्र च शुद्धमनसः करुणा सृज्यमानस्मृतिकारचित्तावेशद्वारेण ज्ञेयेत्य् अलं रहस्योद्घाटनेन ॥ (मोटी_२,१०.१६ ॥

ननु ततः किम् अकरोद् इत्य् । अत्राह

क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् ।
स्याद् इति क्षणम् एकाग्रश् चिन्तयाम् आस भूतपः ॥ (मो_२,१०.१७ ॥

"हताशानां" नष्टानां । "हतायुषां" नश्वराणां । "अन्तः" अवसानं ॥ (मोटी_२,१०.१७ ॥

ब्रह्मणः चिन्ताम् उपसंहरति

इति संचिन्त्य भगवान् ससर्ज पुनर् ईश्वरः ।
तपो धर्मं च दानं च सत्यं तीर्थानि चैव ह ॥ (मो_२,१०.१८ ॥

"ससर्ज" स्वयं । कृतेषु स्मृतिशास्त्रेषु जनान् प्रति कर्तव्यत्वेन दृष्टवान् इत्य् अर्थः ॥ (मोटी_२,१०.१८ ॥

एतत् सृष्ट्वा पुनर् देवश् चिन्तयाम् आस भूतकृत् ।
पुंसां नानेन सर्वस्य दुःखस्यान्त इति स्वयम् ॥ (मो_२,१०.१९ ॥

स्पष्टम् ॥ (मोटी_२,१०.१९ ॥

पुनः केन पुंसां सर्वस्य दुःखस्यान्तः भविष्यतीत्य् आशङ्क्य चिन्तयति

निर्वाणं नाम परमं सुखं येन पुनर् जनः ।
न जायते न म्रियते तज् ज्ञानाद् एव लभ्यते ॥ (मो_२,१०.२० ॥

तन् निर्वाणं केन स्याद् इत्य् आशङ्क्य चिन्तयति । "तज् ज्ञानाद्" इति । "तत्" निर्वाणम् । "ज्ञानात् एव" परमात्मतत्त्वज्ञानात् एव । न तु तपःप्रभृतिभ्यः "लभ्यते" ॥ (मोटी_२,१०.२० ॥

"एव"कारप्रयोगयोग्यतां स्वयम् एव साधयति

संसारोत्तरणे जन्तोर् उपायो ज्ञानम् एव हि ।
तपो दानं तथा तीर्थम् अणूपायः प्रकीर्तितः ॥ (मो_२,१०.२१ ॥

"अणूपायः" अवान्तरोपायः ॥ (मोटी_२,१०.२१ ॥

तर्हि जनानां ज्ञानं कथं सेत्स्यतीत्य् आशङ्क्य चिन्तयति

तत् तावद् दुःखमोक्षार्थं जनस्यास्य महात्मनः ।
प्रत्यग्रं तरुणोपायम् आशु प्रकटयाम्य् अहम् ॥ (मो_२,१०.२२ ॥

इयं चिन्ता तु उत्पादयिष्यमाणज्ञानोपदेशकारचिन्तावेशद्वारेण ज्ञेया ॥ (मोटी_२,१०.२२ ॥

परमेष्ठिचिन्ताम् उपसंहरति

इति संचिन्त्य भगवान् ब्रह्मा कमलसंभवः ।
मनसा परिसंकल्प्य माम् उत्पादितवान् इमम् ॥ (मो_२,१०.२३ ॥

"माम्" प्रोक्तस्वचिन्तोद्भवस्थानभूतानाम् उपदेशकाराणां मध्ये मुख्यभूतं त्वादृशजनज्ञानोत्पादनसमर्थं मोक्षोपायाख्यशास्त्रोपदेशकं वसिष्ठाख्यं "माम्" । "मनसे"ति राहोः शिर इतिवत् प्रयोगः ॥ (मोटी_२,१०.२३ ॥

ननु केनोपादानकारणेन त्वम् उत्पन्न इत्य् । अत्राह

कुतोऽप्य् उत्पन्न एवाशु ततोऽहं समुपस्थितः ।
पितुस् तस्य पुरः शीघ्रम् ऊर्मिर् ऊर्मेर् इवानघ ॥ (मो_२,१०.२४ ॥

"कुतोऽपि" अनिर्वाच्यात् कस्माच्चिद् उपादानकारणात् । "उत्पन्नः अहम्" । "ततः तस्य पितुः पुरः शीघ्रम् उपस्थितः" प्राप्तः । क "इवो"त्पन्नः । "ऊर्मिर् ऊर्मेर् इव" परमार्थविचारे सर्वेषाम् उत्पत्तिर् अदृश्येवेति सामान्योत्पत्तिर् एवात्रोक्तेत्य् अलं रहस्योद्घाटनेन ॥ (मोटी_२,१०.२४ ॥
कीदृशः त्वम् उपस्थितः किं च कृतवान् इत्य् । अत्राह

कमण्डलुधरो नाथः सकमण्डलुना मया ।
साक्षमालः साक्षमालं स प्रणम्याभिवादितः ॥ (मो_२,१०.२५ ॥

"साक्षमालम्" इति पूर्वकालक्रियाविशेषणम् । एतेन स्वस्य ध्यानम् उक्तम् ॥ (मोटी_२,१०.२५ ॥

ततः तव तेन किम् उक्तं कृतं चेत्य् । अत्राह

एहि पुत्रेति माम् उक्त्वा स स्वाब्जस्योत्तरे दले ।
शुक्लेऽभ्र इव शीतांशुं योजयाम् आस पाणिना ॥ (मो_२,१०.२६ ॥

अत्र शुद्धमनःस्पर्शः मयि जातः इति भङ्ग्या उक्तम् ॥ (मोटी_२,१०.२६ ॥

मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् ।
माम् उवाच पिता ब्रह्मा स हंसः सारसं यथा ॥ (मो_२,१०.२७ ॥

"माम्" वसिष्ठाख्यं माम् । वचनं चात्रान्तरः परामर्शः ज्ञेयः ॥ (मोटी_२,१०.२७ ॥

किम् उवाचेत्य् । अत्राह

मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् ।
ज्ञानम् अभ्याविशतु शशः शशधरं यथा ॥ (मो_२,१०.२८ ॥

आन्तरभावेन स्थितशुद्धचित्तवशेनैव हि सर्वेषाम् अज्ञानित्वं ज्ञानित्वं च भवति । एतेन प्रथमं स्वस्य ज्ञानित्वं द्योतितम् ॥ (मोटी_२,१०.२८ ॥

ब्रह्मवचनम् उपसंहरति

इति तेनाशु शप्तः सन् विचारसमनन्तरम् ।
हं विस्मृतवान् सर्वं स्वरूपम् अमलं द्विजः ॥ (मो_२,१०.२९ ॥

"अहं द्विजः" वसिष्ठाख्यः ब्राह्मणः । स्वं "स्वरूपं" । "विस्मृतवान्" व्यस्मार्षम् इति सम्बन्धः ॥ (मोटी_२,१०.२९ ॥

थाहं दीनतां यातः स्थितोऽसंबुद्धया धिया ।
दुःखशोकाभिसंतप्तो जातो जन इवाधमः ॥ (मो_२,१०.३० ॥

"असंबुद्धया" निश्चयरहितया ॥ (मोटी_२,१०.३० ॥

कष्टं संसारनामायं दोषः कथम् इवागतः ।
इति चिन्तितवान् अन्तस् तूष्णीम् एव व्यवस्थितः ॥ (मो_२,१०.३१ ॥

अहम् "इति चिन्तितवान्" इति संबन्धः । एतेन अज्ञानित्वानन्तरम् स्वस्य वैराग्यप्रादुर्भावः सूचितः ॥ (मोटी_२,१०.३१ ॥

थाभ्यधात् स मां तातः पुत्र किं दुःखवान् असि ।
दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥ (मो_२,१०.३२ ॥

"अथाभ्यधात्" उक्तवान् । एतेन वैराग्यानन्तरम् मम ज्ञानं प्रति औन्मुख्यं जातम् इति सूचितम् ॥ (मोटी_२,१०.३२ ॥

ननु ततस् त्वया किं कृतम् इत्य् । अत्राह

ततः पृष्टः स भगवान् मया सकललोककृत् ।
हेमपद्मदलस्थेन संसारव्याधिभेषजम् ॥ (मो_२,१०.३३ ॥

एतेन "मया" स्वयम् एव विमर्षः कृत इति सूचितम् ॥ (मोटी_२,१०.३३ ॥

ननु त्वयासौ किं पृष्टस् तेन च किम् उक्तं इत्य् । अत्राह

कथं नाथ महद् दुःखम् अयं संसार आगतः ।
कथं च क्षीयते जन्तोर् इति पृष्टेन तेन मे ॥ (मो_२,१०.३४ ॥
तज् ज्ञानं सुबहु प्रोक्तं यज् ज्ञात्वा पावनं परम् ।
हं पितुर् अपि प्रायः किलाधिक इव स्थितः ॥ (मो_२,१०.३५ ॥

"पितुः" आधिक्यम् शुद्धमनस्तत्त्वातिलङ्घनेन प्राप्ता चिन्मात्रता ज्ञेया । एतेन स्वस्य स्वतःसिद्धत्वम् उक्तम् । त्रिविधा हि सिद्धाः उत्तरोत्तरम् उत्कर्षवन्तः सन्ति । गुरुतः शास्त्रतः स्वत इति ॥ (मोटी_२,१०.३४-३५ ॥

ततो विदितवेद्यं मां निजप्रकृतिम् आस्थितम् ।
स उवाच जगत्कर्ता वक्ता सकलकारणम् ॥ (मो_२,१०.३६ ॥

मयि इदं स्फुरितम् इत्य् आन्तरोऽभिप्रायः ॥ (मोटी_२,१०.३६ ॥

किम् उवाचेत्य् । अत्राह

शापेनाज्ञपदं नीत्वा पृच्छकस् त्वं मया कृतः ।
पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ॥ (मो_२,१०.३७ ॥

मम मध्ये एवेदम् अज्ञत्वं प्रादुर्भूतम् आसीत् इति मम स्फुरितम् इति भावः ॥ (मोटी_२,१०.३७ ॥

पुनः किम् उवाचेत्य् । अत्राह

इदानीं शान्तशापस् त्वं परं बोधम् उपागतः ।
संस्थितोऽहम् इवैकात्मा कनकं कनकाद् इव ॥ (मो_२,१०.३८ ॥

"इदानीम् अहं" ज्ञानी जात इत्य् अपि मम स्फुरितम् इति भावः ॥ (मोटी_२,१०.३८ ॥

ततोऽपि पुनः किम् उवाचेत्य् । अत्राह

गच्छेदानीं महापीठे जम्बुद्वीपान्तरस्थितम् ।
साधो भारतवर्षं त्वं लोकानुग्रहहेतुना ॥ (मो_२,१०.३९ ॥

स्पष्टं ॥ (मोटी_२,१०.३९ ॥

तत्र क्रियाकाण्डपरास् त्वया पुत्र महाधियः ।
उपदेश्याः क्रियाकाण्डक्रमेण क्रमशालिनः ॥ (मो_२,१०.४० ॥

स्पष्टम् ॥ (मोटी_२,१०.४० ॥

विरक्तचित्ताश् च तथा महाप्राज्ञा विरागिणः ।
उपदेश्यास् त्वया साधो ज्ञानेनानन्ददायिना ॥ (मो_२,१०.४१ ॥

ततः अहं वैराग्यरहितानां कर्मकाण्डद्वारेणोपदेशं करोमि । विरक्तानां तु ज्ञानकाण्डद्वारेणेत्य् अपि स्फुरितम् । अन्यथा त्वदुपदेशेऽप्य् अहं न प्रवर्तेयम् इति भावः ॥ (मोटी_२,१०.४१ ॥

ब्रह्मवाक्यम् उपसंहरति

इति तेन नियुक्तोऽहं पित्रा कमलयोनिना ।
इह राघव तिष्ठामि यावद् भूतपरंपरा ॥ (मो_२,१०.४२ ॥

"यावद् भूतपरंपरे"त्य् उपदेष्टृभूतज्ञानिसामान्येनोक्तम् स्वस्य चिरजीवित्वेन वा । बाह्य अर्थस् तु स्फुटतया न प्रतिपदम् उक्तः ॥ (मोटी_२,१०.४२ ॥

सर्गान्तश्लोकेनैतत् समापयति

कर्तव्यम् अस्ति मम नेह हि किंचिद् एव
स्थातव्यम् इत्य् अभिमना भुवि संस्थितोऽस्मि ।
संशान्तया सततसुप्तधियेव वृत्त्या
कार्यं करोमि न च किंचिद् अहं करोमि ॥ (मो_२,१०.४३ ॥

"हि" निश्चये । "मम" समस्तज्ञानिसन्तानस्य वसिष्ठाख्यस्य च । "इह" लोके । "किंचित्" "एव कर्तव्यं नास्ति" परमात्मतत्त्वप्राप्त्या कृतकृत्यत्वात् । तथापि "अहम् भुवि" भूमौ । "संस्थितः अस्मि" । कथंभूतः । स्थातव्यम् मया इहावश्यं । नियत्यनुरोधेन "स्थातव्यम् इति" एवम् "अभिमनाः" अभिनिविष्टमनाः निश्चितमना इति यावत् । "अहं संशान्तया" लाभालाभानुसन्धानरूपक्षोभरहितया "वृत्त्या" वा । पारेण "कार्यम्" शरीरयात्रानिमित्तं कर्म । अकरणे प्रत्यवायनिमित्तं नित्यं कर्म च "करोमि" । "वृत्त्या" कया "इव" । "सततसुप्ता" या "धीः" । तया "इवा"त्यन्तशान्तयेत्य् अर्थः । तथापि "अहं किंचिद्" अपि "न च करोमि" नाहं कर्तेति निश्चयानुभावाद् इत्य् अर्थः । इति शिवम् ॥ (मोटी_२,१०.४३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे दशमः सर्गः ॥ २,१० ॥




पूर्वसर्गोक्तस्योपसंहारकाङ्क्षया परामर्शं करोति

एतत् ते कथितं सर्वं ज्ञानावतरणं भुवि ।
मया स्वम् ईहितं चैव कमलोद्भवकल्पितम् ॥ (मो_२,११.१ ॥

"स्वम् ईहितम्" निजचेष्टितम् । "कमलोद्भवेन" ब्रह्मणा शुद्धमनस्तत्त्वेन च । "कल्पितम्" आविर्भावितं इति । अनेन प्रकारेणैवेह ज्ञानम् इहावतीर्णम् इति भावः ॥ (मोटी_२,११.१ ॥

तद् इदं परमं ज्ञानं श्रोतुम् अद्य तवानघ ।
भृशम् उत्कण्ठितं चेतो महतः सुकृतोदयात् ॥ (मो_२,११.२ ॥

"तत्" ब्रह्मणा उक्तम् ॥ (मोटी_२,११.२ ॥

श्रीरामः पृच्छति

कथं ब्रह्मन् भगवतो लोके ज्ञानावतारणे ।
सर्गाद् अनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥ (मो_२,११.३ ॥

"कथं" किमर्थं इत्य् अर्थः ॥ (मोटी_२,११.३ ॥

श्रीवसिष्ठः उत्तरं कथयति

परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् ।
जातः स्पन्दमयो नित्यम् ऊर्मिर् अम्बुनिधाव् इव ॥ (मो_२,११.४ ॥

"परमे" उत्कृष्टचिन्मात्रस्वरूपे । "स्पन्दमयः" परिमिताहंपरामर्शमयः ॥ (मोटी_२,११.४ ॥

सृष्ट्वैवम् आततं सर्गं सर्गस्य सकला गतीः ।
भूतभव्यभविष्यत्स्था ददर्श परमेश्वरः ॥ (मो_२,११.५ ॥

"ददर्श" । "ज्ञाननेत्रेणे"ति शेषः ॥ (मोटी_२,११.५ ॥

सत्क्रियाक्रमकालस्य कृतादेः क्षय आगते ।
मोहम् आलोक्य लोकानां कारुण्यम् अगमत् प्रभुः ॥ (मो_२,११.६ ॥

"मोहम्" भविष्यन्तम् इत्य् अर्थः ॥ (मोटी_२,११.६ ॥

ततो माम् ईश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् ।
विससर्ज महीपीठे लोकस्याज्ञानशान्तये ॥ (मो_२,११.७ ॥

"माम्" वसिष्ठाख्यं "माम्" । "ज्ञानेन" परमात्मज्ञानेन । "आयोज्य" संयोज्य ॥ (मोटी_२,११.७ ॥

यथाहं प्रहितस् तेन तथान्येऽपि महर्षयः ।
सनत्कुमारप्रमुखा नारदाद्याश् च भूरिशः ॥ (मो_२,११.८ ॥

एतेन ये भूता भविष्यन्तश् चोपदेष्टारः सन्ति तत्रापीयम् एव रीतिर् अस्तीति सूचितम् ॥ (मोटी_२,११.८ ॥

क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।
मनोमहामयोत्तब्धम् उद्धर्तुं लोकम् ईरिताः ॥ (मो_२,११.९ ॥

"ईरिताः" विसर्जिताः । किं कर्तुम् । "लोकम्" अधिकारिभेदात् "क्रियाक्रमेण ज्ञानक्रमेण च उद्धर्तुम्" । "लोकं" कथंभूतम् । "मन" एव "महामयः" महारोगः । तेन्"ओत्तब्धम्" बद्धम् ॥ (मोटी_२,११.९ ॥

महर्षिभिस् ततस् तैस् तु क्षीणे कृतयुगे पुरा ।
क्रमात् क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते ॥ (मो_२,११.१० ॥
क्रियाक्रमविधानार्थं मर्यादानियमाय च । । पृथग्देशविभागेन भूपालाः परिकल्पिताः ॥ (मो_२,११.११ ॥

स्पष्टम् ॥ (मोटी_२,११.१०-११ ॥

बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।
धर्मकामार्थे सिद्ध्यर्थं कल्पितान्य् उदितान्य् अथ ॥ (मो_२,११.१२ ॥

परि"कल्पितानि" कृतानि । "महर्षिभिर्" इति शेषः । यल् लोकैः तेषाम् उपदेशः न श्रुत इति भावः । "अथ"शब्दः उत्तरश्लोकेन संबन्धनीयः ॥ (मोटी_२,११.१२ ॥

कालचक्रे वहत्य् अस्मिंस् ततो विगलिते क्रमे ।
प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ॥ (मो_२,११.१३ ॥
द्वन्द्वानि संप्रवृत्तानि विषयार्थं महीभुजाम् ।
दण्ड्यतां संप्रयातानि भूतानि भुवि भूरिशः ॥ (मो_२,११.१४ ॥

"द्वन्द्वानि" द्वन्द्वयुद्धानि । "विषयार्थम्" देशार्थम् । "दण्ड्यतां" दण्डयोग्यताम् । परदारगमनादिपापकरणात् इति भावः ॥ (मोटी_२,११.१३-१४ ॥

ततो युद्धं विना भूपा महीं पालयितुं क्रमात् ।
समर्थास् तद् आयाताः प्रजाभिः सह दीनताम् ॥ (मो_२,११.१५ ॥

स्पष्टम् ॥ (मोटी_२,११.१५ ॥

तेषां दैन्यापनोदार्थं सम्यक्सृष्टिक्रमाय च ।
ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ॥ (मो_२,११.१६ ॥

"तेषाम्" राज्ञाम् ॥ (मोटी_२,११.१६ ॥

ध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता ।
तद् अनु प्रसृता लोके राजविद्येत्य् उदाहृता ॥ (मो_२,११.१७ ॥

"राजविद्या राजगुह्यम्" इत्यादिना गीतादौ "राजविद्या"शब्देन व्यवहारात् इति भावः ॥ (मोटी_२,११.१७ ॥

राजविद्या राजगुह्यम् अध्यात्मग्रन्थम् उत्तमम् ।
ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ॥ (मो_२,११.१८ ॥

"राजगुह्यम्" इति अध्यात्मविद्यायाः अपरं नाम ॥ (मोटी_२,११.१८ ॥

थ राजस्व् अतीतेषु बहुष्व् अमलकीर्तिषु ।
स्माद् दशरथाद् राम जातोऽद्य त्वम् इहावनौ ॥ (मो_२,११.१९ ॥

स्पष्टम् ॥ (मोटी_२,११.१९ ॥

तव चातिप्रसन्नेऽस्मिञ् जातं मनसि पावनम् ।
निर्निमित्तम् इदं चारु वैराग्यम् अरिमर्दन ॥ (मो_२,११.२० ॥

"निर्निमित्तम्" बीभत्सादिरूपं निमित्तं विना ॥ (मोटी_२,११.२० ॥

ननु निर्निमित्तवैराग्येन कोऽतिशयः ममास्तीत्य् । अत्राह

सर्वस्यैव हि भव्यस्य साधोर् अपि विवेकिनः ।
निमित्तपूर्वं वैराग्यं जायते राम राजसम् ॥ (मो_२,११.२१ ॥

स्पष्टम् ॥ (मोटी_२,११.२१ ॥

इदं त्व् अपूर्वम् उत्पन्नं चमत्कारकरं सताम् ।
तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ॥ (मोटी_२,११.२२ ॥


स्पष्टम् ॥ (मोटी_२,११.२२ ॥

बीभत्सं विषमं दृष्ट्वा को नाम न विरज्यते ।
सतां तूत्तमवैराग्यं विवेकाद् एव जायते ॥ (मो_२,११.२३ ॥

"बीभत्सम्" बीभत्सरसालम्बनम् द्रव्यम् ॥ (मोटी_२,११.२३ ॥

ते महान्तो महाप्रज्ञा निमित्तेन विनैव हि ।
वैराग्यं जायते येषां त एवामलमानसाः ॥ (मो_२,११.२४ ॥

अमलमानसत्वं विना हि निर्निमित्तं वैराग्यं नोत्पद्यते इति भावः ॥ (मोटी_२,११.२४ ॥

स्वविवेकचमत्कारपरामर्शविरक्तया ।
राजते हि धिया जन्तुर् युवेव वनमालया ॥ (मो_२,११.२५ ॥

"स्वविवेकस्य" यः "चमत्कारः" । तस्य यः "परामर्शः" । तेन "विरक्तया" बाह्यपदार्थरागरहितया । न तु बीभत्सेन विरक्तया ॥ (मोटी_२,११.२५ ॥

परामृश्य विवेकेन संसाररचनाम् इमाम् ।
विरागं येऽधिगच्छन्ति त एव पुरुषोत्तमाः ॥ (मो_२,११.२६ ॥

स्पष्टम् ॥ (मोटी_२,११.२६ ॥

स्वविवेकवशाद् एव विचार्येदं पुनः पुनः ।
इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ॥ (मो_२,११.२७ ॥

"इन्द्रजालम् " संसाराख्यम् इन्द्रजालम् । "परित्याज्यम्" समन्तात् त्यागविषयतां नेयम् ॥ (मोटी_२,११.२७ ॥

श्मशानम् आपदं दैन्यं दृष्ट्वा को न विरज्यते ।
तद् वैराग्यं परं श्रेयः स्वतो यद् अभिजायते ॥ (मो_२,११.२८ ॥

स्पष्टम् ॥ (मोटी_२,११.२८ ॥

कृत्रिमविरागस् त्वं महत्ताम् अलम् आगतः ।
योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् ॥ (मो_२,११.२९ ॥

स्पष्टम् ॥ (मोटी_२,११.२९ ॥

प्रसादात् परमेशस्य नाथस्य परमात्मनः ।
त्वादृशस्य शुभा बुद्धिर् विवेकम् अनुधावति ॥ (मो_२,११.३० ॥

न त्व् अत्रात्मप्रयत्नः कश्चित् प्रभवतीति भावः ॥ (मोटी_२,११.३० ॥

क्रियाक्रमेण महता तपसा नियमेन च ।
दानेन तीर्थयात्राभिश् चिरकालविवेकतः ॥ (मो_२,११.३१ ॥
दुष्कृते क्षयम् आपन्ने परमार्थविचारणे ।
काकतालीययोगेन बुद्धिर् जन्तोः प्रवर्तते ॥ (मो_२,११.३२ ॥

"काकतालीययोगेने"त्य् अनेन "क्रियाक्रमा"देः शैथिल्यं सूचितम् । "काकतालीयेन" "परमा"त्म"विचारण"निमित्त"बुद्धियोगः" । तावत् तु क्रियाक्रमादिर् अवश्यम् अनुष्ठेयः । तस्यापि लेशतः तं प्रत्य् उपायत्वात् । न च तत्रैव मङ्क्तव्यम् । सद्गुरूपासादेर् अन्यस्य मुख्यस्योपायस्यापि सत्त्वात् इत्य् अलम् ॥ (मोटी_२,११.३२ ॥

क्रियापरास् तावद् अलं चक्रावृत्तिभिर् आदृताः ।
भ्रमन्तीह जना यावन् न पश्यन्ति परं पदम् ॥ (मो_२,११.३३ ॥

"क्रियापराः" क्रियाम् एवोपायत्वेन मन्यमानाः । "परम् पदम्" चिन्मात्राख्यम् उत्कृष्टं स्थानम् । "चक्रावृत्तिभिः क्रियापराः" पौनःपुन्येन सक्रियारता इत्य् अर्थः ॥ (मोटी_२,११.३३ ॥

यथाभूतम् इमं दृष्ट्वा संसारं तन्मयीं धियम् ।
परित्यज्य परं यान्ति निरालाना गजा इव ॥ (मो_२,११.३४ ॥

"यथाभूतम् दृष्ट्वा" यथास्ति तथा दृष्ट्वा । "तन्मयीं" संसारमयीम् । "परम्" उत्तीर्णम् शुद्धचिन्मात्रतत्त्वम् । "यान्ति" तद्रूपं स्वात्मानम् अनुभवन्ति ॥ (मोटी_२,११.३४ ॥

विषमेयम् अनन्तेहा राम संसारसंसृतिः ।
देहमुक्ता महातन्तुर् विना ज्ञानं न नश्यति ॥ (मो_२,११.३५ ॥

"अनन्ताः ईहाः" भावाभावरूपाः चेष्टाः यस्याः । तादृशी "संसारसंसृतिः" संसारसरणिः । देहमुक्ता नाम महातन्तुः "देहमुक्ता महातन्तुः" । "ज्ञानम्" चिन्मात्रतत्त्वज्ञानम् ॥ (मोटी_२,११.३५ ॥

ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् ।
महाधियः समुत्तीर्णा नेतरेण रघूद्वह ॥ (मो_२,११.३६ ॥

"ज्ञान"रूपा या "युक्तिः" उपायः । स एव "प्लवः" । तेन ॥ (मोटी_२,११.३६ ॥

ताम् इमां ज्ञानयुक्तिं त्वं संसारांभोधितारिणीम् ।
शृणुष्वावहितो बुद्ध्या नित्यावहितयानया ॥ (मो_२,११.३७ ॥

"अवहितया बुद्ध्या" विना श्रोतुं न शक्नोषीति भावः ॥ (मोटी_२,११.३७ ॥

यस्माद् अनन्तसंरम्भा जगतो दुःखरीतयः ।
चिरायान्तर् दहन्त्य् एता विना युक्तिम् अनिन्दित ॥ (मो_२,११.३८ ॥

"युक्तिम्" ज्ञानाख्यां युक्तिम् ॥ (मोटी_२,११.३८ ॥

शीतवातातपादीनि द्वन्द्वदुःखानि राघव ।
ज्ञानयुक्तिं विना केन सह्यतां यान्ति साधुषु ॥ (मो_२,११.३९ ॥

"केन" केनान्येनोपायेन । न केनापीत्य् अर्थः । अत्र तु बालवृद्धयोः मरिचभक्षणं दृष्टान्तत्वेन योज्यम् ॥ (मोटी_२,११.३९ ॥

आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।
दुःखचिन्ता नरं मूढं तृणम् अग्निशिखा इव ॥ (मो_२,११.४० ॥

दुःखदायिन्यः चिन्ताः "दुःखचिन्ताः" । ताश् च भोगविषयाः ज्ञेयाः ॥ (मोटी_२,११.४० ॥

प्राज्ञं विज्ञातविज्ञानं सम्यग्दर्शिनम् आधयः ।
न दहन्ति वनं वर्षदब्दम् अग्निशिखा इव ॥ (मो_२,११.४१ ॥

"प्राज्ञं" कथंभूतम् । "विज्ञातम्" अनुभूतम् । "विज्ञानं" विज्ञानरूपम् आत्मतत्त्वं येन तम् । "आधयः" चिन्ताः । "वनं" कथम्भूतम् । "वर्षन्तः अब्दाः" मेघाः यस्य तत् ॥ (मोटी_२,११.४१ ॥

आधिव्याधिपरावर्ते संसारमरुमारुते ।
क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥ (मो_२,११.४२ ॥

"आधिव्याध्योः परावर्तः" पौनःपुन्येनावृत्तिः यस्मिन् । तादृशे "क्षुभिते" भावाभावाख्यः क्षोभयुक्ते । "न" "भज्यते" हर्षशोकवशं न याति । "संसारमरुमारुते क्षुभिते" सतीति योज्यम् । "कल्पवृक्षोऽपि मारुते क्षुभिते" सति "न भज्यते" ॥ (मोटी_२,११.४२ ॥

तत्त्वं ज्ञातुम् अतो यत्नाद् धीमान् एव हि धीमता ।
प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितं ॥ (मो_२,११.४३ ॥

"प्रामाणिकः" प्रमाणवक्ता । "प्रबुद्धः" ज्ञातः । "आत्मा" चिन्मात्ररूपः परमात्मा येन । सः "प्रबुद्धात्मा" । "प्रणयान्वितम्" याच्ञासहितम् । एतद्व्यतिरिक्तस् तु पृष्टः विरुद्धम् एव किंचिद् ब्रूयाद् इति भावः ॥ (मोटी_२,११.४३ ॥

प्रामाणिकस्य पृष्टस्य वक्तुर् उत्तमचेतसा ।
यत्नेन वचनं ग्राह्यम् अंशुकेनेव कुङ्कुमम् ॥ (मो_२,११.४४ ॥

"यत्नेना"वधानेन ॥ (मोटी_२,११.४४ ॥

तत्त्वज्ञम् अनादेयवचनं वाग्विदां वर ।
यः पृच्छति नरं तस्मान् नास्ति मूढतरोऽपरः ॥ (मो_२,११.४५ ॥

न तत्त्वं जानातीति तादृशम् । देहादाव् आत्माभिमानिनम् इत्य् अर्थः ॥ (मोटी_२,११.४५ ॥

प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।
नानुतिष्ठति यो वाक्यं नान्यस् तस्मान् नराधमः ॥ (मो_२,११.४६ ॥

"वाक्यं नानुतिष्ठति" तदुक्तवाक्यवाच्यम् अर्थं न संपादयति ॥ (मोटी_२,११.४६ ॥

तज्ज्ञतातज्ज्ञते पूर्वं वक्तुर् निर्णीय कार्यतः ।
यः करोति नरः प्रश्नं पृच्छकः स महामतिः ॥ (मो_२,११.४७ ॥

"कार्यतः" न तु वचनमात्रात् । वचनमात्रेण हि बहवः ब्रह्मज्ञानिनम् आत्मानम् दर्शयन्ति ॥ (मोटी_२,११.४७ ॥

निर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।
धमः पृच्छकः स स्यान् न महार्थस्य भाजनम् ॥ (मो_२,११.४८ ॥

"बालः" बालवत् मूढः । "महार्थस्य" मोक्षाख्यस्य परमप्रयोजनस्य ॥ (मोटी_२,११.४८ ॥

पूर्वापरसमाधानक्षमबुद्धाव् अनिन्दिते ।
पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥ (मो_२,११.४९ ॥

"प्राज्ञेन" बुद्धिमता गुरुणा । "पृष्टं" प्रश्नविषयीकृतं वस्तु । "अनिन्दिते" । तथा "पूर्वापरयोः" पूर्वापरवाक्यभागार्थयोः । यत् "समाधानम्" अन्योऽन्यविरुद्धतापनयनम् । तत्र "क्षमा बुद्धिः" यस्य । तादृशे प्रष्टरि वक्तव्यम् । "अधमे" अत एव "पशुधर्मिणि" मूढतया पशुसदृशे प्रष्टरि । "न" वक्तव्यम् व्यर्थत्वात् ॥ (मोटी_२,११.४९ ॥

प्रामाणिकार्थयोग्यत्वं पृच्छकस्याविचार्य वा ।
यो वक्ति तम् इह प्राज्ञाः प्राहुर् मूढतमं नरम् ॥ (मो_२,११.५० ॥

"पृच्छकस्य" मूढतरत्वात् अस्य "मूढतमत्वम्" । बहूनां जातिपरिप्रश्ने हि मूढतमः । पृच्छकाद् अपि मूढः असौ किं ब्रूयाद् इति भावः ॥ (मोटी_२,११.५० ॥

त्वम् अतीव गुणाधारः पृच्छको रघुनन्दन ।
हं च वक्तुं जानामि स च योगोऽयम् आवयोः ॥ (मो_२,११.५१ ॥

"सः" तव "गुणाधार"पृच्छकत्वम् मम तादृक् वक्तृत्वम् इति "योगः" सदृशसंबन्धः ॥ (मोटी_२,११.५१ ॥

यद् अहं वच्मि तद् यत्नात् त्वया शब्दार्थकोविद ।
एतद् वस्त्व् इति निर्णीय हृदि कार्यम् अखण्डितं ॥ (मो_२,११.५२ ॥

निर्णयस्वरूपं कथयति । "एतद्" इति । "एतत्" श्रीवसिष्ठोक्तं "वस्तु" । परमार्थसत्यम् भवति । पूर्वं भक्तिमात्रेणैव मद्वचनं सत्यतया ग्राह्यं । ततः तत्सत्यता स्वयम् एव प्रकटीभविष्यति । अन्यथारंभमात्रे एव स्वविकल्पकृताभिः सूक्ष्मेक्षिकाभिः तव किंचिद् अपि न सेत्स्यतीति भावः ॥ (मोटी_२,११.५२ ॥

ननु यदि त्वदुक्तंमयि न लगति तदा किं कार्यम् इत्य् । अत्राह

महान् असि विरक्तोऽसि तज्ज्ञोऽसि जनतास्थितौ ।
त्वयि वस्तु लगत्य् अन्तः कुङ्कुमाम्बु यथांशुके ॥ (मो_२,११.५३ ॥

यतः त्वम् "महान्" न तु नीचः "असि" । नीचो हि नीचतया स्वल्पेनापि क्षुभ्यति । तथा "विरक्तः" संसारिकपदार्थेषु विरक्तः "असि" । अन्यथा हि पदार्थाविष्टबुद्धेः ते योग्यता न स्यात् । तथा "जनतायाः स्थितौ" रचनायां । "तज्ज्ञः" निपुणः "असि" । अन्यथा हि तद्दृष्टान्तानुसारेण प्रोक्तः उपदेशः त्वयि न लगेत् । अतः "वस्तु" मदुक्तपरमार्थतत्त्वं । "त्वयि लगति" । किं "यथा" । "कुङ्कुमाम्बु" "यथा" । यथा तत् "अंशुके" लगति तथेत्य् अर्थः ॥ (मोटी_२,११.५३ ॥

उक्तावधानपरमा परमार्थविवेचिनी ।
विशत्य् अर्थं तव प्रज्ञा जलमध्यम् इवार्कभा ॥ (मो_२,११.५४ ॥

"उक्ते" मदुक्ते । यत् "अवधानम्" । तद् एव "परमम्" ग्राह्यत्वेनोत्कृष्टं यस्याः । तादृशी । तथा "परमार्थस्य" मदुक्तवाक्यान्तरार्थस्य । "विवेचिनी तव प्रज्ञा अर्थम्" मद्वाक्यार्थं । "विशति" वर्तमानसमीपे वर्तमाना । अत्र दृष्टान्तम् आह । "जले"ति ॥ (मोटी_२,११.५५ ॥

यद् यद् वच्मि तवादेयं हृदि कार्यं प्रयत्नतः ।
न चेत् प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥ (मो_२,११.५५ ॥

"आदेयं" आदानार्हम् तत् तद् इत्य् अध्याहार्यम् ॥ (मोटी_२,११.५५ ॥

ननु त्वद्वाक्यहृत्करणे कः प्रयासः अस्ति येनैवं ब्रवीषीत्य् । अत्राह

मनो हि चपलं राम संसारवनमर्कटम् ।
संरोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ॥ (मो_२,११.५६ ॥

"हि" यस्मात् । "मनो"निरोधेऽवश्यं प्रयासः । तं विना च मद्वाक्यहृत्करणं न संभवति । अतोऽस्त्य् एव मद्वाक्यहृत्करणे प्रयास इति भावः ॥ (मोटी_२,११.५६ ॥

ननु स्वकीयं बान्धवजनं त्यक्त्वा कथं त्वद्वाक्यमात्रपरो भवेयम् इत्य् । अत्राह

विवेकिनम् अज्ञानम् असज्जनरतिं जनम् ।
चिरं दूरतरं कृत्वा पूजनीया हि साधवः ॥ (मो_२,११.५७ ॥

अविद्यमानम् ज्ञानं यस्य तम् "अज्ञानम्" । "असज्जनेभ्यः" विरतिः सज्जनेषु "रतिश्" च प्रथमं मोक्षसाधनम् इति भावः ॥ (मोटी_२,११.५७ ॥

ननु साधुपूजनेन मम किं सेत्स्यतीत्य् । अत्राह

नित्यं सज्जनसंपर्काद् विवेक उपजायते ।
विवेकपादपस्यैते भोगमोक्षौ फले स्मृते ॥ (मो_२,११.५८ ॥

स्पष्टम् ॥ (मोटी_२,११.५८ ॥

कथं विवेकस्येदृशः प्रभावोऽस्तीत्य् । अत्राह

मोक्षद्वारे द्वारपालाश् चत्वारः परिकीर्तिताः ।
शमो विचारः संतोषश् चतुर्थः साधुसंगमः ॥ (मो_२,११.५९ ॥

एतैः व्यस्तैः समस्तैर् वा विना न कश्चिन् मोक्षं प्राप्नोतीति विवेकस्य मोक्षसाधकत्वम् अस्तीति भावः ॥ (मोटी_२,११.५९ ॥

एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयोऽथवा ।
द्वारम् उद्घाटयन्त्य् एते मोक्षराजगृहे बलात् ॥ (मो_२,११.६० ॥

स्पष्टम् ॥ (मोटी_२,११.६० ॥

एकं वा सर्वयत्नेन प्राणांस् त्यक्त्वा समाश्रयेत् ।
एतस्मिन् वशगे यान्ति चत्वारोऽपि वशं यतः ॥ (मो_२,११.६१ ॥

"एतस्मिन्" एकस्मिन् । "एकश्" चात्रोत्तरश्लोकानुरोधेन विवेकी ज्ञेयः ॥ (मोटी_२,११.६१ ॥

ननु कथम् एकेनैव कार्यं सेत्स्यतीत्य् । अत्राह

सविवेको हि शास्त्रस्य ज्ञानस्य तपसो द्युतेः ।
भाजनं भूषणाकारो भास्करस् तेजसाम् इव ॥ (मो_२,११.६२ ॥

"भूषण"भूतः "आकारः" यस्य । तादृशः ॥ (मोटी_२,११.६२ ॥

विवेकपरिपन्थिनः प्रज्ञामान्द्यस्यानर्थोत्पादकत्वं कथयति

घनताम् उपयातं हि प्रज्ञामान्द्यम् अचेतसां ।
याति स्थावरताम् अम्बु जाड्यात् पाषाणताम् इव ॥ (मो_२,११.६३ ॥

"प्रज्ञामान्द्यम् घनताम् उपयातं" सत् । "स्थावरताम् याति" इति संबद्धः ॥ (मोटी_२,११.६३ ॥

ननु यद्य् अहं प्रज्ञामान्द्येन विवेकयोग्यो न स्यां तर्हि किं कार्यम् इत्य् । अत्राह

त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।
विकासितान्तःकरणः स्थितः पद्म इवोदये ॥ (मो_२,११.६४ ॥
इमां ज्ञानदृशं श्रोतुम् अवबोद्धुं च सन्मते ।
र्हस्य् उद्धृतकर्णस्थजन्तुर् वीणाध्वनिं यथा ॥ (मो_२,११.६५ ॥

सुजनस्य भावः "सौजन्यम्" । तद्युक्ताः गुणाः "सौजन्यगुणाः" । ते च "शास्त्रार्थदृष्टयश्" च । ताभिः "विकासितं" प्रज्ञामान्द्यरहितम् "अन्तःकरणं" यस्य सः । तथा "उद्धृतं" निष्कासितं । "कर्णस्थं जन्तु"मलं यस्य सः । तादृशः । अतो विवेकयोग्य एवासीति भावः ॥ (मोटी_२,११.६४-६५ ॥

ननु कथम् एतद् इत्य् । अत्राह

वैराग्याभ्यासयोगेन समसौजन्यसंपदा ।
तत् पदं प्राप्यते राम यत्र नाशो न विद्यते ॥ (मो_२,११.६६ ॥

"अभ्यासः" सच्छास्त्राभ्यासः । "तत् पदम्" विवेकाख्यं स्थानम् ॥ (मोटी_२,११.६६ ॥

अत्यन्तमुख्यभूतस्य विवेकस्य वर्धनोपायम् आह

शास्त्रैः सज्जनसंपर्कपूर्वकैस् सुतपोदमैः ।
आदौ संसारमुक्त्यर्थं प्रज्ञाम् एवाभिवर्धयेत् ॥ (मो_२,११.६७ ॥

"तपः" बाह्येन्द्रियाणां निग्रहः । "दमः" आन्तराणां ॥ (मोटी_२,११.६७ ॥

संसारविषवृक्षोऽग्रसेकम् आस्पदम् आपदाम् ।
ञ्जनं मोहयामिन्या मौर्ख्यं यत्नेन नाशयेत् ॥ (मोटी_२,११.६८ ॥


"मोहः" विपर्यासः । "अञ्जनेन" हि मान्त्रिकाः दिवापि "यामिनीं" प्रकटयन्ति इत्य् "अञ्जनम्" इत्य् उक्तम् ॥ (मोटी_२,११.६८ ॥

ननु मम मौर्ख्यं कथं नश्यतीत्य् । अत्राह

एतद् एव च मौर्ख्यस्य परमं विद्धि नाशनम् ।
यद् इदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया ॥ (मो_२,११.६९ ॥

"नाशनम्" नाशकरणम् । "किंचित्संस्कृतया" किंचित्पदपदार्थज्ञानमात्रेण । न तु क्षोभोत्पादकेन महता व्याकरणजालज्ञानेन । "संस्कृतया" संस्कारयुक्तया ॥ (मोटी_२,११.६९ ॥

दुराशासर्पगतेन मौर्ख्येन हृदि वल्गता ।
चेतः संकोचम् आयाति चर्माग्नाव् इव योजितम् ॥ (मो_२,११.७० ॥

"दुराशाः" भोगाशाः एव "सर्पाः" । तासां "गतेन" । मौर्ख्याद् एव दुराशा निर्यान्तीति भावः । "संकोचम्" चिद्विमर्शाख्यविकासराहित्यम् ॥ (मोटी_२,११.७० ॥

प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।
दृग् इवेन्दौ निरम्भोदसकलामलमण्डले ॥ (मो_२,११.७१ ॥

"इयं" मया वक्ष्यमाणा । "वस्तुदृष्टिः" परमार्थदृष्टिः । "प्रसीदति" प्रसन्ना भवति । तस्मिन् नैव विश्रान्तिं भजतीति भावः ॥ (मोटी_२,११.७१ ॥

पूर्वापरविचारार्थचारुचातुर्यशालिनी ।
सविकासा मतिर् यस्य स पुमान् इति कथ्यते ॥ (मो_२,११.७२ ॥

पूर्वापरविचारविषयीकृतः अर्थः "पूर्वापरविचारार्थः" । तत्र यत् "चारुचातुर्यं" । तेन "शालिनी" ॥ (मोटी_२,११.७२ ॥

त्वम् अपीदृशोऽसीति सर्गान्तश्लोकेन कथयति

विकसितेन सितेन मनोमुषा
वरविचारणशीतलरोचिषा ।
गुणवता हृदयेन विराजसे
त्वम् अमलेन नभः शशिना यथा ॥ (मो_२,११.७३ ॥

"विकसितेन" विवेकाख्यविकासयुक्तेन । "सितेन" मलराहितेन । "मनोमुषा" मनोहारिणा । "वरविचारणम्" एव "शीतला" "रुक्" यस्य । तादृशेन "गुणवता" मैत्र्यादिगुणयुक्तेन "हृदयेन" । त्वं "विराजसे" । किं "यथा" । "नभो" यथा । "यथा" तत् "अमलेन" नीहारादिमलादूषितेन । "शशिना" विराजते तथेत्य् अर्थः । इति शिवम् ॥ (मोटी_२,११.७३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे एकादशः सर्गः ॥ २,११ ॥




श्रीरामस्य बुद्धिसमाधानाय पुनर् अपि श्रीरामे सम्यक्प्रष्टृत्वं स्वस्मिंश् च सम्यग्वक्तृत्वं कथयति

परिपूर्णमना मान्यः प्रष्टुं जानासि राघव ।
वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुम् आदरात् ॥ (मो_२,१२.१ ॥

हे "राघव" । "परिपूर्णम्" भोगाशाराहित्येन तृप्तं । "मनः" यस्य । तादृशः । अत एव "मान्यः" त्वम् । "प्रष्टुं जानासि" । "उक्तं" मदुक्तं । "वेत्सि च" । "तेनाहं" तव "वक्तुम् आदरात् प्रवृत्तः" । अन्यथा न ब्रूयाम् इति भावः ॥ (मोटी_२,१२.१ ॥

रजस्तमोभ्यां रहितां शुद्धसत्त्वानुपातिनीम् ।
मतिम् आत्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरो भव ॥ (मो_२,१२.२ ॥

"आत्मनि" न तु बाह्यवस्तुषु । "संस्थाप्य" सम्यक् स्थापयित्वा ॥ (मोटी_२,१२.२ ॥

विद्यते त्वयि सर्वैव पृच्छकस्य गुणावली ।
वक्तुर् गुणाली च मयि रत्नश्रीर् जलधौ यथा ॥ (मो_२,१२.३ ॥

स्पष्टम् ॥ (मोटी_२,१२.३ ॥

आत्तवान् असि वैराग्यं विवेकात् सङ्गजं मुनेः ।
चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः ॥ (मोटी_२,१२.४ ॥


"आत्तवान्" गृहीतवान् । "असि" त्वम् ॥ (मोटी_२,१२.४ ॥

चिरम् आ शैशवाद् एव तवाभ्यासोऽस्ति सद्गुणैः ।
शुद्धः शुद्धस्य दीर्घैश् च पद्मस्येवातिसंततैः ॥ (मो_२,१२.५ ॥

"गुणैः" वैराग्यादिभिः । तन्तुभिश् "च" । "अतिसंततैः" अतिशयेनाविच्छिन्नैः ॥ (मोटी_२,१२.५ ॥

फलितम् आह

तः शृणु कथां वक्ष्ये त्वम् एवास्या हि भाजनम् ।
न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती ॥ (मो_२,१२.६ ॥

"कथां" ब्रह्मोक्तां स्वतःस्फुरितां वा मोक्षकथां । इतः परं ब्रह्मोक्तम् एवोपदेशं श्रीवसिष्ठः श्रीरामाय करोतीति ज्ञेयम् ॥ (मोटी_२,१२.६ ॥

ब्रह्मोक्तां मोक्षकथां प्रस्तौति

ये केचन समारम्भा याश् च काश्चन दृष्टयः ।
ते च ताश् च पदे दृष्टे निःशेषं यान्ति वै शमम् ॥ (मो_२,१२.७ ॥

"पदे" चिन्मात्राख्ये । "दृष्टे" स्वात्मतया अनुभूते । "वै" निश्चये । "शमम्" शान्तिम् ॥ (मोटी_२,१२.७ ॥

ननु एता दृष्टयः अद्य तावत् कस्यचिच् छान्तिं गता अद्य वा नेत्य् । अत्राह

यदि विज्ञानविश्रान्तिर् न भवेद् भव्यचेतसः ।
तद् अस्यां संसृतौ साधुश् चिन्तां सोढुं सहेत कः ॥ (मो_२,१२.८ ॥

"भव्यचेतसः" साधोः । "यदि विज्ञानविश्रान्तिः विज्ञाने" विज्ञानस्वरूपे आत्मनि । "विश्रान्तिः" संसारदृष्टिनाशद्वारेण विश्रामः । "न भवेत्" । "तत्" तदा । "अस्यां" एतादृग्दुःखरूपायां । "संसृतौ" संसारे । "कः साधुः चिन्तां" विश्रामानासादनाव्यभिचारिणीं संसारचिन्तां "सहेत" । न कोऽपीत्य् अर्थः । "अस्मदादिवद्" इति शेषः । विश्रामासादनेन तस्य चिन्ता एव नास्ति येनासौ इह तिष्ठतीति भावः ॥ (मोटी_२,१२.८ ॥

ननु भव्यस्य चिन्ता कुत्र गच्छतीत्य् । आह

परप्राप्त्या विलीयन्ते सर्वा मननवृत्तयः ।
कल्पान्तार्कगणासङ्गात् कुलशैलशिला इवा ॥ (मो_२,१२.९ ॥

"परस्य" परमात्मनः "प्राप्त्या" । "सर्वाः मननवृत्तयः" मनोमननव्यापाराः चिन्ता इति यावत् । भव्यस्य "विलीयन्ते" । अत्र दृष्टान्तम् आह । "कल्पान्ते"ति ॥ (मोटी_२,१२.९ ॥

दुःसहा राम संसारविषावेशविषूचिका ।
योगगारुडमन्त्रेण पावनेन प्रशाम्यति ॥ (मो_२,१२.१० ॥

"संसार" एव "विषावेश"कृता "विषूचिका" विषूचिकाख्यो रोगविशेषः । सा "संसारविषावेशविषूचिका" । "गारुडमन्त्रेण" हि "विषावेशः" नश्यति ॥ (मोटी_२,१२.१० ॥

सः योगः कथं प्राप्यत इत्य् अपेक्षायां गद्येन कथयति

स च योगः सुजनेन सह शास्त्रार्थविचारात् ।
परमार्थज्ञानमयो लभ्यत एव ॥ (मो_२,१२.११ ॥


"लभ्यत एवे"त्यन्तं । टीका । "सः" मननवृत्तिविलयहेतुः "योगः सुजनेन सह शास्त्रार्थविचारात् लभ्यत एव" । न तु न लभ्यते । "सः" कथंभूतः । "परमार्थस्य" चिन्मात्रतत्त्वस्य । यत् "ज्ञानं" तन्"मयः" । न तु प्राणरोधनादिरूपः ॥ (मोटी_२,१२.११ ॥


ननु यदि विचारेणापि न किंचित् सेत्स्यति तर्हि किं कार्यम् इत्य् ।
अत्राहअवश्यम् इह हि विचारे कृते सकलदुःखक्षयो भवतीति मन्तव्यम् ॥ (मोटी_२,१२.१२ ॥

"मन्तव्यम्" इत्यन्तं । स्पष्टम् ॥ (मोटी_२,१२.१२ ॥

फलितं कथयति

नातो विचारदृष्टयोऽवहेलया द्रष्टव्याः । विचारवशतः पुरुषेण सकलम् इदम् आधिपञ्जरं सर्पेण त्वचम् इव परिपक्वां परित्यज्य विगतज्वरेण शीतलान्तःकरणेन विनोद इव जगद् अखिलम् आलोक्यते सम्यग्दर्शनवता ॥ (मो_२,१२.१३ ॥


"सम्यग्दर्शनवते"त्यन्तं । टीका । यतः परमार्थतत्त्वं विचाराद् एव लभ्यते "अतः विचारदृष्टयः" विचाराख्याः दृष्टयः । "अवहेलया" अनादरेण । "न द्रष्टव्याः" । ननु किं विचारेण सेत्स्यतीत्य् । अत्राह । "विचारे"ति । "विचारवशतः" "सम्यग्दर्शनवता" सम्यग्दर्शनयुक्तेन सता "पुरुषेण" ।" अखिलम्" बाह्यम् आभ्यन्तरं च सर्वं । "जगत् विनोद इव" क्रीडा इव्"आलोक्यते" । तद्भावाभावप्रयुक्तहर्षशोकरहितत्वात् । "पुरुषेण" कथंभूतेन । "सकलम् इदम्" अनुभूयमानम् । "आधिपञ्जरम्" विकल्पाख्यं पञ्जरम् । "सर्पेण परिपक्वां त्वचम् इव परित्यज्य विगतज्वरेण" तापरहितेनात एव "शीतलान्तःकरणेन" ॥ (मोटी_२,१२.१३ ॥

नन्व् असम्यग्दर्शनवत्त्वस्य को दोषो येन विचारात् सम्यग्दर्शनवत्त्वम् आश्रीयते इत्य् । अत्राह

सम्यग्दर्शनवतो हि परं दुःखम् इदं । विषमो ह्य् अतितरां संसाररोगो भोगीव दशति । असिर् इव च्छिनत्ति । शर इव वेधयति । रज्जुर् इव वेष्टयति । पावक इव दहति । रात्रिर् इवान्धयति । अशङ्कितपरिपातितपरुषपाषाण इव विवशीकरोति । हरति प्रज्ञां । नाशयति स्थितिम् । पातयति मोहान्धकूपे । तृष्णया जर्जरीकरोति । न तद् अस्ति किंचिद् दुःखं संसारी यन् न प्राप्नोति ॥ (मोटी_२,१२.१४ ॥


"प्राप्नोती"त्यन्तं । टीका । "परम्" अग्रकोटिं यातम् । ननु केन कृतं "दुःखम्" अस्य्"आसम्यग्दर्शनवतः" स्याद् इत्य् । अत्राह । "विषम" इति । "वेधयति" ताडयति । विशेषेण कथनम् अशक्यं ज्ञात्वा सामान्येन कथयति । "न तद्" इति । "संसारी" संसारयुक्तः । अतः संसारकृतम् एवेह्"आसम्यग्दर्शनवतो दुःखम्" अस्तीति भावः ॥ (मोटी_२,१२.१४ ॥



ननु विषयरूपोऽयं संसार एवम् एव भवति । किम् अस्माकं करोतीत्य् । अत्राह

दुरन्तेयं किल विषयविषमविषविषूचिका । यदि न चिकित्स्यते तद् अतितरां नरकनगरनिकरफलानुबन्धिनी तत् तत् करोति । यत्र शितासिशतपात उत्पलताडनम् । अग्निदाहो हिमावसेको ।ऽङ्गविकर्तनं चन्दनचक्रकरचना । घूर्णद्वातान्तः परिपेषोऽङ्गपरिमालनम् । अनवरतानलज्वालाविचलितचामरनाराचनिकरनिपातो निदाघविनोदनधारागृहशीकरवर्षणम् । शिरश्छेदः सुखनिद्रा । मूकीकरणं पाटवमुद्रा महान् उपचयः ॥ (मो_२,१२.१५ ॥


"महान् उपचय" इत्यन्तं । टीका । "दुरन्ता" नाशयितुम् अशक्या । "विषयाः" संसारिकाः भोगाः । ते एव "विषमविषविषूचिका" । सा "यदि न चिकित्स्यते" । "तत्" तदा । "अतितराम् नरकनगराणां" यः "निकरः" समूहः । स एव "फलं" । तस्य "अनुबन्धः" प्रवाहेन प्रवर्तनं । सः अस्याम् अस्तीति तादृशी सती सा । "तत् तत्" तादृशं तादृशं दुःखं "करोति" । तत् किम् इत्य् अपेक्षायाम् आह । "यत्रे"ति । "यत्र" यस्मिन् दुःखे सति । यद्दुःखम् अपेक्ष्येति यावत् ।" घूर्णन्" स्फुरन् यः "वातः" । तस्य्"आन्तः" मध्ये । "परिपेषः" चूर्णीभावः । "अङ्गपरिमालनम्" अङ्गकोमलतापादकं मर्दनं भवति । वातमध्ये चूर्णीभावाद् अपि तत्कष्टतरम् इति भावः । "अनवरताः" याः "अनलज्वालाः" । ता एव "विचलितचामराणि" यस्मिन् । तादृशः यः "नाराचनिकरः" । तस्य "निपातः" । "निदाघस्य" अर्थात् "निदाघ"कृततापस्य । "विनोदना"र्थं दूरीकरणार्थं यानि "धारागृहाणि" । तेषां ये "शीकराः" । तेषां "वर्षणं" भवति । "पाटवमुद्राः पाटवस्य" चातुर्यस्य । "मुद्रा" संकोचः । कृशतेति यावत् । "महान् उपचयः" वृद्धिः भवति ॥ (मोटी_२,१२.१५ ॥

फलितं कथयति

तद् एवंविधे कष्टचेष्टासहस्रदारुणे संसारचपलयन्त्रेऽस्मिन् राघव नावहेला कर्तव्या । अवश्यम् इदं हि विचारणीयम् ॥ (मो_२,१२.१६ ॥


"विचारणीयम्" इत्यन्तं । टीका । "तत्" ततो हेतोः । हे "राघव" । "एवंविधे" पूर्वोक्तमहाकठिनदुःखदायिनि । अत एव "कष्टचेष्टासहस्रदारुणे अस्मिन्" अनुभूयमाने । "संसार" एव "चपलयन्त्रम्" तस्मिन् । "अवहेला" किं ममायं करोतीति अनादरः । "न कर्तव्या" । पुनः किं कार्यम् इत्य् । अत्राह्"आवश्यम्" इति । पण्डितैः "अवश्यम् इदम् "अयं संसारः । "विचारणीयम्" । किम् अयम् । इदम् इति विचारविषयतां नयेत् ॥ (मोटी_२,१२.१६ ॥

अन्यत् किं करणीयम् इत्य् । अत्राह

एवं चावबोद्धव्यम् यथा किलास्ति विचाराच् छ्रेयोऽवाप्तिर् इति ॥ (मो_२,१२.१७ ॥


"इती"त्यन्तं । टीका । पुरुषेण्"ऐवं च बोद्धव्यम्" निश्चेयम् । एवं कथं । "यथा किल" निश्चये । "विचारात् श्रेयोऽवाप्तिः" मोक्षप्राप्तिर् "अस्ती"ति ॥ (मोटी_२,१२.१७ ॥

नन्व् अयं विवेकः कस्यचिद् अस्त्य् अथवा नेत्य् । अत्राह

न्यच् च रघुकुलेन्दो । यदि नैते महान्तो मुनयो महर्षयश् च विप्राश् च राजानश् च ज्ञानकवचेनावगुण्ठितशरीरास् तत् कथम् अदुःखक्षमा अपि दुःखमयीं तमोवृत्तिपूर्वकसंसारकदर्थनाम् अनुभवन्तः सततम् एव मुदितमनसस् तिष्ठन्ति ॥ (मो_२,१२.१८ ॥


"तिष्ठन्ती"त्यन्तं । टीका । हे "रघुकुलेन्दो" । अहम् "अन्यच् च" । "ब्रवीमी"ति शेषः । "यदि एते" पुरःस्थाः । "महान्तः मुनयः महर्षयश् च विप्राश् च राजानश् च ज्ञानकवचेन" विवेकाख्यकवचेन्"आवगुण्ठितानि" वलितानि । "शरीराणि" येषां ते । तादृशाः ज्ञानयुक्ता इति यावत् । "न" भवन्ति । "तत्" तदा । एते मुन्यादयः "अदुःखक्षमाः अपि कथम् दुःखमयीं" । तथा "तमोवृत्तिपूर्विका" तमोवृत्तिकारणा । या "संसारकदर्थना" संसारक्लेशः । ताम् "अनुभवन्तः" । "सततम् एव" न तु अभिमतप्राप्त्या कदाचिद् एव । "मुदितमनसः तिष्ठन्ति" । अतः अस्त्य् एवैषां विवेक इति भावः ॥ (मोटी_२,१२.१८ ॥

गद्यांशयुक्तेन पद्येनात्र हेतुं कथयति

इह हि
विकौतुका विगतविकल्पविप्लवा
यथा स्थिता हरिहरपद्मजादयः ।
नरोत्तमाः समधिगतात्मदीपकास्
तथा स्थिता जगति विबुद्धबुद्धयः ॥ (मो_२,१२.१९ ॥

पद्यान्तं । टीका । "हि" यस्मात् ।" इह जगति" । "नरोत्तमाः" नरेभ्यः समस्तमनुष्येभ्यः तेषां मध्ये वा "उत्तमाः" श्रेष्ठाः । तथा "समधिगतः" विवेकविभवेन सम्यग् अनुभूतः । "आत्मा" एव परमात्मा एव । "दीपः" यैः ते । तादृशाः "विबुद्धबुद्धयः" विवेकयुक्तबुद्धयः पूर्वोक्ताः मुन्यादयः । "तथा" तिष्ठन्ति । तथा कथम् इत्य् अपेक्षायाम् आह । "विकौतुका" इति । "विकौतुकाः" विषयाकाङ्क्षारहिताः । "आदि"शब्देनेन्द्रादीनां ग्रहणम् ॥ (मोटी_२,१२.१९ ॥

फलितं कथयति

तथा च
परिक्षीणे मोहे गलति च घनेऽज्ञानजलदे
परिज्ञाते तत्त्वे समधिगत आत्मन्य् अभिमते ।
विचार्यार्यैः सार्धं गलितवपुषोर् वै सदसतोर्
धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम् ॥ (मो_२,१२.२० ॥

पद्यान्तं । टीका । "तथा च" सति । "वै" निश्चये । "आर्यैः" सद्भिः "सार्धम्" । "विचार्य" संसारम् आत्मतत्त्वं च विचार्य । "मोहे" अज्ञानकार्ये सावधानत्वे "परि"गलिते सति । ततः "घने" निबिडे । "अज्ञानजलदे" अज्ञानम् एव च । "गलति" सति । ततः "सदसतोः" सदसद्बुद्धिविषयीभूतयोः अर्थयोः । सदसद्बुद्धिपरिगलनेन "गलितवपुषोः" सतोः । ततः "अभिमते" परमोपादेये । "आत्मनि तत्त्वे" जीवाख्ये तत्त्वे । "परिज्ञाते" देहादिव्यतिरिक्ततया सम्यक् निश्चिते सति । न केवलं परिज्ञाते किं तु "समधिगते" देहादित्यागेन स्वात्मतया सम्यग् अनुभूते सति । ततः "तत्त्वे" जीवादिसाक्षितया स्थिते शुद्धचिन्मात्रतत्त्वे । "धिया" गलनोन्मुखया बुद्ध्या । "दृष्टे" जीवसत्ताप्रदत्वेन दृष्टे सति । "इदम्" क्रियमाणम् । "जागतं" जगत्संबन्धि । "अटनम्" शरीरयात्रानिमित्तं व्यवहरणम् । "रमणम्" क्रीडा भवति । पदार्थनिष्टभावाभावकृतहर्षशोकस्पर्शकारित्वाभावाद् इति भावः ॥ (मोटी_२,१२.२० ॥

अन्यच् च कथयामीत्य् आह

न्यच् च राघव
प्रसन्ने चित्तत्त्वे हृदि सविभवे वल्गति परे
समाभोगीभूतास्व् अखिलकलनादृष्टिषु पुरः ।
शमं यान्तीष्व् अन्तःकरणघटनास्व् आहितरसं
धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम् ॥ (मो_२,१२.२१ ॥

पद्यान्तं । टीका । हे "राघवा"हम् "अन्यच् च" ब्रवीमि । किं ब्रवीषीत्य् । अत्राह । "प्रसन्ने" इति । "परे" उत्तीर्णे । "चित्तत्त्वे" शुद्धचिन्मात्राख्ये तत्त्वे । "प्रसन्ने" स्वप्रकाशनपरतया प्रसादोन्मुखे सति । अत एव तस्मिन् परे चित्तत्त्वे "सविभवे" शक्तिसहिते । "हृदि" सत्त्वभावेन स्थिते । "हृदि वल्गति" स्फुरति सति । विमर्शविषयताम् आयाते सतीति यावत् । ततः "अखिलकलनादृष्टिषु" समस्तजीवादिकलनारूपासु दृष्टिषु । "समाभोगीभूतासु" सतीषु । व्यापकचिन्मात्रस्वरूपतासादनेन विस्ताररहितास्व् अपि विस्तारयुक्तासु संपन्नासु सतीषु । ततः "अन्तःकरणघटनासु" अन्तःकरणरचनासु । "आहितरसं" स्वेच्छया । "शमं" चिन्मात्रस्वरूपे लयं । "पुरः" अग्रे "यान्तीषु" । ततश् च "धिया" गलनोन्मुखया बुद्ध्या । "तत्त्वे" शुद्धचिन्मात्राख्ये तत्त्वे । "दृष्टे" आत्मतयानुभूते सति । "इदं जागतम् अटनं रमणं" भवति ॥ (मोटी_२,१२.२१ ॥

पुनर् अपि पूर्वाभिप्रायेणैवाह

न्यच् च
रथः स्फारो देहस् तुरगरचना चेन्द्रियगतिः
परिस्पन्दो वाताद् अहम् अकलितानन्तविषमः । । परो वार्वा देही जगति विहरामीत्य् अनघया
धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदं ॥ (मो_२,१२.२२ ॥

सर्गान्तश्लोकं तावत् । टीका । "देहः" स्थूलदेहः । "स्फारः" सर्वत्र स्फुरणशीलः । "रथः" भवति । "इन्द्रियगतिः" इन्द्रियरचना "तुरगरचना" भवति । हेयोपादेयरूपादिप्राप्तिपरिहारार्थं दर्शनादिद्वारेण देहरथचालकत्वात् । "परिस्पन्दः" "तुरगरचना"भूतानां इन्द्रियगतीनां चेष्टा देहं प्रति प्रेरणसामर्थ्यं "वातात्" भवति । वातेन हि इन्द्रियाणि दर्शनादिक्रियाभाञ्जि सन्ति देहं चालयन्ति । "वा" पक्षान्तरे । "देही" देहाभिमानी जीवः । "अर्वा" तुरगः भवति । पर्यन्ततः तस्यैव देहचालकत्वात् । पुरः देहादिभ्यः उत्तीर्णशुद्धचिन्मात्ररूपः "अहम् जगति विहरामि" विहारं करोमि । "अहं" कथंभूतः । "अकलितानि" स्वात्मत्वनिश्चयेन दुःखदत्वेनानिश्चितानि । "अनन्तानि विषमानि" सुखदुःखरूपाः संकटाः येन । तादृशः । राजा हि रथादिभ्यः परः सन् अकलितानन्तनिम्नोन्नतश् च भवति । "इति" अनेन निश्चयेन । "अनघया" स्वस्मिन् बद्धत्वज्ञानादिदोषरहितया । "धिया" गलनोन्मुखया बुद्ध्या । "तत्त्वे" प्रोक्तस्वरूपे तत्त्वे । "दृष्टे" सति । "इदम् जागतम् अटनं रमणं" भवति । इति शिवम् ॥ (मोटी_२,१२.२२ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे द्वादशः सर्गः ॥ २,१२ ॥




ओं पूर्वोक्तां दृष्टिम् अनूद्य तदवष्टंभेन सुबुद्धीनां विचरणं कथयति

एतां दृष्टिम् अवष्टभ्य पुष्टात्मानः सुबुद्धयः ।
विचरन्त्य् असमुन्नद्धा महान्तोऽभ्युदिता इव ॥ (मो_२,१३.१ ॥

"एतां" पूर्वसर्गोक्ताम् । "अवष्टभ्य" सततं विमर्षविषयं कृत्वा । "पुष्टात्मानः" । "पुष्टः" अत्यन्ताभिव्यक्तियोग्यतां गतः । "आत्मा" शुद्धचिन्मात्राख्य आत्मा येषां ते । तादृशाः "असमुन्नद्धाः" दर्परहिताः । "अभ्युदिताः इव" प्राप्तराज्या इव ॥ (मोटी_२,१३.१ ॥

न शोचन्ति न याचन्ते न वाञ्छन्ति शुभाशुभम् ।
सर्वम् एव च कुर्वन्ति कुर्वन्ति न च किंचन ॥ (मो_२,१३.२ ॥

"सर्वम् एव" प्रवाहागतं सर्वम् एव । "कुर्वन्ति" कर्तव्यम् इति निश्चयेन "कुर्वन्ति" । "किंचन न कुर्वन्ति" स्वस्मिन् कर्तृत्वाभिमानाभावात् ॥ (मोटी_२,१३.२ ॥

स्वस्थम् एवावतिष्ठन्ति स्वस्थं कुर्वन्ति यान्ति च ।
हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥ (मो_२,१३.३ ॥

"स्वस्थम्" इत्य् उभयत्र क्रियाविशेषणं निश्चितम् इत्य् अर्थः । "हेयोपादेयतापक्षरहिताः" उपेक्षापक्षे स्थिता इत्य् अर्थः ॥ (मोटी_२,१३.३ ॥

आयान्ति च न चायान्ति वनं यान्ति न यान्ति च ।
न कुर्वन्त्य् अपि कुर्वन्ति न वदन्ति वदन्ति च ॥ (मो_२,१३.४ ॥

अत्र सर्वत्रापि क्रियाकरणं जीवन्मुक्ततयाश्रितदेहादिद्वारेण ज्ञेयम् । अकरणं त्व् अशुद्धचिन्मात्रत्वद्वारेणेत्य् अलम् ॥ (मोटी_२,१३.४ ॥

ये केचन समारम्भा याश् च काश्चन दृष्टयः ।
हेयादेयदृशो यास् ताः क्षीयन्तेऽधिगते पदे ॥ (मो_२,१३.५ ॥

"क्षीयन्ते" लीयन्ते । परपदरूपतयैव स्फुरन्ति इति यावत् ॥ (मोटी_२,१३.५ ॥

परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् ।
सर्वतः सुखम् अभ्येति चन्द्रबिम्ब इव स्थितम् ॥ (मो_२,१३.६ ॥

"मधुरवृत्तिमत्" मैत्रीयुक्तम् ॥ (मोटी_२,१३.६ ॥

पि निर्मननारम्भम् अप्य् अस्ताखिलकौतुकम् ।
आत्मन्य् एव न मात्य् अन्तर् इन्दाव् इव रसायनम् ॥ (मो_२,१३.७ ॥

"आत्मन्य् एव न माति" न प्रभवति । अत्यन्तानन्दमयत्वाद् इति भावः । "मननारम्भ"रहितस्य "कौतुकरहितस्य" च आनन्देन स्व्"आत्मनि" अमानं न युक्तम् इति लोकप्रसिद्धिर् "अपि"शब्दाभिप्रायः । रसायनम् अमृतम् ॥ (मोटी_२,१३.७ ॥

न करोतीन्द्रजालानि नानुधावति वासनाम् ।
बालचापलम् उत्सृज्य पूर्णम् एव विराजते ॥ (मो_२,१३.८ ॥

"इन्द्रजालानि" मन्त्रादिप्रभावेन सिद्धानि आकाशगमनादीनि । "वासनाम् नानुधावति" अपि तु ततो निवृत्तिम् एव करोति । बालवत् चापलम् "बालचापलम् उत्सृज्य" । "पूर्णम्" तृप्तिसहितं यथा भवति । तथा "विराजते" ॥ (मोटी_२,१३.८ ॥

आत्मतत्त्वावलोकनस्यैव पूर्वोक्तासु वृत्तिषु कारणत्वं गद्येन कथयति

एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल् लभ्यन्ते । नान्यतस् । तस्माद् विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो यावज्जीवं पुरुषेन नेतरद् इति ॥ (मोटी_२,१३.९ ॥

"इती"त्यन्तं । टीका । "हि" यस्मात् । "एवंविधाः" पूर्वोक्ताः । वृत्तयः व्यापाराः । "आत्मतत्त्वस्य" परमात्मस्वरूपस्य । यद् "अवलोकनं" । तस्माद् एव । "पुरुषेण लभ्यन्ते" । "नान्यतः" । "तस्माद् पुरुषेण यावज्जीवं विचारेणात्मैवान्वेष्टव्यः" । किंरूपोऽसाव् इति विमर्शनीयः । ततः "उपासनीयः" । उपासनं चात्र अविच्छिन्नप्रवाहेणानुसन्धानविषयीकरणम् एव ज्ञेयम् । ततः "ज्ञातव्यः" । स्थूलदेहादिव्यतिरेकेन स्थूलदेहवत् निःसंशयम् आत्मतत्त्वेन ज्ञातव्यः । "इतरत्" स्थूलदेहादि । "न" ज्ञातव्यम् । "इति"शब्दः गद्यसमाप्तौ ॥ (मोटी_२,१३.९ ॥

नन्व् आत्मावलोकनं कर्तव्यत्वेन त्वया प्रतिपादितं । तदवलोकनं कथं सेत्स्यतीत्य् । अत्र पद्येनाह

स्वानुभूतेः सुशास्त्रस्य गुरोश् चैवैकवाक्यता ।
यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥ (मो_२,१३.१० ॥

"स्वा" निजा । या "अनुभूतिः" । तस्याः । "सुशास्त्रस्य" शोभनशास्त्रस्य । "गुरोः" सद्गुरोश् । "च" इति त्रयस्य । "यत्र" यस्मिन् अभ्यासे । "एकवाक्यता" अर्थात् मेलनं स्यात् । "सन्ततेना"विच्छिन्नेन । "तेनाभ्यासेन" करणेन । पुरुषेण कर्त्रा । "आत्मावलोक्यते" ॥ (मोटी_२,१३.१० ॥

वहेलितशास्त्रार्थैर् अवज्ञातमहाजनैः ।
कष्टाम् अप्य् आपदं प्राप्तो न मूढैः समताम् इयात् ॥ (मो_२,१३.११ ॥

स्वस्थस् तु कथम् "इयाद्" इत्य् "अपि"शब्दाभिप्रायः ॥ (मोटी_२,१३.११ ॥

एतत्प्रसङ्गेन मौर्ख्यं निन्दति

न व्याधिर् न विषं नापत् तथा नामास्ति भूतले ।
खेदाय स्वशरीरस्थं मौर्ख्यम् एव यथा नृणाम् ॥ (मो_२,१३.१२ ॥

स्पष्टम् ॥ (मोटी_२,१३.१२ ॥

किंचित्संस्कृतबुद्धीनां श्रव्यं शास्त्रम् इदं यथा ।
मौर्ख्यापहं तथा शास्त्रम् अन्यद् अस्ति न किंचन ॥ (मो_२,१३.१३ ॥

"किंचित्संस्कृतबुद्धीनाम्" पदपदार्थज्ञानाम् इत्य् अर्थः । "श्रव्यम्" श्रवणार्हम् । "इदं" मोक्षोपायाख्यम् । "मौर्ख्यापहं" मौर्ख्यम् उपहन्तीति "मौर्ख्यापहम्" ॥ (मोटी_२,१३.१३ ॥

इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् ।
विरुद्धम् अशेषेण शास्त्रवाक्यार्थबन्धुना ॥ (मो_२,१३.१४ ॥

कथाभिः वक्ष्यमाणाः दृष्टान्ताः "कथादृष्टान्ताः" । तैः "सुन्दरम्" । "शास्त्रवाक्यानां" यः "अर्थः" । स एव "बन्धुः" । तेन "अविरुद्धम्" । शास्त्रार्थानुसारीत्य् अर्थः ॥ (मोटी_२,१३.१४ ॥

आपदो या दुरुत्तारा याश् च तुच्छाः कुयोनयः ।
तास् ता मौर्ख्यात् प्रसूयन्ते खदिरात् कण्ठका इव ॥ (मो_२,१३.१५ ॥

स्पष्टम् ॥ (मोटी_२,१३.१५ ॥

वरं शरावहस्तस्य चण्डालागारवीथिषु ।
भिक्षार्थम् अटनं राम न मौर्ख्यहतजीवितम् ॥ (मो_२,१३.१६ ॥

"अटनं" भ्रमणम् ॥ (मोटी_२,१३.१६ ॥

इमम् आलोकम् आसाद्य मोक्षोपायमयं जनः ।
न्धताम् एति न पुनः कश्चिन् मोहतमस्य् अपि ॥ (मो_२,१३.१७ ॥

"आलोकम्" परतत्त्वप्रकाशकत्वात् आलोकस्वरूपम् ॥ (मोटी_२,१३.१७ ॥

तावन् नयति संकोचं तृष्णा श्यामा नराम्बुजम् ।
यावद् विवेकसूर्यस्य नोदिता विमला प्रभा ॥ (मो_२,१३.१८ ॥

स्पष्टम् ॥ (मोटी_२,१३.१८ ॥

संसारदुःखमोक्षार्थं मादृशैः सह बन्धुभिः ।
स्वरूपम् आत्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥ (मो_२,१३.१९ ॥

"मादृशैः" साधुभिर् इत्य् अर्थः । गुरुशास्त्राख्यं यत् "प्रमाणं" प्रमाकरणं । तस्मात् "गुरुशास्त्रप्रमाणतः" । "ज्ञात्वे"त्य् अस्यानन्तरं स्थेयम् इति शेषः ॥ (मोटी_२,१३.१९ ॥

जीवन्मुक्ताश् चरन्तीह यथा हरिहरादयः ।
यथा ब्रह्मर्षयश् चान्ये तथा विहर राघव ॥ (मो_२,१३.२० ॥

"विहर" हर्षामर्षरहितत्वेन क्रीडां कुरु ॥ (मोटी_२,१३.२० ॥

नन्तानीह दुःखानि सुखं क्षणलवोपमम् ।
नातः सुखेषु बध्नीयाद् दृष्टिं दुःखानुबन्धिषु ॥ (मो_२,१३.२१ ॥

"दुःखानुबन्धिषु" दुःखानुविद्धेषु ॥ (मोटी_२,१३.२१ ॥

पुनः किं कार्यम् इत्य् । अत्राह

यद् अनन्तम् अनायासं तत् पदं सारसिद्धये ।
साधनीयं प्रयत्नेन पुरुषेण विजानता ॥ (मो_२,१३.२२ ॥

"अनन्तम्" त्रिविधपरिच्छेदरहितम् । "अनायासं" आयाससाध्यत्वाभावात् । "सारसिद्धये" परमपुरुषार्थसिद्धये । "साधनीयं" स्वोपलब्धिविषयतां नेयम् । "विजानता" किंचिन्मात्रज्ञानयुक्तेन मूर्खस्यात्रानधिकरत्वात् ॥ (मोटी_२,१३.२२ ॥

त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।
नुत्तमपदालम्बि मनो येषां गतज्वरम् ॥ (मो_२,१३.२३ ॥

अविद्यमान उत्तमः यस्मात् तत् "अनुत्तमम्" निरतिशयम् इति यावत् । तादृशं यत् "पदम्" । तत् "आलम्बते" इति तादृशम् ॥ (मोटी_२,१३.२३ ॥

संभोगाशनमात्रेषु राज्यादिषु सुखेषु ये ।
संतुष्टा दुष्टमनसो विद्धि तान् अन्धदुन्दुभान् ॥ (मो_२,१३.२४ ॥

"अन्धदुन्दुभान्" अन्धराजिलान् । असम्यग् दर्शित्वाद् इत्य् अर्थः ॥ (मोटी_२,१३.२४ ॥

ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।
द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥ (मो_२,१३.२५ ॥
ते यान्ति दुर्गमाद् दुर्गं दुःखाद् दुःखं भयाद् भयम् ।
नरकान् नरकं मूढा मोहमन्थरबुद्धयः ॥ (मो_२,१३.२६ ॥

"मित्ररूपेषु द्विषत्सु" आ मुखे सुखकारित्वात् "मोहमन्थरा" मोहनिर्भरा । "बुद्धिः" येषां ते । तादृशाः ॥ (मोटी_२,१३.२५-२६ ॥

परस्परविनाशोत्के श्रेयस्यौ न कदाचन ।
सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥ (मो_२,१३.२७ ॥

स्पष्टम् ॥ (मोटी_२,१३.२७ ॥

ये विरक्ता महात्मानः सुविविक्ता भवादृशः ।
पुरुषान् विद्धि तान् वन्द्यान् भोगमोक्षैकभागिनः ॥ (मो_२,१३.२८ ॥

"भोगभाक्त्वं" चैषां प्रवाहगतम् एव ज्ञेयं । न यत्नसाधितम् ॥ (मोटी_२,१३.२८ ॥

विवेकं परम् आश्रित्य वैराग्याभ्यासयोगतः ।
संसारसरितं घोराम् इमाम् आपदम् उत्तरेत् ॥ (मो_२,१३.२९ ॥

"अभ्यासः" सच्छास्त्राभ्यासः । "आपदम्" आपद्रूपाम् ॥ (मोटी_२,१३.२९ ॥

न सुप्तव्यं तु संसारमायास्व् इह हि जानता ।
विषमूर्च्छनसंमोहदायिनीषु विवेकिना ॥ (मो_२,१३.३० ॥

"न सुप्तव्यम्" अवहेला न कर्तव्या ॥ (मोटी_२,१३.३० ॥

संसारम् इमम् आसाद्य यस् तिष्ठत्य् अवहेलया ।
ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य सोऽन्तरे ॥ (मो_२,१३.३१ ॥

"तार्णस्य" तृणनिर्मितस्य ॥ (मोटी_२,१३.३१ ॥

यत् प्राप्य न निवर्तन्ते यद् आसाद्य न शोच्यते ।
तत् पदं शेमुषीलभ्यम् अस्त्य् एवात्र न संशयः ॥ (मो_२,१३.३२ ॥

"शेमुषीलभ्यम् एव" बुद्धिलभ्यम् एव । न तु बाह्ययत्नलभ्यम् ॥ (मोटी_२,१३.३२ ॥

ननु यदि तत् पदं नास्ति तत् किं शेमुष्या लभ्यते इत्य् । अत्राह

नास्ति चेत् तद् विचारेण दोषः को भवतां भवेत् ।
स्ति चेत् तत् समुत्तीर्णा भविष्यथ भवार्णवात् ॥ (मो_२,१३.३३ ॥

स्पष्टम् ॥ (मोटी_२,१३.३३ ॥

प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।
यदा भवत्य् आशु तदा मोक्षभागी स उच्यते ॥ (मो_२,१३.३४ ॥

स्पष्टम् ॥ (मोटी_२,१३.३४ ॥

नपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।
न विना केवलीभावं विद्यते भुवनत्रये ॥ (मो_२,१३.३५ ॥

"स्वास्थ्यम्" स्वस्थता । "केवलीभावं विना" अद्वितीयतां विना ॥ (मोटी_२,१३.३५ ॥

तत्प्राप्ताव् उत्तमप्राप्तौ न क्लेश उपयुज्यते ।
न मित्राण्य् उपकुर्वन्ति न धनानि न बान्धवाः ॥ (मो_२,१३.३६ ॥

"तत्प्राप्तौ" केवलीभावप्राप्तौ । "क्लेशः" शारीरिकः क्लेशः ॥ (मोटी_२,१३.३६ ॥

न हस्तपादचलनं न देशान्तरसंगमः ।
क्लेशातिशयसाध्यो वा न तीर्थायतनाश्रयः ॥ (मो_२,१३.३७ ॥

अस्मिन्न् अर्थे "हस्तपादा"दि"चलनं न" भवति । "देशान्तरसंगमः" च "न" भवति । अयम् अर्थः "क्लेशातिशयसाध्यः न" भवति । "तीर्थायतनाश्रयः" च "न" भवति ॥ (मोटी_२,१३.३७ ॥

पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।
केवलं तन् मनोमात्रजयेनासाद्यते पदम् ॥ (मो_२,१३.३८ ॥

पुरुषेण "तत्" केवलीभावाख्यं "पदम्" । "एवलम् मनोमात्रजयेन आसाद्यते" प्राप्यते । "मनोमात्रजयेन" कथंभूतेन । "पुरुषार्थेन" पौरुषेण । "एकम्" केवलं "साध्येन" । पुनः कथंभूतेन "वासनैकार्थकर्मणा" । "वासना" भावना । सा एव "एकार्थः" । तस्य "कर्मणा" । भावनामात्रसाध्येनेत्य् अर्थः ॥ (मोटी_२,१३.३८ ॥

विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।
त्यजता दुःखजालानि नरेण तद् अवाप्यते ॥ (मो_२,१३.३९ ॥

"तद्विचारेण" तद्विषयेण विवेकेन । "एकं" केवलं । "निश्चयः" यस्य । तम् । विचारनिश्चेयम् इत्य् अर्थः । "तत्" केवलीभावाख्यं पदम् ॥ (मोटी_२,१३.३९ ॥

सुखसेव्यासनस्थेन तद्विचारवता स्वयम् ।
न शोच्यते पदं प्राप्य न च भूयोऽभिजायते ॥ (मो_२,१३.४० ॥

"तद्विचारवता" केवलीभावविचारयुक्तेन । तत् "पदं" केवलीभावाख्यं पदम् ॥ (मोटी_२,१३.४० ॥

तत् समस्तसुखासारसीमान्तं साधवो विदुः ।
तद् अनुत्तमनिष्ष्यन्दं परम् आहू रसायनम् ॥ (मो_२,१३.४१ ॥

स्पष्टम् ॥ (मोटी_२,१३.४१ ॥

क्षयित्वात् सर्वभावानां स्वर्गमानुष्ययोर् द्वयोः ।
सुखं नास्त्य् एव सलिलं मृगतृष्णास्व् इवैतयोः ॥ (मो_२,१३.४२ ॥

"स्वर्गमानुष्ययोः" स्वर्लोकमनुष्यलोकयोः ॥ (मोटी_२,१३.४२ ॥

तो मनोजयश् चिन्त्यः शमसंतोषसाधनः ।
नन्तशमसंभोगस् तस्माद् आनन्द आप्यते ॥ (मो_२,१३.४३ ॥

"अतः" कारणात् । पुरुषेण "मनोजयः चिन्त्यः" । कथंभूतः । "शमसंतोषौ साधनं" यस्य । तादृशः पुरुषः । "तस्मात्" मनोजयात् । "अनन्तशमस्य संभोगः" चमत्कारः । शमास्वादरूपः इति यावत् । "आनन्दः आप्यते" प्राप्यते ॥ (मोटी_२,१३.४३ ॥

जीवता गच्छता चैव भ्रमता पतता तथा ।
रक्षसा दानवेनापि देवेन पुरुषेण वा ॥ (मो_२,१३.४४ ॥
मनःप्रशमनोद्भूतं तत् प्राप्य परमं सुखं ।
विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥ (मो_२,१३.४५ ॥
व्यवहारपरेणापि कार्यवृन्दम् अचिन्वता ।
भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छ्यते ॥ (मो_२,१३.४६ ॥

"जीवता गच्छता भ्रमता" । अथ "पतता" । उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वतेति यावत् । "रक्षसा दानवेनापि देवेन पुरुषेण वा मनःप्रशमनोद्भूतं" तथा "विकासिशमपुष्पस्य" "विवेकोच्चतरोः" फलम् । तत् परमं सुखम् निर्वाणाख्यं सुखं । "प्राप्याम्बरस्थेन भानुना इव नोज्झ्यते न च वाञ्छ्यते" सूर्यवत् उपेक्षाम् एव सर्वत्र क्रियते इत्य् अर्थः । रक्षःप्रभृतिना कथंभूतेन । "व्यवहारपरेणापि कार्यवृन्दम्" कार्यसमूहम् । "अचिन्वता" नाहंकर्तेति निश्चयात् स्वकृतत्वेनाननुभवता ॥ (मोटी_२,१३.४४-४६ ॥

मनः प्रशान्तम् अत्यच्छं विश्रान्तं गतविभ्रमम् ।
नीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥ (मो_२,१३.४७ ॥

"अनीहम्" विकल्पाख्यचेष्टारहितम् । "विगताभीष्टम्" अभीष्टम् इदम् इति निश्चयरहितम् । प्रवाहागतम् उपेक्षया एव करोतीति भावः ॥ (मोटी_२,१३.४७ ॥

पूर्वतरं प्रकृतानां शमादिद्वारपालानां निर्णयं प्रस्तौति

मोक्षद्वारे द्वारपालान् इमाञ् शृणु यथाक्रमम् ।
येषाम् एकतमासक्त्या मोक्षद्वारे प्रविश्यते ॥ (मो_२,१३.४८ ॥

"एकतमासक्त्या" एकतमासेवनेन ॥ (मोटी_२,१३.४८ ॥

तत्रापि प्रथमोद्दिष्टं शमं निरूपयति

दुःखदोषदशा दीर्घा संसारमरुमण्डली ।
जन्तोः शीतलताम् एति शीतलेन शमाम्बुना ॥ (मो_२,१३.४९ ॥

दुःखदोषरूपा दशा यस्यां सा "दुःखदोषदशा" ॥ (मोटी_२,१३.४९ ॥

शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।
शमः शिवं शमः शान्तिः शमो भ्रान्तिनिवारणम् ॥ (मो_२,१३.५० ॥

"परमं पदम्" चिन्मात्राख्यम् उत्कृष्टं स्थानम् ॥ (मोटी_२,१३.५० ॥

पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।
शमतोषितचित्तस्य शत्रुर् अप्य् एति मित्रताम् ॥ (मो_२,१३.५१ ॥

द्वेषेणैव हि शत्रुः शत्रुः भवति । स च तस्य नास्तीति तस्य "शत्रुः मित्रताम् एती"ति भावः ॥ (मोटी_२,१३.५१ ॥

शमचन्द्रमसा येषाम् आशयः समलंकृतः ।
क्षीराब्धीनाम् इवोदेति तेषां परमशुद्धता ॥ (मो_२,१३.५२ ॥

"परमशुद्धता" वासनाख्यमलराहित्यम् ॥ (मोटी_२,१३.५२ ॥

हृत्कुशेशयकोशेषु येषां शमकुशेशयम् ।
सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः ॥ (मो_२,१३.५३ ॥

"हरेर् द्विहृत्पद्मत्वं" नाभिस्थस्य पद्मस्य स्थितत्वाज् ज्ञेयम् ॥ (मोटी_२,१३.५३ ॥

शमश्रीः शोभते येषां मुखेन्दाव् अकलङ्किते ।
तेऽमी कुलेन्दवो वन्द्याः सौन्दर्यविजितेन्दवः ॥ (मो_२,१३.५४ ॥

"अकलङ्कितत्वम्" एवात्र इन्दुजये हेतुः ॥ (मोटी_२,१३.५४ ॥

त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।
साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः ॥ (मो_२,१३.५५ ॥

स्पष्टम् ॥ (मोटी_२,१३.५५ ॥

यानि दुःखानि यास् तृष्णा दुःसहा ये दुराधयः ।
तत् सर्वं शान्तचेतस्सु तमोऽर्केष्व् इव नश्यति ॥ (मो_२,१३.५६ ॥

स्पष्टम् ॥ (मोटी_२,१३.५६ ॥

मनो हि सर्वभूतानां प्रसादम् अनुगच्छति ।
न तथेन्दौ यथा शान्ते जने जनितकौतुकम् ॥ (मो_२,१३.५७ ॥

"प्रसादम्" प्रसन्नताम् ॥ (मोटी_२,१३.५७ ॥

शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।
सुजने परमं तत्त्वं स्वयम् एव प्रसीदति ॥ (मो_२,१३.५८ ॥

"परमं तत्त्वम्" परमात्मतत्त्वं । "स्वयम् एवा"यत्नम् एव । "प्रसीदति" स्वरूपदर्शनाख्यं प्रसादं करोतीत्य् अर्थः ॥ (मोटी_२,१३.५८ ॥

मातरीव परं यान्ति विषमाणि मृदूनि च ।
विश्वासम् इह भूतानि सर्वाणि शमशालिनि ॥ (मो_२,१३.५९ ॥

"विषमाणि" हिंसानि । "मृदूनि" कोमलानि ॥ (मोटी_२,१३.५९ ॥

न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।
तथा सुखम् अवाप्नोति शमेनान्तर् यथा जनः ॥ (मो_२,१३.६० ॥

"अन्तः" मनसि ॥ (मोटी_२,१३.६० ॥

सर्वाधिव्याधिवलितं क्रान्तं तृष्णावरत्रया ।
मनः शमामृतासेकैः समाश्वासय राघव ॥ (मो_२,१३.६१ ॥

"समाश्वासय" शीतलय ॥ (मोटी_२,१३.६१ ॥

यत् करोषि यद् अश्नासि शमशीतलया धिया ।
तत् तेऽतिस्वदते स्वादु नेतरत् तान्तमानसम् ॥ (मो_२,१३.६२ ॥

"स्वदते" रोचते । चमत्कारं करोतीति यावत् । "तान्तम्" म्लानियुक्तं कृतं । "मानसं" येन तत् ॥ (मोटी_२,१३.६२ ॥

शमामृतरसास्नातं मनो याम् एति निर्वृतिम् ।
छिन्नान्य् अपि तयाङ्गानि मन्ये रोहन्ति राघव ॥ (मो_२,१३.६३ ॥

"शमामृतरसास्नातं मनः यां निर्वृतिं एति" । हे "राघवा"हं "मन्ये" । "तया" निर्वृत्या । "छिन्नान्य् अपि अङ्गानि रोहन्ति" ॥ (मोटी_२,१३.६३ ॥

न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।
न च व्याघ्रभुजङ्गाद्या द्विषन्ति शमशालिनम् ॥ (मो_२,१३.६४ ॥

स्पष्टम् ॥ (मोटी_२,१३.६४ ॥

सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।
वेधयन्ति न दुःखानि शरा वज्रशिलां इव ॥ (मो_२,१३.६५ ॥

"वेधयन्ति" ताडयन्ति ॥ (मोटी_२,१३.६५ ॥

न तथा राजते राजा मान्यान्तःपुरसंस्थितः ।
समया स्वस्थया वृत्त्या यथोपशमशोभितः ॥ (मो_२,१३.६६ ॥

"वृत्त्या" व्यापारेण ॥ (मोटी_२,१३.६६ ॥

प्राणात् प्रियतरं दृष्ट्वा तुष्टिम् एति न तां जनः ।
याम् आयाति जनं शान्तम् अवलोक्य समाशयम् ॥ (मो_२,१३.६७ ॥

"समाशयम्" समचेतसम् ॥ (मोटी_२,१३.६७ ॥

समया शमशालिन्या वृत्त्या यः साधु वर्तते ।
भिनन्दितया लोके जीवतीह स नेतरः ॥ (मो_२,१३.६८ ॥

"वर्तते" तिष्ठति । "इतरः" अशान्तः ॥ (मोटी_२,१३.६८ ॥

नुद्धतमनाः शान्तः साधु कर्म करोति यत् ।
तत् सर्वम् अभिनन्दन्ति तस्येमा भूतजातयः ॥ (मो_२,१३.६९ ॥

"अभिनन्दन्ति" स्तुवन्ति ॥ (मोटी_२,१३.६९ ॥

शान्तस्वरूपनिर्णयद्वारेण शमस्वरूपं निश्चिनोति

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ (मो_२,१३.७० ॥

उपेक्षा एव शान्तिर् इति भावः ॥ (मोटी_२,१३.७० ॥

यः समः सर्वभावेषु नाभिवाञ्छति नोज्झति ।
जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥ (मो_२,१३.७१ ॥

स्पष्टम् ॥ (मोटी_२,१३.७१ ॥

तुषारकरबिम्बाच्छं मनो यस्य निराकुलम् ।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ (मो_२,१३.७२ ॥

स्पष्टम् ॥ (मोटी_२,१३.७२ ॥

स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति ।
यः सुषुप्तमनाः स्वस्थः स शान्त इति कथ्यते ॥ (मो_२,१३.७३ ॥

"सुषुप्तमनाः" हर्षामर्षानुसन्धानरहितः ॥ (मोटी_२,१३.७३ ॥

मृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।
दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥ (मो_२,१३.७४ ॥

स्पष्टम् ॥ (मोटी_२,१३.७४ ॥

स्पष्टावदातया बुद्ध्या यथैवान्तस् तथा बहिः ।
दृश्यन्ते यस्य कार्याणि स शान्त इति कथ्यते ॥ (मो_२,१३.७५ ॥

कपटराहित्याद् इति भावः ॥ (मोटी_२,१३.७५ ॥

प्य् आपत्सु दुरन्तासु कल्पान्तेषु दहत्स्व् अपि ।
तुच्छेहं न मनो यस्य स शान्त इति कथ्यते ॥ (मो_२,१३.७६ ॥

"तुच्छेहम्" तुच्छोपायपरम् ॥ (मोटी_२,१३.७६ ॥

योऽन्तः शीतलतां यातो यो भावेषु न मज्जति ।
व्यवहारी न संमूढः स शान्त इति कथ्यते ॥ (मो_२,१३.७७ ॥

"न मज्जति" रागोद्रेकेणासक्तो न भवति । "व्यवहारी" व्यवहारकारी । "न संमूढः" न व्यवहाररहितः । व्यवहाररहितस्य हि अमज्जनं व्यवहाराभावकृतम् एव न शान्तिकृतम् ॥ (मोटी_२,१३.७७ ॥

आकाशसदृशी यस्य नित्यं स्वव्यवहारिणः ।
कलङ्कम् एति न मतिः स शान्त इति कथ्यते ॥ (मो_२,१३.७८ ॥

"स्वः" निजः । "व्यवहारः" अस्यास्तीति तादृशस्य ॥ (मोटी_२,१३.७८ ॥

तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
बलवत्सु गुणाढ्येषु शमवान् एव राजते ॥ (मो_२,१३.७९ ॥

स्पष्टम् ॥ (मोटी_२,१३.७९ ॥

शमसंसक्तमनसां महतां गुणशालिनाम् ।
उदेति निर्वृतिश् चित्ताज् ज्योत्स्नेव हिमरोचिषः ॥ (मो_२,१३.८० ॥

स्पष्टम् ॥ (मोटी_२,१३.८० ॥

सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।
संकटेष्व् अभयस्थानं शमः श्रीमान् विराजते ॥ (मो_२,१३.८१ ॥

स्पष्टम् ॥ (मोटी_२,१३.८१ ॥

सर्गान्तश्लोकेन शमनिरूपणं समापयति

शमम् अमृतम् अहार्यम् आर्यजुष्टं
परम् अवलम्ब्य पदं परं प्रयाताः ।
रघुतनय यथा महानुभावाः
क्रमम् अनुपालय सिद्धये तम् एव ॥ (मो_२,१३.८२ ॥

हे "रघुतनय" । "महानुभावाः" पुरुषाः । "अमृतम्" अमृतरूपम् । "अहार्यम्" अनाश्यम् "आर्यजुष्टम्" ।" शमं" पूर्वोक्तस्वरूपं शमं "अवलम्ब्य" । "परं" पदं परचित्स्वरूपम् उत्कृष्टं स्थानं । यथा "प्रयाताः" । त्वम् "तम्" तथाविधम् । "क्रमम् सिद्धये अनुपालय" । इति शिवम् ॥ (मोटी_२,१३.८२ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे त्रयोदशः सर्गः ॥ २,१३ ॥




ओं विवेकनिर्णयं प्रस्तौति

शास्त्रावबोधामलया धिया परमपूतया । ।
कर्तव्यः कारणज्ञेन विचारोऽनिशम् आत्मनः ॥ (मो_२,१४.१ ॥"

कारणज्ञेन" किं । केन संपद्यते इति जानता पुरुषेण । "धिया आत्मनः विचारः अनिशम् कर्तव्यः" ॥ (मोटी_२,१४.१ ॥

ननु विचारेण किं सेत्स्यति इत्य् । अत्राह

विचारात् तीक्ष्णताम् एत्य धीः पश्यति परं पदम् ।
दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥ (मो_२,१४.२ ॥

"परम् पदम्" शुद्धचिन्मात्राख्यं महास्थानम् ॥ (मोटी_२,१४.२ ॥

आपद्वनम् अनन्तेहापरिपल्लविताकृति ।
विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥ (मो_२,१४.३ ॥

"अनन्ताः" याः "ईहाः" चेष्टाः । ताभिः "परिपल्लविता" पुष्टीभूता । "आकृतिः" यस्य तत् ॥ (मोटी_२,१४.३ ॥

मोहेषु बन्धुनाशेषु संकटेषु भ्रमेषु च ।
सर्वेष्व् एव महाप्राज्ञ विचारो हि सतां गतिः ॥ (मो_२,१४.४ ॥

"गतिः" शरणम् ॥ (मोटी_२,१४.४ ॥

न विचारं विना कश्चिद् उपायोऽस्ति विपच्छमे ।
विचाराद् अशुभं त्यक्त्वा शुभम् आयाति धीः सताम् ॥ (मो_२,१४.५ ॥

स्पष्टम् ॥ (मोटी_२,१४.५ ॥

बलं बुद्धिश् च तेजश् च प्रतिपत्तिः क्रियाफलम् ।
फलन्त्य् एतानि सर्वाणि विचारेणैव धीमतः ॥ (मो_२,१४.६ ॥

"प्रतिपत्तिः" ज्ञानम् । अविवेकेन तु कृतानि "एतानि" अनर्थम् एवोत्पादयन्तीति भावः ॥ (मोटी_२,१४.६ ॥

युक्तायुक्तमहादीपम् अभिवाञ्छितसाधकम् ।
स्फारं विचारम् आश्रित्य संसारजलधिं तरेत् ॥ (मो_२,१४.७ ॥

"युक्तायुक्तमहादीपं" इदं युक्तं इदं त्व् अयुक्तम् इति प्रकाशकम् इत्य् अर्थः । "स्फारं" विस्तीर्णम् ॥ (मोटी_२,१४.७ ॥

आलूनहृदयाम्भोजं महामोहमतङ्गजम् ।
विदारयति शुद्धात्मा विचारोदारकेसरी ॥ (मो_२,१४.८ ॥

"विदारयति" विनाशयति ॥ (मोटी_२,१४.८ ॥

मूढाः कालवशेनेह यद् गताः परमं पदम् ।
तद् विचारप्रदीपस्य विजृम्भितम् अनुत्तमम् ॥ (मो_२,१४.९ ॥

"कालेन" हि "मूढा" अपि शुद्धचिन्मात्राख्यं "परमं पदं" प्राप्नुवन्ति । "विजृम्भितम्" विलसितम् । "अनुत्तमम्" निरतिशयम् ॥ (मोटी_२,१४.९ ॥

राज्यानि संपदः स्फारो भोगो मोक्षश् च शाश्वतः ।
विचारकल्पवृक्षस्य फलान्य् एतानि राघव ॥ (मो_२,१४.१० ॥

स्पष्टम् ॥ (मोटी_२,१४.१० ॥

या विवेकविलासिन्यो मतयो महताम् इह ।
न ता विपदि मज्जन्ति तुम्बकानीव वारिणि ॥ (मो_२,१४.११ ॥

विवेकविलासः आसाम् अस्तीति "विवेकविलासिन्यः" ॥ (मोटी_२,१४.११ ॥

विचारोदयहारिण्या धिया व्यवहरन्ति ये ।
फलानाम् अत्युदाराणां भाजनं हि भवन्ति ते ॥ (मो_२,१४.१२ ॥

"विचारोदयेन हारिण्या" मनोहरया ॥ (मोटी_२,१४.१२ ॥

मूर्खहृत्काननस्थानाम् आशाप्रसररोधिनाम् ।
विचारकरञ्जानां मञ्जर्यो दुःखरीतयः ॥ (मो_२,१४.१३ ॥

"आशा" मोक्षाशा । तस्याः यः "प्रसरः" । तं रुन्धन्तीति तादृशानाम् दिक्"प्रसररोधिनां" च । "करञ्जानां" कण्टकवृक्षाणाम् । "दुःखरीतयः" दुःखरचनाः ॥ (मोटी_२,१४.१३ ॥

कज्जलक्षोदमलिना मदिरामोदधारिणी ।
विचारमयी निद्रा यातु ते राघव क्षयम् ॥ (मो_२,१४.१४ ॥

"कज्जलक्षोदेन" मन्त्रसंस्कृतेन । "कज्जलक्षोदेन मलिना" घना । कज्जलक्षोदवत् "मलिना" चात्यन्तकालुष्यात् । "मदिरा मोदं धारयती"ति तादृशी । मदिरामोदेनापि "निद्रा" घनीभवति । "अविचारमयी" अविचारस्वरूपा ताम् एव "क्षयं" नयेति भावः ॥ (मोटी_२,१४.१४ ॥

महापद्य् अपि दीर्घेषु सद्विचारपरो नरः ।
न निमज्जति मोहेषु तेजोराशिस् तमस्स्व् इव ॥ (मो_२,१४.१५ ॥

"मोहेषु" किं करोमीत्य् एवंरूपेषु ॥ (मोटी_२,१४.१५ ॥

मानसे सरसि स्वच्छे विचारकमलोत्करः ।
नूनं विकसितो यस्य हिमवान् इव भाति सः ॥ (मो_२,१४.१६ ॥

"मानसे सरसि" हृदयाख्ये सरसि मानसाख्ये सरसीति च ॥ (मोटी_२,१४.१६ ॥

विचारविकला यस्य मतिर् मान्द्यम् उपेयुषः ।
तस्योदेत्य् अशनिश् चन्द्रान् मुधा यक्षः शिशोर् इव ॥ (मो_२,१४.१७ ॥

"विचारविकला" विचाररहिता । "मान्द्यं" जाड्यं । "चन्द्रात्" चित्सूर्यप्रतिबिम्बरूपत्वेन चन्द्रतुल्यात् संसारात् । "अशनिः" भावाभावकृतहर्षामर्षरूपं वज्रम् आश्चर्यं च चन्द्राद् अशनेर् उत्पादः ॥ (मोटी_२,१४.१७ ॥

दुःखषण्डकवल्मीकं विपन्नवलतामधुः ।
राम दूरे परित्याज्यो निर्विवेको नराधमः ॥ (मो_२,१४.१८ ॥

"नराधमः" किं । "दुःखः षण्डकानां वल्मीकम्" । वल्मीके हि कण्टकषण्डकानि भवन्ति । पुनः कः । "विपद्" एव "नवलता" । तस्याः "मधुः" वसन्तः ॥ (मोटी_२,१४.१८ ॥

ये केचन दुरारम्भा दुराचारा दुराधयः ।
विचारेण ते भान्ति वेतालास् तमसा यथा ॥ (मो_२,१४.१९ ॥

"दुरारम्भाः" कुत्सिताः कार्यारम्भाः ॥ (मोटी_२,१४.१९ ॥

विचारिणम् एकान्तजरद्द्रुमसधर्मकम् ।
क्षमं साधुकार्येषु दूरे कुरु रघूद्वह ॥ (मो_२,१४.२० ॥

"एकान्ते" जनरहिते देशे । स्थितः "जरद्द्रुमः" । तस्य "सधर्मकम्" सदृशम् । "साधुकार्येषु" चित्तनिरोधादिषु । फलदानेन परोपकाररूपेषु च शुभकार्येषु ॥ (मोटी_२,१४.२० ॥

विविक्तं हि मनो जन्तोर् आशावैवश्यवर्जितम् ।
परां निर्वृतिम् अभ्येति पूर्णश् चन्द्र इवात्मनि ॥ (मो_२,१४.२१ ॥

"विविक्तम्" विवेकयुक्तम् । "आशावैवश्यवर्जितम्" इति विशेषणद्वारेण हेतुः । आशावैवश्यस्यैव निर्वृतिरोधकत्वात् ॥ (मोटी_२,१४.२१ ॥

विवेकितोदिता देहं सर्वं शीतलयत्य् अलम् ।
लंकरोति चात्यन्तं ज्योत्स्नेव भुवनम् नवा ॥ (मो_२,१४.२२ ॥

"नवा" शरत्कालीना ॥ (मोटी_२,१४.२२ ॥

परमार्थपताकाया धियो धवलचामरम् ।
विचारो राजते जन्तो रजन्याम् इव चन्द्रमाः ॥ (मो_२,१४.२३ ॥

"परमार्थस्य" शुद्धचिन्मात्रतत्त्वाख्यपरमार्थस्य । "पताकायाः" प्रदर्शकत्वसामान्येन चिह्णभूतपताकारूपायाः "धियः" । "धवलचामरम्" शोभादायकत्वेन धवलचामररूपम् ॥ (मोटी_२,१४.२३ ॥

विचारचारवो भावा भासयन्तो दिशो दश ।
भान्ति भास्करवद् भग्नभूयोभवभयामयाः ॥ (मो_२,१४.२४ ॥

"भावाः" मनुष्यादिरूपाः पदार्थाः । "भावाः" कथंभूताः । "भग्नाः भूयांसि भवभयानि" एव्"आमयाः" यैः ते । "भास्करो"ऽपि "दश दिशः" भासयति ॥ (मोटी_२,१४.२४ ॥

बालस्य स्वमनोमोहकल्पितः प्राणहारकः ।
रात्रौ तमसि वेतालो विचारेण विलीयते ॥ (मो_२,१४.२५ ॥

स्पष्टम् ॥ (मोटी_२,१४.२५ ॥

सर्व एव जगद्भावा अविचारेण चारवः ।
विद्यमानसद्भावा विचारविशरारवः ॥ (मो_२,१४.२६ ॥

"सर्व एव जगद्भावाः" जगत्पदार्थाः । "अविचारेण" विचारराहित्येन । "चारवः" भवन्ति । कथंभूताः । "अविद्यमानसद्भावाः" । अत एव च "विचारविशरारवश्" च विचारासहत्वात् ॥ (मोटी_२,१४.२६ ॥

पुंसो निजमनोमोहकल्पितोऽनल्पदुःखदः ।
संसारचिरवेतालो विचारेण विलीयते ॥ (मो_२,१४.२७ ॥

स्पष्टम् ॥ (मोटी_२,१४.२७ ॥

समस्वच्छं निराबाधम् अनन्तमननाश्रयम् ।
विद्धीमं केवलीभावं विचारोऽग्रतरोः फलम् ॥ (मो_२,१४.२८ ॥

समं च तत् स्वच्छं "समस्वच्छं" । "निराबाधम्" केनापि प्रमाणेन बाधयितुम् अशक्यम् । "अनन्तस्या"परिच्छिन्नस्य स्वात्मतत्त्वस्य । यत् "मननम्" परामर्शः । तस्य्"आश्रयम्" लक्षणया साधकम् ॥ (मोटी_२,१४.२८ ॥

चलस्थितिनोदारप्रकटाभोगतेजसा ।
तेन निष्कामतोदेति शीततेवोदितेन्दुना ॥ (मो_२,१४.२९ ॥

"उदारप्रकटाभोगं" उद्भटप्रकटविस्तारं । "तेजः" यस्य । तादृशेन । "निष्कामता" कामनाराहित्यम् । "उदितश्" चासाव् "इन्दुः" । तेन ॥ (मोटी_२,१४.२९ ॥

ननु निष्कामतया किं सेत्स्यतीत्य् । अत्राह

चिन्ताज्वरमहौषध्या साधुश् चित्तनिषण्णया ।
तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति ॥ (मो_२,१४.३० ॥

"तया" निष्कामतया । "नाभिवाञ्छति नोज्झति" सर्वत्रोपेक्षाम् एव भजते इत्य् अर्थः ॥ (मोटी_२,१४.३० ॥

पुनः किं करोतीत्य् । अत्राह

तत्सदालम्बनं चेतः स्फारम् आभासम् आगतम् ।
नास्तम् एति न चोदेति खम् इवातिततान्तरम् ॥ (मो_२,१४.३१ ॥

सा निष्कामता "सदा आलम्बनम्" आश्रयो यस्य । तत् "तत्सदालम्बनम्" । तथा "स्फारं" स्फुरणशीलं । "आभासम् आगतम्" विवेकयुक्तं जातम् इत्य् अर्थः ॥ (मोटी_२,१४.३१ ॥

न जहाति न चादत्ते नोत्ताम्यति न शाम्यति ।
केवलं साक्षिवत् पश्यञ् जगद् आत्मनि तिष्ठति ॥ (मो_२,१४.३२ ॥

"नोत्ताम्यति" न क्षुभ्यति ॥ (मोटी_२,१४.३२ ॥

न च शाम्यति नाप्य् अन्तर् नापि बाह्येऽवतिष्ठति ।
न च नैष्कर्म्यम् आदत्ते न च कर्माणि मज्जति ॥ (मो_२,१४.३३ ॥

सर्वत्रोपेक्षयैव वर्तते इति भावः ॥ (मोटी_२,१४.३३ ॥

उपेक्षते गतं वस्तु संप्राप्तम् अनुवर्तते ।
न क्षुब्धो नाति चाक्षुब्धो भाति पूर्ण इवार्णवः ॥ (मो_२,१४.३४ ॥

"अनुवर्तते" निरनुसन्धानम् प्रवर्तते । "अति" अतिशयेन ॥ (मोटी_२,१४.३४ ॥

एवंरूपेण मनसा महात्मानो महाशयाः ।
जीवन्मुक्ता जगत्य् अस्मिन् विहरन्ति हि योगिनः ॥ (मो_२,१४.३५ ॥

स्पष्टम् ॥ (मोटी_२,१४.३५ ॥

उषित्वा सुचिरं कालं धीरास् ते यावदीप्सितम् ।
तनुम् अन्ते परित्यज्य यान्ति केवलतां तताम् ॥ (मो_२,१४.३६ ॥

"केवलताम्" विदेहमुक्तताम् । "यावदीप्सितम्" इत्य् अनेन सर्वम् एव भगवत्कृतम् तेषाम् ईप्सितम् एवास्तीति सूचितम् ॥ (मोटी_२,१४.३६ ॥

कोऽहं कस्य च संसार इत्य् आपद्य् अपि धीमता ।
चिन्तनीयं प्रयत्नेन सप्रतीकारम् आत्मना ॥ (मो_२,१४.३७ ॥

किम् उत वक्तव्यं संपदीत्य् "अपि"शब्दाभिप्रायः । "सप्रतीकारम्" प्रतीकारसहितम् । न तु चिन्तनमात्रेणैव । प्रतीकारश् चात्र भोगत्याग एव ज्ञेयः ॥ (मोटी_२,१४.३७ ॥

कार्यसंकटसन्देहं राजा जानाति राघव ।
निष्फलं सफलं वापि विचारेणैव नान्यथा ॥ (मो_२,१४.३८ ॥

बहिर् अपि विचारस्यैव साम्राज्यम् इति भावः ॥ (मोटी_२,१४.३८ ॥

वेदवेदान्तसिद्धान्तस्थितयः स्थितिकारणम् ।
निर्णीयन्ते विचारेण दीपेनेव भुवो निशि ॥ (मो_२,१४.३९ ॥

वेदवेदान्तरूपाः स्थितयः मर्यादाः "वेदवेदान्तस्थितयः" । "स्थितिकारणम्" संसारमर्यादाकारणभूताः ॥ (मोटी_२,१४.३९ ॥

नष्टम् अन्धकारेषु बहुतेजस्स्व् अजिह्मितम् ।
पश्यत्य् अपि व्यवहितं विचारश् चारुलोचनम् ॥ (मो_२,१४.४० ॥

"अजिह्मितम्" तेजोऽभिमुखे हि चक्षुषि प्रतीघातेन जिह्मितत्वं परिवर्तितत्वं भवति । तच् चात्र नास्तीत्य् अर्थः ॥ (मोटी_२,१४.४० ॥

विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।
दिव्यचक्षुर् विवेकात्मा जयत्य् अखिलवस्तुषु ॥ (मो_२,१४.४१ ॥

"सर्वस्य शोच्यः" सर्वैः शोचनीय इत्य् अर्थः । "विवेकः आत्मा" प्रधानं यस्य सः "विवेकात्मा" विवेकान्वित इत्य् अर्थः । "जयति" सर्वोत्कर्षेण वर्तते इत्य् अर्थः ॥ (मोटी_२,१४.४१ ॥

परमात्ममयी पाल्या महानन्दैकसाधनी ।
क्षणम् एकं परित्याज्या न विचारचमत्कृतिः ॥ (मो_२,१४.४२ ॥

"पाल्या" रक्षणीया ॥ (मोटी_२,१४.४२ ॥

विचारचारुः पुरुषो महताम् अपि रोचते ।
परिपक्वं चमत्कारि सहकारफलं यथा ॥ (मो_२,१४.४३ ॥

स्पष्टम् ॥ (मोटी_२,१४.४३ ॥

विचारकान्तमतयो नानेकेषु पुनः पुनः ।
लुठन्ति दुःखश्वभ्रेषु ज्ञातोर्ध्वगतयो नराः ॥ (मो_२,१४.४४ ॥

"ज्ञाताः" अधिगता । "ऊर्ध्वे" उत्तीर्णे चिन्मात्रे । "गतिः" यैते ॥ (मोटी_२,१४.४४ ॥

न विरौति तथा रोगी नानर्थशतजर्जरः ।
विचारविनष्टात्मा यथाज्ञः परिरोदिति ॥ (मो_२,१४.४५ ॥

"नानर्थशतजर्जर" इत्य् अत्र "च"शब्दोऽध्याहार्यः । "अविचारेणा"विवेकेन "विनष्टः" विस्मृतः । "आत्मा" पारमार्थिकं स्वरूपं यस्य । तादृशः ॥ (मोटी_२,१४.४५ ॥

वरं कर्दमकीटत्वं श्वभ्रकण्टकता वरम् ।
वरम् अन्धगुहाहित्वं न नरस्याविचारिता ॥ (मो_२,१४.४६ ॥

स्पष्टम् ॥ (मोटी_२,१४.४६ ॥

सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् ।
सर्वदौःस्थित्यसीमान्तम् अविचारं परित्यजेत् ॥ (मो_२,१४.४७ ॥

"सर्वे" ये "अनर्थाः" । तेषां "निजः" स्वकीयः । "आवासः" सर्वानर्थश्रयम् इत्य् अर्थः ॥ (मोटी_२,१४.४७ ॥

नित्यं विचारयुक्तेन भवितव्यं महात्मना ।
भवान्धकूपे पततां विचारो ह्य् अवलम्बनम् ॥ (मो_२,१४.४८ ॥

"हि" यस्मादर्थे । "अवलम्बनम्" आधारः ॥ (मोटी_२,१४.४८ ॥

स्वयम् एवात्मनात्मानम् अवष्टभ्य विचारतः ।
संसारमोहजलधेस् तारयेत् स्वमनोमृगम् ॥ (मो_२,१४.४९ ॥

"आत्मना" मनसा । "आत्मानं" परमात्मानम् । "अवष्टभ्य" भावनया गृहीत्वा ॥ (मोटी_२,१४.४९ ॥

विचारस्य स्वरूपं कथयति

कोऽहं कथम् अयं दोषः संसाराख्य उपागतः ।
न्यायेनेति परामर्शो विचार इति कथ्यते ॥ (मो_२,१४.५० ॥

"न्यायेन" युक्त्या । "परामर्शः" सन्ततभावनम् ॥ (मोटी_२,१४.५० ॥

न्धान्धमोहमुखरं चिरं दुःखाय केवलम् ।
कृतं शिलाया हृदयं दुर्मतेश् चाविचारिणः ॥ (मो_२,१४.५१ ॥

अतिषयेनान्धम् "अन्धान्धम्" । तादृशं च तत् "मोहमुखरं" च । जाड्येन विपर्यासयुक्तम् इत्य् अर्थः । "दुःखाय" स्वस्य परस्य चेति ज्ञेयम् ॥ (मोटी_२,१४.५१ ॥

भावाभावग्रहोत्सर्गदृशाम् इह हि राघव ।
न विचाराद् ऋते तत्त्वं ज्ञायते साधु किंचन ॥ (मो_२,१४.५२ ॥

"ग्रहः" ग्रहणं । "उत्सर्गः" त्यागः ॥ (मोटी_२,१४.५२ ॥

विचाराज् ज्ञायते तत्त्वं तत्त्वाद् विश्रान्तिर् आत्मनि ।
ततो मनसि शान्तत्वं सर्वदुःखपरिक्षयः ॥ (मो_२,१४.५३ ॥

"तत्त्वम्" चिन्मात्राख्यं परमं तत्त्वम् । "आत्मनि" शुद्धचिन्मात्ररूपे आत्मनि । "शान्तत्वस्य" स्वरूपं कथयति । "सर्वे"ति । "सर्वदुःखक्षयस्यै"व शान्तिरूपत्वात् ॥ (मोटी_२,१४.५३ ॥

सर्गान्तश्लोकेन विचारनिरूपणं समापयति

सफलता फलते भुवि कर्मणां
प्रकटतां किल गच्छत उत्तमात् ।
स्फुटविचारदृशैव विचारिता
शमवते भवतेऽपि विरोचताम् ॥ (मो_२,१४.५४ ॥

"किल" निश्चये । "भुवि कर्मणां सफलता फलते" । "स्फुटविचारदृशैव" "स्फुटा" या "विचारदृक्" । तयैव । "उत्तमात्" विशेषतः । "प्रकटतां" "गच्छतः" विवेकस्यैव सर्वप्रकटने शक्तत्वात् । अतः इयं "विचारिता" "शमवते भवतेऽपि विरोचताम्" । इति शिवम् ॥ (मोटी_२,१४.५४ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे चतुर्दशः सर्गः ॥ २,१४ ॥




ओं एवं विचारस्वरूपं निर्णीय तृतीयस्य संतोषस्य स्वरूपं कथयति

संतोषोऽपि परं श्रेयः संतोषः सुखम् उच्यते ।
संतुष्टः परम् अभ्येति विश्रामम् अरिसूदन ॥ (मो_२,१५.१ ॥

"संतुष्टः" संतोषयुक्तः पुरुषः ॥ (मोटी_२,१५.१ ॥

संतोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् ।
साम्राज्यम् अपि साधूनां जरत्तृणलवायते ॥ (मो_२,१५.२ ॥

स्पष्टम् ॥ (मोटी_२,१५.२ ॥

संतोषशालिनी बुद्धी राम संसारवृत्तिषु ।
विषमास्व् अप्य् अनुद्विग्ना न कदाचन दूयते ॥ (मो_२,१५.३ ॥

"न दूयते" संतप्यते संतुष्टवान् ॥ (मोटी_२,१५.३ ॥

संतोषामृतपानेन ये परां तृप्तिम् आगताः ।
भोगश्रीर् अतुला तेषाम् एषा प्रतिविषायते ॥ (मो_२,१५.४ ॥

प्रतिविषा इवाचरते "प्रतिविषायते" । प्रतिविषा तिक्तद्रव्यविशेषः ॥ (मोटी_२,१५.४ ॥

न तथा तर्पयन्त्य् एताः पीयूषरसवीचयः ।
यथा हि मधुरास्वादः संतोषो दोषनाशनः ॥ (मो_२,१५.५ ॥

स्पष्टम् ॥ (मोटी_२,१५.५ ॥

संतुष्टस्वरूपकथनद्वारेण संतोषस्वरूपं कथयति

प्राप्तवाञ्छाम् उत्सृज्य संप्राप्ते समतां गतः ।
दृष्टखेदाखेदोऽन्तः स संतुष्ट इहोच्यते ॥ (मो_२,१५.६ ॥

"संप्राप्ते" प्रवाहागते ॥ (मोटी_२,१५.६ ॥

आत्मनात्मनि संतोषं यावद् याति न मानसम् ।
उद्भवन्त्य् आपदस् तावल् लता इव मनोवनात् ॥ (मो_२,१५.७ ॥

"आत्मना" स्वेन । न तु भोगादिना ॥ (मोटी_२,१५.७ ॥

संतोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः ।
भृशं विकासम् आयाति सूर्यांशुभिर् इवाम्बुजम् ॥ (मो_२,१५.८ ॥

संतुष्टस्यैव ज्ञाने अधिकार इति भावः ॥ (मोटी_२,१५.८ ॥

आशावैवश्यविवशे चित्ते संतोषवर्जिते ।
म्लाने वक्त्रम् इवादर्शे न ज्ञानं प्रतिबिम्बति ॥ (मो_२,१५.९ ॥

"प्रतिबिम्बति" लगति ॥ (मोटी_२,१५.९ ॥

ज्ञानघनयामिन्या संकोचं न नराम्बुजम् ।
यात्य् असाव् उदितो यस्य नित्यं संतोषभास्करः ॥ (मो_२,१५.१० ॥

तत् "नराम्बुजम् अज्ञानघनयामिन्या संकोचं न याति" । तत् किम् । "यस्यासौ संतोषभास्करः नित्यम् उदितो" भवति ॥ (मोटी_२,१५.१० ॥

किंचनोऽप्य् असौ जन्तुः साम्राज्यसुखम् अश्नुते ।
आधिव्याधिविनिर्मुक्तं संतुष्टं यस्य मानसम् ॥ (मो_२,१५.११ ॥

स्पष्टम् ॥ (मोटी_२,१५.११ ॥

नाभिवाञ्छत्य् असंप्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् ।
यः ससोम्यः सदाचारः संतुष्ट इति कथ्यते ॥ (मो_२,१५.१२ ॥

स्पष्टम् ॥ (मोटी_२,१५.१२ ॥

संतोषपरितृप्तस्य महतः पूर्णचेतसः ।
क्षीराब्धेर् इव शुद्धस्य मुखे लक्ष्मीर् विराजते ॥ (मो_२,१५.१३ ॥

स्पष्टम् ॥ (मोटी_२,१५.१३ ॥

पूर्णताम् अलम् आश्रित्य स्वात्मन्य् एवात्मना स्वयम् ।
पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥ (मो_२,१५.१४ ॥

"पूर्णतां" तृप्तताम् । "आत्मना एव" । न तु भोगैर् इत्य् अर्थः ॥ (मोटी_२,१५.१४ ॥

संतोषामृतपूर्णस्य स्वान्तः शीतलता स्वयम् ।
स्थैर्यम् आयात्य् अरिक्तस्य शीतांशोर् इव शाश्वतम् ॥ (मो_२,१५.१५ ॥

"स्वान्तः" स्वमनसि । "अरिक्तस्य" पूर्णस्य ॥ (मोटी_२,१५.१५ ॥

संतोषपुष्टमनसं भृत्या इव महर्द्धयः ।
राजानम् उपतिष्ठन्ते किंकरत्वम् उपागताः ॥ (मो_२,१५.१६ ॥

यथा "किंकरत्वम् उपागताः भृत्याः राजानम् उपतिष्ठन्ते" तथा "संतोषपुष्टमनसं" "महर्द्धयः उपतिष्ठन्ते" ॥ (मोटी_२,१५.१६ ॥

आत्मनैवात्मनि स्वच्छे संतुष्टे पुरुषे स्थिते ।
प्रशाम्यन्त्य् आधयः सर्वे प्रावृषीवाशु पांसवः ॥ (मो_२,१५.१७ ॥

"स्वच्छे" रागादिमलरहिते ॥ (मोटी_२,१५.१७ ॥

नित्यं शीतलया नाम कलङ्कपरिहीनया ।
पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥ (मो_२,१५.१८ ॥

"नाम" निश्चये । "कलङ्कहीनया" असन्तोषाख्यमलरहितया ॥ (मोटी_२,१५.१८ ॥

संतोषविवेचनं सर्गान्तश्लोकेन समापयति

समतया मतया गुणशालिनां
पुरुषराड् इह यः समलंकृतः ।
तम् अमलं प्रणमन्ति नभश्चरा
पि महामुनयो रघुनन्दन ॥ (मो_२,१५.१९ ॥

स्पष्टम् । इति शिवम् ॥ (मोटी_२,१५.१९ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे पञ्चदशः सर्गः ॥ २,१५ ॥




ओं एवं संतोषस्वरूपं निर्णीय चतुर्थं सत्संगं निरूपयति

विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।
सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥ (मो_२,१६.१ ॥

स्पष्टम् ॥ (मोटी_२,१६.१ ॥

साधुसंगतरोर् जातं विवेककुसुमं शुभम् ।
रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ (मो_२,१६.२ ॥

"फलश्रियः" मोक्षाख्यफललक्ष्म्याः ॥ (मोटी_२,१६.२ ॥

शून्यम् आकीर्णताम् एति मृतिर् अप्य् उत्सवायते ।
आपत् संपद् इवाभाति विद्वज्जनसमागमे ॥ (मो_२,१६.३ ॥

"शून्यं" शून्यदेशः । "आकीर्णताम्" लोकभरितदेशताम् ॥ (मोटी_२,१६.३ ॥

हिमम् आपत्सरोजिन्या मोहनीहारमारुतः ।
जयत्य् एको जगत्य् अस्मिन् साधु साधुसमागमः ॥ (मो_२,१६.४ ॥

"साधु" सम्यक् ॥ (मोटी_२,१६.४ ॥

परं विवर्धनं बुद्धेर् अज्ञानतरुनाशनम् ।
समुत्सारणम् आधीनां विद्धि साधुसमागमम् ॥ (मो_२,१६.५ ॥

"समुत्सारणम्" नाशनम् ॥ (मोटी_२,१६.५ ॥

विवेकः परमो दीपो जायते साधुसंगमात् ।
मनोहरोज्ज्वलो नूनम् अशोकाद् इव गुच्छकम् ॥ (मो_२,१६.६ ॥

स्पष्टम् ॥ (मोटी_२,१६.६ ॥

निरामयां निराबाधां निर्वृतिं नित्यपीवरीं ।
नुत्तमां प्रयच्छन्ति साधुसंगविभूतयः ॥ (मो_२,१६.७ ॥

स्पष्टम् ॥ (मोटी_२,१६.७ ॥

पि कष्टतरां प्राप्तैर् दशां विवशतां गतैः ।
मनाग् अपि न संत्याज्या मानवैः साधुसंगतिः ॥ (मो_२,१६.८ ॥

स्पष्टम् ॥ (मोटी_२,१६.८ ॥

साधुसंगतयो लोके सन्मार्गशुभदीपकाः ।
हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥ (मो_२,१६.९ ॥

स्पष्टम् ॥ (मोटी_२,१६.९ ॥

यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः ॥ (मो_२,१६.१० ॥

स्पष्टम् ॥ (मोटी_२,१६.१० ॥

नीरागाश् छिन्नसंदेहा गलितग्रन्थयोऽनघ ।
साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः ॥ (मो_२,१६.११ ॥

"गलितग्रन्थयः" नष्टकामाख्यग्रन्थयः ॥ (मोटी_२,१६.११ ॥

विश्रान्तमनसो वन्द्याः प्रयत्नेन परेण हि ।
दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥ (मो_२,१६.१२ ॥

स्पष्टम् ॥ (मोटी_२,१६.१२ ॥

सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।
कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥ (मो_२,१६.१३ ॥

"कमला" लक्ष्मीः ॥ (मोटी_२,१६.१३ ॥

तेनामलविलासस्य पदस्याग्रावचूलता ।
ग्रथिता येन भव्येन न त्यक्ता साधुसंगतिः ॥ (मो_२,१६.१४ ॥

"तेन" पुरुषेण । "अमलविलासस्य" शुद्धस्फुरणयुक्तस्य । "पदस्य" चिन्मात्राख्यस्य स्थानस्य । "अग्रावचूलता" शिरोभूषणता । "ग्रथिता येन भव्येन" दैवप्रकृतिकेन । "साधुसंगतिः न त्यक्ता" साधुसंगतिः कार्यैव चिन्मात्राख्ये पदे राजते इति भावः ॥ (मोटी_२,१६.१४ ॥

विच्छिन्नग्रन्थयस् तज्ज्ञाः साधवः सर्वसम्मताः ।
सर्वोपायेन संसेव्यास् ते ह्य् उपाया भवाम्बुधौ ॥ (मो_२,१६.१५ ॥

स्पष्टम् ॥ (मोटी_२,१६.१५ ॥

त एते नरकाग्नीनां संशुष्केन्धनतां गताः ।
यैर् दृष्टा हेलया सन्तो नरकानलवारिदाः ॥ (मो_२,१६.१६ ॥

स्पष्टम् ॥ (मोटी_२,१६.१६ ॥

दारिद्र्यं मरणं दुःखम् इत्यादिविषमो भ्रमः ।
संप्रशाम्यत्य् अशेषेण साधुसंगमभेषजैः ॥ (मो_२,१६.१७ ॥

स्पष्टम् ॥ (मोटी_२,१६.१७ ॥

सर्वान् उपायान् संकल्पयति

संतोषः साधुसंगश् च विचारोऽथ शमस् तथा ।
एत एव भवाम्भोधाव् उपायास् तरणे नृणाम् ॥ (मो_२,१६.१८ ॥

स्पष्टम् ॥ (मोटी_२,१६.१८ ॥

संतोषः परमो लाभः सत्संगः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखं ॥ (मो_२,१६.१९ ॥

अतः परं लाभादि नास्तीति "पर"पदाभिप्रायः ॥ (मोटी_२,१६.१९ ॥

चत्वार एते विमला उपाया भवभेदने ।
यैर् अभ्यस्तास् त उत्तीर्णा मोहवारेर् भवार्णवात् ॥ (मो_२,१६.२० ॥

"मोहवारेः" मोहाख्यजलयुक्तात् ॥ (मोटी_२,१६.२० ॥

एकस्मिन्न् एव चैतेषाम् अभ्यस्ते विमलोदये ।
चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥ (मो_२,१६.२१ ॥

स्पष्टम् ॥ (मोटी_२,१६.२१ ॥

एकोऽप्य् एकोऽपि सर्वेषां एषां प्रसवभूर् इव ।
सर्वसंसिद्धये तस्माद् यत्नेनैकं समाश्रयेत् ॥ (मो_२,१६.२२ ॥

"प्रसवभूः" उत्पत्तिस्थानम् ॥ (मोटी_२,१६.२२ ॥

सत्समागमसंतोषविचारास् त्व् अविचारितम् ।
प्रवर्तन्ते शमस्वच्छे वहनानीव सागरे ॥ (मो_२,१६.२३ ॥

"वहनानि" जलस्पन्दाः । "अविचारितम्" असन्देहम् ॥ (मोटी_२,१६.२३ ॥

विचारसंतोषशमाः सत्समागमशालिनि ।
प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥ (मो_२,१६.२४ ॥

स्पष्टम् ॥ (मोटी_२,१६.२४ ॥

विचारशमसत्संगाः संतोषवति मानवे ।
प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ॥ (मो_२,१६.२५ ॥

स्पष्टम् ॥ (मोटी_२,१६.२५ ॥

सत्संगसंतोषशमा विचारवति सन्मतौ ।
प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥ (मो_२,१६.२६ ॥

"मन्त्रिणां" मन्त्रज्ञानां । "वरे" श्रेष्ठे ॥ (मोटी_२,१६.२६ ॥

फलितम् आह

तस्माद् एकतमं नित्यम् एतेषां रघुनन्दन ।
पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद् गुणम् ॥ (मो_२,१६.२७ ॥

"तस्मात् एतेषां" चतुर्णां मध्ये । "एकतमं गुणं" संतोषादिरूपं गुणं । "अभ्याहरेत्" अर्जयेत् ॥ (मोटी_२,१६.२७ ॥

परं पौरुषम् आश्रित्य जित्वा चित्तमतङ्गजम् ।
यावद् एको गुणो नाप्तस् तावन् नास्त्य् उत्तमा गतिः ॥ (मो_२,१६.२८ ॥

स्पष्टम् ॥ (मोटी_२,१६.२८ ॥

पौरुषेण प्रयत्नेन दन्तैर् दन्तान् विचूर्णयन् ।
यावन् नाभिनिविष्टं ते मनो राम गुणार्जने ॥ (मो_२,१६.२९ ॥
देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा ।
तावत् तव महाबाहो नोपायोऽस्तीह कश्चन ॥ (मो_२,१६.३० ॥

"गुणार्जने" संतोषाद्यर्जने ॥ (मोटी_२,१६.२९-३० ॥

एकस्मिन्न् एव फलिते गुणे बलम् उपागते ।
क्षीयन्ते सर्व एवाशु दोषा विषदचेतसः ॥ (मो_२,१६.३१ ॥

"दोषाः" रागादयः ॥ (मोटी_२,१६.३१ ॥

गुणे विवृद्धे वर्धन्ते गुणा दोषक्षयावहाः ।
दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशिनः ॥ (मो_२,१६.३२ ॥

स्पष्टम् ॥ (मोटी_२,१६.३२ ॥

मनोमहावने ह्य् अस्मिन् वेगिनी वासनासरित् ।
शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥ (मो_२,१६.३३ ॥

स्पष्टम् ॥ (मोटी_२,१६.३३ ॥

सा हि स्वेन प्रयत्नेन यस्मिन्न् एव निपात्यते ।
कूले तेनैव वहति यथेच्छसि तथा कुरु ॥ (मो_२,१६.३४ ॥

"हि" निश्चये । "सा" वासनासरित् ॥ (मोटी_२,१६.३४ ॥

सर्गान्तश्लोकेनैतत् समापयति

पुरुषयत्नजवेन मनोवने
शुभतटानुगतां क्रमशः कुरु ।
वरमते निजभावमहानदीम्
इह हि तेन मनाग् अपि नोह्यसे ॥ (मो_२,१६.३५ ॥

"पुरुषयत्नजवेन" पौरुषवेगेन । "निजभावनदीं" स्ववासना"महानदीं" । ननु किमर्थं तां तटगतां करोमीत्य् अपेक्षायाम् आह । "इह ही"ति । "हि" यस्मात् । "तेन" तस्याः "शुभतटानुगमनेन" । तया निजभावमहानद्या त्वम् "न उह्यसे" विवशतया यत्र तत्र न नीयसे । तटगतया च नद्या न किंचित् उह्यते । इति शिवम् ॥ (मोटी_२,१६.३५ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे षोडशः सर्गः ॥ २,१६ ॥




फलितं कथयति

एवम् आत्तविवेको यः स भवान् इव राघव ।
योग्यो ज्ञानगिरः श्रोतुं राजेव नयभारतीः ॥ (मो_२,१७.१ ॥

हे "राघव" । "एवं" सति । "यः" पुरुषः । "आत्तविवेको" भवति । "सः" । "भवान् इव" । "ज्ञानगिरः श्रोतुं योग्यो" भवति। क इव । "राजा इव" यथा "राजा नयभारतीः" नीतिवाक्यानि "श्रोतुं योग्यः" भवति । तथेत्य् अर्थः ॥ (मोटी_२,१७.१ ॥

वदातोऽवदातस्य विज्ञानस्य महाशयः ।
जडसङ्गोज्झितो योग्यः शरदीन्दोर् यथा नभः ॥ (मो_२,१७.२ ॥

"अवदातः" शमादिसेवनेन रागादिमलरहितः निर्मलश् च । "अवदातस्य" शुद्धचिन्मात्रविषयत्वेन शुद्धस्य सितस्य च । "जडसङ्गेन" मूढसङ्गेन्"ओज्झितः" त्यक्तः । तम् अकुर्वाण इत्य् अर्थः । जडानां लक्षणया मेघानां "सङ्गेन उज्झितः" इति च ॥ (मोटी_२,१७.२ ॥

त्वम् एतयाखण्डितया गुणलक्ष्म्या समाश्रितः ।
मनोमोहहरं वाक्यं वक्ष्यमाणम् इदं शृणु ॥ (मो_२,१७.३ ॥

स्पष्टम् ॥ (मोटी_२,१७.३ ॥

पुण्यकल्पद्रुमो यस्य फलभारानतः स्थितः ।
मुक्तये जायते जन्तोस् तस्येदं श्रोतुम् उद्यमः ॥ (मो_२,१७.४ ॥

"इदम्" एतत् शास्त्रम् ॥ (मोटी_२,१७.४ ॥

पावनानाम् उदाराणां परबोधैकदायिनाम् ।
वचसां भाजनं भूत्यै भव्यो भवति नाधमः ॥ (मो_२,१७.५ ॥

"भव्यः" दिव्यप्रकृतिः ॥ (मोटी_२,१७.५ ॥

मोक्षोपायाभिधानेयं संहिता सारसम्मिता ।
त्रिंशद् द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी ॥ (मो_२,१७.६ ॥

"संहिता" शास्त्रम् । "सारसम्मिता" सारतुल्या । "ज्ञाता" सम्यक् विचारिता ॥ (मोटी_२,१७.६ ॥

ननु किम् अनया सेत्स्यतीत्य् । अत्राह

दीपे यथा विनिद्रस्य ज्वलिते संप्रवर्तते ।
आलोकोऽनिच्छतोऽप्य् एवं निर्वाणम् अनया भवेत् ॥ (मो_२,१७.७ ॥

"यथा दीपे" प्र"ज्वलिते" । "अनिच्छतः अपि" आलोकानाकाङ्क्षिणोऽपि । अर्ध"निद्रस्या"र्धप्रबुद्धस्य । "आलोकः संप्रवर्तते" । "एवम् अनया" संहितया । "निर्वाणम्" ब्रह्मण्य् आत्यन्तिको लयो । "भवेत्" ॥ (मोटी_२,१७.७ ॥

स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैव सौख्यदा ।
आप्तोक्तिवर्णिता सद्यो यथामृततरङ्गिणी ॥ (मो_२,१७.८ ॥

"आप्तोक्तिवर्णिते"ति "श्रुते"त्य् अस्य विशेषणद्वारेण हेतुः ।८॥ (मोटी_२,१७.

यथा रज्ज्वाम् अहिभ्रान्तिर् विनश्यत्य् अवलोकनात् ।
तथैतत्प्रेक्षणाच् छान्तिम् एति संसारदुःखिता ॥ (मो_२,१७.९ ॥

"एतस्याः" संहितायाः "प्रेक्षणम्" विचारणम् "एतत्प्रेक्षणम्" । तस्मात् ॥९॥ (मोटी_२,१७.

युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक् पृथक् ।
दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट् ॥ (मो_२,१७.१० ॥

मया "षट् प्रकरणानि अस्यां कल्पितानि" विहितानि। कथंभूतानि । अर्थसहितानि वाक्यानि "अर्थवाक्यानि" । "युक्तियुक्तानि" अर्थवाक्यानि येषु । तानि। पुनः कथंभूतानि । "दृष्टान्तैः सारम्" श्रेष्ठम् "सूक्तं" येषु । तानि ॥१०॥ (मोटी_२,१७.
प्रकरणषट्कम् विशेषतो निर्दिशति

वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् ।
वैराग्यं वर्धते येन सेकेनेव मरौ तरुः ॥ (मो_२,१७.११ ॥

ननु किं तेन संपद्यत इत्य् । अत्राह । "वैराग्यम्" इति ॥११॥ (मोटी_२,१७.
कियत्प्रमाणं तत् कृतम् इत्य् अपेक्षायाम् आह

सार्धं सहस्रं ग्रन्थस्य यस्मिन् हृदि विचारिते । ।
प्रकाशा शुद्धतोदेति मणाव् इव विमार्जिते ॥ (मो_२,१७.१२ ॥

"ग्रन्थस्ये"ति जाताव् एकवचनम्। तत् वैराग्यप्रकरणं "ग्रन्थस्य" श्लोकानां "सार्धं सहस्रं" भवति। तत् किं । "यस्मिन् हृदि विचारिते" सति । "प्रकाशा" प्रकटा । "शुद्धता" रागादिमलराहित्यं "उदेति" । कस्मिन्न् इव । "मार्जिते" शोधिते "मणौ इव" । यथा "विमार्जिते मणौ शुद्धतोदेति" । तथेत्य् अर्थः ॥१२॥ (मोटी_२,१७.

मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम् ।
सहस्रमात्रं ग्रन्थस्य सूक्तिग्रन्थेन सुन्दरम् ॥ (मो_२,१७.१३ ॥

"सूक्ति"रूपः यः "ग्रन्थः" वाक्यम् । तेन "सुन्दरम्" । तद्युक्तम् इत्य् अर्थः ॥१३॥ (मोटी_२,१७.
ननु किं तत्र कथ्यते इत्य् । अत्राह

स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते ।
एवंस्वभावो मोक्षस्य योग्य इत्य् अवगम्यते ॥ (मो_२,१७.१४ ॥

ननु वर्णनेन किं सेत्स्यतीत्य् । अत्राह । "एवंस्वभाव" इति ॥१४॥ (मोटी_२,१७.

थोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् ।
पञ्चग्रन्थसहस्राणि विज्ञानप्रतिपादनम् ॥ (मो_२,१७.१५ ॥

"विज्ञानप्रतिपादनम्" विज्ञानप्रतिपादकम् इत्य् अर्थः ॥१५॥ (मोटी_२,१७.

जागती द्रष्टृदृश्यश्रीर् अहं त्वम् इतिरूपिणी ।
नुत्थितैवोत्थितेव यत्रेति परिवर्ण्यते ॥ (मो_२,१७.१६ ॥

स्पष्टम् ॥१६॥ (मोटी_२,१७.

यस्मिञ् श्रुते जगद् इदं श्रोत्रान्तर् बुध्यतेऽखिलम् ।
सास्मद्युष्मत् सविस्तारं सलोकाकाशपर्वतम् ॥ (मो_२,१७.१७ ॥
पिण्डग्रहविनिर्मुक्तं निर्भित्तिकम् अपर्वतम् ।
पृथ्व्यादिभूतरहितं संकल्प इव पत्तनम् ॥ (मो_२,१७.१८ ॥

"यस्मिन्" यस्मिन् उत्पत्तिप्रकरणे । "सास्मद्युष्मत्" अहंत्वंयुक्तम् । "बुध्यते" इत्य् । अत्र "श्रोत्रे"ति कर्तृत्वेनाध्याहार्यम्। कीदृशं बुध्यते इत्य् अपेक्षायाम् आह । "पिण्डग्रहे"त्यादि । "संकल्पे" हि "पत्तनम्" ईदृग् एव भातीति दृष्टान्तत्वेनोपात्तम् ॥१७-१८॥ (मोटी_२,१७.
पुनः कीदृग् बुध्यते इत्य् । अत्राह

स्वप्नोपलब्धभावाभं मनोराज्यवद् आततम् ।
गन्धर्वनगरप्रख्यम् अर्थशून्योपलम्बनम् ॥ (मो_२,१७.१९ ॥

"स्वप्नोपलब्धभावाभं" स्वप्नदृष्टपदार्थसदृशम् इत्य् अर्थः । गन्धर्वाः स्वावासार्थं कल्पनयाकाशे नगरं कल्पयन्ति । तद् एव "गन्धर्वनगरम्" । "अर्थशून्यं" सत्यभूतघटाद्यर्थरहितं । "उपलम्बनं" ज्ञानं यस्मिन् ॥१९॥ (मोटी_२,१७.

द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवत् ततम् ।
नौयानलोलशैलाभं सत्यलाभविवर्जितम् ॥ (मो_२,१७.२० ॥

स्पष्टम् ॥२०॥ (मोटी_२,१७.

चित्तभ्रमपिशाचाभं निर्बीजम् अपि भासुरम् ।
कथार्थप्रतिभानाभं व्योममुक्तावलीनिभम् ॥ (मो_२,१७.२१ ॥

"निर्बीजं" कारणरहितं । "कथायाः" यः "अर्थः" वर्णनीयः पदार्थः । तस्य यत् "प्रतिभानं" पुर इव स्फुरणं । तेन्"आभा" यस्य । तत् । कथायां हि वर्णनीयः पदार्थः पुरःस्थ इव प्रतिभाति । "व्योमे"ति । भ्रमेण हि व्योम्नि "मुक्तावली" दृश्यते ॥२१॥ (मोटी_२,१७.

कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ।
यथा नभसि नीलत्वम् असद् एवोत्थितं तथा ॥ (मो_२,१७.२२ ॥

"कटका"दि "यथा हेम्नि असद् एवोत्थितं" भवति "तथासद् एवोत्थितं" जगद् बुध्यते इति पूर्वेणैव सम्बन्धः ॥२२॥ (मोटी_२,१७.

भित्ति रङ्गरहितम् उपलब्धिमनोहरम् ।
स्वप्ने वा व्योम्नि वा चित्रम् अकर्म चिरभासुरम् ॥ (मो_२,१७.२३ ॥

"वा"शब्दद्वयं पक्षान्तरद्योतकं । "स्वप्ने" दृष्टं "चित्रम्" "वा" बुध्यते । "व्योम्नि" भ्रमेण दृष्टं "चित्रम्" "वा" बुध्यते । चित्रं कथंभूतं । "अभित्ति" भित्तिरहितं । तथा "रङ्गरहितम्" रङ्गद्रव्यरहितम् । पुनः कथंभूतं । "अकर्म" अनिर्मिति । तथा चिरं भास्वरम् "चिरभासुरम्" । एतैः विशेषणैश् च चित्रस्य लोकोत्तरत्वम् उक्तम् ॥२३॥ (मोटी_२,१७.

वह्निर् एव वह्नित्वं धत्ते चित्रानलो यथा ।
तथा दधज् जगच्छब्दरूपार्थम् असदात्मकम् ॥ (मो_२,१७.२४ ॥

"तथा" तद्वत् । "असदात्मकम्" असत्स्वरूपम् । "जगच्छब्दरूपार्थम्" भावप्रधानो निर्देशः । जगद् इति यच्छब्दरूपं तस्यार्थत्वं "दधत्" बुध्यते "तथा" । कथं । "यथा चित्रानलः अवह्निः" अदाहकता अनग्निः सन् । "असदात्मकं वह्नित्वं धत्ते" धारयति ॥२४॥ (मोटी_२,१७.

तरङ्गोत्पलमालाढ्यदृषत्पत्त्रम् इवोत्थितम् ।
चक्रशूत्कारचूर्णस्य मलराशिम् इवोदितम् ॥ (मो_२,१७.२५ ॥

"तरङ्गोत्पलमालाभिः आढ्यं" यत् "दृषत्पत्त्रम्" शिलापत्त्रम् । तद् "इवोत्थितं" बुध्यते । शिलापत्त्रे हि तरङ्गाकारः उत्पलाकाराश् च रेखाः भवन्ति । ता एवात्र "तरङ्गोत्पलमालाः" ज्ञेयाः । पदार्थाश् चात्र "तरङ्गोत्पलमालास्थानीयाह्" । पुनः कीदृग् बुध्यते इत्य् । अत्राह । "चक्रे"ति । "चक्रस्य" भ्राम्यमाणस्य चक्रस्य । यत् "शूत्कारचूर्णम्" । तस्य "मलराशिम् इव उदितं" बुध्यते । भ्राम्यमाणेन चक्रेण हि सशूत्कारं भूमेः रजः उत्तिष्ठति ॥२५॥ (मोटी_२,१७.

शीर्णपर्णं भ्रष्टनष्टं ग्रीष्मे वनम् इवारसम् ।
मरणव्यग्रनृत्ताभं शिलास्त्रीहास्यहासदम् ॥ (मो_२,१७.२६ ॥

"शिलास्त्रीहास्य"वत् "हासदम्" ॥२६॥ (मोटी_२,१७.

न्धकारगृहैकैकनृत्तम् उन्मत्तचेष्टितम् ।
प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् ॥ (मो_२,१७.२७ ॥

"अन्धकारगृहे" यत् "एकैकस्य नृत्तम्" तद्रूपं बुध्यते । सर्वथा चासत्यतरम् एव बुध्यते इति इह तावद् अभिप्रायः । इतः परं चिन्मात्रमयं चिन्मात्रस्थं च बुध्यत इत्य् अभिप्रायेणाह । "प्रशान्ते"ति । श्रोत्रा अस्मिन्न् उत्पत्तिप्रकरणे श्रुते सति इदं "प्रशान्ताज्ञाननीहारं ज्ञानशरदम्बरं" बुध्यते ॥२७॥ (मोटी_२,१७.

समुत्कीर्णम् इव स्तम्भे चित्रं भित्ताव् इवाहितम् ।
पङ्काद् इवाभिरचितं सचेतनम् अचेतनम् ॥ (मो_२,१७.२८ ॥

"स्तम्भे" चिन्मात्राख्ये स्तम्भे । "समुत्कीर्णम् इव" बुध्यते । तथा "भित्तौ" चिन्मात्राख्यायां भित्तौ । "चित्रम् इवाहितं" कृतं बुध्यते । "पङ्को"ऽत्र चिन्मात्रस्वरूपं ज्ञेयं । "सचेतनं" चिन्मात्रसारत्वात् । "अचेतनं" ग्राह्यत्वात् ॥२८॥ (मोटी_२,१७.

ततः स्थितिप्रकरणं चतुर्थं परिकल्पितम् ।
त्रीणि ग्रन्थसहस्राणि स्वाख्यानाख्यायिकामयम् ॥ (मो_२,१७.२९ ॥

शोभनाख्याः "आख्यानाख्यायिकाः" । तन्"मयम्" ॥२९॥ (मोटी_२,१७.
ननु स्थितिप्रकरणे किम् उक्तम् इत्य् । अत्राह

इत्थं जगद् अहंभावरूपं स्थितिम् उपागतम् ।
द्रष्टृदृश्यक्रमप्रौढम् इत्य् अत्र परिवर्णितम् ॥ (मो_२,१७.३० ॥

"अहंभावरूपस्य" "जगतः" "स्थितिर्" एवात्र प्रायशो निर्णीयते इति भावः ॥३०॥ (मोटी_२,१७.

दशदिङ्मण्डलाभोगभासुरोऽयं जगद्भ्रमः ।
इत्थम् अभ्यागतो वृद्धिम् इति तत्रोच्यते चिरम् ॥ (मो_२,१७.३१ ॥

"चिरम्" बहुकालम् । बाहुल्येनेति यावत् ॥३१॥ (मोटी_२,१७.

उपशान्तिप्रकरणं ततः पञ्चसहस्रिकम् ।
पञ्चमं पावनं प्रोक्तं मुनिसन्ततिसुन्दरम् ॥ (मो_२,१७.३२ ॥

"मुनिसन्ततिभिः" दृष्टान्ततया वक्ष्यमाणाभिः मुनिसन्ततिभिः । "सुन्दरम्" रमणीयम् ॥३२॥ (मोटी_२,१७.
नन्व् अत्र किं वर्ण्यत इत्य् अपेक्षायाम् आह

इदं जगद् अहं त्वं च स इति भ्रान्तिर् उत्थिता ।
इत्य् असौ शाम्यतीत्य् अस्मिन् कथ्यते श्लोकसङ्ग्रहे ॥ (मो_२,१७.३३ ॥

"इदं जगत् अहं त्वं च सः" । "इति" एवंरूपा । "भ्रान्तिः उत्थिता" । इति सती एव । "शाम्यति" । "इति" एवम् । "अस्मिन्" उपशान्तिप्रकरणे "कथ्यते" । "अस्मिन्" कथंभूते । "श्लोकानां सङ्ग्रहः" यस्मिन् सः । तादृशे । "स" इति परमकारणपरामर्शः ॥३३॥ (मोटी_२,१७.
नन्व् एतच्छ्रवणेन किं सेत्स्यतीत्य् । अत्राह

उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः ।
प्रस्पष्टा विभ्रमेणैव किंचिल्लभ्योपलम्भना ॥ (मो_२,१७.३४ ॥

"संसृतिः" कथंभूता । "विभ्रमेणैव" विपर्ययज्ञानेनैव "प्रस्पष्टा" । पुनः कथंभूता । "किंचित्" लेशेन । "लभ्यम् उपलम्भनं" स्पर्शः यस्याः सा । अन्यथा निर्वाणप्रकरणं व्यर्थं स्यात् इति भावः ॥३४॥ (मोटी_२,१७.
ननु ततः संसृतिः कीदृशी तिष्ठतीत्य् अपेक्षायाम् आह

शतांशशिष्टा भवति संशान्तभ्रान्तिरूपिणी ।
न्यसंकल्पचित्तस्था नगरश्रीर् इवासती ॥ (मो_२,१७.३५ ॥

स्पष्टम् ॥३५॥ (मोटी_२,१७.

लभ्यैव स्वपार्श्वस्थस्वप्नयुद्धविराववत् ।
शान्तसंकल्पमत्ताभ्रभीषणाशनिशब्दवत् ॥ (मो_२,१७.३६ ॥

संकल्पे दृष्टं मत्ताभ्रम् "संकल्पमत्ताभ्रम्" । "शान्तं" यत् "संकल्पमत्ताभ्रम्" । तस्य यः "भीषणः अशनिशब्दः" । तद्"वत्" ॥३६॥ (मोटी_२,१७.

विस्मृतस्वप्नसंकल्पनिर्माणनगरोपमा ।
भविष्यन्नगरोद्यानसोत्सवश्यामलाङ्गिका ॥ (मो_२,१७.३७ ॥

"विस्मृतौ" यौ "स्वप्नसंकल्पौ" । तयोः "निर्माणं" यस्य । तादृशं यत् "नगरं" । तेन्"ओपमा" यस्याः सा । तथा "भविष्यन्नगरोद्याने सोत्सवा" समदना । या "श्यामला" श्यामाख्या स्त्री । तद्वत् "अङ्गं" स्वरूपं यस्यां सा । तादृशी ॥३७॥ (मोटी_२,१७.

नश्यज्जिह्वोच्यमानोग्रकथार्थानुभवोपमम् ।
नुल्लिखितचित्तस्थचित्रव्याप्तेव भित्तिभूः ॥ (मो_२,१७.३८ ॥

पुनः कथंभूता । "नश्यज्जिह्वेन" । न तु नष्टजिह्वेन । "उच्यमाना" या "उग्रकथा" । तस्याः यः "अर्थः" । तस्य यः "अनुभवः" । तेन्"ओपमा" यत्र तत् । ताद्र्शम् । का इव । "अनुल्लिखितानि" "चित्तस्थानि" च तानि चित्रकृच्"चित्तस्थानि" च यानि "चित्राणि" । तैः "व्याप्ता भित्तिभूर् इव" ॥३८॥ (मोटी_२,१७.

परिविस्मार्यमाणाच्छकल्पनानगरीनिभा ।
सर्वर्तुमदनुत्पन्नवरमर्दास्फुटाकृतिः ॥ (मो_२,१७.३९ ॥

"परिविस्मार्यमाणा" । न तु विस्मारिता । या "अच्छा" भित्तिरहिता । "कल्पनानगरी" । तस्याः "निभा" सदृशी । "सर्वासाम् ऋतुमतीनाम् अनुत्पन्नस्य" "वरस्य मर्दः" मर्दनम् । तद्वत् "अस्फुटा आकृतिः" यस्याः सा । निकटवर्तित्वेन बुद्धाव् आरूढत्वज्ञापनार्थम् ऋतुमतीनाम् इत्य् उक्तम् ॥३९॥ (मोटी_२,१७.

भाविपुष्पवराकारवसन्तरसरञ्जना ।
न्तर्लीनतरङ्गौघसौम्यवारिसरित्समा ॥ (मो_२,१७.४० ॥

"भावी पुष्पा"ख्यो "वराकारः" यस्य सः । तादृशो यः "वसन्तरसः" । तद्वत् "रञ्जना" यस्याः सा । तत्सदृशीत्य् अर्थः । "अन्तर्लीनः तरङ्गौघः" यस्याः सा "अन्तर्लीनतरङ्गौघा" । तादृशी चासौ "सौम्यवारिसरित्" सौम्यवारियुक्ता नदी । तया "समा" सदृशी । एतैर् विशेषणैश् चोपशान्तिप्रकरणश्रवणानन्तरं बुद्ध्यारोहमात्रस्वरूपा सृष्टिस् तिष्ठतीति सूचितम् ॥४०॥ (मोटी_२,१७.

निर्वाणाख्यं प्रकरणं ततः षष्ठम् उदाहृतम् ।
शिष्टो ग्रन्थः परीमाणं तस्य ज्ञेयं महार्थदम् ॥ (मो_२,१७.४१ ॥

"ततः" उपशान्तिप्रकरणानन्तरं । "शिष्टः ग्रन्थः" सार्धषोडशसहस्राणि "परीमाणम्" ॥४१॥ (मोटी_२,१७.
ननु किं तच्छ्रवणेन सेत्स्यतीत्य् । अत्राह

बुद्धे तस्मिन् भवेच् छ्रोता निर्वाणः शान्तकल्पनः ।
चेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः ॥ (मो_२,१७.४२ ॥

"निर्वाणः" ब्रह्मणि लीनः । "विज्ञानात्मा" शुद्धज्ञानस्वरूपः । "निरामयः" दृश्याख्यामयरहितः ॥४२॥ (मोटी_२,१७.

परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः ।
निर्वाहितजगद्यात्रः कृतकर्तव्यसुस्थितः ॥ (मो_२,१७.४३ ॥

"निर्वाहिता" अवसानं नीता "जगद्यात्रा" येन सः । तादृशः । "कृतं" समाप्तं । कर्तव्यं येन "कृतकर्तव्यः" । तादृशश् चासाव् । अत एव "सुस्थितश्" च ॥४३॥ (मोटी_२,१७.

समस्तविततारम्भवज्रस्तम्भो नभोनिभः ।
विनिगीर्णयथासंस्थजगज्जालातितृप्तिमान् ॥ (मो_२,१७.४४ ॥

"समस्ताः" ये "विततारम्भाः" । तेषु "वज्रस्तम्भः" अविचल इत्य् अर्थः । "नभोनिभः" शरीरयात्रार्थं कृतैर् अपि कर्मभिर् अलिप्तत्वात् आकाशसदृशः । "विनिगीर्णं" चित्स्वरूपे स्वात्मनि लीनीकृतं । यत् "जगज्जालं" । तेन्"आतितृप्तिमान्" निरपेक्ष इत्य् अर्थः ॥४४॥ (मोटी_२,१७.

आकाशीभूतनिःशेषरूपालोकमनस्कृतिः ।
कार्यकारणकर्तृत्वहेयादेयदशोज्झितः ॥ (मो_२,१७.४५ ॥

"रूपम्" विषयः । "आलोकः" तद्ग्रहणोपायः । "मनस्कृतिः" मनस्कारः । आलोकेन गृहीतस्य रूपस्य मनसि अनुसन्धानम् इति यावत् ॥४५॥ (मोटी_२,१७.

सदेह एव निर्देहः ससंसारोऽप्य् असंसृतिः ।
चिन्मयो ॥हनपाषाणजठरजठरोपमः ॥ (मो_२,१७.४६ ॥

"सदेहः" सत्त्वशेषं तावत् शरीरस्य स्थितत्वात् । "निर्देहः" शरीरेऽभिमानाभावात् । "चिन्मयः" चित्स्वरूप अहम् इति निश्चयात् । "घनपाषाणस्य" यत् "जठरम्" । तस्य यत् "जठरम्" । तेन्"ओपमा" यस्य सः । तादृशः अचेत्यचिन्मयत्वात् ॥ (मोटी_२,१७.४६ ॥

चिदादित्यस् तपंल् लोकेऽप्य् अन्धकारोदरोपमः ।
परप्रकाशरूपोऽपि परम् आन्ध्यम् इवागतः ॥ (मो_२,१७.४७ ॥

"चिदादित्यः" चिदादित्यस्वरूपः । अत एव "लोके तपन्न् अपि" । न हि चित्स्पर्शरहितः कश्चित् भावः संभवति । सत्त्वेऽपि तस्य असंकल्पत्वप्रसङ्गात् । "अन्धकारोदरोपमः" अन्धकारस्य यत् उदरं । तेनोपमा यस्य । तादृशः पदार्थविभागरहितत्वात् । न हि अन्धकारोदरे पदार्थविभागः भवति । "परप्रकाशरूपोऽपि" उत्तीर्णचित्प्रकाशरूपोऽपि । "परम् आन्ध्यम्" "आगतः इव" न किंचिद्द्रष्टृत्वात् ॥ (मोटी_२,१७.४७ ॥

रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकाः ।
नष्टाहंकारवेतालो देहवान् अकलेवरः ॥ (मो_२,१७.४८ ॥

स्पष्टम् ॥ (मोटी_२,१७.४८ ॥

कस्मिंश्चिद् रोमकोट्यग्रे तस्येयम् अवतिष्ठते ।
जगल्लक्ष्मीर् महामेरोः पुष्पे क्वचिद् इवालिनी ॥ (मो_२,१७.४९ ॥

"कश्मिंस्चित्" अतिसूक्ष्मतया वक्तुम् अशक्ये "स्वप्नवद्" इति शेषः । स्वप्ने हि पुरुषस्य कस्मिंश्चिद् अंशे स्वप्नजगद् "अवतिष्ठते" ॥ (मोटी_२,१७.४९ ॥

परमाणौ परमाणौ चिदाकाशस्य कोटरे ।
जगल्लक्ष्मीसहस्राणि धत्ते कृत्वा च पश्यति ॥ (मो_२,१७.५० ॥

"चिदाकाशस्य" स्वरूपभूतस्य चिन्मात्राकाशस्य । "कोटरे" मध्ये स्थिते । "परमाणौ परमाणौ जगल्लक्ष्मीसहस्राणि कृत्वा धत्ते" धारयति । न केवलं धत्ते । किं तु साक्षितया स्थितत्वात् "पश्यति च" ॥ (मोटी_२,१७.५० ॥

ननु कथम् असौ जगल्लक्ष्मीसहस्राण्य् अन्तर्वर्तयतीत्य् । अत्र सर्गान्तश्लोकेनाह

प्रवितता हृदयस्य महामते
हरिहराब्जजलक्षशतैर् अपि ।
तुलनम् एति न मुक्तिमतो बत
प्रविततास्ति न नूनम् अवस्तुनः ॥ (मो_२,१७.५१ ॥

"बत" निश्चये । हे "महामते" । "मुक्तिमतः" निर्वाणप्रकरणश्रवणद्वारेण मुक्तियुक्तस्य पुरुषस्य । "हृदयस्य प्रविततः" भावप्रधानो निर्देशः । तेन "हृदयस्य प्रवितते"ति अर्थः । सा "हरिहराब्जजलक्षशतैर् अपि तुलनं" मापनविषयतां "न एति" । यतः "अवस्तुनः" अवस्तुभूतस्य हरिहराब्जादिरूपस्य भाववृन्दस्य "प्रवितता" । "नूनं" निश्चये । "नास्ति" । न चावस्तुना वस्तुमापनं युक्तं । तथा च नोक्तदेशप्रसङ्ग इति भावः । इति शिवम् ॥ (मोटी_२,१७.५१ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे सप्तदशः सर्गः ॥ २,१७ ॥




ओं श्रोतृप्रवृत्त्यर्थं स्वेन क्रियमाणस्य ग्रन्थस्यान्यविलक्षणत्वेन सम्यग्ज्ञानं प्रति परोपायत्वं कथयति

स्यां वाचितमात्रायां परो बोधः प्रवर्तते ।
बीजाद् इव यतो व्युप्ताद् अवश्यंभावि सत्फलम् ॥ (मो_२,१८.१ ॥

"अस्यां" मोक्षोपायाभिधायां संहितायां । "बोधः" कः । "यतः" यस्मात् बोधात् । "सत्फलं" मोक्षाख्यं शुभं फलम् । "अवश्यंभावि" भवति । कस्माद् इव । "व्युप्ताद् बीजाद् इव" ॥ (मोटी_२,१८.१ ॥

ननु महामुनिप्रणीतानि शास्त्रान्तराणि त्यक्त्वा किम् इति इदम् एव शास्त्रं गृह्णामीत्य् । अत्राह

पि पौरुषम् आदेयं शास्त्रं चेद् युक्तिबोधकम् ।
न्यत् त्व् आर्षम् अपि त्याज्यं भाव्यं न्यायैकसेविना ॥ (मो_२,१८.२ ॥

"पौरुषम्" पुरुषनिर्मितम् । "आदेयं" ग्रहीतव्यं । "युक्तिबोधकम्" सत्तर्कबोधकम् । "अन्यत्" युक्त्यबोधकम् । "आर्षम्" ऋषिनिर्मितम् । अत्र च प्रतिभान्वितैः कश्चिद् अभिप्रायो बोद्धव्यः योऽस्माभिः आरम्भ एव प्रतिभावतां स्वयं ज्ञेयत्वेन तद्रहितानाम् अकथनीयत्वेन चोक्तः ॥ (मोटी_२,१८.२ ॥

युक्तियुक्तम् उपादेयं वचनं बालकाद् अपि ।
न्यत् तृणम् इव त्याज्यम् अप्य् उक्तं पद्मजन्मना ॥ (मो_२,१८.३ ॥

अत्रापि प्रतिभावद्भिः आरम्भे स्वयं ज्ञेयत्वेनोक्तोऽर्थः स्वयं बोद्धव्यः । न च तद्बोधेनास्मिञ् शास्त्रे अनादरः कार्यः प्रतिभावत्त्वहानेः । एवम् उत्तरत्रापि यत्र तत्र स्वयम् अभ्यूह्यम् ॥ (मोटी_२,१८.३ ॥

पुनर् अप्य् एतद् एव भङ्ग्यन्तरेण कथयति

योऽम्भस् तातस्य कूपोऽयम् इति कौपं पिबेत् कटु ।
त्यक्त्वा गाङ्गं पुरःस्थं तं कोऽनुशासति रागिणम् ॥ (मो_२,१८.४ ॥

"यः" पुरुषः । "पुरःस्थं गाङ्गं" तोयं "त्यक्त्वा" । "अयं कूपः तातस्य" निजस्य पितुः भवति । "इति" एतदर्थं । "कौपं" कूपसम्बन्धि । "कटु अम्भः पिबेत्" । "तम्" अनु"रागिणं" पितृविषयरागाख्यदोषयुक्तं । "कः अनुशासति" उपदिशति । नासाव् उपदेशार्हः इति भावः । अयम् अत्राभिप्रायः । "यः" पुरुषः । सद्युक्तियुक्तम् "अपि पौरुषं" वचनं । "पौरुषेयम् इदम्" इति त्यजति । तद्रहितम् अपि "आर्षं" वचनं । "आर्षम्" इत्य् एतावन्मात्रेण गृह्णाति । तस्योपदेशो न कार्यः इति ॥ (मोटी_२,१८.४ ॥

प्रकृतम् एवानुसरति

यथोषसि प्रवृत्तायाम् आलोकोऽवश्यम् एष्यति ।
स्यां वाचितमात्रायां स्वविवेकस् तथैष्यति ॥ (मो_२,१८.५ ॥

"उषसी"त्य् आर्षं स्त्रीत्वम् । "स्वविवेकः" आत्मविवेकः ॥ (मोटी_२,१८.५ ॥

श्रुतायां प्राज्ञवदनाद् बुद्धायां स्वयम् एव वा ।
शनैः शनैर् विचारेण बुद्धौ संस्कार आगते ॥ (मो_२,१८.६ ॥
पूर्वं तावद् उदेत्य् अन्तर् भृशं संस्कृतवाक्यता ।
शुद्धा मुक्ता लतेवोच्चैर् या सभास्थानभूषणम् ॥ (मो_२,१८.७ ॥

स्पष्टम् ॥ (मोटी_२,१८.६-७ ॥

ननु विरक्तस्य मम किं संस्कृतवाक्यतया प्रयोजनम् इत्य् । अत्राह

परा विरागतोदेति महत्त्वगुणशालिनी ।
सा यया स्नेहम् आयान्ति राजानोऽजगरा अपि ॥ (मो_२,१८.८ ॥

विरक्तेषु हि "अजगर"तुल्याः "राजानोऽपि स्नेहम् आयान्ति" ॥ (मोटी_२,१८.८ ॥

पूर्वापरज्ञः सर्वत्र नरो भवति बुद्धिमान् ।
पदार्थानां यथा दीपहस्तो निशि सुलोचनः ॥ (मो_२,१८.९ ॥

"सर्वत्र" सर्वेषु व्यवहारेषु ॥ (मोटी_२,१८.९ ॥

लोभमोहादयो दोषास् तानवं यान्त्य् अलं शनैः ।
धियो दिशः समासन्नशरदो मिहिका यथा ॥ (मो_२,१८.१० ॥

"लोभमोहादयः" काः । "यथा मिहिकाः" "समासन्नशरदः" प्रत्यासन्नशरत्कालायाः "दिशः तानवं यान्ति" । तथेत्य् अर्थः ॥ (मोटी_२,१८.१० ॥

केवलं समपेक्षन्ते विवेकाभ्यसनं धियः ।
न काचन फलं धत्ते स्वभ्यासेन विना क्रिया ॥ (मो_२,१८.११ ॥

ननु किमर्थं "विवेकाभ्यासम् अपेक्षन्ते" इत्य् । अत्राह । "न काचने"ति ॥ (मोटी_२,१८.११ ॥

मनः प्रसादम् आयाति शरदीव महत् सरः ।
परं साम्यम् उपाधत्ते निर्मन्दर इवार्णवः ॥ (मो_२,१८.१२ ॥

"प्रसादं" रागादिमलरहितत्वात् नैर्मल्यम् । "परम्" निरतिशयम् । "साम्यं" समताख्यं गुणम् । "उपाधत्ते" धारयति । अत्रापि मनस एव कर्तृत्वम् ॥ (मोटी_२,१८.१२ ॥

निरस्तकालिमा वज्रशिखेवास्ततमःपटा ।
परिज्वलत्य् अलं प्रज्ञा पदार्थप्रविभागिनी ॥ (मो_२,१८.१३ ॥

"निरस्तः" दूरे गतः । "कालिमा" कालुषं । यस्याः सा ॥ (मोटी_२,१८.१३ ॥

दैन्यदारिद्र्यदोषाद्या दृष्टयो दर्शितान्तराः ।
न निकृन्तन्ति मर्माणि ससंनाहम् इवेषवः ॥ (मो_२,१८.१४ ॥

"दर्शितं" विवेचितं । अन्तरम् साराख्यः "आन्तरः" भागः यासां ताः । निःसारत्वेन ज्ञाता इत्य् अर्थः ॥ (मोटी_२,१८.१४ ॥

हृदयं नावलुम्पन्ति भीमाः संसृतिभीतयः ।
पुरःस्थितम् अपि प्राज्ञं महोपलम् इवाखवः ॥ (मो_२,१८.१५ ॥

"हृदयं" कथंभूतम् "अपि" । "पुरःस्थितम् अपि" अग्रे स्थितम् अपि । पुनः कथंभूतम् । "प्राज्ञम्" ॥ (मोटी_२,१८.१५ ॥

कथं स्याद् आदिता जन्मकर्मणोर् दैवपुंस्त्वयोः ।
इत्यादिसंशयगणः शाम्यत्य् अह्नि यथा तमः ॥ (मो_२,१८.१६ ॥

"दैवपुंस्त्वयोः" दैवपौरुषयोः । "आदिता" कारणत्वम् ॥ (मोटी_२,१८.१६ ॥

सर्वथा सर्वभावेषु संगतिर् उपशाम्यति ।
यामिन्याम् इव यातायां प्रज्ञालोक उपागते ॥ (मो_२,१८.१७ ॥

"सर्वभावेषु" त्यागादानार्हेषु समस्तेषु पदार्थेषु । "सर्वथा संगतिः" त्यागादानारूपा सम्बन्धः "उपशाम्यति" । कस्मिन् सति । "प्र"ति"ज्ञालोक उपागते" सति । कदेव । "यामिन्यां" रात्रौ "यातायाम् इव" सत्याम् । उपेक्षा एव सर्वत्रायातीति भावः ॥ (मोटी_२,१८.१७ ॥

समुद्रस्येव गाम्भीर्यं स्थैर्यं मेरोर् इव स्थितम् ।
न्तःशीतलता चेन्दोर् इवोदेति विचारिणः ॥ (मो_२,१८.१८ ॥

स्पष्टम् ॥ (मोटी_२,१८.१८ ॥

सा जीवन्मुक्तता तस्य शनैः परिणतिं गता ।
शान्ताशेषविकल्पस्य भवत्य् आविश्य योगिनः ॥ (मो_२,१८.१९ ॥

"सा" प्रसिद्धा । "आविश्य" आवेशं कृत्वा ॥ (मोटी_२,१८.१९ ॥

सर्वार्थशीतला शुद्धा परमालोकदा सुधीः ।
परं प्रकाशम् आयाति ज्योत्स्नेव सकलैन्दवी ॥ (मो_२,१८.२० ॥

"सर्वार्थेषु" भावाभावयुक्तेषु समस्तेषु पद्"आर्थेषु" । "शीतला" हर्षामर्षाख्यतापरहिता । "शुद्धा" रागादिरहिता । "परमालोकं" चिन्मात्रालोकं "दधाती"ति तादृशी । शोभना चासौ धीः "सुधीः" । "ऐन्दवी" इन्दुसम्बन्धिनी ॥ (मोटी_२,१८.२० ॥

हृद्याकाशे विवेकार्के शमालोकिनि निर्मले ।
नर्थसार्थकर्तारो नोद्यन्ति कलिकेतवः ॥ (मोटी_२,१८.२१ ॥


"शम" एव "आलोकः" अस्यास्तीति तादृशे । "कलेः" कलहस्य क्षोभस्य । "केतवः" चिह्नभूताः रागादयो दोषाः । सूर्योदये च "केतवः" धूमकेतवः "नोद्यन्ति" ॥ (मोटी_२,१८.२१ ॥

शाम्यन्ति शुद्धिम् आयान्ति सौम्यास् तिष्ठन्ति सून्नते ।
चञ्चलजडास् तृष्णाः शरदीवाभ्रमालिकाः ॥ (मो_२,१८.२२ ॥

न चञ्चलजडाः "अचञ्चलजडाः" ॥ (मोटी_२,१८.२२ ॥

यत्किंचनकरी क्रूरा ग्राम्यता विनिवर्तते ।
दीनानना पिशाचानां लीलेव दिवसागमे ॥ (मो_२,१८.२३ ॥

"यत्किंचनकरी" अयुक्तकारिणी । "ग्राम्यतया" हि पुरुषः यत्किंचिद् एव करोति ॥ (मोटी_२,१८.२३ ॥

धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् ।
आधयो न विलुम्पन्ति वाताश् चित्रलताम् इव ॥ (मो_२,१८.२४ ॥

"धर्म" एव "भित्तिः" । तस्यां "लग्नां" । अत एव "धैर्यधुरं गताम्" धैर्ययुक्ताम् इति यावत् । धर्मयुक्तो हि धीरो भवति । चित्ररूपा लता "चित्रलता" । ताम् ॥ (मोटी_२,१८.२४ ॥

न पतत्य् अवटे जन्तुर् विषयासङ्गरूपिणि ।
कः किल ज्ञातसरणिः श्वभ्रे समनुधावति ॥ (मो_२,१८.२५ ॥

"विषयासङ्गरूपिणि" भोगासक्तिरूपे । एतद् एव उत्तरार्धेन समर्थयति । "कः किले"ति ॥ (मोटी_२,१८.२५ ॥

सच्छास्त्रसाधुवृत्तानाम् अविरोधिनि कर्मणि ।
रमते धीर् यथाप्राप्ते साध्वीवान्तःपुराजिरे ॥ (मो_२,१८.२६ ॥

"सच्छास्त्रेण" मोक्षोपायाख्यसच्छास्त्रावगाहनेन "साधुवृत्तं" चरितं येषां ते । तादृशानां । "यथाप्राप्ते" प्रवाहागते । न तु यत्नाद् ऋते ॥ (मोटी_२,१८.२६ ॥

जगतां कोटिलक्ष्येषु यावन्तः परमाणवः ।
तेषाम् एकैकशोऽन्तःस्थान् सर्गान् पश्यत्य् असर्गधीः ॥ (मो_२,१८.२७ ॥

"असर्गा धीः" यस्य सः । आश्चर्यं चासर्गधियः परमाणौ परमाणौ सर्गदर्शनम् । सर्गबीजभूतचिन्मात्रव्याप्तिज्ञानेन परमाणौ परमाणौ सर्गदर्शनं ज्ञेयम् ॥ (मोटी_२,१८.२७ ॥

मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् ।
न खेदयति भोगौघो न चानन्दयति क्वचित् ॥ (मो_२,१८.२८ ॥

भोगेषूपेक्षाम् एवासौ भजते इति भावः ॥ (मोटी_२,१८.२८ ॥

परमाणौ परमाणौ सर्गवर्गा निरर्गलम् ।
ये पतन्त्य् उत्पतन्त्य् अम्बुवीचिवत् तान् स पश्यति ॥ (मो_२,१८.२९ ॥

"पतन्ति" लीना भवन्ति । "उत्पतन्ति" प्रादुर्भवन्ति ॥ (मोटी_२,१८.२९ ॥

न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ।
कार्याण्य् एष प्रबुद्धोऽपि निष्प्रबुद्ध इव द्रुमः ॥ (मो_२,१८.३० ॥

अबुद्धत्वम् अस्य स्वात्मनि "निष्प्रबुद्धत्वं" संसारे ज्ञेयम् ॥ (मोटी_२,१८.३० ॥

ननु कीदृग् अतिशयोऽस्य स्याद् इत्य् । अत्राह

दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् ।
इष्टानिष्टफलप्राप्तौ हृदये न पराजितः ॥ (मो_२,१८.३१ ॥

"लोकसामान्यः" न त्व् अतिशयवान् । "यथाप्राप्ते" प्रवाहागते । "अनुवृत्तिः" अनुवर्तनं । विद्यते यस्य । सः "यथाप्राप्तानुवृत्तिमान्" । "हृदये" मनसि । "न पराजितः" हर्षामर्षावशीभूतः ॥ (मोटी_२,१८.३१ ॥

बुद्ध्वेदम् अखिलं शास्त्रं वाचयित्वा विवेच्य वा ।
नुभूयत एवैतन् न तूक्तं वरशापवत् ॥ (मो_२,१८.३२ ॥

युष्माभिः "एतत्" पूर्वोक्तं फलं "अनुभूयत एव" । ननु प्रत्यवायशङ्कया कथम् एतदनुभवे शक्ता भवाम इत्य् अपेक्षायाम् आह । "न तूक्तम्" इति । "मन्त्रादिवद्" इति शेषः ॥ (मोटी_२,१८.३२ ॥

ननु दुर्बोधेऽस्मिन् कथं प्रवृत्तिं कुर्म इत्य् । अत्राह

शास्त्रं सुबोधम् एवेदं नानालंकारभूषितम् ।
काव्यं रसघनं चारु दृष्टान्तैः प्रतिपादकम् ॥ (मो_२,१८.३३ ॥

"दृष्टान्तैः प्रतिपादकम्" इति सुबोधत्वे विशेषणद्वारेण हेतुः ॥ (मोटी_२,१८.३३ ॥

बुध्यते स्वयम् एवेदं किंचित्पदपदार्थवित् ।
स्वयं यस् तु न वेत्तीदं श्रोतव्यं तेन पण्डितात् ॥ (मो_२,१८.३४ ॥

"बुध्यते" जानाति । ननु यस्य पदपदार्थवित्त्वं नास्ति तस्य किं कार्यम् इत्य् । अत्राह "स्वयम्" इति ॥ (मोटी_२,१८.३४ ॥

नन्व् एतच्छ्रवणेन किं सेत्स्यतीत्य् । अत्राह

स्मिञ् श्रुते मते ज्ञाते तपोध्यानजपादिकम् ।
मोक्षप्राप्तौ तु तस्येह न किंचिद् उपयुज्यते ॥ (मो_२,१८.३५ ॥

"श्रुते" श्रवणविषयतां नीते । "मते" मननविषयतां नीते । "ज्ञाते" निदध्यासिते । "तस्य" श्रवणादौ प्रवृत्तस्य ॥ (मोटी_२,१८.३५ ॥

एतच्छास्त्रघनाभ्यासात् पौनःपुन्येन वीक्षितात् ।
जन्तोः पाण्डित्यपूर्वं हि चित्तसंस्कारपूर्वकम् ॥ (मो_२,१८.३६ ॥
हं जगद् इति प्रौढो द्रष्टृदृश्यपिशाचकः ।
पिशाचोऽर्कोदयेनेव स्वयं शाम्यत्य् अविघ्नतः ॥ (मो_२,१८.३७ ॥

एतेन बाह्यम् अपि प्रयोजनम् आन्तरम् अपि च सेत्स्यतीति कथितम् ॥ (मोटी_२,१८.३६-३७ ॥

भ्रमो जगद् अहं चेति स्थित एवोपशाम्यति ।
स्वप्नमोहः परिज्ञात इव नो रमयत्य् अलम् ॥ (मो_२,१८.३८ ॥

"स्थित एव" । न तु मन्त्रादिप्रयोगवशेनान्तर्भूतिं गतः । ननु स्थितस्योपशमनं कथम् इत्य् । अत्राह । "स्वप्नमोह" इति । अरसकस्य स्थितस्यापि शान्तिर् एव ज्ञेया क्षोभकारित्वाभावात् इति भावः ॥ (मोटी_२,१८.३८ ॥

यथा संकल्पनगरे पुंसो हर्षविषादिता ।
न बाधते तथैवान्तः परिज्ञाते जगद्भ्रमे ॥ (मो_२,१८.३९ ॥

"अन्तः" मनसि । "परिज्ञाते" सम्यक् निश्चिते । "हर्षविषादिता न बाधते" इति "तथा"शब्देनानुकृष्यते ॥ (मोटी_२,१८.३९ ॥

चित्रसर्पः परिज्ञातो न सर्पभयदो यथा ।
दृश्यसर्पः परिज्ञातस् तथा न सुखदुःखदः ॥ (मो_२,१८.४० ॥

"परिज्ञातः चित्रसर्पो"ऽयम् इति सम्यङ् निश्चितः । दृश्याख्यः सर्पः "दृश्यसर्पः" ॥ (मोटी_२,१८.४० ॥

परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति ।
यथा तथैव संसारः स्थित एवोपशाम्यति ॥ (मो_२,१८.४१ ॥

स्पष्टम् ॥ (मोटी_२,१८.४१ ॥

ननु परमार्थप्राप्तिर् अस्माकम् अतिदुष्करैव । तथा च तत्प्राप्त्यर्थम् एतच्छास्त्रावगाहनम् अयुक्तम् एवेत्य् । अत्राह

सुमनःपल्लवामर्शे किंचिद्व्यतिकरो भवेत् ।
परमार्थपदप्राप्तौ न तु व्यतिकरोऽस्ति नः ॥ (मो_२,१८.४२ ॥

"सुमनःपल्लवामर्शे" पुष्पपल्लवामर्दे । "व्यतिकरः" यत्नः । "नः" युक्तिज्ञानाम् अस्माकम् । न त्व् अयुक्तिज्ञानां भवताम् इत्य् अर्थः ॥ (मोटी_२,१८.४२ ॥

व्यतिकराभावम् एव कथयति

गच्छत्य् अवयवस्पन्दः सुमनःपत्रमर्दने ।
इह धीमात्रबोधस् तु नाङ्गावयवबोधनम् ॥ (मो_२,१८.४३ ॥

"गच्छति" उपयुक्तो भवति । अनेकार्थत्वाद् धातूनां "गच्छतिर्" अत्रास्मिन्न् अर्थे वर्तते । "अङ्गावयवानां" शरीरावयवानाम् । "बोधनम्" चालनम् ॥ (मोटी_२,१८.४३ ॥

सुखासनोपविष्टेन यथासम्भवम् अश्नता ।
भोगजालं सदाचारविरुद्धेषु न तिष्ठता ॥ (मो_२,१८.४४ ॥
यथाक्षणं यथादेशं प्रविचारयता सुखम् ।
यथासम्भवसत्सङ्गम् इदं शास्त्रम् अथेतरत् ॥ (मो_२,१८.४५ ॥
आसाद्यते महाज्ञानबोधः संसारशान्तिदः ।
स भूयो येन नायाति योनियन्त्रप्रपीडनम् ॥ (मो_२,१८.४६ ॥

"यथासम्भवम्" न तु प्रयत्नसाधितम् । "सदाचारविरुद्धेषु" तिष्ठतो हि हानोपादानकारित्वरूपो दोषः आयातीति "न तिष्ठते"त्य् उक्तम् । "यथाक्षणम्" प्रतिक्षणम् । "सुखम्" सुखदायि । "यथासम्भवः सत्सङ्गो" यत्र तत् । "इदं शास्त्रं" मया वक्ष्यमाणमोक्षोपायाख्यम् शास्त्रं । "इतरत्" एतत्सदृशम् अन्यच्छास्त्रं वा । महाज्ञानरूपः बोधः "महाज्ञानबोधः" । "स" इत्य् अस्य पूर्वार्धेन सम्बन्धः ॥ (मोटी_२,१८.४४-४६ ॥

एतावत्य् एव ये भूता भोगान् प्राप्य रसे स्थिताः ।
स्वमातृविष्ठाक्रिमयः कीर्तनीया न तेऽधमाः ॥ (मो_२,१८.४७ ॥

"एतावति रसे" परिमिते रसे । "भूताः" सामान्यजन्तवः ॥ (मोटी_२,१८.४७ ॥

एवं शास्त्रमाहात्म्यम् उक्त्वा श्रीरामं संमुखीकरोति

शृणु तावद् इदानीं त्वं कथ्यमानम् इदं मया ।
राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम् ॥ (मो_२,१८.४८ ॥

"बुद्धेः सारतरम् अन्तरम्" यस्य तत् । बुद्ध्यतिशायीत्य् अर्थः ॥ (मोटी_२,१८.४८ ॥

मध्ये श्रीरामकृतांश् चोद्यान् आशङ्क्याह

ययेदं श्रूयते शास्त्रं तां तु विस्तरतः शृणु ।
विचार्यते तथार्थोऽयं यया च परिभाषया ॥ (मो_२,१८.४९ ॥

"यया परिभाषया" युक्त्या । "इदं शास्त्रं श्रूयते" । त्वं "तां विस्तरतः शृणु" । "तथा" "यया च विचार्यते" । तां च शृण्व् इति पूर्वेण सम्बन्धः ॥ (मोटी_२,१८.४९ ॥

परिभाषाम् एव कथयति

येनेहाननुभूतेऽर्थे दृष्टेनार्थावबोधनम् ।
बोधोपकारफलदं तं दृष्टान्तं विदुर् बुधाः ॥ (मो_२,१८.५० ॥

"येन दृष्टेना"र्थेन । "अननुभूते अर्थे अर्थावबोधनम्" ज्ञानम् भवति । "बुधाः तम् दृष्टान्तम् आहुः" । कथंभूतं । "बोधा"ख्यः य "उपकारः" । तद् एव "फलं" । तद् "दधाती"ति तादृशम् ॥ (मोटी_२,१८.५० ॥

दृष्टान्तदाने किं फलम् इत्य् । अत्राह

दृष्टान्तेन विना राम नापूर्वोऽर्थोऽवबुध्यते ।
यथा दीपं विना रात्रौ भाण्डोपकरणं गृहे ॥ (मो_२,१८.५१ ॥

"भाण्डोपकरणं" भाण्डसामग्री ॥ (मोटी_२,१८.५१ ॥

यैर् यैः काकुत्स्थ दृष्टान्तैस् त्वं मयेहावबुध्यसे ।
सर्वे सकारणास् ते हि प्राप्यं तु सद् अकारणम् ॥ (मो_२,१८.५२ ॥

"प्राप्यम्" प्रापणीयं । "सत्" सन्मात्राख्यं वस्तु ॥ (मोटी_२,१८.५२ ॥

ननु सर्वाणि दार्ष्टान्तिकानि एतादृशानि एव सन्त्य् उतान्यान्य् अथेत्य् अपेक्षायाम् आह

उपमानोपमेयानां कार्यकारणतोदिता ।
वर्जयित्वा परं ब्रह्म सर्वेषाम् एव विद्यते ॥ (मो_२,१८.५३ ॥

दृष्टान्तदार्ष्टान्तिकानाम् "परं ब्रह्म वर्जयित्वा" । "उदिता" उदयनशीला । "कार्यकारणता विद्यते" । ब्रह्म न कार्यम् अस्ति नापि कारणम् इत्य् अर्थः । अतो न ब्रह्मसदृशानि सर्वाणि दार्ष्टान्तिकानि इति भावः ॥ (मोटी_२,१८.५३ ॥

फलितं कथयति

ब्रह्मोपदेशदृष्टान्तो यस्य वेह हि कथ्यते ।
एकदेशसधर्मत्वं तत्रातः परिगृह्यते ॥ (मो_२,१८.५४ ॥

"हि" निश्चये । "अतः" कारणात् । "इह" लोके । "यस्य वा ब्रह्मोपदेशदृष्टान्तः कथ्यते तत्र" ब्रह्मदृष्टान्ते । "एकदेशसधर्मत्वं" एकदेशसदृशत्वं । "परिगृह्यते" । न तु सर्वथा सदृशत्वम् दार्ष्टान्तिकस्य ब्रह्मणः कार्यकारणत्वायोग्यात् । दृष्टान्तस्य तु कार्यतया कारणतया च स्थितत्वाद् इति भावः ॥ (मोटी_२,१८.५४ ॥

यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने ।
दीयते स स बोद्धव्यः स्वप्नदृष्टजगद्गतः ॥ (मो_२,१८.५५ ॥

"स्वप्नदृष्टजगद्गतः" भ्रमरूपः इत्य् अर्थः ॥ (मोटी_२,१८.५५ ॥

फलितम् आह

एवं सति निराकारे ब्रह्मण्य् आकारवान् कथम् ।
दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥ (मो_२,१८.५६ ॥

"नोद्यन्ति" नोत्तिष्ठन्ति । अस्माभिर् अत एव प्रत्युक्तत्वाद् इति भावः ॥ (मोटी_२,१८.५६ ॥

न्या सिद्धविरुद्धादिदृक् दृष्टान्तप्रदूषणे ।
स्वप्नोपमत्वाज् जगतः समुदेति न काचन ॥ (मो_२,१८.५७ ॥

"अन्या" पूर्वोक्तायाः दृष्टेः सकाशात् इतरा का । "न का"पि । "सिद्धविरुद्धादिदृक्" इदं सिद्धं इदं विरुद्धम् इत्यादिरूपा उक्तिः । "जगतः स्वप्नोपमत्वात् दृष्टान्तप्रदूषणे" दृष्टान्तप्रदूषणार्थम् "न समुदेति" । "आदि"शब्देनेदं लेशेन सिद्धं विरुद्धं वेति दृष्टेर् ग्रहणम् । स्वप्नोपमे जगति इदं सिद्धं इदम् विरुद्धम् इति । कथनं न युक्तं सर्वस्यायुक्तत्वाद् इति भावः ॥ (मोटी_२,१८.५७ ॥

वस्तु पूर्वापरयोर् वर्तमानविचारितं ।
यथा जाग्रत् तथा स्वप्नः सिद्धम् आबालम् अक्षतम् ॥ (मो_२,१८.५८ ॥

"पूर्वापरयोः" भूतभविष्यतोर् अर्थयोः । "अवस्तु" भावप्रधानो निर्देशः । "अवस्तुत्वम्" असत्त्वम् "वर्तमानविचारितं" भवति । वर्तमाने हि भूतस्य गतत्वात् भविष्यतः अनागतत्वात् असत्त्वं विचारपदवीम् आयाति । तदभिन्नस्य वर्तमानस्यापि अवस्तुत्वम् अपरिहार्यम् एवेति स्वयम् एव ज्ञेयम् । अतः "आबालम्" बालपर्यन्तं । "यथा स्वप्नः तथा जाग्रद्" इति । "अक्षतं" सम्यक् । "सिद्धम्" भवति ॥ (मोटी_२,१८.५८ ॥

स्वप्नसंकल्पनध्यानवरशापौषधादिभिः ।
येऽर्थास् त इह दृष्टान्तास् तद्रूपत्वाज् जगत्स्थितेः ॥ (मो_२,१८.५९ ॥

"येऽर्था" इत्य् । अत्र "दृष्टा" इति शेषः । "तद्रूपत्वात्" स्वप्नाद्यर्थरूपत्वात् । अत "इहा"सत्यैः पदार्थैः सत्यस्य ब्रह्मणः उपमानोपमेयभावः एकदेशसाधर्म्येणेति भावः ॥ (मोटी_२,१८.५९ ॥

ननु त्वया कृतेष्व् अन्येषु ग्रन्थेषु का वार्तेत्य् । अत्राह

मोक्षोपायकृता ग्रन्थकारेणान्येऽपि ये कृताः ।
ग्रन्थास् तेष्व् इयम् एवैका व्यवस्था बोध्यबोधने ॥ (मो_२,१८.६० ॥

"मोक्षोपायकृता ग्रन्थकारेण" मयेत्य् अर्थः । "बोध्यस्य" बोधनीयस्य ब्रह्मतत्त्वस्य । "बोधने" कथने । "व्यवस्था" रीतिः ॥ (मोटी_२,१८.६० ॥

ननु कथं स्वप्नसदृशत्वं जगतोऽस्तीत्य् । अत्राह

स्वप्नाभत्वं च जगतः श्रुते शास्त्रेऽवभोत्स्यते ।
शीघ्रं न पार्यते वक्तुं वाक् किल क्रमवर्तिनी ॥ (मो_२,१८.६१ ॥

"अवभोत्स्यते" ज्ञातुं शक्यते । तर्हि युगपद् एव सर्वं शास्त्रं कथयेत्य् । अत्राह । "शीघ्रम्" इति । "वाचः क्रमवर्तित्वं" स्फुटम् एव । "न" हि एकं वाक्यम् अनिर्वाह्य द्वितीयादिकं वाक्यं "वक्तुं" शक्यते ॥ (मोटी_२,१८.६१ ॥

स्वप्नसंकल्पसुध्याननगराद्युपमं जगत् ।
यतस् त एव दृष्टान्तास् तस्माद् भान्तीह नेतरे ॥ (मो_२,१८.६२ ॥

"यतः जगत्" । "स्वप्नसंकल्पसुध्यानेषु" दृष्टाः ये "नगरादयः" । तेषां "उपमा" यस्य । तादृशं भवति । "तस्मात् त एव सुध्याननगरादय" एव "दृष्टान्ताः भान्ति" अस्माकं बुद्धौ स्फुरन्ति । "इतरे" सत्यभूताः नगरादयः । "न" भान्ति अयुक्तत्वात् ॥ (मोटी_२,१८.६२ ॥

कारणं कारणिना यद् बोधायोपमीयते ।
न तत्र सर्वसाधर्म्यं सम्भवत्य् उपमाभ्रमैः ॥ (मो_२,१८.६३ ॥

"अकारणं" कारणरहितं ब्रह्म । "कारणिना" कारणयुक्तेनाकाशादिना । "उपमाभ्रमैः" अन्योपमादृष्टसर्वथासाधर्म्यरूपैः विपर्ययैः ॥ (मोटी_२,१८.६३ ॥

उपमेयस्योपमानाद् एकांशेन सधर्मता ।
ङ्गीकार्यावबोधाय धीमता निर्विवादिना ॥ (मो_२,१८.६४ ॥

"धीमता" न त्व् अधीमता । स हि आरम्भ एव विवादपर एव तिष्ठतीति भावः ॥ (मोटी_२,१८.६४ ॥

नन्व् एकेन धर्मेण सदृशेन उपमानं कथम् उपमेयस्य प्रतीतिं कर्तुं शक्नोतीत्य् । अत्र दृष्टान्तं साधयति

र्थावलोकने दीपाद् आभामात्राद् ऋते किल ।
न स्थालतैलवर्त्यादि किंचिद् अप्य् उपजायते ॥ (मो_२,१८.६५ ॥

"आभामात्रात्" प्रकाशमात्ररूपात् । "स्थालम्" पात्रम् ॥ (मोटी_२,१८.६५ ॥

एतद् एव दार्ष्टान्तिकयुक्तं कथयति

एकदेशसधर्मत्वाद् उपमेयावबोधनम् ।
उपमानं करोत्य् अङ्ग दीपोऽर्थं प्रभया यथा ॥ (मो_२,१८.६६ ॥

"प्रभया" प्रभाख्येनैकदेशेन ॥ (मोटी_२,१८.६६ ॥

दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति ।
उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः ॥ (मो_२,१८.६७ ॥

न तु दृष्टान्तमात्र एव स्थातव्यम् इति भावः ॥ (मोटी_२,१८.६७ ॥

न कुतार्किकताम् एत्य नाशनीया प्रबुद्धता ।
नुभूत्यपलापात्तैर् अपवित्रैर् विकल्पितैः ॥ (मो_२,१८.६८ ॥

"प्रबुद्धता" ज्ञानिता । "कुतार्किकाः" हि आरम्भ एव चोद्यान् दत्त्वा प्रबुद्धतां नाशयन्ति । "विकल्पितैः" कथंभूतैः । "अनुभूते" यः "अपलापः" निह्नवः । तेन "आत्तैः" गृहीतैः ॥ (मोटी_२,१८.६८ ॥

ननु पुराणानि शास्त्राणि च त्यक्त्वा किमर्थं त्वदुक्तं शास्त्रं गृह्णीमः इत्य् । अत्राह

विचारणाद् अनुभवकारि वाङ्मय-
प्रसङ्गताम् उपगतम् अस्मदादिषु ।
स्त्रियोक्तम् अप्य् अपरम् अथापि वैदिकं
वचो वचःप्रलपनम् एव नागमः ॥ (मो_२,१८.६९ ॥

"अस्मदादिषु" प्रामाणिकेषु । "स्त्रिया उक्तम् अपि" स्त्रीकर्तृकं प्रलपितम् अपि । "वाङ्मयप्रसङ्गताम्" शास्त्रप्रसङ्गताम् । शास्त्रत्वम् इति यावत् । "उपगतम्" । कथंभूतं तत् । "विचारणात् अनुभवकारि" । "अथ" पक्षान्तरे । "वैदिकं वचः अपि वचःप्रलपनम् एव" प्रलाप एव भवति । "नागमः" भवति अनुभवकारित्वाभावाद् इत्य् अर्थः ॥ (मोटी_२,१८.६९ ॥

सर्गान्तश्लोकेनाप्य् एतद् एव कथयति

स्माकम् अस्ति मतिर् अङ्ग तयेति सर्व-
शास्त्रैकवाक्यकरणं फलितं यतोऽतः ।
प्रातीतिकार्थमयशास्त्रनिजाङ्गपुष्टात्
संवेदनाद् इतरद् अस्ति न नः प्रमाणम् ॥ (मो_२,१८.७० ॥

हे "अङ्ग" । "अस्माकं मतिर् अस्ति इति" । "अतः" हेतोः । "अस्माकं तया" बुद्ध्या । "सर्वशास्त्रैकवाक्यकरणं यतः फलितम्" । "अतः" हेतोः । "नः" अस्माकं । "संवेदनात्" ज्ञानात् । अन्यत् "प्रमाणं नास्ति" । सर्वस्मिञ् शास्त्रे संवेदनम् एवास्माभिः प्रमाणं दृष्टम् । अतोऽस्माकम् अपि तद् एव प्रमाणम् इति भावः । "संवेदनात्" कथंभूतात् । "प्रातीतिकः" प्रतीतेर् आगतः । न तु कल्पितः । यः "अर्थः" । तन्"मयम्" यत् "शास्त्रं" । तद् एव "निजाङ्गम्" उपकारकत्वात् स्वाङ्गं । तेन "पुष्टात्" वृद्धिं गतात् ॥ (मोटी_२,१८.७० ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे अष्टादशः सर्गः ॥ २,१८ ॥




ओं पूर्वोक्तम् एवार्थं पुनर् अपि स्पष्टयति

विशिष्टांशसधर्मत्वम् उपमानेषु गृह्यते ।
को भेदः सर्वसादृश्ये तूपमानोपमेययोः ॥ (मो_२,१९.१ ॥

"विशिष्टांशेन" कार्यसाधकेनांशेन । "साधर्म्यं" सादृश्यम् । एकांशेनापि कार्यस्य सिद्धत्वान् न कोऽपीत्य् अर्थः ॥ (मोटी_२,१९.१ ॥

दृष्टान्तबुद्धाद् एकात्मज्ञानशास्त्रार्थवेदनात् ।
महावाक्यार्थसंवित्त्या शान्तिर् निर्वाणम् उच्यते ॥ (मो_२,१९.२ ॥

"एकम्" केवलम् । "आत्मज्ञानं" प्रतिपाद्यत्वेन यस्मिन् । तादृशं यत् "शास्त्रं" । तस्य यो "ऽर्थः" । तस्य "वेदनात्" विचारात् । उत्पन्नया "महावाक्यार्थसंवित्त्या" । गर्भीकृतावान्तरवाक्यमहावाक्यार्थपरिच्छेदेन । सिद्धा "शान्तिः" मनःक्षोभराहित्यं । पण्डितैः "निर्वाणम् उच्यते" । "वेदनात्" कथंभूतात् । "दृष्टान्तैः बुद्धात्" ज्ञातात् सिद्धाद् इति यावत् ॥ (मोटी_२,१९.२ ॥

उपसंहारं करोति

तस्माद् दृष्टान्तदार्ष्टान्तविकल्पोल्लसितैर् अलम् ।
यया कयाचिद् युक्त्याशु महावाक्यार्थम् आश्रयेत् ॥ (मो_२,१९.३ ॥

"अलम्" कृतम् । नैतैः प्रयोजनम् इत्य् अर्थः ॥ (मोटी_२,१९.३ ॥

शान्तिः श्रेयः परं विद्धि तत्प्राप्तौ यत्नवान् भवेत् ।
भोक्तव्य ओदनः प्राप्तः किं तत्सिद्धिविकल्पितैः ॥ (मो_२,१९.४ ॥

"शान्तिः" मनोविकल्परूपक्षोभराहित्यम् । "सिद्धिविकल्पितैः" कथम् एतत् सम्पन्नम् इति विकल्पैः ॥ (मोटी_२,१९.४ ॥

कारणं कारणिभिर् बोधार्थम् उपमीयते ।
उपमानैस् तूपमेयसदृशैर् एकदेशतः ॥ (मो_२,१९.५ ॥

"अकारणं" कारणरहितब्रह्म । "एकदेशतः" एकेन धर्मेण ॥ (मोटी_२,१९.५ ॥

स्थातव्यं नेह भोगेषु विवेकविकलात्मना ।
उपलोदरसंजातपरिपीनान्धभेकवत् ॥ (मो_२,१९.६ ॥

स्पष्टम् ॥ (मोटी_२,१९.६ ॥

दृष्टान्तैर् युक्तिभिर् यत्नाद् वाञ्छितं त्यजतेतरत् ।
विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना ॥ (मो_२,१९.७ ॥

"वाञ्छितं" अभिलषितम् । "इतरत्" विचारव्यतिरिक्तम् । "शान्तिश्" च "शास्त्रार्थश्" च ताभ्यां शालते इति तादृशेन ॥ (मोटी_२,१९.७ ॥

शास्त्रोपशमसौजन्यप्रज्ञातज्ज्ञसमागमैः ।
न्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रियः ॥ (मो_२,१९.८ ॥
तावद् विचारयेत् प्राज्ञो यावद् विश्रान्तिम् आत्मनि ।
सम्प्रयात्य् अपुनर्नाशां शान्तिं तुर्यपदाभिधाम् ॥ (मो_२,१९.९ ॥

"शास्त्रं" च "उपशमश्" च "सौजन्यं" च "प्रज्ञा" च "तज्ज्ञसमागमश्" च । तैः उपलक्षितः । "अन्तरान्तरे" मध्ये मध्ये "सम्पन्नाः" । "धर्म्यानां" धर्माद् अनपेतानां "अर्थानाम् उपार्जनम्" । तस्य "क्रियाः" यस्य सः । तादृशः "प्राज्ञः तावत् विचारयेत्" । "यावत् अपुनर्नाशां" प्रध्वंसाभावरहितां । "तुर्यपदाभिधां" तुर्यपदेति नामधेयाम् । "आत्मनि विश्रान्तिं" आत्मविश्रान्तिलक्षणां शान्तिम् । "सम्प्रयाति" ॥ (मोटी_२,१९.८-९ ॥

नन्व् आत्मनि विश्रान्त्या किं सेत्स्यतीत्य् । अत्राह

तुर्यविश्रान्तियुक्तस्य प्रतीर्णस्य भवार्णवात् ।
जीवतोऽजीवतश् चैव गृहस्थस्याथ वा यतेः ॥ (मो_२,१९.१० ॥
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।
निर्मन्दर इवांभोधिः स तिष्ठति यथास्थितम् ॥ (मो_२,१९.११ ॥

"जीवतः" जीवन्मुक्तस्य्"आजीवतः" विदेहमुक्तस्य । "अर्थः" प्रयोजनम् । ननु कथम् असौ तिष्ठतीत्य् । अत्राह । "निर्मन्दर" इति । "सः" विश्रान्तियुक्तः ॥ (मोटी_२,१९.१०-११ ॥

एकांशेनोपमानानाम् उपमेयसधर्मता ।
बोद्धव्या बोध्यबोधाय न स्थेयं चोद्यचञ्चुना ॥ (मो_२,१९.१२ ॥

"चोद्येन चञ्चुः" वित्तः । प्रसिद्ध इति यावत् । इति "चोद्यचञ्चुः" चोद्यशीलेनेत्य् अर्थः ॥ (मोटी_२,१९.१२ ॥

यया कयाचिद् युक्त्याशु बोद्धव्यं बोध्यम् एव ते ।
मुक्तये तन् न पश्यन्ति व्याकुलाश् चोद्यचञ्चवः ॥ (मो_२,१९.१३ ॥

"ते" इति कर्तरि षष्ठी । "त्वाम्" इति शेषः । "व्याकुलाः चोद्यचञ्चवः" । "तत्" तदा । त्वाम् "न पश्यन्ति" । किम् उताधिगच्छन्तीति भावः ॥ (मोटी_२,१९.१३ ॥

चोद्यचञ्चोः लक्षणं कथयति

हृदये संविदाकाशे विश्रान्तेऽनुभवात्मनि ।
वस्तुन्य् अनर्थं यः प्रष्टा चोद्यचञ्चुः स उच्यते ॥ (मो_२,१९.१४ ॥

"हृदये" मनसि । "विश्रान्ते"ऽपि "अनुभवात्मनि संविदाकाशे" चिदाकाशे । "वस्तुनि यः अनर्थम्" संशयरूपम् अनर्थम् । "प्रष्टा" पृच्छकः भवति । पण्डितैः "सः चोद्यचञ्चुः उच्यते" । स्वानुभवाविष्टेऽपि वस्तुनि यः पुनः पुनः चोद्यान् उत्पादयति सः चोद्यचञ्चुर् इति भावः ॥ (मोटी_२,१९.१४ ॥

भिमानविकल्पांशैर् अज्ञो ज्ञप्तिं विकल्पयन् ।
बोधं मलिनयत्य् अन्तर् मुखं सर्प इवामलम् ॥ (मो_२,१९.१५ ॥

"अभिमानेना"हं सम्यक् चोदनशील इत्य् अभिमानेन कृतैः "विकल्पांशैः" । चोद्यरूपैः विकल्पांशैः । "अन्तः" स्वस्मिन् । "अज्ञः" स्वाम् "ज्ञप्तिं" बुद्धिं । "विकल्पयन्" विकल्पयुक्तां कुर्वन् । "बोधं मलिनयति" भेदमालिन्यदूषितं करोति । अतः त्वया व्यर्हाः विकल्पाः । न कार्या इति भावः ॥ (मोटी_२,१९.१५ ॥

उपदेशे उपयोग्यानां प्रमाणां निर्णयं प्रस्तौति

सर्वप्रमाणसत्तानां पदम् अब्धिर् अपाम् इव ।
प्रमाणम् एकम् एवेह प्रत्यक्षं राम तच् छृणु ॥ (मो_२,१९.१६ ॥

"सर्वासाम्" अनुमानादिभेदभिन्नानाम् समस्तानां "प्रमाणसत्तानां" । "अब्धिर् इवापां" स्थानं आश्रयं । "एकम् प्रत्यक्षम् एव इह" लोके "प्रमाणम्" अस्ति । न हि अनुमानादयः प्रत्यक्षं विना स्थातुं शक्नुवन्ति । हे "राम" । त्वम् "तत्" प्रत्यक्षं नाम प्रमाणं । "शृणु" ॥ (मोटी_२,१९.१६ ॥

प्रत्यक्षम् एव कथयति

सर्वार्थसारम् अध्यक्षं वेदनं विदुर् उत्तमाः ।
नूनं तत् प्रति यत् सिद्धं तत् प्रत्यक्षम् उदाहृतम् ॥ (मो_२,१९.१७ ॥

"उत्तमाः" श्रेष्ठाः । "सर्वार्थानां सार"प्रकाशनद्वारेण सिद्धिप्रदत्वात् सारभूतं "वेदनं" ज्ञानम् एव । "अध्यक्षं विदुः" सारभूतवस्तुवाचकत्वाद् "अध्यक्ष"शब्दस्य । हे राम । "नूनं" निश्चये । "तत् प्रति" वेदनरूपं अध्यक्षं प्रति । "यत् सिद्धं" भवति । पण्डितैः "तद्" वस्तु "प्रत्यक्षम् उदाहृतम्" । अक्षं प्रति सिद्धं प्रत्यक्षम् इति व्युत्पत्तेः । अक्षशब्दस्य च भामेतिवद् अध्यक्षवाचकत्वम् ॥ (मोटी_२,१९.१७ ॥

ततः किम् इत्य् । अत्राह

नुभूतेर् वेदनस्य प्रतिपत्तेर् यथास्थितम् ।
प्रत्यक्षम् इति नामेह कृतं जीवः स एव च ॥ (मो_२,१९.१८ ॥

अतः पण्डितैः । "अनुभूतेः" अनुभूतिरूपस्य । "प्रतिपत्तेः" प्रतिपत्तिरूपस्य । "वेदनस्य" । "इह" लोके । "यथास्थितम्" न त्व् अन्यथा संभावितं । "प्रत्यक्षम् इति नाम कृतम्" । वेदनस्यैव वेदनं प्रति सिद्धत्वाद् अन्यस्य सर्वस्य तस्मिंल् लयासादनात् "स एव जीवः" भवति । वेदनाद् अन्यस्य शरीरादेः पाषाणतुल्यत्वेन जीवत्वायोगात् अनुभूतिप्रतिपत्त्योः स्फुटत्वास्फुटत्वकृतो भेदो ज्ञेयः ॥ (मोटी_२,१९.१८ ॥

पदार्थानाम् एतद्रूपत्वम् एव कथयति

स एव संवित् स पुनर् अहंताप्रत्ययात्मकः ।
स ययोदेति संवित्त्या सा पदार्थ इति स्मृता ॥ (मो_२,१९.१९ ॥

"स एव" जीव एव । आरोहावस्थायां "संवित्" भवति । "स" एवावरोहावस्थायां "अहंताप्रत्ययात्मकः" भवति । "सः" अहंताप्रत्ययात्मकः जीवः । "यया संवित्त्या" येन घटादिसंवेदनेन रूपेण । "उदेति" स्फुरति । "सा" संवित्तिः । पण्डितैः "पदार्थ इति स्मृता" । न हि पदार्थस्य संवित्तिव्यतिरेकेण पृथक्स्वरूपम् अस्ति । सत्त्वेऽप्य् असन् कल्पत्वात् । न हि संवित्तिं विना सत् सत् भवति ॥ (मोटी_२,१९.१९ ॥

पदार्थानां जगत्त्वं कथयति

स संकल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः ।
जगत्तया स्फुरत्य् अम्बु तरङ्गादितया यथा ॥ (मो_२,१९.२० ॥

"सः" पदार्थः । "संकल्पविकल्पाद्यैः" संकल्पविकल्पप्रभृतिभिः प्रमातृनिष्टैः विपर्ययज्ञानैः । "कृतनानाक्रमः" सन् । "जगत्तया स्फुरति" । किं "यथा" । "अम्बु यथा" । "यथा" तत् "तरङ्गादितया" स्फुरति तथेत्य् अर्थः ॥ (मोटी_२,१९.२० ॥

ननु शुद्धस्य वेदनस्य कथम् एवंरूपता सम्पन्नेत्य् । अत्राह

प्राग् अकारणम् एवाशु सर्गादौ सर्गलीलया ।
स्फुरित्वा कारणीभूतं प्रत्यक्षं स्वयम् आत्मनि ॥ (मो_२,१९.२१ ॥

"प्रत्यक्षं" वेदनरूपं प्रत्यक्षं । "प्राक्" सर्गात् प्राक् । "अकारणम् एव" सत् । "सर्गादौ" सर्गोन्मुखतासमये । "सर्गलीलया स्फुरित्वा" । "आत्मनि" सर्गरूपे स्वात्मनि । "स्वयं" स्वातन्त्र्येण । "कारणीभूतम्" । न च स्वातन्त्र्यकृते कथम् इति पर्यनुयोगः युक्तः इति भावः ॥ (मोटी_२,१९.२१ ॥

ननु वेदनरूपस्य जीवस्य कारणत्वं किंरूपम् अस्तीत्य् । अत्राह

कारणत्वं विचारोऽस्य जीवस्यासद् अपि स्थितं ।
सद् इवास्यां जगद्रूपसम्पत्तौ व्यक्तिम् आगतम् ॥ (मो_२,१९.२२ ॥

"जगद्रूपसम्पत्तौ विचारः" विमर्शः । "अस्य" शुद्धवेदनरूपस्य "जीवस्य" । वा "कारणत्वं" भवति । कथम्भूतं "कारनत्वं" । "असद् अपि" परमार्थतः असत्स्वरूपम् अपि । "सद् इव स्थितम्" । पुनः कथम्भूतं । अभि"व्यक्तिं" प्राकट्यं "गतम्" ॥ (मोटी_२,१९.२२ ॥

ननु पुनर् अपि किं तस्य जीवस्य कारणत्वं नश्यत्य् अथ वा नेत्य् । अत्राह

स्वयम् एव विचारस् तु सनञर्थं स्वकं वपुः ।
नाशयित्वा करोत्य् आशु प्रत्यक्षं परमं पदम् ॥ (मो_२,१९.२३ ॥

"स्वयम् एव विचारः सनञर्थं" स्वाभावयुक्तं । "स्वकं वपुः" निजविचाराख्यं स्वरूपं "नाशयित्वा" । "परमं पदं" कारणत्वानवच्छिन्नं स्वस्वरूपं । "प्रत्यक्षं" "करोति" । विचारवशाद् एव । पुनर् अपि जीवस्य कारणत्वं नश्यतीति भावः ॥ (मोटी_२,१९.२३ ॥

ननु विचारः कथं परमं पदं प्रत्यक्षीकरोतीत्य् अपेक्षायाम् आह

विचारयन् विचारोऽपि नात्मानम् अधिगच्छति ।
यदा तदा निरुल्लेखं परम् एवावशिष्यते ॥ (मो_२,१९.२४ ॥

"विचारः" विमर्शः । "आत्मानं विचारयन्" किंरूपोऽहम् इति विमर्शविषयीकुर्वन् । "यदा आत्मानं नाधिगच्छति" न किंचिद्रूपत्वात् न लभते । "तदा निरुल्लेखं" विमर्शरहितं । "परं" पदं शुद्धचिन्मात्राख्यश्रेष्ठं स्वरूपम् । "एवाव"तिष्ठते विचारणीयाभावाद् इत्य् अर्थः ॥ (मोटी_२,१९.२४ ॥

ननु पुरुष एतस्याम् अवस्थायां बुद्धीन्द्रियकर्माणि करोति न वेत्य् । अत्राह

मनस्य् अनीहिते शान्ते तैर् बुद्धीन्द्रियकर्मभिः ।
नेह कैश्चित् कृतैर् अर्थो नाकृतैर् अप्य् अभावनात् ॥ (मो_२,१९.२५ ॥

"मनसि" विचारस्वरूपे मनसि । "अनीहिते" स्वक्रियाम् अकुर्वति । अत एव "शान्ते" सति । पुरुषस्य "तैः" प्रसिद्धैः । "कैश्चिद्" "बुद्धीन्द्रियकर्मभिः" "कृतैः" । "अर्थः न" भवति । "अकृतैश्" च्"आर्थः न" भवति । कुतः । "अभावनात्" भावनाराहित्यात् । नैरपेक्ष्याद् इति यावत् ॥ (मोटी_२,१९.२५ ॥
ननु तदा कर्मेन्द्रियाणां का वार्तेत्य् । अत्राह

मनस्य् अनीहिते शान्ते न प्रवर्तन्त एव ते ।
कर्मेन्द्रियाणि कर्मादाव् असंचारितयन्त्रवत् ॥ (मो_२,१९.२६ ॥

"कर्मेन्द्रियाणां" तस्याम् अवस्थायां "प्रवर्तनम् एव ना"स्ति । का वार्ता तत्कर्मणां स्याद् इति भावः । एतादृशी चावस्था जीवन्मुक्तानां दुर्लभैव । न हि सर्वदा ते अत्रैव तिष्ठन्ति । विदेहमुक्तास् तु सर्वदा एतन्मया एवेत्य् अलं बहुना ॥ (मोटी_२,१९.२६ ॥

वेदनरूपविचारशान्त्यैव मनःशान्तिर् भविष्यतीत्य् अभिप्रायेणाह

मनोयन्त्रस्य चलने कारणं वेदनं विदुः ।
प्राणाली दारुमेषस्य रज्जुर् अन्तर्गता यथा ॥ (मो_२,१९.२७ ॥

पण्डिताः "मनोमन्त्रस्य चलने वेदनम्" एव "कारणं विदुः" । वेदनानन्तरम् एव हि मनः चलति । "प्राणाली" अस्य मनसः "अन्तर्गता रज्जुः" भवति । कस्य । यस्य "दारुमेषस्य यथा" । अयं भावः । "मनः" दारुमेषतुल्यम् । "प्राणाली" रज्जुतुल्या । "वेदनम्" रज्जुग्राहकतुल्यम् । इति वेदनस्यैव मनःप्रवृत्तौ कारणत्वात् । युक्ता तच्छान्तौ तच्छान्तिर् इति ॥ (मोटी_२,१९.२७ ॥

ननु भवतु वेदनशान्त्या मनःशान्तिः । वेदनक्षोभेन मनसः क्षोभे सति जगत् कुतो निर्यातीत्य् । अत्राह

रूपालोकमनस्कारपदार्थाद्याकुलं जगत् ।
विद्यते वेदनस्यान्तर् वातेऽन्तः स्पन्दनं यथा ॥ (मो_२,१९.२८ ॥

"पदार्थाः" रूपाधारभूतानि द्रव्याणि । अतो वेदनाद् एव "रूपादि"रूपम् "जगन्" निर्यातीति भावः ॥ (मोटी_२,१९.२८ ॥

ननु स्वभावतः शुद्धस्य वेदनस्यान्तः कथम् एतद् अस्तीत्य् । अत्राह

सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् ।
भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ॥ (मो_२,१९.२९ ॥

"शुद्धम्" केनापि रूपेणापरिनिष्ठितम् । अत एव "सर्वात्मवेदनम् यथोदेति तदात्मकं भाति" स्फुरति । न तु तन्मध्ये मलम् इव जगद् अस्तीति भावः । कथम्भूतं "वेदनं" । "दिक् कालश्" च "बाह्यं" च्"आन्तश्" च । तत् दिगादि । "प्रसृतः" विस्तारं गतः । दिगादिरूपः "देहः" स्वरूपं यस्य । तत् "प्रसृतदिक्कालबाह्यान्तारूपदेहकम्" ॥ (मोटी_२,१९.२९ ॥

पुनः पुनः श्लोकान्तरेण तद् एव प्रतिपादयति

द्रष्टैव दृश्यताभासं स्वं रूपं धारयन् स्थितः ।
स्वं यथा तत्र यद् रूपं प्रतिभाति तथैव तत् ॥ (मो_२,१९.३० ॥

"द्रष्टा एव" वेदनस्वरूपः "द्रष्टा एव" । "दृश्यतया भासते" । इति तादृशं "स्वरूपं धारयन् स्थितः" भवति । "तत्र" सति "तस्ये"ति शेषः । तस्य द्रष्टुः "स्वं रूपं यथा भाति" स्फुरति । "तत्" स्वं रूपं । "तथैव" भवति । नान्यथा स्वप्नवद् इति शेषः ॥ (मोटी_२,१९.३० ॥

सर्वम् आत्मा यथा यत्र संकल्पत्वम् इवागतः ।
तिष्ठत्य् आशु तथा तत्र तद्रूप इव राजते ॥ (मो_२,१९.३१ ॥

"सर्वम् आत्मा" भवति । अतः स आत्मा "यत्र यथा तिष्ठति तत्र तथा तद्रूप इव राजते" । परमार्थतस् तु न राजते । स्वरूपे तथैव स्थितत्वाद् इत्"ईव"शब्दोपादानम् । "आत्मा" कथम्भूत इव । "संकल्पत्वं" संकल्पभावं । "गत इवा"न्यथा नानारूपत्वम् अस्य न युज्येतेति भावः ॥ (मोटी_२,१९.३१ ॥

सर्वात्मकतया द्रष्टुर् दृश्यत्वम् इव युज्यते ।
द्रष्टृत्वं द्रष्टृसद्भावे दृश्यस्य त्व् अस्ति नासतः ॥ (मो_२,१९.३२ ॥

"द्रष्टुः सर्वात्मकतया" शुद्धतया स्थितेन "सर्व"भावेन । "दृश्यत्वं युज्यत इव" । परमार्थतस् तु न युज्यते द्रष्टृत्वाद् अप्रच्युतेर् इत्"ईव"शब्दोपादानं । "असतः" स्वरूपेणासतः । "दृश्यस्य द्रष्टृत्वं" "नास्ति" । "द्रष्टृतया" "सम्भाविते" स्वस्मिन् स्वापेक्षत्वेनात्माश्रयापत्तेः ॥ (मोटी_२,१९.३२ ॥

फलितं कथयति

कारणकम् एवातो ब्रह्मकल्पम् इदं स्थितम् ।
प्रत्यक्षम् एव निर्मातृ तस्यांशास् त्व् अनुपाधयः ॥ (मो_२,१९.३३ ॥

"अतः अकारणकम्" परमार्थतः शुद्धस्य ब्रह्मणः अकर्तृकत्वात् कारणरहितम् । "इदं" जगत् । "ब्रह्मकल्पम्" ब्रह्मसदृशं । "स्थितं" भवति । कथम्भूतम् जगत् । "प्रत्यक्षम् एव" स्फुटम् एव । "निर्मातृ" प्रमातृरहितम् शुद्धस्य ब्रह्मणो मातृतायोगाद् । अन्यथा अशुद्धतापत्तेः । ननु मा भवतु ब्रह्मणः कारणत्वं मातृत्वं वा । तदंशानां तु तद् भवत्व् इत्य् । अत्राह । "तस्यांशा" इति । "तु" पक्षान्तरे । "तस्य" ब्रह्मणः । "अंशाः अनुपाधयः" कारणत्वादिरूपोपाधिरहिता भवन्ति । अन्यथा तद्द्वारेण तस्यापि सोपाधित्वप्रसङ्गात् ॥ (मोटी_२,१९.३३ ॥

एवं प्रासङ्गित्वं परित्यज्य प्रकृतम् एवानुसरति

स्वयत्नमात्रेतररूपको यस्
तद् दैवशब्दार्थम् अपास्य दूरे ।
शूरेण साधो पदम् उत्तमं तत्
स्वपौरुषेणैव हि लभ्यतेऽन्तः ॥ (मो_२,१९.३४ ॥

"यः स्वयत्नमात्रकात् इतररूपकः" इतररूपत्वेन कल्पितः । "तद् दैवशब्दार्थं दूरे अपास्य" । हे "साधो" । "शूरेण तत् उत्तमं पदं अन्तः स्वपौरुषेण" मानसिकेन पौरुषेण । "लभ्यते" ॥ (मोटी_२,१९.३४ ॥

सर्गान्तश्लोकेन विचारावधिं कथयति

विचारयाचार्यपरम्पराणां
मतेन सत्येन सितेन तावत् ।
यावद् विशुद्धां स्वयम् एव बुद्धाम्
नन्तरूपां परताम् उपैषि ॥ (मो_२,१९.३५ ॥

त्वम् "सत्येन सितेन" दोषरहितेन । "आचार्यपरम्पराणां मतेन" मतानुसारेण । "तावत्" तावत्कालं "विचारय" । "यावत् परताम्" उत्तीर्णचिद्रूपताम् "उपैषि" । "परताम्" कथम्भूताम् । "विशुद्धाम्" चेत्याख्यमलरहिताम् । पुनः कथम्भूताम् । "स्वयम् एवा"व"बुद्धाम्" अनुबुद्धाम् । पुनः कथम्भूताम् । "अनन्तरूपाम्" अपरिच्छिन्नस्वरूपाम् । इति शिवम् ॥ (मोटी_२,१९.३५ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे एकोनविंशः सर्गः ॥ २,१९ ॥




मुमुक्षोर् व्यवहारं संगृह्य कथयति

आर्यसंगमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद् बलात् ।
ततो महापुरुषता महापुरुषलक्षणैः ॥ (मो_२,२०.१ ॥

पुरुषः "आदौ आर्यसंगमयुक्त्या" साधुसंगाख्येनोपायेन । बुद्धिं "वृद्धिं" विवेकक्षमत्वं "नयेत्" । "ततः" बुद्ध्यासाधितैः "महापुरुषलक्षणैः महापुरुषता" भवेत् ॥ (मोटी_२,२०.१ ॥

ननु महापुरुषगुणैर् विना महापुरुषता कथं सिध्यतीत्य् अपेक्षायां तद्गुणाहरणम् एव कर्तव्यत्वेन कथयति

यो यो येन गुणेनेह पुरुषः प्रविराजते ।
शिक्षेत तं तम् एवाशु तस्माद् बुद्धिविवृद्धये ॥ (मो_२,२०.२ ॥

"बुद्ध्या विवृद्धये"ति वा पाठः । आर्यसंगमयुक्त्या विवृद्धया बुद्ध्या इत्य् अर्थः । अन्यथा बुद्धिवृद्ध्यभावे कथं परगुणग्रहणसामर्थ्यं स्यात् ॥ (मोटी_२,२०.२ ॥

ननु तर्हि गुणग्रहणं सुषमम् एवेति महापुरुषतापि सुसाध्यैव स्याद् । इत्य् अत्राह

महापुरुषता त्व् एषा शमादिगुणशालिनी ।
सम्यग्ज्ञानं विना राम सिद्धिम् एति न कस्यचित् ॥ (मो_२,२०.३ ॥

अतः "सम्यग्ज्ञानम्" एवार्यसंगमयुक्त्या प्रथमं साध्यम् इति भावः ॥ (मोटी_२,२०.३ ॥

ननु सम्यग्ज्ञानेन किं सेत्स्यतीत्य् । अत्राह

ज्ञानाच् छमादयो यान्ति वृद्धिं सत्पुरुषक्रमात् ।
श्लाघनीयाः फलेनान्तर् वृष्टेर् इव नवाङ्कुराः ॥ (मो_२,२०.४ ॥

"ज्ञानात्" कथम्भूतात् । "सत्पुरुषक्रमात्" । न त्व् असत्पुरुषक्रमात् । "क्रमः" परिपाटी । "आदि"शब्देन दमादीनां ग्रहणम् । "वृष्टेर्" इति पञ्चमी ॥ (मोटी_२,२०.४ ॥

ननु शमादिभिर् अपि किं स्याद् इत्य् अपेक्षायाम् आह

शमादिभ्यो गुणेभ्यश् च वर्धते ज्ञानम् उत्तमम् ।
न्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिर् इवोत्तमा ॥ (मो_२,२०.५ ॥

"उत्तमम्" परमात्मविषयत्वेन सर्वेभ्यो ज्ञानेभ्यः श्रेष्ठम् ॥ (मोटी_२,२०.५ ॥

फलितम् आह

गुणाः शमादयो ज्ञानाच् छमादिभ्यस् तथा ज्ञता ।
परस्परं विवर्धेते एतेऽब्दसरसी यथा ॥ (मो_२,२०.६ ॥

अतः "ज्ञानाच् छमादयः" । "शमादिभ्यो" "ज्ञानं" । "यथा अब्देभ्यो" मेघेभ्यः सरः । सरसः मेघा इति पिण्डार्थः ॥ (मोटी_२,२०.६ ॥

पुनर् अप्य् एतद् एव कथयति

ज्ञानं सत्पुरुषाचाराज् ज्ञानात् सत्पुरुषक्रमः ।
परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ॥ (मो_२,२०.७ ॥

"सत्पुरुषाचारात्" शमादेर् इत्य् अर्थः ॥ (मोटी_२,२०.७ ॥

ननु ज्ञानशमयोः संपत्तौ पुरुषस्य केन यत्नेनोत्तमपदप्राप्तिर् भवतीत्य् । अत्र सदृष्टान्तम् उत्तरं कथयति

यथा कमलरक्षिण्या गीत्या वितततारया ।
खगोत्सादेन सहितो गीतानन्दः प्रसाध्यते ॥ (मो_२,२०.८ ॥
ज्ञानसत्पुरुषेहाभ्याम् अकर्त्रा कर्तृरूपिणा ।
तथा पुंसा निरिच्छेन समम् आसाद्यते पदम् ॥ (मो_२,२०.९ ॥

"यथा कमलरक्षिण्या" गोपिकया कर्त्र्या । "वितता" चासौ "तारा" चेति तादृश्या "गीत्या" करणभूतया । "खगानां" यः "उत्सादः" धान्याद् अपासनं । तेन "सहितः" "गीतानन्दः प्रसाध्यते" । न हि तस्याः तत्र यत्नोऽस्ति । गीतिमात्रेणैव गीतानन्दखगोत्सादयोः सिद्धत्वात् । मृगाणां हि अयं स्वभाव एष यत् गीतिं श्रुत्वा भक्ष्यम् अपि त्यजन्तीति । तथा कर्त्रा नाहं कर्तेति निश्चयात् कर्तृत्वलेपरहितेन "कर्तृरूपिणा" कर्तृवद् भासमानेनेति यावत् । "पुरुषेण" कर्त्रा । "ज्ञानसत्पुरुषेहाभ्यां" ज्ञानशमादिभ्यां करणाभ्यां । "अयत्नेन" यत्नरहितम् एव । "पदम्" शुद्धचिन्मात्राख्यम् उत्तमं पदं । "समासाद्यते" प्राप्यते । ज्ञानं शमादिकं चेत्य् एतन्मात्रकम् एवात्रोपायः । नान्यत् किंचिद् इति भावः । "पुरुषेण" कथम्भूतेन । "निरिच्छेन" ज्ञानशमादिपूर्णतया पदप्राप्ताव् अपीच्छारहितेन । अन्यथेच्छारूपस्य क्षोभस्य स्थितत्वात् पूर्णता न स्याद् इति भावः ॥ (मोटी_२,२०.८-९ ॥

मुमुक्षुव्यवहारप्रकरणाभिधेयं वस्तूपसंहरति

सदाचारक्रमः प्रोक्तो मयैष रघुनन्दन ।
तथोपदिश्यते सम्यग् अयं ज्ञानक्रमोऽधुना ॥ (मो_२,२०.१० ॥

"प्रोक्तः" एतद्युक्तस्यैव वक्ष्यमाणे ज्ञानक्रमेऽधिकारित्वाद् इति भावः । नन्व् अधुना किं करोषीत्य् अपेक्षायाम् आह । "तथोपदिश्यत" इति । "तथा" सदाचारक्रमवत् । "ज्ञानक्रमः" ब्रह्मोपदिष्टा स्वात्मज्ञानपरिपाटी ॥ (मोटी_२,२०.१० ॥

प्रकरणमाहात्म्यं कथयति

इदं यशस्यम् आयुष्यं पुरुषार्थफलप्रदम् ।
तज्ज्ञाद् आप्तात्मशास्त्रार्थाच् छ्रोतव्यं किल धीमता ॥ (मो_२,२०.११ ॥

बाह्यदृष्टीन् संमुखीकर्तुम् इति "आयुष्यम्" इति च "इदं" मुमुक्षुव्यवहाराख्यं प्रकरणम् । "पुरुषार्थफलप्रदम्" मोक्षदम् । "तज्ज्ञात्" कथम्भूतात् । "आप्तः" सम्यङ् निश्चितः । "आत्मशास्त्राणाम्" अध्यात्मशास्त्राणाम् । "अर्थः" येन । तस्मात् ॥ (मोटी_२,२०.११ ॥

नन्व् एतच्छ्रवणेन किं स्याद् इत्य् । अत्राह

श्रुत्वा तु बुद्धिनैर्मल्याद् बलाद् यास्यसि सत्पदम् ।
यथा कतकसंश्लेषात् प्रसादम् अवशम् पयः ॥ (मो_२,२०.१२ ॥

त्वम् एतच् "छ्रुत्वा" । सिद्धात् "बुद्धिनैर्मल्यात्" । "बलात्" अयत्नम् एव । "सत्पदं यास्यसि" । अत्रोत्तरार्धेन दृष्टान्तम् आह । "यथे"ति । "कतकम्" जलशुद्धिकारी द्रव्यविशेषः ॥ (मोटी_२,२०.१२ ॥

ननु कथम् एतच्छ्रवणेन पुरुषः सत्पदं यातीत्य् । अत्र सर्गान्तश्लोकेनोत्तरं कथयति

विदितवेद्यम् इदं हि मनो मुने
विवशम् एव हि याति परं पदम् ।
यद् अवबुद्धम् अखण्डितम् उत्तमं
तद् अवबोधदशां न जहाति हि ॥ (मो_२,२०.१३ ॥

हे "मुने" मुनिकर्मान्वितत्वात् मुनिरूपश्रीराम । "हि" यस्मात् । "विदितवेद्यं मनः विवशम् एव परं पदं याति" । अतो विदितवेद्यत्वकारिणः एतच्छास्त्रश्रवणात् सत्पदप्राप्तिर् युक्तैवेति भावः । ननु विदितवेद्यम् अपि मनः यदि कदाचिद् विदितवेद्यतां जहाति तदा किं कार्यम् । इत्य् अत्राह । "यद्" इति । मनसा "यत् उत्तमं" न त्व् अधरं भोगरूपं वस्तु । "अवबुद्धं" सम्यङ् निश्चितम् । "तत्" मनः । तद्"अवबोधदशां" तस्योत्तमस्य वस्तुनः । यो "ऽवबोधः" तस्य "दशां" । "हि" निश्चयेन । "न जहाति" । विदितवेद्यो हि कदाचिद् अपि विदितवेद्यतां "न जहाती"ति तात्पर्यम् । इति शिवं शिवं शिवम् इति ॥ (मोटी_२,२०.१३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे विंशः सर्गः ॥ २,२० ॥


श्रोतॄणां भावनावेशसत्कृतस्वान्तशालिनाम् ।
मुमुक्षुव्यवहारोक्तिव्याख्या सत्फलदास्त्व् इयम् ॥ १ ॥


यच्छक्त्यावेशवशतः सामर्थ्यं कार्यगोचरम् ।
भावानाम् अस्तु यत्नोऽयं तत्कार्यत्वेन निश्चितः ॥ २ ॥
स्वात्मलाभमहोदारफलयोग्यत्वभावनः ।
मुमुक्षुव्यवहारोऽयं स्फुरतान् मम मानसे ॥ ३ ॥


इति शिवम् ॥


इति श्रीकाश्मीरमण्डलान्तर्वर्त्याराध्यपादमहामाहेश्वरवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्रश्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणं समाप्तम् । इति शिवम् ॥