मोक्षोपायान्तर्गतं वैराग्यप्रकरणम्

विकिपुस्तकानि तः


स्वातन्त्र्याख्यगुणेरितेन सततं सङ्क्षोभ्यमाणान् निजाद्
इच्छामन्दरकेण सारभरिताद् रूपाद् अलोलात् सदा ।
स्वान्तःस्थं स्वमयं स्वभिन्नसदृशं तत्त्वालिरत्नोच्चयम्
बोधाह्वः प्रतिभासयन् परसरिन्नाथो जयत्य् अद्भुतः ॥ *१ ॥



शुद्धं स्फाटिकदर्पणेन सदृशं नित्यं स्वशक्त्युत्थितैर्
अच्छत्वात् स्वमयीकृतम् बहुविधैर् बाह्यान्तरैः स्वैर् मलैः ।
शक्त्यैतान् अपि सर्वदात्मनि लयीकुर्वाणम् आद्यं शिवम्
बोधाह्वम् प्रणतोऽस्मि देवम् अनघं षट्कोशदावानलम् ॥ *२ ॥



बोधाबोधविभेदभासनपरम् बोधान्वितैर् बोधितम्
बोधाबोधविहीनमूर्तिम् अमलम् बोधैकसारं विभुम् ।
बोधाबोधविभेदगोपनकरं स्वस्मिंस् तु तस्याप्य् अनु
बोधं तं शरणं श्रयामि सततं सद्बोधसम्प्राप्तये ॥ *३ ॥



स्वच्छत्वाश्रयमातृभावभजनाद् वैडूर्यनामार्हताम्
आसाद्यान्व् अवतारनामकलनाम् एत्याच्छमेयास्पदाम् ।
तत्त्वं स्वम् प्रकटं विधाय च ततः स्वम् भावम् एवागतो
यस् तस्मै सततं स्वभावगुरवे नैर्गुण्यधाम्ने नमः ॥ *४ ॥



अच्छाच्छस्वविमर्शनेऽपि कुशलो वैडूर्यनाम्नाश्रितो
यातोऽतोऽन्व् अवतारभावम् अमलं तत्त्वोपदेशेच्छया ।
शिष्याणाम् उपदिश्य तत्त्वम् अथ यः स्वं रूपम् एवागतस्
तस्मै श्रीनिधये प्रकाशगुरवे सद्बोधदात्रे नमः ॥ *५ ॥


देहाद्रिस्थमनोद्रुमोत्थकलनाशाखालिसन्ध्यन्तराद्
द्रष्टुं जाड्यहरं विमर्शविभवाद् उन्मेषरूपं रविम् ।
लग्ना ये सततं तदेकमयताम् पश्यन्त आत्मन्य् अथो
संसारेऽपि च तत्प्रकाशवशतो भातेऽस्तु तेभ्यो नमः ॥ *६ ॥



अपूर्वं सामर्थ्यं किम् अपि हृदयागोचर इदम्
परिच्छेदातीतं जयति लघुमुख्यम् भगवतः ।
विवृत्त्याख्ये कर्मण्य् अतिमहति वाक्पत्यविषये
यदाविष्टोऽमुष्मिन्न् अपि भजति मूकोऽप्य् अधिकृतिम् ॥ *७ ॥



स्वतःसिद्धाल् लब्धम् परमगहनं यत् स्वजनकाद्
रहस्यं सङ्क्षेपान् निरतिशयम् आभ्यन्तरम् अलम् ।
तद् एतत् सर्वेषु प्रकटयितुम् एवात्र विहितो
मयासाव् उद्योगो न निजधिषणाख्यापनधिया ॥ *८ ॥



स्वभावेनैवान्धाः कतिचिद् अपरे रोषतमसा
परेषां नापेक्षा भवति च निजालोकविभवात् ।
अतो व्याख्यादीपेऽप्रकट इव नात्रास्त्य् अधिकृतो
भवेद् वा कोऽपीति भ्रमत इह यत्नस् तु रचितः ॥ *९ ॥


अवतारकण्ठपुत्रः पौत्रो वैडूर्यकण्ठपादानाम् ।
भास्करकण्ठो रचयति विद्वत्कण्ठे विभूषणं व्याख्याम् ॥ *१० ॥


शक्त्यादीनाम् अभावे मे प्रवृत्तस्य पदे पदे ।
स्खलितानि भविष्यन्ति सन्तु सन्तोऽवलम्बनम् ॥ *११ ॥


नुत्वा गणेशं विबुधेशवन्द्यं वाग्देवतां च प्रतिभास्वरूपाम् ।
गुरूंस् तथा कौलनरोत्तमादीन् करोमि टीकां श्रुतिपात्रपेयाम् ॥ *१२ ॥


गुरूणां चरणौ स्मृत्वा कृत्वा स्वात्मार्चनं स्वतः ।
मोक्षोपायाभिधे ग्रन्थे व्याख्यां कुर्वे समासतः ॥ *१३ ॥




इह खलु कश्चिन् महापुरुषः श्रीवाल्मीकिनिबद्धश्रीमहारामायणाख्यसागरादिकाण्डस्थश्रीरामज्ञानोत्पादकश्रीवसिष्ठोपदेशरत्नैः स्वयम् आसादितसम्यग्ज्ञानाख्यप्रकाशः अथान्यान् प्रति दयया प्रकटीकरणार्थम् प्रोक्तसागरात् तान्य् उद्धर्तुकामस् तदुद्धृतिनिर्विघ्नसमाप्तिगमनाय परदेवतास्वरूपम् परमात्मानं स्तौति

दिवि भूमौ तथाकाशे बहिर् अन्तश् च मे विभुः ।
योऽवभात्य् अवभासात्मा तस्मै विश्वात्मने नमः ॥ (मो_१,१.१ ॥

"तस्मै" प्रसिद्धाय । "विश्वात्मने" सर्वसारत्वेन स्थितत्वात् सर्वेषाम् आत्मभूतायार्थात् परमात्मने "नमः" । अपरिमितायां तत्सत्तायाम् परिमितस्वसत्तान्यग्भावरूपः प्रह्वीभावः अस्तु । तत्सत्तायाम् एव स्वसत्तां लीनाम् भावयामीति यावत् । "तस्मै" कस्मै । "अवभासात्मा" बाह्यान्तरालोकगतनानाविधबाह्यान्तरपदार्थवृन्दविषयज्ञानसारभूतः । "यः "विश्वात्मा । "अवभाति" प्रत्यक्षम् एव स्फुरति । यतः प्रत्यक्षं स्फुरन्तः नानाभासाः विचारविषयीकृताः सन्तः अनिर्वाच्यतास्वरूपायाम् परमात्मतायाम् एव विश्राम्यन्ति । ततः नानावभासावभासेन परमात्मैवावभातीति भावः । "यः" कथम्भूतः । "विभुः" व्यापकः । कुत्र । "मे" परिमितप्रमातृतासादनेन चिन्मात्ररूपापरिमितप्रमातृभावाच् च्युतस्यात एव परिच्छिन्नवाचकास्मच्छब्दवाच्यतां गतस्य परिमितप्रमातुः । "बहिः "बाह्ये । अहन्ताविषयताम् अनीते प्रदेशे इति यावत् । पुनः कुत्र । "अन्तश् च" अहन्ताविषयतां नीते प्रदेशे च । "बहिः" किंरूपे । "दिवि" समस्तसुराधारभूतस्वर्गलोकरूपे । तथा "भूमौ" समस्तनरादिनानाविधभूताधारभूतभूलोकरूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारभूताकाशलोकस्वरूपे । एतेन चतुर्दशभुवनानां ग्रहणं ज्ञेयं । "अन्तश् च" किंरूपे । "दिवि" द्योतनमात्रस्वरूपस्वप्नावस्थारूपे । "भूमौ" स्थूलत्वसादृश्याज् जाग्रदवस्थारूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारत्वसादृश्यात् सुषुप्त्यवस्थास्वरूपे । अत्र च परमात्मनः व्यापकत्वं शक्तिप्राधान्येनोपादानतया स्थितत्वात् स्वप्राधान्येन साक्षितया स्थितत्वाच् चेति द्विविधं ज्ञेयम् । एवम् अभीष्टसमु-चितदेवतानमस्कारलक्षणम् मङ्गलं कृत्वा उद्धरिष्यमाणस्यास्य ग्रन्थस्याधिकार्याद्यनुबन्धचतुष्टयं वक्तुकामः स एवोद्धृतिकारः अभिधेयसम्बन्धप्रयोजनान्य् अर्थात् सूचयन् अधिकारिनिरूपणं साक्षात्करोति ॥ (मोटी_१,१.१ ॥

अहम् बद्धो विमुक्तः स्याम् इति यस्यास्ति निश्चयः ।
नात्यन्ततज्ज्ञो नातज्ज्ञः सोऽस्मिञ् शास्त्रेऽधिकारवान् ॥ (मो_१,१.२ ॥

श्रीभगवत्कृपाकटाक्षपात्रीभूतस्य "यस्य" पुरुषस्य । अहम्परिमितप्रमातृरूपः "अहम् बद्धः" स्वात्मभावेन निश्चितदेहोपयोगिभोगजालासक्तचित्तः । अस्मि कथम् इति शेषः । प्रोक्तजालानासक्तचित्तः कथं "स्याम्" भवे-यम् । "इति" एवम् ।" निश्चयः" मनसि सततम् अनुसन्धानं । स्यात् । "सः" पुरुषः । "अस्मिन्न्" उद्धरिष्यमाणे मोक्षोपायाख्ये ग्रन्थे । "अधिकारवान्" स्यात् । तस्यैवेदं शास्त्रं विचारणीयम् इत्य् अर्थः । "सः" कथम्भूतः । नात्यन्तं तज्ज्ञः "नात्यन्ततज्ज्ञः" । मुक्तिकामत्वेन सम्यग्ज्ञानरहित ४इत्य् अर्थः । सम्यग्ज्ञानी हि मुक्तिम् अपि न काङ्क्षति । काङ्क्षामात्रस्यैव बन्धत्वात् । पुनः कथम्भूतः । "नातज्ज्ञः" । भोगाकाङ्क्षायाः मुक्तत्वात् । अतज्ज्ञो हि भोगाकाङ्क्षां त्यक्तुं न शक्नोति । अत्यन्ततज्ज्ञे कृतकृत्यत्वात् "अस्मिञ् शास्त्रे" अनधिकारः । अतज्ज्ञे तु अयोग्यतयेति विभागः । अत्र परमात्मतत्त्वैक्यम् अभिधेयम् । पदे पदे तस्यैवाभिधानात् स्वविषयज्ञानद्वारेण मोक्षाख्यपरमप्रयोजनसाधकत्वाच् च । सर्वशास्त्रेष्व् अभिधेयस्यैव परमप्रयोजनसाधकत्वदर्शनात् । तद्विषयं सम्यग्ज्ञानम् अवान्तरप्रयोजनम् । अन्यथा तत्काङ्क्षिणः अमूर्खस्यावान्तराधिकारित्वं न स्यात् । परमप्रयोजणम् मुक्तिर् । अन्यथा तत्काङ्क्षिणः मुमुक्षोः परमाधिकारित्वं न स्यात् । शास्त्रावान्तरप्रयोजनयोः अभिधेयपरमप्रयोजनयोश् च साध्यसाधनभावः सम्बन्धः । अधिकारी तु स्वकण्ठेनैवोक्त इति सर्वं स्वस्थम् ॥ (मोटी_१,१.२ ॥

एवम् अधिकार्यादि निरूप्य शास्त्रोद्धारम् आरभते

वाल्मीकिर् उवाच

इति । "वाल्मीकिः" वाल्मीकिनामा ऋषिः । "उवाच" उक्तवान् । श्रीरामम् प्रति इति शेषः । किम् उवाचेत्य् आशङ्कायाम् आह

कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ ।
यो विचारयति प्राज्ञो न स भूयोऽभिजायते ॥ (मोटी_१,१.३ ॥


कथारूपा उपायाः "कथोपायाः" । तान् । कथानाम् अपि सम्यग्ज्ञानम् प्रति प्रवर्तकत्वेनोपायत्वं ज्ञेयम् । "इमान्" वक्ष्यमाणान् । ननु श्रीवाल्मीकिः श्रीरामवृत्तान्तमयं श्रीमहारामायणं श्रीरामम् प्रत्य् एव कथम् उवाचान्यस्यैव ह्य् अन्यवृत्तान्तकथनम् उचितम् इति चेत् । सत्यम् । अद्यकल्पे भवः श्रीवाल्मीकिर् अद्यकल्पे भवं श्रीरामम् प्रति पुरातनकल्पश्रीवाल्मीकिकृतम् पुरातनश्रीरामवृत्तान्तमयं श्रीमहारामायणम् उवाचेति केचिद् अत्र समादधते । किम् अस्माकं व्याख्यामात्रप्रवृत्तानाम् एतद्युक्तत्वायुक्तत्वचिन्तनेन । अस्ति चात्र किम् अपि निगूढम् बीजम् "अपि पौरुषम् आदेयम्" इत्यादिवक्ष्यमाणश्लोकसूचितम् । तच् च प्रतिभावतां स्वयम् एव गम्यम् । अन्येषां तत्कथनम् अयुक्तम् । इत्य् अलं रहस्योद्घाटनेन ॥ (मोटी_१,१.३ ॥

अस्मिन् रामायणे राम कथोपायान् महाफलान् ।
एतांस् तु प्रथमं कृत्वा पुराहम् अरिमर्दन ॥ (मो_१,१.४ ॥
शिष्यायास्मै विनीताय भरद्वाजाय धीमते ।
एकाग्रो दत्तवान् रम्यान् मणीन् अब्धिर् इवार्थिने ॥ (मो_१,१.५ ॥

"रामे"त्य् आमन्त्रणम् । रामस्यैव प्रतिपाद्यत्वात् । "एतान्" त्वया "अस्मिन्" समय एव दृष्टान् । आदौ "कृत्वा" सम्पाद्य । "अस्मै" अग्रे स्थिताय । "एकाग्रः" एतस्य विनयेन एतस्मिंल् लग्नचित्तः । युगलकम् ॥ (मोटी_१,१.४-५ ॥

तत एते कथोपाया भरद्वाजेन धीमता ।
कस्मिंश्चिन् मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ (मो_१,१.६ ॥

"उदाहृताः" कथिताः ॥ (मोटी_१,१.६ ॥

अथास्य तुष्टो भगवान् ब्रह्मा लोकपितामहः ।
वरम् पुत्र गृहाणेति समुवाच महाशयः ॥ (मो_१,१.७ ॥

स्पष्टम् ॥ (मोटी_१,१.७ ॥

भरद्वाजः कथयति

भगवन् भूतभव्येश वरोऽयम् मेऽद्य रोचते ।
येनेयं जनता दुःकान् मुच्यते तद् उदाहर ॥ (मो_१,१.८ ॥

"भूतभव्येशा"तीतानागतयोर् ईशातीतानागतज्ञेति यावत् । "उदाहर" कथय ॥ (मोटी_१,१.८ ॥ भरद्वाजवाक्यं श्रुत्वा श्रीब्रह्मा कथयति

गुरुं वाल्मीकिम् अत्राशु प्रार्थयस्व प्रयत्नतः ।
तेनेदं यत् समारब्धं रामायणम् अनिन्दितम् ॥ (मो_१,१.९ ॥
तस्मिञ् ज्ञाते नरो मोहात् समग्रात् सन्तरिष्यति ।
सेतुनेवाम्बुधेः पारम् अपारगुणशालिना ॥ (मो_१,१.१० ॥

युगलकम् । "पारम्" इति पूर्वार्धेनापि योज्यम् । "अम्बुधेर्" इति पञ्चमी ब्रह्मवाक्यम् उपसंहरति ॥ (मोटी_१,१.९-१० ॥

इत्य् उक्त्वा स भरद्वाजम् परमेष्ठी ममाश्रमम् ।
अभ्यागमत् समं तेन भरद्वाजेन भूतकृत् ॥ (मो_१,१.११ ॥

परमे चिन्मात्राख्ये उत्तमे पदे तिष्ठति शुद्धमनोरूपत्वाद् इति "परमेष्ठी" ॥ (मोटी_१,१.११ ॥

तूर्णं सम्पूजितो देवः सोऽर्घ्यपाद्यादिना मया ।
अवोचन् माम् महासत्त्वः सर्वभूतहिते रतः ॥ (मो_१,१.१२ ॥
[गीता अ५, २५घ]

स्पष्टम् ॥ (मोटी_१,१.१२ ॥
ब्रह्मा कथयति

रामस्वभावकथनाद् अस्माद् वरमुने त्वया ।
नोद्योगः सम्परित्याज्य आ समाप्तेर् अनिन्दितात् ॥ (मो_१,१.१३ ॥

"आ समाप्तेः "समाप्तिपर्यन्तम् ॥ (मोटी_१,१.१३ ॥

ननु किमर्थम् उद्योगं न त्यजामीत्य् । अत्राह

ज्ञातेनानेन लोकोऽयम् अस्मात् संसारसङ्कटात् ।
समुत्तरिष्यति क्षिप्रम् पोतेनेवाथ सागरात् ॥ (मो_१,१.१४ ॥

"अथ"शब्दः पादपूरणार्थः ॥ (मोटी_१,१.१४ ॥

वक्तुं तवैतम् एवार्थम् अहम् आगतवान् अयम् ।
कुरु लोकहितार्थं त्वं शास्त्रम् इत्य् उक्तवान् अजः ॥ (मो_१,१.१५ ॥

स्पष्टम् । ब्रह्मणो वाक्यम् उपसंहरति "इत्य् उक्तवान्" इति ॥ (मोटी_१,१.१५ ॥

राम पुण्याश्रमात् तस्मात् क्षणाद् अन्तर्धिम् आगतः ।
मुहूर्ताद् उद्यतः प्रोच्चैस् तरङ्ग इव वारिणः ॥ (मो_१,१.१६ ॥


"पुण्याश्रमात्" पवित्रात् मदाश्रमात् । "तस्मात्" तस्मिन् समये गृहीतात् । मुनयो
हि नवीनानि नवीनान्य् आश्रमाणि गृह्णन्ति । ब्रह्मा क "इव" । "तरङ्ग इव" । यथा "वारिणः" "उद्यतः" पूर्वम् उत्थितः "तरङ्गः" । "मुहूर्ताद् अन्तर्धिम्" आगच्छति तथेत्य् अर्थः ॥ (मोटी_१,१.१६ ॥

तस्मिन् प्रयाते भगवत्य् अहं विस्मयम् आगतः ।
पुनस् तत्र भरद्वाजम् अपृच्छं स्वच्छया धिया ॥ (मो_१,१.१७ ॥

"भरद्वाजं" कथम्भूतम् । उपलक्षितं कया । "स्वच्छया धिया" । अन्यथा पृच्छनम् अयुक्तम् एव स्याद् इति भावः ॥ (मोटी_१,१.१७ ॥

किम् अपृच्छ इत्य् । अत्राह

किम् एतद् ब्रह्मणा प्रोक्तम् भरद्वाज वदाशु मे ।
इत्य् उक्तेन पुनः प्रोक्तम् भरद्वाजेन मेऽनघ ॥ (मो_१,१.१८ ॥

"अनघ" हे दोषरहित राम ॥ (मोटी_१,१.१८ ॥

भरद्वाजः कथयति

एतद् उक्तम् भगवता यथा रामायणं कुरु ।
सर्वलोकहितायाशु संसारार्णवपोतकम् ॥ (मो_१,१.१९ ॥

"एतत्"पदाकाङ्क्षाम् पूरयति "यथे"ति ॥ (मोटी_१,१.१९ ॥
ननु ततस् तव किम् इत्य् । अत्राह

मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे ।
रामो व्यवहृतोऽप्य् अस्मिन् भरतश् च महामनाः ॥ (मो_१,१.२० ॥

"व्यवहृतः" व्यवहारं कृतवान् । "अपि"शब्दः असम्भावनाद्योतकः "संसारसङ्कटे" इत्य् अनेन सम्बध्यते ॥ (मोटी_१,१.२० ॥

शत्रुघ्नो लक्ष्मणश् चापि सीता चापि यशस्विनी ।
रामानुयायिनस् ते वा मन्त्रिपुत्रा महाधियः ॥ (मो_१,१.२१ ॥

स्पष्टम् ॥ (मोटी_१,१.२१ ॥

निर्दुःखतां यथैते तु प्राप्तास् तद् ब्रूहि मे स्फुटम् ।
तथैवाहं तरिष्यामि ततो जनतया सह ॥ (मो_१,१.२२ ॥

"एते" रामादयः ॥ (मोटी_१,१.२२ ॥
श्रीवाल्मीकिः श्रीरामम् प्रति कथयति

भरद्वाजेन राजेन्द्र यदेत्य् उक्तोऽस्मि सादरम् ।
तदा कर्तुं विभोर् आज्ञाम् अहं वक्तुम् प्रवृत्तवान् ॥ (मो_१,१.२३ ॥

"अस्मि" अहम् । "इति" पूर्वोक्तप्रकारेण । "उक्तः" कथितः । "विभोः" ब्रह्मणः ॥ (मोटी_१,१.२३ ॥

प्रवृत्तिम् एव स्फुटयति

शृणु वत्स भरद्वाज यथापृष्टं वदामि ते ।
श्रुतेन येन सम्मोहम् अलं दूरे करिष्यसि ॥ (मो_१,१.२४ ॥

"अलम्" अतिशयेन । "शृण्व्" इति प्रतिज्ञां सम्पादयितुम् प्रस्तावं करोति ॥ (मोटी_१,१.२४ ॥

तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी ।
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ (मो_१,१.२५ ॥

"सर्वासंसक्तया" समस्तफलासङ्गरहितया ॥ (मोटी_१,१.२५ ॥
न केवलं राम एव किं त्व् अन्येऽपीत्य् अभिप्रायेण कथयति

लक्ष्मणो भरतश् चैव शत्रुघ्नश् च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस् तथा ॥ (मोटी_१,१.२६ ॥


स्पष्टम् ॥ (मोटी_१,१.२६ ॥

कृतास्थश् चाविरोधश् च बोधपारम् उपागतः ।
वसिष्ठो वामदेवश् च मन्त्रिणोऽष्टौ तथेतरे ॥ (मो_१,१.२७ ॥

"कृतास्थ" इति नाम "अविरोध" इति च । "अष्टौ मन्त्रिणः" अष्टाव् अमात्यास् । "तथेतरे" अन्येऽप्य् अष्टौ मन्त्रिणः । तेन षोडश मन्त्रिण इति परमार्थः ॥ (मोटी_१,१.२७ ॥
"इतर" इत्य् अस्यार्थं स्फुटं कथयति

घृष्टिर् विकुन्तो भामश् च सत्यवर्धन एव च ।
विभीषणः सुषेणश् च हनुमान् इन्द्रजित् तथा ॥ (मो_१,१.२८ ॥

स्पष्टम् ॥ (मोटी_१,१.२८ ॥

एतेऽष्टाविंशतिः प्रोक्ताः समनीरागचेतसः ।
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ (मो_१,१.२९ ॥

"यथाप्राप्तानुवर्तिनः" । न तु स्वप्रयत्ननिष्ठा इति यावत् ॥ (मोटी_१,१.२९ ॥

एभिर् यथा हृतं दत्तं गृहीतम् उषितं स्मृतम् ।
तथा चेद् वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥ (मो_१,१.३० ॥

"एभिः" रामादिभिः ॥ (मोटी_१,१.३० ॥

भरद्वाजस्य प्रश्नावसरदानार्थं सर्गान्तश्लोकेन तावत् स्ववाक्यम् उपसंहरति

अपारसंसारसमुद्रपाती
लब्ध्वा परां युक्तिम् उदारसत्त्वः ।
न शोकम् आयाति न दैन्यम् एति
गतज्वरस् तिष्ठति नित्यतृप्तः ॥ (मो_१,१.३१ ॥

"अपारः" यः "संसारसमुद्रः" । तत्र "पाती" पतनशीलः । "उदारसत्त्वः" उत्कृष्टधैर्ययुक्तः "पुरुषः" । "पराम्" उत्कृष्टां । "युक्तिं" दृश्यात्यन्ताभावज्ञानलक्षणां वक्ष्यमाणां युक्तिं । प्राप्य । "शोकम्" अपेक्षालक्षणं शोकं । "नायाति" । तथा "दैन्यम्" दीनत्वम् । अतृप्तिम् इति यावत् । "नैति" । प्रत्युत "गतज्वरः" अपेक्षास्वरूपज्वररहितः । अत एव "नित्यतृप्तः" "तिष्ठती"ति शिवम् ॥ (मोटी_१,१.३१ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे प्रथमः सर्गः ॥ १,१ ॥




भरद्वाजः पृच्छति

जीवन्मुक्तस्थितिम् ब्रह्मन् कृत्वा राघवम् आदितः ।
क्रमात् कथय मे नित्यम् भविष्यामि सुखी यथा ॥ (मो_१,२.१ ॥

"ब्रह्मन्" श्रीवाल्मीके । त्वं । "जीवन्मुक्तस्थितिं" जीवन्मुक्तमर्यादां । "राघवं" श्रीरामम् । "आदितः" "कृत्वा" । "मे कथय" श्रीरामवृत्तान्तद्वारेण कथयेति भावः । ननु किमर्थं कथयामीत्य् । अत्राह । "भविष्यामी"ति । अहं "यथा" येन जीवन्मुक्तस्थितिकथनेन । "नित्यसुखी" जीवन्मुक्त्याख्यमहासुखयुक्तो । "भविष्यामि" ॥ (मोटी_१,२.१ ॥
श्रीवाल्मीकिः श्रीरामवृत्तान्तश्रवणाधिकारित्वसम्पादनार्थं तावत् सामान्येनोपदेशं करोति

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणम् मन्ये साधो विस्मरणं वरम् ॥ (मो_१,२.२ ॥

हे "साधो" । अहम् "अस्य" पुरः स्फुरतः । "जागतस्य" जगत्सम्बन्धिनः । तद्विषयस्येति यावत् । तथा "आकाशवर्णवत्" आकाशनीलिमवत् । "जातस्य" प्रादुर्भूतस्य । मिथ्याभातस्येति यावत् । "भ्रमस्य" जगत्त्वज्ञानरूपस्य मिथ्याज्ञानस्य । "अपुनःस्मरणम्" पुनःस्मृतिविषयभावानयनम् । उपेक्षाम् इति यावत् । "वरम्" उत्कृष्टं । "विस्मरणम्" विस्मृतिं । "मन्ये" । उपेक्षा एवात्र युक्ता । न विस्मृतिः । तस्याः जाड्यव्याप्तत्वाद् इति भावः ॥ (मोटी_१,२.२ ॥

ननु तद् "अपुनःस्मरणं "केनोपायेन भविष्यतीत्य् । अत्राह

दृश्यात्यन्ताभावबोधं विना तन् नानुभूयते ।
कदाचित् केनचिन् नाम स बोधोऽन्विष्यताम् अतः ॥ (मो_१,२.३ ॥

"नाम" निश्चये । "केनचित्" पुरुषेण । "तद्" अपुनःस्मरणं । दृश्यस्य ...

...

अज्ञानसुघनाकारा घनाहङ्कारशालिनी ।
पुनर् जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ (मो_१,२.१२ ॥

पण्डितैः "वासना" "मलिना" "उक्ता" । कथम्भूता । "अज्ञानसुघनाकारा" । "अज्ञानेन" चिन्मात्राज्ञानेन । "सुघनः आकारः" यस्याः । सा । चिन्मात्राज्ञानेनैव हि वासना घनीभवन्ति । अन्यथा शुद्धचिन्मात्रैक्येन वासना किंविषया स्यात् । पुनः कथम्भूता । "घनः" अच्छिन्नः । यः "अहङ्कारः" देहादिविषयः अहम्भावः । तेन "शालिनी" । वासनावशेनैव हि देहादिनिष्ठः अहङ्कारो घनीभवति । पुनः कथम्भूता । "पुनः जन्मकरी" पुनर् अपि भवकरी । पदार्थभावेन व्यक्तीभावात् ॥ (मोटी_१,२.१२ ॥
शुद्धायाः स्वरूपं कथयति

पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् ।
देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते ॥ (मो_१,२.१३ ॥

पण्डितैः "सा" वासना । "शुद्धेति" कथ्यते । "सा" का । या "देहान्तं" देहस्थितिपर्यन्तम् एव । न तु तदनन्तरम् अपि । "ध्रियते" अवतिष्ठते । या कथम्भूता ।" पुनर्जन्मा"ख्येन्"आङ्कुरेण" "त्यक्ता" । यतः "सम्भृष्टबीजवत्" भर्जितबीजवत् । "स्थिता" । यथा सम्भृष्टम् बीजम् आकारमात्रेण तिष्ठति । अङ्कुरसमर्थं न भवति । तथा शुद्धा वासनाप्य् आकारमात्रेणैव तिष्ठति । जन्माङ्कुरोत्पादनसमर्था न भवतीत्य् अर्थः । पुनः कथम्भूता । "ज्ञातं ज्ञेयम्" अवश्यज्ञेयत्वेन स्थितम् परमात्मतत्त्वम् । यया हेतुभूतया । तादृशी । शास्त्रविचारादिरूपया शुद्धया वासनयैव हि परमात्मतत्त्वं ज्ञायते ॥ (मोटी_१,२.१३ ॥
शुद्धाया आश्रयविशेषं कथयति

अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥ (मो_१,२.१४ ॥

"जीवन्मुक्तेषु देहिषु" जीवेषु । "अपुनर्जन्मकरणी" पुनर्जन्माकारिका । "शुद्धा" "वासना देहे विद्यते" । न तु चित्ते । का "इव "। "भ्रमः" "इव" । यथा "भ्रमः" चाक्राकारेण भ्रमणं । "चक्रे" विद्यते । तथेत्य् अर्थः । जीवन्मुक्तानां वासना फलाद्यनुसन्धानानुत्पादिका एवास्तीति भावः ॥ (मोटी_१,२.१४ ॥

जीवन्मुक्तलक्षणं कथयति

ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास् त उच्यन्ते जीवन्मुक्ता महाधियः ॥ (मो_१,२.१५ ॥

"शुद्धा वासना" येषां । ते । तादृशाः ॥ (मोटी_१,२.१५ ॥
सामान्येनोपदेशं कृत्वा श्रीरामवृत्तान्तम् आरभते

जीवन्मुक्तपदम् प्राप्तो यथा रामो महामतिः ।
तत् तेऽहम् सम्प्रवक्ष्यामि जरामरणशान्तये ॥ (मो_१,२.१६ ॥

ननु किमर्थं श्रीरामजीवन्मुक्तिप्राप्तिं कथयसीत्य् । अत्राह "जरे"ति । श्रीरामजीवन्मुक्तिपदप्राप्तिश्रवणेन हि तवापि तद्व्यवहारानुसारेण जरादिशान्तिर् भवतीति भावः ॥ (मोटी_१,२.१६ ॥
ननु बहूपदेशकाङ्क्षिणो मम किं रामक्रममात्रकथनेनेत्य् । अत्राह

भरद्वाज महाबुद्धे रामक्रमम् इमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा ॥ (मो_१,२.१७ ॥

"सर्वथे"त्य् अनेन ततः काप्य् आकाङ्क्षा तव न स्याद् इति भावः ॥ (मोटी_१,२.१७ ॥
तद् एव कथयति

विद्यागृहाद् विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्य् अनयद् गेहे लीलाभिर् अकुतोभयः ॥ (मो_१,२.१८ ॥

"दिवसानि" । न तु मासान् । अविद्यमानं कुतोऽपि भयं यस्य सः "अकुतोभयः "। निर्भय इत्य् अर्थः ॥ (मोटी_१,२.१८ ॥

अथ गच्छति कालेऽत्र पालयत्य् अवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ (मो_१,२.१९ ॥
तीर्थमुन्याश्रमश्रेणीं द्रष्टुम् उत्कण्ठितम् मनः ।
रामस्याभूद् भृशं तत्र कदाचिद् गुणशालिनः ॥ (मो_१,२.२० ॥

स्पष्टम् । युग्मम् ॥ (मोटी_१,२.१९-२० ॥

राघवश् चिन्तयित्वैवम् उपेत्य चरणौ पितुः ।
हंसः पद्माव् इव नवौ जग्राह नवकेसरौ ॥ (मो_१,२.२१ ॥

पादवन्दनं चकारेत्य् अर्थः ॥ (मोटी_१,२.२१ ॥
श्रीरामः पितरम् प्रति कथयति

तीर्थानि देवसद्मानि वनान्य् आयतनानि च ।
द्रष्टुम् उत्कण्ठितं तात ममेदं हि भृशम् मनः ॥ (मो_१,२.२२ ॥

"हि" निश्चये ॥ (मोटी_१,२.२२ ॥

तद् एताम् अर्थनाम् पूर्वां सफलीकर्तुम् अर्हसि ।
न सोऽस्ति भुवने तात त्वया योऽर्थी विमानितः ॥ (मो_१,२.२३ ॥

मयाद्य तावत् तव कापि प्रार्थना न कृतेति "पूर्वाम्" इत्य् अस्याभिप्रायः ॥ (मोटी_१,२.२३ ॥ श्रीरामप्रार्थनाम् उपसंहरति

इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चद् एवैनं रामम् प्रथमम् अर्थिनम् ॥ (मो_१,२.२४ ॥

"विचार्यै"व । न तु "विचारम्" अकृत्वा । "प्रथमम् अर्थिनं" तत्पूर्वम् अर्थिभूतम् ॥ (मोटी_१,२.२४ ॥

शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ (मो_१,२.२५ ॥
वसिष्ठप्रहितैर् विप्रैः शास्त्रतज्ज्ञैः समन्वितः ।
स्निग्धैः कतिपयैर् एव राजपुत्रवरैः सह ॥ (मो_१,२.२६ ॥
अम्बाभिर् विहिताशीर्भिर् आलिङ्ग्यालिङ्ग्य भूषितः ।
निरगात् स गृहात् तस्मात् तीर्थयात्रार्थम् उद्यतः ॥ (मो_१,२.२७ ॥

"आलिङ्ग्यालिङ्ग्ये"त्य् अनेन स्नेहातिशयो द्योत्यते । "निरगात्" निर्ययौ ॥ (मोटी_१,२.२५-२७ ॥

निर्गतः स्वपुरात् पौरैस् तूर्यघोषेण वर्धितः ।
पीयमानः पुरन्ध्रीणां नेत्रैर् भृङ्गौघभङ्गुरैः ॥ (मो_१,२.२८ ॥
ग्रामीणललनालोकहस्तपद्मापवर्जितैः ।
लाजवर्षैर् विकीर्णात्मा हिमैर् इव हिमाचलः ॥ (मो_१,२.२९ ॥
आवर्जयन् विप्रगणान् परिशृण्वन् प्रजाशिषः ।
आलोकयन् दिगन्तांश् च परिचक्राम जङ्गले ॥ (मो_१,२.३० ॥

"परिचक्राम" पादचारेण गतवान् । तीर्थयात्रायां हि पादचारेण गमनम् पुण्यावहम् ॥ (मोटी_१,२.२८-३० ॥

अथारभ्य स्वकात् तस्मात् क्रमात् कोसलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ (मो_१,२.३१ ॥

"ह"शब्दः निपातः ॥ (मोटी_१,२.३१ ॥
किं "ददर्शे"ति कर्मापेक्षायाम् आह

नदीस् तीर्थानि पुण्यानि वनान्य् आयतनानि च ।
जङ्गलानि वनान्तेषु तटान्य् अब्धिमहीभृताम् ॥ (मो_१,२.३२ ॥

"वनान्तेषु" स्थितानि "जङ्गलानि" सजलाः देशाः ॥ (मोटी_१,२.३२ ॥

मन्दाकिनीम् इन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रुं च चन्द्रभागाम् इरावतीम् ॥ (मो_१,२.३३ ॥

स्पष्टम् ॥ (मोटी_१,२.३३ ॥

वेणां च कृष्णवेणां च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशाम् बाहुदाम् अपि ॥ (मो_१,२.३४ ॥

स्पष्टम् ॥ (मोटी_१,२.३४ ॥

प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा ।
वाराणसीं श्रीगिरिं च केदारम् पुष्करं तथा ॥ (मो_१,२.३५ ॥


स्पष्टम् ॥ (मोटी_१,२.३५ ॥

मानसं च क्रमसरस् तथैवोत्तरमानसम् ।
वडवाम् मडवां चैव तीर्थवृन्दं ससोदरम् ॥ (मो_१,२.३६ ॥

"तीर्थवृन्दं" कथम्भूतं । "ससोदरं" सोदराख्यतीर्थसहितम् ॥ (मोटी_१,२.३६ ॥

अग्नितीर्थम् महातीर्थम् इन्द्रद्युम्नसरस् तथा ।
सरांसि सरसीश् चैव तथा वापीह्रदावलीम् ॥ (मो_१,२.३७ ॥

स्पष्टम् ॥ (मोटी_१,२.३७ ॥

स्वामिनं कार्त्तिकेयं च सालिग्रामहरिं तथा ।
स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः ॥ (मो_१,२.३८ ॥

स्पष्टम् ॥ (मोटी_१,२.३८ ॥

नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्द्यकन्दरकुञ्जांश् च कुलशैलस्थलानि च ॥ (मो_१,२.३९ ॥

स्पष्टम् ॥ (मोटी_१,२.३९ ॥

राजर्षीणां च महताम् ब्रह्मर्षीणां तथैव च ।
देवानाम् ब्राह्मणानां च पावनान् आश्रमाञ् शुभान् ॥ (मो_१,२.४० ॥

स्पष्टम् ॥ (मोटी_१,२.४० ॥

भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्व् अपि दिगन्तेषु सर्वान् एव महीतटान् ॥ (मो_१,२.४१ ॥

स्पष्टम् ॥ (मोटी_१,२.४१ ॥
सर्गान्तश्लोकेन तीर्थयात्राभ्रमणम् उपसंहरति

अमरकिन्नरमानवमानितः
समवलोक्य महीम् अखिलाम् इमाम् ।
उपययौ स्वगृहं रघुनन्दनो
विहृतदिक् शिवलोकम् इवेश्वरः ॥ (मो_१,२.४२ ॥

"ईश्वरः" कथम्भूतः । "विहृतदिक्" विहृताः विहारविषयीकृताः दिशः येन । तादृशः । इति शिवम् ॥ (मोटी_१,२.४२ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वितीयः सर्गः ॥ १,२ ॥




श्रीरामस्य गृहप्रवेशं कथयति

लाजपुष्पाञ्जलिव्रातैर् विकीर्णः पौरवासिभिः ।
स विवेश गृहं श्रीमाञ् जयन्तो विष्टपं यथा ॥ (मो_१,३.१ ॥

"विकीर्णः" भरितः ।" जयन्तः" इन्द्रपुत्रः ॥ (मोटी_१,३.१ ॥

प्रणनामाथ पितरं वसिष्ठम् मातृबान्धवान् ।
ब्राह्मणान् गुरुवृद्धांश् च राघवः प्रथमागतः ॥ (मो_१,३.२ ॥

स्पष्टम् ॥ (मोटी_१,३.२ ॥

सुहृद्भिर् मातृभिश् चैव पित्रा द्विजगणेन च ।
मुहुर् आलिङ्गनाचारै राघवो न ममौ तदा ॥ (मो_१,३.३ ॥

"राघवस्" "तदा" "सुहृद्"आदि"भिः" सहकृतैः "आलिङ्गनाचारैः" आलिङ्गनरूपैः लोकाचारैः ।" न" "ममौ" महानन्दयुक्तो जात इति भावः ॥ (मोटी_१,३.३ ॥

तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः ।
जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव ॥ (मो_१,३.४ ॥

"तस्मिन्" "दाशरथौ" "मिथः" "प्रियप्रकथनैः" श्रीरामविषयैः अन्योऽन्यम् प्रियकथनैः । श्रीरामो गृहम् प्राप्त इत्य् एवंरूपैः परस्परम् प्रियकथनैर् इति यावत् ।" आशाः" दिशः । "जुघूर्णुः" घूर्णिम् प्रापुः । मङ्गलवाचिभूकम्पोत्थानाद् इयम् उक्तिः ।" प्रियप्रकथनैः" कथम्भूतैः । "दृढैस्" तथा "मधुरैः" कर्णसुखैः । "प्रियप्रकथनैः" कैर् "इव" । "मृदुवंशस्वनैर्" "इव" । यथा तैः पुरुषाः घूर्णन्ति । तथेत्य् अर्थः ॥ (मोटी_१,३.४ ॥

बहून्य् आस दिनान्य् अत्र रामागमनम् उत्सवः ।
महानन्दे जनान् मुञ्चन् केलिकोलाहलाकुलः ॥ (मो_१,३.५ ॥

"अत्र" दशरथपुरे ।" रामागमनम्" " उत्सवः" "आस" अभूत् । कियन्तं कालं । "बहूनि" "दिनानि" । बहुदिनपर्यन्तम् इत्य् अर्थः ।" उत्सवः" किं कुर्वन् । "जनान् महानन्दे" "मुञ्चन्" । "आसे"ति प्रयोग आर्षः ॥ (मोटी_१,३.५ ॥

उवास स सुखं गेहे ततः प्रभृति राघवः ।
वर्णयन् विविधाचारान् देशाचारान् इतस् ततः ॥ (मो_१,३.६ ॥

"इतस् ततः" यत्र तत्र ॥ (मोटी_१,३.६ ॥

प्रातर् उत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि ।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा ॥ (मो_१,३.७ ॥

स्पष्टम् ॥ (मोटी_१,३.७ ॥

कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह ।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिर् आदृतः ॥ (मो_१,३.८ ॥
जगाम पित्रनुज्ञातो महत्या सेनयावृतः ।
वराहमहिषाकीर्णं वनम् आखेटकेच्छया ॥ (मो_१,३.९ ॥

"आखेटेच्छया" मृगयाकाङ्क्षया ॥ (मोटी_१,३.८-९ ॥

तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् ।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन् निशाम् ॥ (मो_१,३.१० ॥

स्पष्टम् ॥ (मोटी_१,३.१० ॥
एवंरूपम् आचारम् असौ नैकस्मिन्न् एव दिने कृतवान् अपि तु सर्वदैवेत्य् अभिप्रायेण कथयति

एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः ।
आगत्य तीर्थयात्रायाः समुवास पितुर् गृहे ॥ (मो_१,३.११ ॥

स्पष्टम् ॥ (मोटी_१,३.११ ॥

सर्गान्तश्लोकेनैतद् उपसंहरति

नृपतिसंव्यवहारमनोज्ञया
सुजनचेतसि चन्द्रिकया तथा ।
परिनिनाय दिनानि स चेष्टया
श्रुतसुधारसपेशलयानघः ॥ (मो_१,३.१२ ॥


"सः अनघः" दोषरहितः श्रीरामः । एवंविधया "चेष्टया दिनानि परिनिनाय" लङ्घितवान् । किंविधया । "नृपतिव्यवहारेण" प्रजाविचारादिना राजव्यवहारेण । "मनोज्ञया" हृद्यया । तथा "सुजनचेतसि" सत्पुरुषमनसि । "चन्द्रिकया" सुजनहृदयाह्लादिकयेति यावत् । तथा "श्रुते" श्रवणे । "सुधारस"वत् "पेशलया" । दृष्टत्वे तु किं वाच्यम् इति भावः । इति शिवम् ॥ (मोटी_१,३.१२ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे तृतीयः सर्गः ॥ १,३ ॥




अथोनषोडशे वर्षे वर्तमाने रघूद्वहे ।
रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ (मो_१,४.१ ॥
भरते संस्थिते नित्यम् मातामहगृहे सुखम् ।
पालयत्य् अवनिं राज्ञि यथावद् अखिलाम् इमाम् ॥ (मो_१,४.२ ॥
जन्यत्रार्थं च पुत्राणाम् प्रत्यहं सह मन्त्रिभिः ।
कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ (मो_१,४.३ ॥
कृतायां तीर्थयात्रायां रामो निजगृहस्थितः ।
जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ (मो_१,४.४ ॥

"तथा" ऊनषोडशवर्षे सतीत्य् अर्थः । "जन्यत्रार्थं" विवाहार्थम् । "कार्श्यं" क्षीणताम् ॥ (मोटी_१,४.१-४ ॥

कार्श्यम् एव कथयति

क्रमाद् अस्य विशालाक्षम् पाण्डुताम् मुखम् आदधे ।
पाकफुल्लदलं शुक्लं सालिमालम् इवाम्बुजम् ॥ (मो_१,४.५ ॥

कृशतायां हि मुखस्य पाण्डिमा जायते ॥ (मोटी_१,४.५ ॥

कपोलतलसंलीनपाणिः पद्मासनस्थितः ।
चिन्तापरवशस् तूष्णीम् अव्यापारो बभूव सः ॥ (मो_१,४.६ ॥

"सः" श्रीरामः ॥ (मोटी_१,४.६ ॥

कृशाङ्गश् चिन्तया युक्तः खेदी परमदुर्मनाः ।
नोवाच कस्यचित् किञ्चिल् लिपिकर्मार्पितोपमः ॥ (मो_१,४.७ ॥

स्पष्टम् ॥ (मोटी_१,४.७ ॥

खेदात् परिजनेनासौ प्रार्थ्यमानः पुनः पुनः ।
चकाराह्निकम् आचारम् परिम्लानमुखाम्बुजः ॥ (मो_१,४.८ ॥

स्पष्टम् ॥ (मोटी_१,४.८ ॥

एवम् मुनिविशिष्टं तं रामं गुणगणाकरम् ।
आलोक्य भ्रातराव् अस्य ताम् एवाययतुर् दशाम् ॥ (मो_१,४.९ ॥

"मुनिविशिष्टम्" उत्कृष्टम् मुनिं । वैराग्यवत्त्वात् । "अस्य ताम्" "एव" "दशां" रामसम्बन्धिनीं कार्श्यादिरूपाम् एवावस्थाम् ॥ (मोटी_१,४.९ ॥

तथा तेषु तनूजेषु खेदवत्सु कृशेषु च ।
सपत्नीको महीपालश् चिन्ताविवशतां ययौ ॥ (मो_१,४.१० ॥

स्पष्टम् ॥ (मोटी_१,४.१० ॥

का ते पुत्र घना चिन्तेत्य् एवं रामम् पुनः पुनः ।
अपृच्छत् स्निग्धया वाचा न चाकथयद् अस्य सः ॥ (मो_१,४.११ ॥

"सः" रामः । "अस्य" पितुः ॥ (मोटी_१,४.११ ॥

न किञ्चित् तात मे दुःकम् इत्य् उक्त्वा पितुर् अङ्कगः ।
रामो राजीवपत्राक्षस् तूष्णीम् एव स्म तिष्ठति ॥ (मो_१,४.१२ ॥

स्पष्टम् ॥ (मोटी_१,४.१२ ॥

ततो दशरथो राजा रामः किं खेदवान् इति ।
अपृच्छत् सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ (मो_१,४.१३ ॥

"सर्वकार्यज्ञं" सर्वेषु कार्येषु निपुणम् । अन्यथा पृच्छनम् अयुक्तम् एव स्याद् इति भावः ॥ (मोटी_१,४.१३ ॥

अस्त्य् अत्र कारणं श्रीमन् मा राजन् दुःखम् अस्तु ते ।
इत्य् उक्तश् चिन्तया युक्तो वसिष्ठमुनिना नृपः ॥ (मो_१,४.१४ ॥

"श्रीमत्" ज्ञानाख्यफलकारित्वात् । "कारणं" वैराग्याख्यं किञ्चिद् । अस्मिन् समये वक्तुम् अयुक्तम् इति भावः ॥ (मोटी_१,४.१४ ॥

उपसंहृतम् अपि वसिष्ठवाक्यं सर्गान्तश्लोकेन पुनः कथयति

कोपं विषादकलनां विततं च हर्षं
नाल्पेन कारणवशेन वहन्ति सन्तः ।
सर्गेण संहतिजवेन विना जगत्याम्
भूतानि भूप न महान्ति विकारयन्ति ॥ (मोटी_१,४.१५ ॥


"सन्तः" साधवः । "अल्पेन" स्तोकेन । "कारणवशेन" विततं "कोपं" विततां "विषादकलनां" "विततं" "हर्षं" "च" । "न" "वहन्ति" न धारयन्ति । "अल्पेने"ति विशेषणस्य "कारणे"त्य् अनेनार्थिकः सम्बन्धः । अत्र व्यतिरेकेण दृष्टान्तम् आह "सर्गेणे"ति । हे "भूप" । "महान्ति भूतानि" महाभूतानि । "जगत्यां" जगति । "सर्गेण विना" महासृष्टिं "विना" । तथा "संहतिजवेन विना" संहाराख्यवेगेन विना । "न विकारयन्ति" कार्योत्पत्त्याख्यविकारयुक्तानि तथा नाशाख्यविकारयुक्तानि च न भवन्ति । तत् करोति तद् आचष्टे इति णिच् । "विकारवन्ती"ति वा पाठः । स्थित्यवस्थायाम् अवान्तरसर्गसंहतिरूपेणाल्पेन कारणेन न भवन्तीति भावः । इति शिवम् ॥ (मोटी_१,४.१५ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्थः सर्गः ॥ १,४ ॥




श्रीवाल्मीकिर् भरद्वाजम् प्रति कथयति

इत्य् उक्ते मुनिनाथेन सन्देहवति पार्थिवे ।
खेदवत्य् आस्थिते मौनं कञ्चित् कालम् प्रतीक्षिणि ॥ (मो_१,५.१ ॥
परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु ।
स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ (मो_१,५.२ ॥
एतस्मिन्न् एव काले तु विश्वामित्र इति श्रुतः ।
महर्षिर् आगमद् द्रष्टुं तम् अयोध्यां नराधिपम् ॥ (मो_१,५.३ ॥

"आगमत्" आगच्छति स्म ॥ (मोटी_१,५.१-३ ॥

ननु किमर्थम् असौ आगत इत्य् । अत्राह

तस्य यज्ञोऽथ रक्षोभिस् तदा विलुलुपे किल ।
मायावीर्यबलोन्मत्तैर् धर्मकामस्य धीमतः ॥ (मो_१,५.४ ॥
रक्षार्थं तस्य यज्ञस्य द्रष्टुम् ऐच्छत् स पार्थिवम् ।
न हि शक्तो ह्य् अविघ्नेन तम् आप्तुं स मुनिः क्रतुम् ॥ (मो_१,५.५ ॥

ननु किमर्थं तं "रक्षार्थं" "द्रष्टुम् ऐच्छद्" इत्य् । अत्राह "न ही"ति ॥ (मोटी_१,५.४-५ ॥

ततस् तेषां विनाशार्थम् उद्यतस् तपसां निधिः ।
विश्वामित्रो महातेजा अयोध्याम् अभ्ययात् पुरीम् ॥ (मो_१,५.६ ॥
[राम अ१ १७, २३]

"अभ्ययात्" अभिगच्छति स्म ॥ (मोटी_१,५.६ ॥

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह ।
शीघ्रम् आख्यात माम् प्राप्तं कौशिकं गाधिनः सुतम् ॥ (मो_१,५.७ ॥
[राम अ१ १७, २४]

"ह"शब्दः निपातः । किम् "उवाचे"ति कर्मापेक्षायाम् उत्तरार्धं कर्मत्वेन कथयति "शीघ्रम्" इति । "आख्यात" कथयत । यूयम् इति शेषः । "गाधिनः" गाधिराजस्य ॥ (मोटी_१,५.७ ॥

तस्य तद् वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः ।
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ (मो_१,५.८ ॥
[राम अ१ १७, २५]

"तेन" "वाक्येन" विश्वामित्रोक्तेन वाक्येन ॥ (मोटी_१,५.८ ॥

ते गत्वा राजभवनं विश्वामित्रम् ऋषिं ततः ।
प्राप्तम् आवेदयाम् आसुः प्रतीहारपतिं तदा ॥ (मो_१,५.९ ॥
[राम अ १७, २६]

"प्रतीहारपतिं" द्वास्थाधिकारिणम् ॥ (मोटी_१,५.९ ॥

अथास्थानगतम् भूपं राजमण्डलम् आस्थितम् ।
समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ (मो_१,५.१० ॥

"असौ याष्टीकः" प्रतीहारपतिः ॥ (मोटी_१,५.१० ॥

किं "व्यजिज्ञपद्" इत्य् । अत्राह

देव द्वारि महातेजा बालभास्करसन्निभः ।
ज्वालारुणजटाजूटः पुमाञ् श्रीमान् अवस्थितः ॥ (मो_१,५.११ ॥

स्पष्टम् ॥ (मोटी_१,५.११ ॥

स चामरपताकाढ्यं साश्वेभपुरुषायुधम् ।
कृतवांस् तम् प्रदेशं यस् तेजोभिः कीर्णकाञ्चनम् ॥ (मो_१,५.१२ ॥


स्पष्टम् ॥ (मोटी_१,५.१२ ॥

वक्त्य् अस्मान् आशु याष्टीका निवेदयत राजनि ।
विश्वामित्रो मुनिः प्राप्त इत्य् अनुद्धतया गिरा ॥ (मो_१,५.१३ ॥

असौ पुरुषः "अस्मान्" "अनुद्धतया" "गिरे"ति "वक्ती"ति सम्बन्धः ।
याष्टीका इत्य् आमन्त्रणम् । यूयम् इत्य् अध्याहार्यम् ॥ (मोटी_१,५.१३ ॥

इति याष्टीकवचनम् आकर्ण्य नृपसत्तमः ।
स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात् ॥ (मो_१,५.१४ ॥

"हेमविष्टरात्" सुवर्णपीठात् ॥ (मोटी_१,५.१४ ॥

पदातिर् एव महतां राज्ञां वृन्देन पालितः ।
वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ (मो_१,५.१५ ॥

स्पष्टम् ॥ (मोटी_१,५.१५ ॥

जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।
ददर्श मुनिशार्दूलं द्वारभूमाव् अधिष्ठितम् ॥ (मो_१,५.१६ ॥

स्पष्टम् ॥ (मोटी_१,५.१६ ॥

कीदृशं ददर्शेत्य् अपेक्षायाम् आह

केनापि कारणेनोर्वीतलम् अर्कम् इवागतम् ।
ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ (मो_१,५.१७ ॥

स्पष्टम् ॥ (मोटी_१,५.१७ ॥

जराजरढया नित्यं तपःप्रसररूक्षया ।
जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रम् इवाचलम् ॥ (मो_१,५.१८ ॥

स्पष्टम् ॥ (मोटी_१,५.१८ ॥

उपशान्तं च कान्तं च दीप्तम् अप्रतिघं तथा ।
निभृतं चोर्जिताकारं दधानम् भास्वरं वपुः ॥ (मो_१,५.१९ ॥

"अप्रतिघम्" अप्रतिघाताकारम् । "निभृतं" कोमलं ॥ (मोटी_१,५.१९ ॥

पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।
गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम् ॥ (मो_१,५.२० ॥

स्पष्टम् ॥ (मोटी_१,५.२० ॥

अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् ।
धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम् ॥ (मो_१,५.२१ ॥

"श्लक्ष्णाम्" पेशलाम् ॥ (मोटी_१,५.२१ ॥

करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः ।
ईक्षणैर् अमृतेनेव संसिञ्चन्तम् इमाः प्रजाः ॥ (मो_१,५.२२ ॥

स्पष्टम् ॥ (मोटी_१,५.२२ ॥

सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् ।
आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः ॥ (मो_१,५.२३ ॥

"अवेक्षितुः" पश्यतः । अतिपेशलत्वात् "आनन्द"दानं । सतेजस्कत्वात् "भय"दानम् ॥ (मोटी_१,५.२३ ॥

मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः ।
प्रणनाम गलन्मौलिमणिमालितभूतलम् ॥ (मो_१,५.२४ ॥

"गलद्" इत्यादि क्रियाविशेषणम् ॥ (मोटी_१,५.२४ ॥

मुनिर् अप्य् अवनेर् ईशम् भास्वान् इव शतक्रतुम् ।
तत्राभिवादयां चक्रे मधुरोदारया गिरा ॥ (मो_१,५.२५ ॥

स्पष्टम् ॥ (मोटी_१,५.२५ ॥

ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः ।
स्वागतादिक्रमेणैनम् पूजयाम् आसुर् आदृताः ॥ (मो_१,५.२६ ॥

"एनं" विश्वामित्रम् ॥ (मोटी_१,५.२६ ॥

दशरथः कथयति

अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।
साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ (मो_१,५.२७ ॥

"अशङ्कितम्" शङ्कराहितम् । "उपनीतेन" प्राप्तेन ॥ (मोटी_१,५.२७ ॥

यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् ।
तद् आनन्दसुखम् प्राप्ता अद्य त्वद्दर्शनान् मुने ॥ (मो_१,५.२८ ॥

"त्वद्दर्शनेन" वयम् ब्रह्मानन्दम् "प्राप्ता" इति भावः ॥ (मोटी_१,५.२८ ॥

अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः ।
भवदागमनस्येमे यद् वयं लक्ष्यतां गताः ॥ (मो_१,५.२९ ॥

"वर्तामहे" तिष्ठामः । "लक्ष्यताम्" आश्रयत्वम् । विषयत्वम् इति यावत् ॥ (मोटी_१,५.२९ ॥

एवम् प्रकथयन्तोऽत्र राजानोऽथ महर्षयः ।
आसनेषु सभास्थानम् आस्थाय समुपाविशन् ॥ (मो_१,५.३० ॥

"समुपाविशन्" उपविष्टाः ॥ (मोटी_१,५.३० ॥

स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस् तम् ऋषिम् आगतम् ।
प्रहृष्टवदनो राजा स्वयम् अर्घ्यं न्यवेदयत् ॥ (मो_१,५.३१ ॥
[राम अ १७, २८]

"न्यवेदयद्" अर्पितवान् ॥ (मोटी_१,५.३१ ॥

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।
प्रदक्षिणम् प्रकुर्वन्तं राजानम् पर्यपूजयत् ॥ (मो_१,५.३२ ॥
[राम अ १७, २९अब् (*५३९च्द्)]

स्पष्टम् ॥ (मोटी_१,५.३२ ॥

स राज्ञा पूजितस् तेन प्रहृष्टवदनस् तदा ।
कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम् ॥ (मो_१,५.३३ ॥
[राम अ १७, २९च्द्]

स्पष्टम् ॥ (मोटी_१,५.३३ ॥

वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः ।
यथार्हं चार्चयित्वैनम् पप्रच्छानामयं ततः ॥ (मो_१,५.३४ ॥
[राम अ १७, ३०अब् (*५४१अब्)]

स्पष्टम् ॥ (मोटी_१,५.३४ ॥

क्षणं यथार्हम् अन्योऽन्यम् पूजयित्वा समेत्य च ।
ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ (मो_१,५.३५ ॥
[राम अ १७, ३१अब् (*५४१च्द्)]

स्पष्टम् ॥ (मोटी_१,५.३५ ॥

यथोचितासनगता मिथः संवृद्धतेजसः ।
परस्परेण पप्रच्छुः सर्वेऽनामयम् आदरात् ॥ (मो_१,५.३६ ॥

स्पष्टम् ॥ (मोटी_१,५.३६ ॥

उपविष्टाय तस्मै स विश्वामित्राय धीमते ।
पाद्यम् अर्घ्यं च गाश् चैव भूयो भूयो न्यवेदयत् ॥ (मो_१,५.३७ ॥
[राम अ *५४२अब्॑ेf]

स्पष्टम् ॥ (मोटी_१,५.३७ ॥

अर्चयित्वा च विधिवद् विश्वामित्रम् अभाषत ।
प्राञ्जलिः प्रयतो वाक्यम् इदम् प्रीतमना नृपः ॥ (मो_१,५.३८ ॥
[राम अ *५४२ग्-ज्]

स्पष्टम् ॥ (मोटी_१,५.३८ ॥

यथामृतस्य सम्प्राप्तिर् यथा वर्षम् अवर्षके ।
[राम अ १७, ३३अब्]
यथान्धस्येक्षणप्राप्तिर् भवदागमनं तथा ॥ (मोटी_१,५.३९ ॥


स्पष्टम् ॥ (मोटी_१,५.३९ ॥

यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः ।
[राम अ १७, ३३च्द्]
स्वप्नदृष्टार्थलाभश् च भवदागमनं तथा ॥ (मोटी_१,५.४० ॥


[राम अ *५४५च्]

स्पष्टम् ॥ (मोटी_१,५.४० ॥

यथेप्सितेन संयोग इष्टस्यागमनं यथा ।
[राम अ *५४४]
प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ (मोटी_१,५.४१ ॥


[राम अ १७, ३३ए]

स्पष्टम् ॥ (मोटी_१,५.४१ ॥

यथा हर्षो नभोगत्या मृतस्य पुनर् आगमात् ।
तथा त्वदागमाद् ब्रह्मन् स्वागतं ते महामुने ॥ (मो_१,५.४२ ॥
[राम अ १७, ३३f-ह् (*५४५द्)]

"मृतस्य" "पुनर् आगमाद्" । इत्य् अत्र यथेति शेषः । हे महामुने । "ते" "स्वागतम्" अस्तु ॥ (मोटी_१,५.४२ ॥

ब्रह्मलोकनिवासो हि कस्य न प्रीतिम् आवहेत् ।
मुने तवागमस् तद्वत् सत्यम् एव ब्रवीमि ते ॥ (मो_१,५.४३ ॥
[राम अ *५४५एf॑*५४६]

स्पष्टम् ॥ (मोटी_१,५.४३ ॥

कश् च ते परमः कामः किं च ते करवाण्य् अहम् ।
पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ (मो_१,५.४४ ॥
[राम अ १७, ३४अ-द्]

हे "विप्र" । "असि" त्वं । "मे पात्रभूतः प्राप्तः" ॥ (मोटी_१,५.४४ ॥

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रजः ।
ब्रह्मर्षित्वम् अनु प्राप्तः पूज्योऽसि भगवन् मम ॥ (मो_१,५.४५ ॥
[राम अ १७, ३५]

हे "भगवन्" । "पूर्वं" "राजर्षिशब्देनै"व पूज्यः । "अनु" पश्चात् । "तपसा द्योतितप्रजः" सन् । "ब्रह्मर्षित्वम्" "प्राप्तः" त्वम् । "मम पूज्यः असि" ॥ (मोटी_१,५.४५ ॥

गङ्गाजलाभिषेकेण यथा प्रीतिर् भवेन् मम ।
तथा त्वद्दर्शनात् प्रीतिर् अन्तः शीतयतीव माम् ॥ (मो_१,५.४६ ॥
[राम अ *५५१अ-च्]

"अन्तः" मनसि ॥ (मोटी_१,५.४६ ॥

विगतेच्छाभयक्रोधो वीतरागो निरामयः ।
इदम् अत्यद्भुतम् ब्रह्मन् यद् भवान् माम् उपागतः ॥ (मो_१,५.४७ ॥

"माम्" उपागमानर्हम् इति भावः ॥ (मोटी_१,५.४७ ॥

शुभक्षेत्रगतं चाहम् आत्मानम् अपकल्मषम् ।
[राम अ १७, ३६च्]
चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर ॥ (मोटी_१,५.४८ ॥


"उन्मग्नम्" उदितम् ॥ (मोटी_१,५.४८ ॥

साक्षाद् इव ब्रह्मणो मे तवाभ्यागमनम् मतम् ।
पूतोऽस्म्य् अनुगृहीतोऽस्मि तवाभ्यागमनान् मुने ॥ (मो_१,५.४९ ॥
[राम अ *५५५]

स्पष्टम् ॥ (मोटी_१,५.४९ ॥

त्वदागमनपुण्येन साधो यद् अनुरञ्जितम् ।
अद्य मे सफलं जन्म जीवितं तत् सुजीवितम् ॥ (मो_१,५.५० ॥
[राम अ १७, ३४एf]

"त्वदागमनात्" उत्पन्नेन "पुण्येन" । "मे जन्म मे जीवितं" च । "यत्" "अनुरञ्जितम्" स्वोपरक्तं कृतं । "तत्" ततो हेतोः । "मे जन्म सफलम्" भवति । "मे जीवितं सुजीवितम्" भवति ॥ (मोटी_१,५.५० ॥

त्वाम् इहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।
[राम अ *५५२]
आत्मन्य् एव नमाम्य् अन्तर् दृष्टेन्दुर् जलधिर् यथा ॥ (मोटी_१,५.५१ ॥


स्पष्टम् ॥ (मोटी_१,५.५१ ॥

यत् कार्यं येन चार्थेन प्राप्तोऽसि मुनिपुङ्गव ।
कृतम् इत्य् एव तद् विद्धि मान्योऽसि हि भृशम् मम ॥ (मो_१,५.५२ ॥
[राम अ *५५७]

स्पष्टम् ॥ (मोटी_१,५.५२ ॥

स्वकार्येण विमर्शं त्वं कर्तुम् अर्हसि कौशिक ।
भगवन् नास्त्य् अदेयं हि त्वयि यत् प्रतिपद्यते ॥ (मो_१,५.५३ ॥
[राम अ १७, ३८अब् (*५५८)]

हे "कौशिक" । "त्वं" । "स्वकार्येण" सह "विमर्शं कर्तुम् अर्हसि" किम् मम कार्यम् अस्तीति विचारं कर्तुम् अर्हसीति भावः । ननु किमर्थम् अहं "स्वकार्येण" सह "विमर्शं" करोमीत्य् । अत्राह "भगवन्न्" इति । "हि" यस्मात् । हे "भगवन्" । "त्वयि यत् प्रतिपद्यते" उपयुज्यते । तत् "अदेयं नास्ति" । तद् ददाम्य् एवेत्य् अर्थः ॥ (मोटी_१,५.५३ ॥

कार्यस्य च विचारं त्वं कर्तुम् अर्हसि धर्मतः ।
कर्ता चाहम् अशेषं ते दैवतम् परमम् भवान् ॥ (मो_१,५.५४ ॥
[राम अ १७, ३८]

स्पष्टम् ॥ (मोटी_१,५.५४ ॥

सर्गान्तश्लोकेन दशरथविनयोक्त्या मुनेर् हर्षगमनं कथयति

इदम् अतिमधुरं निशम्य वाक्यं
श्रुतिसुखम् अर्थविदा विनीतम् उक्तम् ।
प्रथितगुणवशाद् गुणैर् विशिष्टं
मुनिवृषभः परमं जगाम हर्षम् ॥ (मो_१,५.५५ ॥
[राम अ १७, ३९]

"अतिमधुरम्" उत्कृष्टमधुराख्यगुणविशिष्टं । "श्रुतिसुखं" कर्णसुखम् । "अर्थविदा" परमार्थज्ञेन दशरथेन । "विनीतं" सविनयं यथा भवति तथ्"ओक्तं" कथितं । तथा "प्रथिताः" ये "गुणाः" वाक्यगुणास् । तद्"वशात्" "गुणैः विशिष्टम्" । प्रथितगुणविशिष्टम् इति यावत् । ईदृशं "वाक्यं निशम्य" सः "मुनिवृषभः" मुनिश्रेष्ठः कौशिकः । "परमं हर्षं जगाम" । दातृविनयेन हि अर्थिनो महान् हर्षो जायते । इति शिवम् ॥ (मोटी_१,५.५५ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चमः सर्गः ॥ १,५ ॥




तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ (मो_१,६.१ ॥
[राम अ १८, १]

स्पष्टम् ॥ (मोटी_१,६.१ ॥

सदृशं राजशार्दूल तवैवैतन् महीतले ।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ (मो_१,६.२ ॥
[राम अ १८, २]

"तवैव" न त्व् अन्यस्येत्य् अर्थः ॥ (मोटी_१,६.२ ॥

यत् तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।
कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ (मो_१,६.३ ॥
[राम अ १८, ३]

"तु"शब्दः "वाक्य"वाच्यस्य "कार्य"स्यातिकष्टं सम्पादनीयतां द्योतयति । तस्य "कार्यनिर्णयम्" हृद्गतवाक्यवाच्यकार्यनिर्णयम् इत्य् अर्थः । ननु किमर्थं करोमीत्य् । अत्राह "धर्मम्" इति । तवानेन धर्मपालनम् भविष्यतीति भावः ॥ (मोटी_१,६.३ ॥

"हृद्गतं वाक्यम्" प्रकटीकरोति

अहं नियमम् आतिष्ठे सिद्ध्यर्थम् पुरुषर्षभ ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ (मो_१,६.४ ॥
[राम अ १८, ४]

"आतिष्ठे" आश्रयामि ॥ (मोटी_१,६.४ ॥

यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजम् ।
तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः ॥ (मो_१,६.५ ॥

"यजे" पूजयामि ॥ (मोटी_१,६.५ ॥

बहुशो विहिते तस्मिन् मम राक्षसनायकाः ।
अकिरंस् ते महीं यागे मांसेन रुधिरेण च ॥ (मो_१,६.६ ॥
[राम अ १८, ५ (*५६२)]

स्पष्टम् ॥ (मोटी_१,६.६ ॥

अवधूते तथाभूते तस्मिन् यागकदम्बके ।
कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपागमम् ॥ (मो_१,६.७ ॥
[राम अ १८, ६]

"अपागमम्" अपगतः ॥ (मोटी_१,६.७ ॥

न च मे क्रोधम् उत्स्रष्टुम् बुद्धिर् भवति पार्थिव ।
तथाभूतं हि तत् कर्म न शापस् तस्य विद्यते ॥ (मो_१,६.८ ॥
[राम अ १८, ७]

शापदानेन स यज्ञः नश्यतीति भावः ॥ (मोटी_१,६.८ ॥

ईदृशी च क्षमा राजन् मम तस्मिन् महाक्रतौ ।
त्वत्प्रसादाद् अविघ्नेन प्रापयेयम् महाफलम् ॥ (मो_१,६.९ ॥

हे "राजन्" । अतः "मम तस्मिन् महाक्रतौ ईदृशी क्षमा" भवति । अतः अहम् "महाफलम्" तं क्रतुं । "त्वत्प्रसादात् प्रापयेयम्" प्राप्नुयाम् । "प्रापयेयम्" इति स्वार्थे णिच् आर्षः ॥ (मोटी_१,६.९ ॥

त्रातुम् अर्हसि माम् आर्तं शरणार्थिनम् आगतम् ।
अर्थिनां यन् निराशत्वं सताम् अभिभवो हि सः ॥ (मो_१,६.१० ॥

स्पष्टम् ॥ (मोटी_१,६.१० ॥

ननु केन प्रकारेणाहं त्वत्त्राणं करोमीत्य् । अत्राह

तवास्ति तनयः श्रीमान् दृप्तशार्दूलविक्रमः ।
महेन्द्रसदृशो वीरो रामो रक्षोविदारणः ॥ (मो_१,६.११ ॥

स्पष्टम् ॥ (मोटी_१,६.११ ॥

ननु ततः किम् इत्य् । अत्राह

तम् पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठम् मे दातुम् अर्हसि ॥ (मो_१,६.१२ ॥
[राम अ १८, ८]

तेनैव रक्षापरपर्यायं त्राणम् मे भविष्यतीति भावः ॥ (मोटी_१,६.१२ ॥

ननु कथं शिशुरूपोऽसौ राक्षसेभ्यस् तव मखं रक्षिष्यतीत्य् । अत्राह

शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा येऽपकर्तारस् तेषाम् मूर्धविनिग्रहे ॥ (मो_१,६.१३ ॥
[राम अ १८, ९]

स्पष्टम् ॥ (मोटी_१,६.१३ ॥

श्रेयश् चास्मिन् करिष्यामि बहुरूपम् अनन्तकम् ।
त्रयाणाम् अपि लोकानां येन पूज्यो भविष्यति ॥ (मो_१,६.१४ ॥
[राम अ १८, १०]

स्पष्टम् ॥ (मोटी_१,६.१४ ॥

ननु कथम् असौ तादृशानां राक्षसानाम् पुरः स्थातुं शक्नोतीत्य् । अत्राह

न च तेन समासाद्य स्थातुं शक्ता निशाचराः ।
[राम अ १८, ११अब्]
क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः ॥ (मोटी_१,६.१५ ॥


"तेन" इति द्वितीयास्थाने तृतीया आर्षी ॥ (मोटी_१,६.१५ ॥

तेषां च नान्यः काकुत्स्थाद् योद्धुम् उत्सहते पुमान् ।
[राम अ १८, ११च्द्]
ऋते केसरिणः क्रुद्धान् मत्तानां करिणाम् इव ॥ (मोटी_१,६.१६ ॥


स्पष्टम् ॥ (मोटी_१,६.१६ ॥

वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
[राम अ १८, १२अब्]
खरदूषणयोर् भृत्याः कृतान्ताः कुपिता इव ॥ (मोटी_१,६.१७ ॥


स्पष्टम् ॥ (मोटी_१,६.१७ ॥

रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
[राम अ १८, १२च्द्]
अनारतागता धारा जलदस्येव पांसवः ॥ (मोटी_१,६.१८ ॥


स्पष्टम् ॥ (मोटी_१,६.१८ ॥

न च पुत्रगतं स्नेहं कर्तुम् अर्हसि पार्थिव ।
[राम अ १८, १३अब्]
न तद् अस्ति जगत्य् अस्मिन् यन् न देयम् महात्मनः ॥ (मोटी_१,६.१९ ॥


स्पष्टम् ॥ (मोटी_१,६.१९ ॥

हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् ।
[राम अ १८, १३च्द्]
न ह्य् अस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ (मोटी_१,६.२० ॥


"हन्त" हर्षे ।" नूनं" निश्चये । अहं तान् "राक्षसान्" "हतान्" जानामि । त्वम् अपि "विद्धि" । ननु कथम् अहं त्वत्कथनमात्रेण जानामीत्य् । अत्राह "न" "ही"ति । "सं" सम्यक् । "प्रवृत्तिः" । येषां । ते तादृशाः ॥ (मोटी_१,६.२० ॥

अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।
वसिष्ठश् च महातेजा ये चान्ये दीर्घदर्शिनः ॥ (मो_१,६.२१ ॥
[राम अ १८, १४]

स्पष्टम् ॥ (मोटी_१,६.२१ ॥

यदि धर्मो महत्त्वं च यशस् ते मनसि स्थितम् ।
तन् मह्यं स्वम् अभिप्रेतम् आत्मजं दातुम् अर्हसि ॥ (मो_१,६.२२ ॥
[राम अ १८, १५]

"मनसि स्थितं" काङ्क्षितम् । "अभिप्रेतम्" प्रोक्तं कार्यार्थम् इष्टम् ॥ (मोटी_१,६.२२ ॥

दशरात्रश् च मे यज्ञो यस्मिन् रामेण राक्षसाः ।
[राम अ १८, १७च्द्]
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ (मोटी_१,६.२३ ॥


स्पष्टम् ॥ (मोटी_१,६.२३ ॥

अत्राभ्यनुज्ञां काकुत्स्थ ददताम् तव मन्त्रिणः ।
वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ (मो_१,६.२४ ॥
[राम अ १८, १६]

स्पष्टम् ॥ (मोटी_१,६.२४ ॥

नात्येति कालः कालज्ञ यथायम् मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ (मो_१,६.२५ ॥
[राम अ १८, १८]

"अत्येति" गच्छति ॥ (मोटी_१,६.२५ ॥

कार्यम् अण्व् अपि काले तु कृतम् एत्य् उपकारताम् ।
महद् अप्य् उपकारेण रिक्तताम् एत्य् अकालतः ॥ (मो_१,६.२६ ॥

"अकालतः" अकाले ॥ (मोटी_१,६.२६ ॥

इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥ (मो_१,६.२७ ॥
[राम अ १८, १९]

स्पष्टम् ॥ (मोटी_१,६.२७ ॥

सर्गान्तश्लोकेन दशरथतूष्णीम्भावं कथयति

श्रुत्वा वचो मुनिवरस्य महाप्रभावस्
तूष्णीम् अतिष्ठद् उपपन्नम् इदं स वक्तुम् ।
नो युक्तियुक्तकथनेन विनैति तोषं
धीमान् अपूरितमनोऽभिमतश् च लोकः ॥ (मो_१,६.२८ ॥

"महाप्रभावो" महानुभावयुक्तः । "स" दशरथः । "मुनिवरस्य" विश्वामित्रस्य । "वचः" "श्रुत्वा" "तूष्णीम् अतिष्ट्ःत्" । नो किञ्चिद् अप्य् उक्तवान् इत्य् अर्थः । "इदं" तूष्णीम् आसनम् । "उपपन्नं" युक्तम् । भवति । यतः "धीमान्" बुद्धियुक्तः । "युक्तियुक्तकथनेन" "विना" "वक्तुं" कथयितुं "तोषं" "नैति" । न कथयतीत्य् अर्थः । "लोकश्" "च" लोकस् तु । "अपूरितमनोऽभि"लषितः "वक्तुं" "तोषं" "नैति" । अतः युक्तिरहितं विश्वामित्रस्य वाक्यं श्रुत्वा दशरथः तुष्णीम् अभूद् इति भावः । इति शिवम् ॥ (मोटी_१,६.२८ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षष्ठः सर्गः ॥ १,६ ॥




तच् छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तम् आसीन् निश्चेष्टः सदैन्यं चैवम् अब्रवीत् ॥ (मो_१,७.१ ॥
[राम अ १९, १]

स्पष्टम् ॥ (मोटी_१,७.१ ॥

ऊनषोडशवर्षोऽयं रामो राजीवलोचनः ।
न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः ॥ (मो_१,७.२ ॥
[राम अ १९, २]

स्पष्टम् ॥ (मोटी_१,७.२ ॥

इयम् अक्षौहिणी पूर्णा यस्याः पतिर् अहम् प्रभो ।
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥ (मो_१,७.३ ॥
[राम अ १९, ३]

"पिशिताशिनां" राक्षसानाम् ॥ (मोटी_१,७.३ ॥

इमे हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः ।
[राम अ १९, ४अब्]
अहं चैषां धनुष्पाणिर् गोप्ता समरमूर्धनि ॥ (मोटी_१,७.४ ॥


[राम अ १९, ५अब्]

स्पष्टम् ॥ (मोटी_१,७.४ ॥

एभिः सह तवारीणाम् महेन्द्रमहताम् अपि ।
ददामि युद्धम् मत्तानां करिणाम् इव केसरी ॥ (मो_१,७.५ ॥

"हि" यस्माद् । एते "भृत्या" भवन्ति । "अहम् चैषां समरमूर्धनि गोप्ता"स्मि । अतः अहम् "एभिः" "सह तवारीणां युद्धं ददामी"ति सम्बन्धः ॥ (मोटी_१,७.५ ॥

बालो रामस् त्व् अनीकेषु न जानाति बलाबलम् ।
[राम अ १९, ७अब्]
अन्तःपुराद् ऋते दृष्टा नानेनान्या रणावनिः ॥ (मोटी_१,७.६ ॥


स्पष्टम् ॥ (मोटी_१,७.६ ॥

न चास्त्रैः परमैर् युक्तो न च युद्धविशारदः ।
न भटभ्रूकुटीनां च तज्ज्ञः समरमूर्धसु ॥ (मो_१,७.७ ॥

एष इति शेषः ॥ (मोटी_१,७.७ ॥

केवलम् पुष्पषण्डेषु नगरोपवनेषु च ।
उद्यानवनकुञ्जेषु सदैव परिशीलितः ॥ (मो_१,७.८ ॥

स्पष्टम् ॥ (मोटी_१,७.८ ॥

विहर्तुम् एष जानाति सह राजकुमारकैः ।
कीर्णपुष्पोपकारासु स्वकास्व् अजिरभूमिषु ॥ (मो_१,७.९ ॥

स्पष्टम् ॥ (मोटी_१,७.९ ॥

अद्य त्व् अतितराम् ब्रह्मन् मम भाग्यविपर्ययात् ।
हिमेनेवाहतः पद्मस् सम्पन्नो हरितः कृशः ॥ (मो_१,७.१० ॥

"हरितः" पाण्डुः ॥ (मोटी_१,७.१० ॥

नात्तुम् अन्नानि शक्नोति न विहर्तुं गृहावनौ ।
अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥ (मो_१,७.११ ॥

"अत्तुम्" भक्षितुम् ॥ (मोटी_१,७.११ ॥

सदारः सहभृत्योऽहं तत्कृते मुनिनायक ।
शरदीव पयोवाहो नूनं निःसहतां गतः ॥ (मो_१,७.१२ ॥

"निःसहताम्" उत्कृशतां । सोढुम् अशक्तत्वम् ॥ (मोटी_१,७.१२ ॥

ईदृशोऽसौ सुतो बाल आधिना विवशीकृतः ।
कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥ (मो_१,७.१३ ॥

स्पष्टम् ॥ (मोटी_१,७.१३ ॥

अपि बालाङ्गनासङ्गाद् अपि साधो सुधारसात् ।
राज्याद् अपि सुखायैष पुत्रस्नेहो महामते ॥ (मो_१,७.१४ ॥

स्पष्टम् ॥ (मोटी_१,७.१४ ॥

ये दुरन्ता महारम्भास् त्रिषु लोकेषु खेददाः ।
पुत्रस्नेहेन सन्तोऽपि कुर्वते ते न संश्रयम् ॥ (मो_१,७.१५ ॥

"सन्तः अपि" स्थिता अपि । "संश्रयं" स्थितिं । "पुत्रस्नेहेन ते" विस्मृतिं गच्छन्तीति भावः ॥ (मोटी_१,७.१५ ॥

असवोऽथ धनं दारास् त्यज्यन्ते मानवैः सुखम् ।
न पुत्रा मुनिशार्दूल स्वभावो ह्य् एष जन्तुषु ॥ (मो_१,७.१६ ॥

स्पष्टम् ॥ (मोटी_१,७.१६ ॥

राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।
[राम अ १९, ७एf]
रामस् तान् योधयत्व् इत्थम् उक्तिर् एवातिदुःसहा ॥ (मोटी_१,७.१७ ॥


"कूटयुद्धं" छलयुद्धम् । "उक्तिर् एवे"ति अनुष्ठानस्य का कथेति भा-वः ॥ (मोटी_१,७.१७ ॥

विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे ।
जीवितुं जीविताकाङ्क्षी न रामं नेतुम् अर्हसि ॥ (मो_१,७.१८ ॥
[राम अ १९, ८]

"नोत्सहे" समर्थो न भवामि । "जीवितुं" जीवनक्रियाकर्तृताम् अनुभवितुम् । "जीविताकाङ्क्षी" मम जीविताकाङ्क्षीत्य् अर्थः ॥ (मोटी_१,७.१८ ॥

नववर्षसहस्राणि मम यातानि कौशिक ।
दुःखेनोत्पादितास् त्व् एते चत्वारः पुत्रका मया ॥ (मो_१,७.१९ ॥
[राम अ १९, १०]

अनुकम्पिताः पुत्राः "पुत्रकाः" ॥ (मोटी_१,७.१९ ॥

प्रधानभूतस् तेष्व् एषु रामः कमललोचनः ।
तं विना ते त्रयोऽप्य् अन्ये धारयन्ति न जीवितम् ॥ (मो_१,७.२० ॥

स्पष्टम् ॥ (मोटी_१,७.२० ॥

स एव रामो भवता नीयते राक्षसान् प्रति ।
यदि तत् पुत्रहीनं त्वम् मृतम् एवाशु विद्धि माम् ॥ (मो_१,७.२१ ॥

स्पष्टम् ॥ (मोटी_१,७.२१ ॥

चतुर्णाम् आत्मजानां हि प्रीतिर् अत्र हि मे परा ।
ज्येष्ठं धर्ममयं तस्मान् न रामं नेतुम् अर्हसि ॥ (मो_१,७.२२ ॥
[राम अ १९, ११]

निर्धारणे षष्ठी ॥ (मोटी_१,७.२२ ॥

निशाचरबलं हन्तुम् मुने यदि तवेप्सितम् ।
चतुरङ्गसमायुक्तं मया सह बलं नय ॥ (मो_१,७.२३ ॥

स्पष्टम् ॥ (मोटी_१,७.२३ ॥

किंवीर्या राक्षसास् ते तु कस्य पुत्राः कथं च ते ।
कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम् ॥ (मो_१,७.२४ ॥
[राम अ १९, १२]

स्पष्टम् ॥ (मोटी_१,७.२४ ॥

कथं तेन प्रहर्तव्यं तेषां रामेण राक्षसाम् । । मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम् ॥ (मो_१,७.२५ ॥
[राम अ १९, १३]

रामस्याग्रे स्थितत्वाभावात् "तेने"त्य् उक्तम् ॥ (मोटी_१,७.२५ ॥

सर्वम् मे शंस भगवन् यथा तेषाम् मया रणे ।
स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः ॥ (मो_१,७.२६ ॥
[राम अ १९, १४]

स्पष्टम् ॥ (मोटी_१,७.२६ ॥

श्रूयते हि महावीरो रावणो नाम राक्षसः ।
साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ (मो_१,७.२७ ॥
[राम अ १९, १७]

स्पष्टम् ॥ (मोटी_१,७.२७ ॥

अस्तु सः । ततः किम् इत्य् । अत्राह

स चेत् तव मखे विघ्नं करोति किल दुर्मतिः ।
तत् सङ्ग्रामे न शक्ताःऽस्मो वयं तस्य दुरात्मनः ॥ (मो_१,७.२८ ॥
[राम अ १९, १९च्द्]

"तत्" तदा ॥ (मोटी_१,७.२८ ॥

ननु कथम् असौ तादृग्वीर्यः अस्तीत्य् । अत्राह

काले काले पृथग् ब्रह्मन् भूरिवीर्यविभूतयः । ।
भूतेष्व् अभ्युदयं यान्ति प्रलीयन्ते च कालतः ॥ (मो_१,७.२९ ॥

"भूरिवीर्यविभूतयः" महद्वीर्यसम्पद्युक्ताः । "भूतेष्व्" इति निर्धारणे सप्-तमी ॥ (मोटी_१,७.२९ ॥

अद्यास्मिंस् ते वयं काले रावणादिषु शत्रुषु ।
न समर्थाः पुरः स्थातुं नियतेर् एष निश्चयः ॥ (मो_१,७.३० ॥

स्पष्टम् ॥ (मोटी_१,७.३० ॥

तस्मात् प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके ।
मम चैवाल्पभाग्यस्य भवान् ह्य् असमदैवतम् ॥ (मो_१,७.३१ ॥
[राम अ १९, २०]

"अल्पभाग्यस्ये"ति । अन्यथा त्वं रामं न याचितवान् इति भावः ॥ (मोटी_१,७.३१ ॥

देवदानवगन्धर्वा यक्षप्लवगपन्नगाः ।
न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥ (मो_१,७.३२ ॥

स्पष्टम् ॥ (मोटी_१,७.३२ ॥

महावीर्यवतां वीर्यम् आदत्ते स सुधाभुजाम् ।
तेन सार्धं न शक्ता स्मस् संयुगे तस्य वावराः ॥ (मो_१,७.३३ ॥
[राम अ १९, २२अ-द्]

"आदत्ते" गृह्णाति । प्रतिबध्नातीति यावत् । महावीर्यान् सुधाभुजोऽप्य् असौ वीर्यरहितान् करोतीति भावः । "अवरास्" तदपेक्षया नीचाः । "वा"शब्दः पादपूरणार्थः ॥ (मोटी_१,७.३३ ॥

ननु रामस्य सज्जनत्वेनैवावश्यं जयः स्याद् इत्य् । अत्राह

अयम् अन्यतमः कालः पेलवीकृतसज्जनः ।
राघवोऽपि गतो दैन्यं यत्र वार्धकजर्जरः ॥ (मो_१,७.३४ ॥

"अपि"शब्दः राघवस्य महासज्जनत्वं द्योतयति । वार्धकेनेव जर्जरः "वार्धकजर्जरः" ॥ (मोटी_१,७.३४ ॥

अथ वा लवणम् ब्रह्मन् यज्ञघ्नं तम् मधोः सुतम् ।
कथय त्वं सुरप्रख्य क्वेव मोक्ष्यामि पुत्रकम् ॥ (मो_१,७.३५ ॥

"अथ वा मधोः सुतं तं" प्रसिद्धं । "यज्ञघ्नं लवणं" योद्धुं "न शक्ताः" स्मः इति व्यवहिताध्याहृतैः सह सम्बन्धः । लवणोऽपि चेत् तव यज्ञविघ्नकारी अस्ति तम् अपि योद्धुं न शक्ताः स्म इति भावः । हे "सुरप्रख्य" । "त्वं कथय" । अहं "पुत्रकं क्वेव" कुत्रेव । "मोक्ष्यामि" । न मोक्ष्यामीति भावः ॥ (मोटी_१,७.३५ ॥

अथ नेच्छसि चेद् ब्रह्मंस् तद् विधेयोऽहम् एव ते ।
अन्यथा तु न पश्यामि शाश्वतं जयम् आत्मनः ॥ (मो_१,७.३६ ॥

"अथ" पक्षान्तरे । त्वम् पुत्रामोक्षणं "चेत्" यदि । "नेच्छसि" । "तद् अहं ते" तव । "विधेयः" आयत्तः । "एवा"स्मि । तदा अहम् एवागच्छामीत्य् अर्थः । "अन्यथा" सहजविचारे क्रियमाणे । अहम् "आत्मनः शाश्वतं जयं न पश्यामि" । न जानामीत्य् अर्थः ॥ (मोटी_१,७.३६ ॥

सर्गान्तश्लोकेन दशरथवचनम् उपसंहरति

इत्य् उक्त्वा मृदुवचनम् भयाकुलोऽसाव्
आलोले मुनिमतसंशये निमग्नः ।
नाज्ञासीत् कणम् अपि निश्चयं महात्मा
प्रोद्वीचाव् इव जलधौ समुह्यमानः ॥ (मो_१,७.३७ ॥

"मुनिमतस्य संशये"ऽनुष्ठानाननुष्ठानरूपे सन्देहे । "मग्नः" । अत एव "भयाकुलः" । "महात्मा असौ" दशरथः । "इत्य्" एवं । "मृदुवचनं" कोमलवचनम् । "उक्त्वा" । "कणम् अपि" स्तोकम् अपि । "निश्चयं न अज्ञासीत्" न ज्ञातवान् । "असौ" कथम्भूतः "इव" । "प्रोद्वीचौ जलधौ समुह्यमान इव" । जलधौ समुह्यमानोऽपि कुत्र गच्छामीति निश्चयं न जानातीति शिवम् ॥ (मोटी_१,७.३७ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तमः सर्गः ॥ १,७ ॥




तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यम् प्रत्युवाच महीपतिम् ॥ (मो_१,८.१ ॥
[राम अ २०, १]

"तस्य" दशरथस्य ॥ (मोटी_१,८.१ ॥

विश्वामित्रः कथयति

करिष्यामीति संश्रुत्य प्रतिज्ञां हातुम् इच्छसि ।
[राम अ २०, २अब्]
सत्त्ववान् केसरी भूत्वा मृगताम् अभिवाञ्छसि ॥ (मोटी_१,८.२ ॥


स्पष्टम् ॥ (मोटी_१,८.२ ॥

राघवानाम् अयुक्तोऽयं कुलस्यास्य विपर्ययः ।
[राम अ २०, २च्द्]
न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः ॥ (मोटी_१,८.३ ॥


ननु कथं "राघवानां कुलस्यायं विपर्ययः अयुक्तो" भवतीत्य् । अत्र दृष्टान्तम् आह । "न कदाचने"ति ॥ (मोटी_१,८.३ ॥

यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः ।
हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥ (मो_१,८.४ ॥
[राम अ २०, ३]

स्पष्टम् ॥ (मोटी_१,८.४ ॥

श्रीवाल्मीकिः भरद्वाजम् प्रति कथयति

तस्मिन् कोपपरीतेऽथ विश्वामित्रे महात्मनि ।
चचाल वसुधा कृत्स्ना सुराश् च भयम् आविशन् ॥ (मो_१,८.५ ॥
[राम अ २०, ४]

स्पष्टम् ॥ (मोटी_१,८.५ ॥

क्रोधाभिभूतं विज्ञाय जगन्मित्रम् महामुनिम् ।
धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यम् अब्रवीत् ॥ (मो_१,८.६ ॥
[राम अ २०, ५]

"जगन्मित्रं" विश्वामित्रम् ॥ (मोटी_१,८.६ ॥

श्रीवसिष्ठः कथयति

इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।
[राम अ २०, ६अब्]
भवान् दशरथः श्रीमांस् त्रैलोक्ये गुणभूषितः ॥ (मोटी_१,८.७ ॥


स्पष्टम् ॥ (मोटी_१,८.७ ॥

नीतिमान् सुव्रतो भूत्वा न धर्मं हातुम् अर्हसि ।
[राम अ २०, ६च्द्]
मुनेस् त्रिभुवनेशस्य वचनं कर्तुम् अर्हसि ॥ (मोटी_१,८.८ ॥


स्पष्टम् । युग्मम् ॥ (मोटी_१,८.८ ॥

त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ।
स्वधर्मम् प्रतिपद्यस्व न धर्मं हातुम् अर्हसि ॥ (मो_१,८.९ ॥
[राम अ २०, ७]

"प्रतिपद्यस्व" स्वीकुरु ॥ (मोटी_१,८.९ ॥

करिष्यामीति संश्रुत्य तत् ते राजन्न् अकुर्वतः ।
इष्टापूर्तः पतेद् धर्मस् तस्माद् रामं विसर्जय ॥ (मो_१,८.१० ॥
[राम अ २०, ८]

"इष्टापूर्तः" इष्टापूर्तस्वरूपः । प्रतिज्ञाताकरणेन हि सर्वो धर्मः नश्यति ॥ (मोटी_१,८.१० ॥

गुप्तम् पुरुषसिंहेन ज्वलनेनामृतं यथा ।
[राम अ २०, ९च्द्]
कृतास्त्रम् अकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः ॥ (मोटी_१,८.११ ॥


[राम अ २०, ९अब्]

"कृतास्त्रं" शिक्षितास्त्रम् ॥ (मोटी_१,८.११ ॥

इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् ।
न पालयसि चेद् वाक्यं कोऽपरः पालयिष्यति ॥ (मो_१,८.१२ ॥

स्पष्टम् ॥ (मोटी_१,८.१२ ॥

युष्मदादिप्रणीतेन व्यवहारेण जन्तवः ।
मर्यादां न विमुञ्चन्ति तां न हातुम् इहार्हसि ॥ (मो_१,८.१३ ॥

"ताम्" मर्यादाम् ॥ (मोटी_१,८.१३ ॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष बुद्ध्याधिको लोके तपसां च परायणः ॥ (मो_१,८.१४ ॥
[राम अ २०, १०]

"परायणः" आश्रयः ॥ (मोटी_१,८.१४ ॥

एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।
नैतद् अन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन ॥ (मो_१,८.१५ ॥
[राम अ २०, ११]

स्पष्टम् ॥ (मोटी_१,८.१५ ॥

न च देवर्षयः केचिन् नामरा न च राक्षसाः ।
न नागयक्षगन्धर्वा अनेन सदृशा नृप ॥ (मो_१,८.१६ ॥
[राम अ २०, १२]

स्पष्टम् ॥ (मोटी_१,८.१६ ॥

अस्त्रम् अस्मै कृशाश्वेन परैः परमदुर्जयम् ।
[राम अ २०, १३॑५९९*]
कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात् ॥ (मोटी_१,८.१७ ॥


[राम अ २०, १३च्द्]

"परैः" अन्यैः । "परमदुर्जयम्" अत्यन्तं जेतुम् अशक्यं । "समन्वशात्" स-मपालयत् ॥ (मोटी_१,८.१७ ॥

ननु किमर्थं कृशाश्वेनास्मै अस्त्राणि दत्तानीत्य् । अत्राह

ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः ।
एनम् अन्वचरन् वीरा दीप्तिमन्तो महौजसः ॥ (मो_१,८.१८ ॥
[राम अ २०, १४]

"हि" यस्मात् । "प्रजापतिसुतोपमास् ते" प्रसिद्धाः । "कृशाश्वस्य पुत्राः" । "एनं" विश्वामित्रम् । "अन्वचरन्" अनुचरन्ति स्म । अतः पुत्रस्नेहेन दत्तवान् इति भावः ॥ (मोटी_१,८.१८ ॥

ते पुत्राः के इत्य् अपेक्षायाम् आह

जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे ।
तयोस् तु यान्य् अपत्यानि शतम् परमदुर्जयम् ॥ (मो_१,८.१९ ॥

"जया च सुप्रभा चैवे"ति ये । "दाक्षायण्यौ" दक्षस्य स्त्रीरूपे अपत्ये । "सुमध्यमे" स्त्रियौ । आस्ताम् । "तयोः" "यानि" "परमदुर्जयं" "शतं" "अपत्यानि" आसन् । अत्र च पूर्वश्लोकापेक्षयोत्तरवाक्यगतत्वाद् यच्छब्दस्य तच्छब्दापेक्षा नास्ति ॥ (मोटी_१,८.१९ ॥

ननु कस्याः कत्य् अपत्यानि आसन्न् इत्य् अपेक्षायाम् आह

पञ्चाशतः सुताञ् जज्ञे जया लब्धवरा पुरा ।
वधायासुरसैन्यानां तेऽक्षयाः कामरूपिणः ॥ (मो_१,८.२० ॥
[राम अ २०, १६]

"अक्षयाः" नाशरहिताः ॥ (मोटी_१,८.२० ॥

सुप्रभा जनयाम् आस पुत्रान् पञ्चाशतः परान् ।
सङ्घर्षान् नाम दुर्धर्षान् दुराक्रोशान् बलीयसः ॥ (मो_१,८.२१ ॥
[राम अ २०, १७]

"दुर्धर्षान्" पराभवितुम् अशक्यान् । "दुराक्रोशान्" शत्रुभिः समरे आह्वातुम् अशक्यान् ॥ (मोटी_१,८.२१ ॥

प्रासङ्गिकम् उपसंहृत्य प्रकृतम् अनुसरति

एवंवीर्यो महातेजा विश्वामित्रो महामुनिः ।
न रामगमने बुद्धिं विक्लवां कर्तुम् अर्हसि ॥ (मो_१,८.२२ ॥
[राम अ २०, १९]

पूर्वार्धम् उत्तरार्धस्य हेतुत्वेन योज्यम् ॥ (मोटी_१,८.२२ ॥

सर्गान्तश्लोकेन श्रीवसिष्ठो वाक्यं समापयति

अस्मिन् महासत्त्वमये मुनीन्द्रे
स्थिते समीपे पुरुषस् तु साधुः ।
प्राप्तेऽपि मृत्याव् अमरत्वम् एति
मा दीनतां गच्छ यथा विमूढः ॥ (मो_१,८.२३ ॥

"यथा विमूढः" । मूढवद् इत्य् अर्थः । इति शिवम् ॥ (मोटी_१,८.२३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टमः सर्गः ॥ १,८ ॥




श्रीवाल्मीकिर् भरद्वाजम् प्रति कथयति

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।
समुत्स्रष्टुमना रामम् आजुहाव सलक्ष्मणम् ॥ (मो_१,९.१ ॥
[राम अ २१, १]

"समुत्स्रष्टुमनाः" दातुमनाः ॥ (मोटी_१,९.१ ॥

दशरथः प्रतीहारम् प्रति कथयति

प्रतीहार महाबाहुं रामम् सत्यपराक्रमम् ।
सलक्ष्मणम् अविघ्नेन मुन्यर्थं शीघ्रम् आनय ॥ (मो_१,९.२ ॥

स्पष्टम् ॥ (मोटी_१,९.२ ॥

दशरथवाक्यम् उपसंहरति

इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् ।
मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥ (मो_१,९.३ ॥

स्पष्टम् ॥ (मोटी_१,९.३ ॥

प्रतीहारः कथयति

देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे ।
विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥ (मो_१,९.४ ॥

स्पष्टम् ॥ (मोटी_१,९.४ ॥

आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः ।
न कस्यचिच् च निकटे स्थातुम् इच्छति खिन्नधीः ॥ (मो_१,९.५ ॥

स्पष्टम् ॥ (मोटी_१,९.५ ॥

इत्य् उक्ते तेन भूपालस् तं रामानुचरं जनम् ।
सर्वम् आश्वासयाम् आस पप्रच्छ च यथाक्रमम् ॥ (मो_१,९.६ ॥

स्पष्टम् ॥ (मोटी_१,९.६ ॥

राजप्रश्नम् एव कथयति

कथं कीदृक् स्थितो राम इति पृष्टो महीभृता ।
रामभृत्यजनः खिन्नो वाक्यम् आह महीपतिम् ॥ (मो_१,९.७ ॥

स्पष्टम् ॥ (मोटी_१,९.७ ॥

देहयष्टिम् इमां देव धारयन्त इमे वयम् ।
खिन्नाः खेदपरिम्लाने विभो रामे सुते तव ॥ (मो_१,९.८ ॥

हे "देव" हे राजन् । "देहयष्टिं" देहलतां । "रामे" रामाख्ये । "तव सुते" तव सुतनिमित्तं । चर्मणि द्वीपिनं हन्तीतिवत् ॥ (मोटी_१,९.८ ॥

रामो राजीवपत्राक्षो यतःप्रभृति चागतः ।
सविप्रस् तीर्थयात्रायास् ततःप्रभृति दुर्मनाः ॥ (मो_१,९.९ ॥

स्पष्टम् ॥ (मोटी_१,९.९ ॥

यत्नप्रार्थनयास्माकं निजव्यापारम् आह्निकम् ।
सायम् अम्लानवदनः करोति न करोति वा ॥ (मो_१,९.१० ॥

स्पष्टम् ॥ (मोटी_१,९.१० ॥

स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् ।
प्रार्थितोऽपि हि ना तृप्तेर् अश्नात्य् अशनम् ईश्वरः ॥ (मो_१,९.११ ॥

"आ तृप्तेः" तृप्तिपर्यन्तम् ॥ (मोटी_१,९.११ ॥

लोलान्तःपुरनारीभिः कृतदोलाभिर् अङ्गने ।
न च क्रीडति लीलाभिर् वराद्भिर् इव चातकः ॥ (मो_१,९.१२ ॥

"वराद्भिः" सरोजलैः । "चातकः" पक्षिविशेषः । स हि वर्षाबिन्दून् एव पिबति ॥ (मोटी_१,९.१२ ॥

माणिक्यमुक्तासम्प्रोता केयूरकटकावली ।
नानन्दयति तं राजन् द्यौः पातविवशं यथा ॥ (मो_१,९.१३ ॥

"पातविवशम्" पतन्तम् ॥ (मोटी_१,९.१३ ॥

क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु ।
लतावलयगेहेषु भवत्य् अतिविषादवान् ॥ (मो_१,९.१४ ॥

"लतावलयगेहेषु" लतामण्डलयुक्तेषु गृहेषु ॥ (मोटी_१,९.१४ ॥

यद् रम्यम् उचितं स्वादु पेशलं चित्तहारि वा ।
बाष्पपूरेक्षण इव तेनैव परिखिद्यते ॥ (मो_१,९.१५ ॥

स्पष्टम् ॥ (मोटी_१,९.१५ ॥

किम् इमा दुःखदायिन्यः प्रस्फुरन्ति पुरोगताः ।
इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥ (मो_१,९.१६ ॥

"इमाः" एताः कामिन्यः ॥ (मोटी_१,९.१६ ॥

भोजनं शयनम् पानं विलासं स्नानम् आसनम् ।
उन्मत्तवेष्टितम् इव नाभिनन्दति निन्दितम् ॥ (मो_१,९.१७ ॥

"निन्दितं" निन्दाविषयीकृतम् ॥ (मोटी_१,९.१७ ॥

किं सम्पदा किं विपदा किं गेहेन किम् ईहितैः ।
सर्वम् एवासद् इत्य् उक्त्वा तूष्णीम् एकोऽवतिष्ठते ॥ (मो_१,९.१८ ॥

स्पष्टम् ॥ (मोटी_१,९.१८ ॥

नोदेति परिहासेषु न भोगेषु निमज्जति ।
न च तिष्ठति कार्येषु मौनम् एवावलम्बते ॥ (मो_१,९.१९ ॥

स्पष्टम् ॥ (मोटी_१,९.१९ ॥

विलोलालकवल्लर्यो हेलावलितलोचनाः ।
नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥ (मो_१,९.२० ॥

स्पष्टम् ॥ (मोटी_१,९.२० ॥

एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।
रतिम् आयात्य् अरण्येषु विक्रीतवद् अजन्तुषु ॥ (मो_१,९.२१ ॥

"विक्रीतो" हि पलायनार्थं "जन्तुरहिते" एव देशे "रतिम् आयाति" ॥ (मोटी_१,९.२१ ॥

वस्त्रपानाशनादानपराङ्मुखतया तया ।
परिव्रड्धर्मिणां राजन् सोऽनुयाति तपस्विनाम् ॥ (मो_१,९.२२ ॥

"तपस्विनाम् अनुयाति" तपस्विसम्बन्धिचरितम् अनुकरोतीत्य् अर्थः । न माषाणाम् अश्नीयाद् इतिवत् प्रयोगः ॥ (मोटी_१,९.२२ ॥

एक एव वसन् देशे जनशून्ये जनेश्वर ।
न हसत्य् एकया बुद्ध्या न गायति न रोदिति ॥ (मो_१,९.२३ ॥

"एकया बुद्ध्या" सर्वत्यागरूपया मत्या उपलक्षितः ॥ (मोटी_१,९.२३ ॥

पुनः किं करोतीत्य् अपेक्षायाम् आह

बद्धपद्मासनः शून्यमना वामकरस्थले ।
कपोलतलम् आदाय केवलम् परितिष्ठति ॥ (मो_१,९.२४ ॥

स्पष्टम् ॥ (मोटी_१,९.२४ ॥

नाभिमानम् उपादत्ते नापि वाञ्छति राजताम् ।
नोदेति नास्तम् आयाति सुखदुःखानुवृत्तिषु ॥ (मो_१,९.२५ ॥

स्पष्टम् ॥ (मोटी_१,९.२५ ॥

न विद्मः किम् असौ जातः किं करोति किम् ईहते ।
किं ध्यायति किम् आयाति कथं किम् अनुधावति ॥ (मो_१,९.२६ ॥

"न विद्म" इत्य् अस्य कर्मापेक्षायाम् आह "किम् असौ जातः" किमर्थम् असौ जातः । जननं हि भोगादिसेवनार्थम् इति भावः ॥ (मोटी_१,९.२६ ॥

प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् ।
विरागम् प्रत्यहं याति शरदन्त इव द्रुमः ॥ (मो_१,९.२७ ॥

स्पष्टम् ॥ (मोटी_१,९.२७ ॥

अनुयातौ तम् एवैतौ राजञ् शत्रुघ्नलक्ष्मणौ ।
तादृशाव् एव तस्यैव प्रतिबिम्बाव् इव स्थितौ ॥ (मो_१,९.२८ ॥

स्पष्टम् ॥ (मोटी_१,९.२८ ॥

भृत्यै राजभिर् अम्बाभिः स पृष्टोऽपि पुनः पुनः ।
उक्त्वा न किञ्चिद् एवेति तूष्णीम् आस्ते निरीहितः ॥ (मो_१,९.२९ ॥

"सः" श्रीरामः । निरीहितः चेष्टितरहितः । "इति"शब्दः पादपूरणार्थः श्रीरामोत्तरवाक्यस्वरूपनिर्देशपरो वा ज्ञेयः ॥ (मोटी_१,९.२९ ॥

आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।
इति पार्श्वगतम् भव्यम् अनुशास्ति सुहृज्जनम् ॥ (मो_१,९.३० ॥

"भव्यम्" अनुशासनयोग्यम् ॥ (मोटी_१,९.३० ॥

नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च ।
पुरःस्थितम् इवास्नेहो नाशम् एवानुपश्यति ॥ (मो_१,९.३१ ॥

स्पष्टम् ॥ (मोटी_१,९.३१ ॥

रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः ।
चेष्टितैर् एव काकल्या भूयो भूयः प्रगायति ॥ (मो_१,९.३२ ॥

सः रामः । "रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः" "चेष्टितैर् एव" केवलैः अभिनयैर् एवोपलक्षितया "काकल्या" कलसूक्ष्मध्वनिना । "गायति" ॥ (मोटी_१,९.३२ ॥

सम्राड् भवेति पार्श्वस्थं वदन्तम् अनुजीविनम् ।
प्रलपन्तम् इवोन्मत्तं हसत्य् अन्यमना मुनिः ॥ (मो_१,९.३३ ॥

स्पष्टम् ॥ (मोटी_१,९.३३ ॥

न प्रोक्तम् आकर्णयति प्रेक्षते न पुरोगतम् ।
करोत्य् अवज्ञां सर्वत्र सुमहत्य् अपि वस्तुनि ॥ (मो_१,९.३४ ॥

स्पष्टम् ॥ (मोटी_१,९.३४ ॥

अप्य् आकाशसरोजिन्याम् अप्य् आकाशमहावने ।
इत्थम् एतत् कथम् इति विस्मयोऽस्य न जायते ॥ (मो_१,९.३५ ॥

विस्मयस्य स्वरूपं दर्शयति "इत्थम् एतत् कथम्" इति ॥ (मोटी_१,९.३५ ॥

कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः ।
न भेदयन्ति दुर्भेदं धारा इव महोपलम् ॥ (मो_१,९.३६ ॥

स्पष्टम् ॥ (मोटी_१,९.३६ ॥

आपदाम् एकम् आवासम् अभिवाञ्छसि किं धनम् ।
अनुशास्येति सर्वस्वम् अर्थिने सम्प्रयच्छति ॥ (मो_१,९.३७ ॥

"अनुशास्य" अनुशासनं कृत्वा ॥ (मोटी_१,९.३७ ॥

इयम् आपद् इयं संपद् इत्य् अयं कल्पनामयः ।
मनस्य् अभ्युदितो मोह इति शोकात् प्रगायति ॥ (मो_१,९.३८ ॥

स्पष्टम् ॥ (मोटी_१,९.३८ ॥

हा हतोऽहम् अनाथोऽहम् इत्य् आक्रन्दपरोऽपि सन् ।
न जनो याति वैराग्यं चित्रम् इत्य् एव वक्त्य् असौ ॥ (मो_१,९.३९ ॥

आक्रन्दपरस्य वैराग्यं युक्तम् एवेत्य् "अपि"शब्देन द्योत्यते ॥ (मोटी_१,९.३९ ॥

रघुकाननसालेन रामेण रिपुघातिना ।
भृशम् इत्थं स्थितेनैव वयं खेदम् उपागताः ॥ (मो_१,९.४० ॥

स्पष्टम् ॥ (मोटी_१,९.४० ॥

न विद्मः किम् महाबाहो तस्य तादृशचेतसः ।
कुर्मः कमलपत्राक्ष गतिर् अत्र हि नो भवान् ॥ (मो_१,९.४१ ॥

स्पष्टम् ॥ (मोटी_१,९.४१ ॥

राजानम् अथ वा विप्रम् उपदेष्टारम् अग्रगम् ।
हसन् पशुम् इवाव्यग्रः सोऽवधीरयति प्रभो ॥ (मो_१,९.४२ ॥

स्पष्टम् ॥ (मोटी_१,९.४२ ॥

प्रपञ्चोऽयम् इह स्फारं जगन्नाम यद् उत्थितम् ।
नैतद् वस्तु न चैवाहम् इति निर्णीय संस्थितः ॥ (मो_१,९.४३ ॥

यः "अयम् प्रपञ्चः उत्थितम्" इदं "स्फारं जगन्नाम" भवति । "एतद्" "वस्तु" परमार्थसत् । "न" भवति । "एव"शब्दः अपिशब्दस्यार्थे । "अहम्" अपि "वस्तु न च" भवामि । "इति" एवं । "निर्णीया"सौ रामः "संस्थितः" ॥ (मोटी_१,९.४३ ॥

नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।
न संपदापदोर् नान्तस् तस्यास्था न विभोर् बहिः ॥ (मो_१,९.४४ ॥

"आस्था" रतिः ॥ (मोटी_१,९.४४ ॥

निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः ।
मोहे न च विमुक्तोऽसौ तेन तप्यामहे वयम् ॥ (मो_१,९.४५ ॥

स्पष्टम् ॥ (मोटी_१,९.४५ ॥

किं धनेन किम् अम्बाभिः किं राज्येन किम् ईहया ।
इति निश्चयवान् अन्तः प्राणत्यागमनाः स्थितः ॥ (मो_१,९.४६ ॥

स्पष्टम् ॥ (मोटी_१,९.४६ ॥

भोगेष्व् आयुषि राज्ये च मित्रे पितरि मातरि ।
परम् उद्वेगम् आयातश् चातकोऽवग्रहे यथा ॥ (मो_१,९.४७ ॥

स्पष्टम् ॥ (मोटी_१,९.४७ ॥

तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।
संसारजालम् आभोगि प्रभो प्रतिविषायते ॥ (मो_१,९.४८ ॥

प्रतिविषम् इवाचरते "प्रतिविषायते" ॥ (मोटी_१,९.४८ ॥

तादृशः स्यान् महासत्त्वः क इवास्मिन् महीतले ।
प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥ (मो_१,९.४९ ॥

स्पष्टम् ॥ (मोटी_१,९.४९ ॥

इति नो येयम् आयाता शाखाप्रसरशालिनी ।
आपत् ताम् अलम् उद्धर्तुं समुदेतु दया परा ॥ (मो_१,९.५० ॥

"समुदेतु" तवेति शेषः ॥ (मोटी_१,९.५० ॥

सर्गान्तश्लोकेन रामभृत्यवचनं समापयति

मनसि मोहम् अपास्य महामनाः
सकलम् आर्तिमतः किल साधुताम् ।
सफलतां नयतीह तमो हरन्
दिनकरो भुवि भास्करताम् इव ॥ (मो_१,९.५१ ॥

"महामनाः" पुरुषः । "आर्तिमतः" आर्तियुक्तस्य पुरुषस्य । "मनसि सकलम् मोहम्" आर्तिस्वरूपं समस्तम् मोहम् । "अपास्य" दूरीकृत्य । "साधुताम्" स्वस्मिन् स्थितं साधुभावं । "सफलतां नयति" । क "इव" । "दिनकर इव" । यथा "दिनकरः" "भुवि" "तमः" "हरन्" "भास्करताम्" "सफलतां" "नयति" । तथेत्य् अर्थः । इति शिवम् ॥ (मोटी_१,९.५१ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे नवमः सर्गः ॥ १,९ ॥




रामभृत्यवचनं श्रुत्वा विश्वामित्रः कथयति

एवं चेत् तन् महाप्राज्ञम् भवन्तो रघुनन्दनम् ।
इहानयन्तु त्वरितं हरिणं हरिणा इव ॥ (मो_१,१०.१ ॥

स्पष्टम् ॥ (मोटी_१,१०.१ ॥

एष मोहो रघुपतेर् नापद्भ्यो न च रागतः ।
विवेकवैराग्यकृतो बोध एष महोदयः ॥ (मो_१,१०.२ ॥

महान् उदयः मुक्तिलक्षणः यस्मात् "सः" "महोदयः" ॥ (मोटी_१,१०.२ ॥

इहायातु क्षणाद् रामस् तद् इहैव वयं क्षणात् ।
मोहं तस्यापनेष्यामो मरुतोऽद्रेर् घनं यथा ॥ (मो_१,१०.३ ॥

"वयं" के इव । "मरुत" इव । "यथा" "मरुतः" वायवः । "अद्रेः" "घनं" मेघम् । अपनयन्ति । तथेत्य् अर्थः ॥ (मोटी_१,१०.३ ॥

एतस्मिन् मार्जिते युक्त्या मोहे च रघुनन्दनः ।
विश्रान्तिम् एष्यति पदे तस्मिन् वयम् इवोत्तमे ॥ (मो_१,१०.४ ॥

"तस्मिन् पदे" चिन्मात्राख्ये विश्रान्तिस्थाने ॥ (मोटी_१,१०.४ ॥

सत्यताम् मुदिताम् प्रज्ञां विश्रान्तिं च समेत्य सः ।
पीनतां वरवर्णत्वम् पीतामृत इवैष्यति ॥ (मो_१,१०.५ ॥

स्पष्टम् ॥ (मोटी_१,१०.५ ॥

निजां च प्रकृताम् एव व्यवहारपरम्पराम् ।
परिपूर्णमना मान्य आचरिष्यत्य् अखण्डिताम् ॥ (मो_१,१०.६ ॥

स्पष्टम् ॥ (मोटी_१,१०.६ ॥

भविष्यति महासत्त्वो ज्ञातलोकपरावरः ।
सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः ॥ (मो_१,१०.७ ॥
[गीता अ६ ८घ, अ१४ २४ख]

"ज्ञाते" सम्यक् निश्चिते । "लोकानाम्" "परावरे" परावाची । पारद्वयम् इति यावत् । येन । सः ॥ (मोटी_१,१०.७ ॥

विश्वामित्रवाक्यम् उपसंहरति

इत्य् उक्ते मुनिनाथेन राजा सम्पूर्णमानसः ।
प्राहिणोद् रामम् आनेतुम् भूयो दूतपरम्पराम् ॥ (मो_१,१०.८ ॥

स्पष्टम् ॥ (मोटी_१,१०.८ ॥

एतावता च कालेन रामो निजगृहासनात् ।
पितुः सकाशम् आगन्तुम् उत्थितोऽर्क इवाचलात् ॥ (मो_१,१०.९ ॥

स्पष्टम् ॥ (मोटी_१,१०.९ ॥

वृतः कतिपयैर् भृत्यैर् भ्रातृभ्यां चाजगाम ह ।
तत् पुण्यम् पितुर् आस्थानं स्वर्गं सुरपतेर् इव ॥ (मो_१,१०.१० ॥

स्पष्टम् ॥ (मोटी_१,१०.१० ॥

दूराद् एव ददर्शासौ रामो दशरथं तदा ।
वृतं राजसमूहेन देवौघेनेव वासवम् ॥ (मो_१,१०.११ ॥

स्पष्टम् ॥ (मोटी_१,१०.११ ॥

वसिष्ठविश्वामित्राभ्यां सेवितम् पार्श्वयोर् द्वयोः ।
सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन पालितम् ॥ (मो_१,१०.१२ ॥

स्पष्टम् ॥ (मोटी_१,१०.१२ ॥

चारुचामरहस्ताभिः कान्ताभिः समुपासितम् ।
ककुब्भिर् इव मूर्ताभिः संस्थिताभिर् यथोचितम् ॥ (मोटी_१,१०.१३ ॥


"ककुब्भिः" दिग्भिः ॥ (मोटी_१,१०.१३ ॥

वसिष्ठविश्वामित्राद्यास् तथा दशरथादयः ।
ददृशू राघवं दूराद् उपायान्तं गुहोपमम् ॥ (मो_१,१०.१४ ॥

"गुहोपमं" कुमारसदृशम् ॥ (मोटी_१,१०.१४ ॥

सत्त्वावष्टम्भगर्वेण शैत्येनेव हिमालयम् ।
श्रितं सकलसेव्येन गम्भीरेण स्वरेण च ॥ (मो_१,१०.१५ ॥

"सत्त्वस्यावष्टम्भेन" हस्तावलम्बेन यः "गर्वः" । तेन । पूर्वस्य श्लोकस्य विशेषणत्वेन योज्यम् ॥ (मोटी_१,१०.१५ ॥

सौम्यं समशुभाकारं विनयोदारम् ऊर्जितम् ।
कान्तोपशान्तवपुषम् परस्यार्थस्य भाजनम् ॥ (मो_१,१०.१६ ॥

"परस्यार्थस्य" मोक्षस्य ॥ (मोटी_१,१०.१६ ॥

समुद्यद्यौवनारम्भम् उद्योगशमशोभितम् ।
अनुद्विग्नम् अनायासम् पूर्णप्रायमनोरथम् ॥ (मो_१,१०.१७ ॥

स्पष्टम् ॥ (मोटी_१,१०.१७ ॥

विचारितजगद्यात्रम् पवित्रगुणगोचरम् ।
महासत्त्वैकलोभेन गुणैर् इव समाश्रितम् ॥ (मो_१,१०.१८ ॥

"महासत्त्वस्य" महाधैर्यस्य । यः "एको" "लोभः" । तत्सङ्गलोभः इति यावत् । तेन ॥ (मोटी_१,१०.१८ ॥

उदारसारम् आपूर्णम् अन्तःकरणकोटरम् ।
अविक्षुभितया वृत्त्या दर्शयन्तम् अनुत्तमम् ॥ (मो_१,१०.१९ ॥

रामम् पुनः कथम्भूतम् । ईदृश्या "वृत्त्या" ईदृशम् "अन्तःकरणं" "दर्शयन्तम्" इति सम्बन्धः । "आपूर्णम्" भोगान् प्रति अलौल्येन समन्तात् पूर्णम् ॥ (मोटी_१,१०.१९ ॥

श्रीरामविशेषणान्य् उपसंहरति

एवम् गुणगणाकीर्णो दूराद् एव रघूद्वहः ।
परिमेयसिताच्छाच्छस्वहाराम्बरपल्लवः ॥ (मो_१,१०.२० ॥
प्रणनाम चलच्चारुचूडामणिमरीचिना ।
शिरसा वसुधाकम्पलोलमानाचलश्रिया ॥ (मो_१,१०.२१ ॥

"परिमेयाः" परिमिताः । "सिताः" "अच्छाच्छाः" "स्वहाराम्बरपल्लवाः" यस्य । सः तादृशः । "शिरसा" कथम्भूतेन । "वसुधायां" यः "कम्पः" । तेन "लोलमानस्या-चलस्य" "श्रीः" यस्य । तत् । तादृशेन । युग्मम् ॥ (मोटी_१,१०.२०-२१ ॥

कान् प्रणनामेत्य् अपेक्षायाम् आह

प्रथमम् पितरम् पश्चान् मुनीन् मान्यैकम् आनतः ।
ततो विप्रांस् ततो बन्धूंस् ततोऽधिकगुणान् गुरून् ॥ (मो_१,१०.२२ ॥

"पितरं" कथम्भूतं । मान्यानाम् मध्ये एकम् "मान्यैकम्" ॥ (मोटी_१,१०.२२ ॥

जग्राह चात्मना दृष्ट्वा मनाक् स्वादुगिरा तथा ।
राजलोकेन विहितां स प्रणामपरस्पराम् ॥ (मो_१,१०.२३ ॥

स्पष्टम् ॥ (मोटी_१,१०.२३ ॥

विहिताशीर् मुनिभ्यां तु रामः सशममानसः ।
आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥ (मो_१,१०.२४ ॥

"समीपं" निकटम् ॥ (मोटी_१,१०.२४ ॥

पादाभिवन्दनरतं तम् अथासौ महीपतिः ।
शिरस्य् अभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥ (मो_१,१०.२५ ॥
शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा ।
आलिलिङ्ग घनस्नेहं राजहंसोऽम्बुजं यथा ॥ (मो_१,१०.२६ ॥

स्पष्टम् । युग्मम् ॥ (मोटी_१,१०.२५-२६ ॥

उत्सङ्गे वत्स तिष्ठेति वदत्य् अथ महीपतौ ।
भूमौ परिजनास्तीर्णे सोऽंशुकेऽथ न्यविक्षत ॥ (मो_१,१०.२७ ॥

"न्यविक्षत" उपाविशत् । "अथ"शब्दद्वयं सम्बन्धिभेदेनानन्तर्यद्वयवाचकम् ॥ (मोटी_१,१०.२७ ॥

दशरथः कथयति

पुत्र प्राप्तविवेकस् त्वं कल्याणानां च भाजनम् ।
जनवज् जीर्णया बुद्ध्या खेदायात्मा न दीयते ॥ (मो_१,१०.२८ ॥

त्वया "न दीयते" न देय इत्य् अर्थः । "खेदाय्"एति सम्प्रदाने चतुर्थी ॥ (मोटी_१,१०.२८ ॥

वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता ।
पदम् आसाद्यते पुण्यं न मोहम् अनुधावता ॥ (मो_१,१०.२९ ॥

स्पष्टम् ॥ (मोटी_१,१०.२९ ॥

तावद् एवापदो दूरे तिष्ठन्ति परिपेलवाः ।
यावद् एव न मोहस्य प्रसरः पुत्र दीयते ॥ (मो_१,१०.३० ॥

स्पष्टम् ॥ (मोटी_१,१०.३० ॥

श्रीवसिष्ठः कथयति

राजपुत्र महाबाहो शूरस् त्वं विजितास् त्वया ।
दुरुच्छेदा दुरारम्भा अप्य् अमी विषयारयः ॥ (मो_१,१०.३१ ॥

स्पष्टम् ॥ (मोटी_१,१०.३१ ॥

किम् अतज्ज्ञ इवाज्ञानां योग्ये वा मोहसागरे ।
विनिमज्जसि कल्लोलगहने जाड्यशालिनि ॥ (मो_१,१०.३२ ॥

स्पष्टम् ॥ (मोटी_१,१०.३२ ॥

विश्वामित्र आह

चलन्नीलोत्पलव्यूहसमलोचन लोलताम् ।
ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि ॥ (मो_१,१०.३३ ॥

हे "चलन्नीलोत्पलव्यूहसमलोचन "त्वं । "चेतःकृतां" "लोलतां" "त्यक्त्वा" "ब्रूहि" । कर्मापेक्षायां वाक्यं कर्मत्वेन कथयति "हेतुने"ति । त्वं किमर्थं "मुह्यसी"त्य् अर्थः ॥ (मोटी_१,१०.३३ ॥

किंनिष्ठाः कियता केन कियन्तः कारणेन ते ।
आधयो नु विलुम्पन्ति मनो गेहम् इवाखवः ॥ (मो_१,१०.३४ ॥

"ते" "कियन्तः" "आधयः" । "किंनिष्ठाः" किंविषयाः सन्तः । "कियता" "केन" "कारणेन" "मनः" "नु" "विलुम्पन्ति" । के "इव" । "आखव" "इव" । यथा "आखवः गेहं विलुम्पन्ति" । तथेत्य् अर्थः । "नु"शब्दः प्रश्नद्योतकः ॥ (मोटी_१,१०.३४ ॥

मन्ये नानुचितानां त्वम् आधीनाम् पदम् उत्तमः ।
आपत्सु चाप्तो यो धीरो निर्जितास् तेन चाधयः ॥ (मो_१,१०.३५ ॥

"आप्तः" विचारकारी । न ह्य् उचितस्य्"आनुचितपदत्वं" युक्तम् इति भावः ॥ (मोटी_१,१०.३५ ॥

यथाभिमतम् आशु त्वम् ब्रूहि प्राप्स्यसि चानघम् ।
सर्वम् एव पुनर् येन तव भेत्स्यन्ति नाधयः ॥ (मो_१,१०.३६ ॥

"येन" सर्वप्रापणेन ॥ (मोटी_१,१०.३६ ॥

विश्वामित्रवाक्यं सर्गान्तश्लोकेनोपसंहरति

इत्य् उक्तम् अस्य स मुने रघुवंशकेतुर्
आकर्ण्य वाक्यम् उचितार्थविलासगर्भम् ।
तत्याज खेदम् अभिगर्जति वारिवाहे
बर्ही यथाभ्यनुमिताभिमतार्थसिद्धिः ॥ (मो_१,१०.३७ ॥

"अभ्यनुमिता" गर्जनहेतुकेनानुमानेन ज्ञाता । "अभिमतार्थस्य सिद्धिः" यस्-य । स । इति शिवम् ॥ (मोटी_१,१०.३७ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे दशमः सर्गः ॥ १,१० ॥




इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः ।
उवाच वचनं चारु धीरपूर्णार्थमन्थरम् ॥ (मो_१,११.१ ॥

"धीरं" च तत् "पूर्णार्थेन" "मन्थरं" निर्भरं च "धीरपूर्णार्थमन्थरम्" ॥ (मोटी_१,११.१ ॥

इतः परं वैराग्यप्रकरणारम्भः ।

स्मृत्वा तत्त्वम् परमगहनं स्वस्वरूपाख्यम् आद्यं
स्पृष्ट्वा मूर्ध्ना गुरुचरणयोर् धूलिपुञ्जम् प्रयत्नात् *
कृत्वा देवं शरणम् अनिशं विघ्नराजं च टीका
वैराग्याख्ये प्रकरणवरे तन्यते भास्करेण ** १४ **


समाश्वासनपरं श्रीवसिष्ठश्रीविश्वामित्रयोर् वाक्यं श्रुत्वा श्रीरामो हृद्गतं वैराग्यम् प्रकटीकरोति

भगवन् भवता पृष्टो यथावद् अधुना किल ।
कथयाम्य् अहम् अज्ञोऽपि को लङ्घयति सद्वचः ॥ (मो_१,११.२ ॥

"भवते"ति कुलगुरुं वसिष्ठम् प्रत्य् उक्तिः । किमर्थं कथयसीत्य् । अत्राह "को" "लङ्घयती"ति ॥ (मोटी_१,११.२ ॥

स्वयं कृताम् प्रतिज्ञां सम्पादयति

अहं तावद् अयं जातो निजेऽस्मिन् पितृसद्मनि ।
क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश् च संस्थितः ॥ (मो_१,११.३ ॥

"तावच्"छब्दो विप्रतिपत्त्यभाववाचकः ॥ (मोटी_१,११.३ ॥

ततः सदाचारपरो भूत्वाहम् मुनिनायक ।
विहृतस् तीर्थयात्रार्थम् उर्वीम् अम्बुधिमेखलाम् ॥ (मो_१,११.४ ॥

स्पष्टम् ॥ (मोटी_१,११.४ ॥

एतावताथ कालेन संसारास्थाम् इमाम् मम ।
स्वविवेको जहारान्तर् ओघस् तटलताम् इव ॥ (मो_१,११.५ ॥

"स्वविवेकः" कोऽहम् इति विचारः ॥ (मोटी_१,११.५ ॥

विवेकेन परीतात्मा तेनाहं तद् अनु स्वयम् ।
भोगनीरसया बुद्ध्या प्रविचारितवान् इदम् ॥ (मो_१,११.६ ॥

स्पष्टम् ॥ (मोटी_१,११.६ ॥

किं त्वया "प्रविचारितम्" इत्य् । अत्राह

किं नामेदं वत सुखं योऽयं संसारसंसृतिः ।
जायते मृतये लोको म्रियते जननाय च ॥ (मो_१,११.७ ॥

"वत" कष्टे । "इदं" "सुखं" "किं" "नाम" भवति । न भवतीत्य् अर्थः । "इदं" किं । "संसारे" "संसृतिः" संसरणं यस्य । सः तादृशः । "यः" "अयं" "लोकः" । "मृतये" यत् "जायते" । "जननाय" च यन् "म्रियते" ॥ (मोटी_१,११.७ ॥

मृतिजननरूपस्य संसरणस्य दुःखत्वम् उक्त्वा तदाश्रयभूतानाम् भावानां दुःखयुक्तत्वं कथयति

स्वस्थिताः सर्व एवेमे सचराचरचेष्टिताः ।
आपदाम् पतयः पापा भावा विभवभूमयः ॥ (मो_१,११.८ ॥

"सचराचरचेष्टिताः" चलनस्थितिरूपक्रियायुक्ताः । "सर्वे" "एवेमे"ऽनुभूयमानाः । "भावाः" स्थावरजङ्गमरूपाः पदार्थाः । "आपदाम्" "पतयः" आपद्युक्ताः भवन्ति । पूर्वश्लोकोक्तजननमरणरूपदुःखाश्रयत्वाद् इत्य् अर्थः । "भावाः" कथम्भूताः । "स्वस्थिताः" स्वस्मिन् स्थिताः । न तु परस्परं सम्बन्धयुक्ताः । पुनः कथम्भूताः । "विभवभूमयः" यथास्वं शक्तियुक्ताः ॥ (मोटी_१,११.८ ॥

ननु कथम् "भावाः" "स्वस्थिताः" भवन्ति । परस्परं तेषां नानाविधसम्बन्धदर्शनाद् इत्य् । अत्राह

अयःशलाकासदृशाः परस्परम् असङ्गिनः ।
श्लिष्यन्ते केवलम् भावा मनःकल्पनया स्वया ॥ (मो_१,११.९ ॥

अयम् मम पुत्रादिः अयम् मम पित्रादिर् इति "मनःकल्पितेन" सङ्कल्पेनैव भावानाम् "परस्परं" सम्बन्धोऽस्ति । न तु परमार्थत इति भावः ॥ (मोटी_१,११.९ ॥

ननु मनसः कथम् एतावती शक्तिर् अस्तीत्य् । अत्राह

मनःसमायत्तम् इदं जगद् आभोगि दृश्यते ।
मनश् चासद् इहाभाति केन स्मः परिमोहिताः ॥ (मो_१,११.१० ॥

"आभोगि" विस्तारयुक्तम् । "मनसः" "असत्त्वम्" असत्यभूतपदार्थानुसन्धानमात्ररूपत्वेन ज्ञेयम् ॥ (मोटी_१,११.१० ॥

असतैव वयं कष्टं विक्रीता मूढबुद्धयः ।
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥ (मो_१,११.११ ॥

"असता" "एव" । न तु सत्यभूतेन । मनसेति शेषः ॥ (मोटी_१,११.११ ॥

न केनचिच् च विक्रीता विक्रीता इव संस्थिताः ।
वत मूढा वयं सर्वे जनाना अपि शम्बरम् ॥ (मो_१,११.१२ ॥

"शम्बरम्" मायाम् ॥ (मोटी_१,११.१२ ॥

किम् एतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।
मुधैव हि वयम् मोहात् संस्थिता बद्धभावनाः ॥ (मो_१,११.१३ ॥

"एतेषु प्रपञ्चेषु" मध्ये ।" सुदुर्भगाः" अतिशयेन दुर्भगत्वाख्यगुणयुक्ताः । "भोगा नाम किम्" भवन्ति । आपातमात्ररमणीयत्वात् न किञ्चिद् अपि भवन्तीत्य् अर्थः । "हि"शब्दः अतःशब्दार्थे । "हि" अतः । "वयम्" "एतेषु" भोगेषु । "बद्धभावनाः" । "मोहात्" "मुधैव" "संस्थिताः" व्यर्थत्वात् ॥ (मोटी_१,११.१३ ॥

अज्ञाते बहुकालेन व्यर्थ एव वयं घने ।
मोहे निपतिता मुग्धाः श्वभ्रे मुग्धमृगा इव ॥ (मो_१,११.१४ ॥

"मोहे" भोगभावनाख्ये मोहे । "बहुकालेन" बहुकालं तावत् ॥ (मोटी_१,११.१४ ॥

किम् मे राज्येन किम् भोगैः कोऽहं किम् इदम् आगतम् ।
यन् मिथ्यैवास्तु तन् मिथ्या कस्य नाम किम् आगतम् ॥ (मो_१,११.१५ ॥
[गीता अ१ ३२गघ]

"यत् मिथ्या" भवति "तत् मिथ्यैवास्तु" इति सम्बन्धः ॥ (मोटी_१,११.१५ ॥

अवान्तरम् उपसंहारं करोति

एवं विमृशतो ब्रह्मन् सर्वेष्व् एव ततो मम ।
भावेष्व् अरतिर् आयाता पथिकस्य मरुष्व् इव ॥ (मो_१,११.१६ ॥

स्पष्टम् ॥ (मोटी_१,११.१६ ॥

स्वाभिमतम् आविष्करोति

तद् एतद् भगवन् ब्रूहि किम् इदम् परिनश्यति ।
किम् इदं जायते भूयः किम् इदम् परिवर्धते ॥ (मो_१,११.१७ ॥

"किम्" इति कथम् इत्य् अस्यार्थे ॥ (मोटी_१,११.१७ ॥

जरामरणम् आपच् च जननं सम्पदस् तथा ।
आविर्भावतिरोभावैर् विवर्तन्ते पुनः पुनः ॥ (मो_१,११.१८ ॥

भावेषु इति शेषः । "भावैर्" इति इत्थम्भावे तृतीया । "विवर्तन्ते" रूपान्तरं गच्छन्ति ॥ (मोटी_१,११.१८ ॥

भावैस् तैर् एव तैर् एव तुच्छैर् वयम् इमे किल ।
पश्य जर्जरतां नीता वातैर् इव गिरिद्रुमाः ॥ (मो_१,११.१९ ॥

स्पष्टम् ॥ (मोटी_१,११.१९ ॥

अचेतना इव जनाः पवनैः प्राणनामभिः ।
ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥ (मो_१,११.२० ॥

"कीचकवेणवो" हि व्यर्थं ध्वनन्ति ॥ (मोटी_१,११.२० ॥

शाम्यतीदं कथं दुःखम् इति तप्तोऽस्मि चिन्तया ।
जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥ (मो_१,११.२१ ॥

स्पष्टम् ॥ (मोटी_१,११.२१ ॥

संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्य् अहम् ।
निजलोकभयाद् एव गलद्बाष्पैर् न रोदिमि ॥ (मो_१,११.२२ ॥

"संसारदुःखान्य्" एव "पाषाणाः" । तैः "नीरन्ध्रं" "हृदयं" यस्य । सः तादृशः ॥ (मोटी_१,११.२२ ॥

शून्यसन्मुखवृत्तीस् तु शुष्करोदननीरसाः ।
विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥ (मो_१,११.२३ ॥

"शून्या" व्यर्थाश् च ताः । "सन्मुखवृत्तयः" सन्मुखव्यापाराः ताः । "एकान्तेषु" "विवेकै"कपर "एवा"स्मीति भावः ॥ (मोटी_१,११.२३ ॥

भृशम् मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।
दारिद्र्येणेव सुभगो दूरे संसारचिन्तया ॥ (मो_१,११.२४ ॥

"स्थितिं" जगदाख्यां स्थितिम् । अहं क "इव" । "सुभग इव" । यथा "सुभगः" "दारिद्र्येण" "मुह्यति" । तथेत्य् अर्थः । अतः "संसारचिन्तया" "दूरे" । सा दूरे भवत्व् इत्य् अर्थः ॥ (मोटी_१,११.२४ ॥

एवं सामान्येन संसारपदार्थानां दुःखदताम् उक्त्वा तद् विशेषेषु प्रधानभूतायाः श्रियः कथयति

मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणानलम् ।
दुःखजालम् प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥ (मो_१,११.२५ ॥

"मोहयन्ति" अविवेकयुक्ततां कुर्वन्ति । ऐश्वर्यमदग्रस्ता हि पूर्वापरविचारशून्या एव भवन्ति । "विप्रलम्भपराः" वञ्चनपराः ॥ (मोटी_१,११.२५ ॥

एवं श्रियः दुःखदत्वम् उक्त्वा तत् प्रधानावयवभूतस्य धनस्यापि दुःखदत्वं कथयति

चिन्तानिचयवक्राणि नानन्दाय धनानि मे ।
सम्प्रसूतकलत्राणि गृहाण्य् उग्रापदां यथा ॥ (मो_१,११.२६ ॥

"चिन्तानिचयेना"र्जनाद्यर्थम् प्रयुक्तेन चिन्तासमूहेन । "वक्राणि" कुटिलानि । "उग्रापदां" हि बहु"कलत्राणि" "गृहाणि" दुःखायैव भवन्ति ॥ (मोटी_१,११.२६ ॥

सङ्ग्रहेण स्वास्वास्थ्यं कथयति

विविधदोषदशापरिचिन्तनैः
सततभङ्गुरकारणकल्पितैः ।
मम न निर्वृतिम् एति मनो मुने
निगडितस्य यथा वनहस्तिनः ॥ (मो_१,११.२७ ॥

"विविधा" याः "दोषदशाः" । तासाम् "परिचिन्तनैः" । कथम्भूतैः । "सततं" "भङ्गुराणि" यानि "कारणानि" भोगरूपाणि कारणानि । तैः "कल्पितैः" स्वविषयतया प्रकटीकृतैः ॥ (मोटी_१,११.२७ ॥

सर्वदोषमूलकारणभूतान् विषयान् सर्गान्तश्लोकेन निन्दति

खलाः काले काले निशि निशितमोहैकमिहिका
गतालोके लोके विषयहठचौराः सुचतुराः ।
प्रवृत्ताः प्रोद्युक्ता दिशि दिशि विवेकैकहरणे
रणे शक्तास् तेषां वदत विबुधाः केऽद्य सुभटाः ॥ (मो_१,११.२८ ॥

"खलाः" अत्यन्तदुःखकारित्वात् दुर्जनसदृशास् । तथा "सुचतुराः" अतिचातुर्ययुक्ताः । "विषयहठचौराः" । "निशि" लक्षणया अविद्यारूपायां रात्रौ । "निशिता" तीक्ष्णा या "मोहैकमिहिका" । तया "गतालोके" दूरे गतविचाराख्यप्रकाशे । "लोके" अस्मिन् संसारे । "काले काले" सर्वेषु कालेषु । "दिशि दिशि" सर्वासु दिक्षु । "प्रोद्युक्ताः" प्रकृष्टोद्योगभाजः । अत एव "विवेकस्य" सम्यग्विचारस्य । यद् "एकं" "हरणं" केवलं हरणं । तत्र "प्रवृत्ताः" भवन्ति । हे "विबुधाः" यूयं । "वदताद्य" अस्मिन् समये । "तेषां" "विषयहठचौराणां" "रणे के सुभटाः" "शक्ताः" भवन्ति । न केऽपीति भावः । इति शिवम् ॥ (मोटी_१,११.२८ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकादशः सर्गः ॥ १,११ ॥




समनन्तरम् एव प्रकृतां श्रीनिन्दां विस्तरेण कथयति

इयम् अस्मिन् विनोदाय संसारे परिकल्पिता ।
श्रीर् मुने परिमोहाय सापि नूनम् अनर्थदा ॥ (मो_१,१२.१ ॥

"नूनं" निश्चयेन । "अनर्थदे"ति विशेषणद्वारहेतुः ॥ (मोटी_१,१२.१ ॥

अनर्थदत्वम् एवास्याः कथयति

उल्लासबहुलान् अन्तः कल्लोलान् अक्रमाकुलान् ।
जडान् प्रस्रवति स्फारान् प्रावृषीव तरङ्गिणी ॥ (मो_१,१२.२ ॥

इयं श्रीः "उल्लासबहुलान्" उल्लासपूर्णान् । "अक्रमाकुलान्" क्रमोल्लङ्घननिर्भ-रान् । तथा "जडान्" जाड्यदायित्वात् जडरूपान् । "कल्लोलान्" दर्पाख्यान् महातरङ्गान् । "प्रस्रवति" उत्पादयति । का "इव" । "तरङ्गिणीव" । यथा "तरङ्गिणी" "प्रावृषि" वर्षाकाले । उक्तविशेषणान् महातरङ्गान् प्रस्रवति । तथेत्य् अर्थः ॥ (मोटी_१,१२.२ ॥

चिन्तादुहितरो बह्व्यो भूरिदुर्ललितेरिताः ।
चञ्चलाः प्रभवन्त्य् अस्यास् तरङ्गाः सरितो यथा ॥ (मो_१,१२.३ ॥

"भूरीणि" यानि "दुर्ललितानि" दुर्विलासाः । तैर् "ईरिताः" चञ्चलिताः । उत्थापिता इति यावत् ॥ (मोटी_१,१२.३ ॥

एषा हि पदम् एकत्र न निबध्नाति दुर्भगा ।
मुग्धेवानियताचारम् इतश् चेतश् च धावति ॥ (मो_१,१२.४ ॥

"हि" निश्चये । "अनियताचारं" कामचारत इत्य् अर्थः । क्रियाविशेषणम् एतत् ॥ (मोटी_१,१२.४ ॥

जनयन्ती परं दाहम् परामृष्टाङ्गिका सती ।
विनाशम् एव धत्तेऽन्तर् दीपलेखेव कज्जलम् ॥ (मो_१,१२.५ ॥

स्पष्टम् ॥ (मोटी_१,१२.५ ॥

गुणागुणविचारेण विनैव किल पार्श्वगम् ।
राजप्रकृतिवन् मूढा दुरारूढावलम्बते ॥ (मो_१,१२.६ ॥

"राजप्रकृतिवत्" राजस्वभाववत् । राजापि हि "गुणागुणविचार"रहितम् एव "पार्श्वगम्" "अवलम्बते" ॥ (मोटी_१,१२.६ ॥

कर्मणा तेन तेनैषा विस्तारम् उपगच्छति ।
दोषाशीविषवेगस्य यत् क्षीरविसरायते ॥ (मो_१,१२.७ ॥

"क्षीरस्य" "विसरः" सेकः । स इवाचरते "क्षीरविसरायते" ॥ (मोटी_१,१२.७ ॥

तावच् छीतमृदुस्पर्शः परस्वे च जने जनः ।
वात्ययेव हिमं यावच् छ्रिया न परुषीकृतः ॥ (मो_१,१२.८ ॥

श्रीस्पर्शे "जनः" "स्वस्मिन् परे च" महाकठिन एव भवतीति पिण्डार्थः । "वात्या" हि "हिमम्" "परुषीकरोती"त्य् उपमानत्वेन गृहीता ॥ (मोटी_१,१२.८ ॥

प्राज्ञाः शूराः कृतज्ञाश् च पेशला मृदवश् च ये ।
पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥ (मो_१,१२.९ ॥

स्पष्टम् ॥ (मोटी_१,१२.९ ॥

न श्रीः सुखाय भगवन् दुःखायैव हि कल्पते ।
गुप्तं विनाशनं धत्ते मृतिं विषलता यथा ॥ (मो_१,१२.१० ॥

स्पष्टम् ॥ (मोटी_१,१२.१० ॥

श्रीमान् अजननिन्द्यश् च शूरश् चाप्य् अविकत्थनः ।
समदृष्टिः प्रभुश् चैव दुर्लभाः पुरुषास् त्रयः ॥ (मो_१,१२.११ ॥

श्रिया स्पृष्टः साहङ्कारत्वेन जननिन्द्य एव भवतीति भावः ॥ (मोटी_१,१२.११ ॥

एषा हि विषमा दुःखभोगिनां गहना गुहा ।
घनमोहगजेन्द्राणां विन्ध्यशैलमहाटवी ॥ (मो_१,१२.१२ ॥

स्पष्टं ॥ (मोटी_१,१२.१२ ॥

पुनः कीदृश्य् अस्तीत्य् अपेक्षायाम् आह

सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका ।
सद्दृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥ (मो_१,१२.१३ ॥

"कल्लोलाः" दर्परूपाः महातरङ्गाः ॥ (मोटी_१,१२.१३ ॥

सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी ।
केदारिका विकल्पानां खदा कुभयभोगिनाम् ॥ (मो_१,१२.१४ ॥

"खदा" गुहा । "कुभयानि" एव "भोगिनः" सर्पाः । तेषाम् ॥ (मोटी_१,१२.१४ ॥

हिमं वैराग्यवल्लीनां विकारोलूकयामिनी ।
राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥ (मो_१,१२.१५ ॥

स्पष्टम् ॥ (मोटी_१,१२.१५ ॥

इन्द्रायुधवद् आलोलनानारागमनोहरा ।
लोला तडिद् इवोत्पन्नध्वंसिनी जडसंश्रया ॥ (मो_१,१२.१६ ॥

स्पष्टम् ॥ (मोटी_१,१२.१६ ॥

चपला वर्जिता रत्या नकुली नकुलीनजा ।
विप्रलम्भनतात्पर्यहेतूग्रमृगतृष्णिका ॥ (मो_१,१२.१७ ॥

"चपला" चापल्यगुणसहिता । अत एव "रत्या" "वर्जिता" कुत्रापि रतिम् अकुर्वतीत्य् अर्थः । तथा "नकुली" अतिचापलत्वेन नकुलस्त्रीसरूपा । तथा "नकुलीनजा" दुष्टा । अकुलीनजो हि दुष्टो भवति । तथा "विप्रलम्भने" परवञ्चने । यत् "तात्पर्यम्" । तस्य "हेतुश्" चासौ "उग्रमृगतृष्णिका" कठिनमृगतृष्णास्वरूपा ॥ (मोटी_१,१२.१७ ॥

लहरीवैकरूपेण क्षणम् पदम् अकुर्वती ।
चला दीपशिखेवाति दुर्ज्ञेयागतिगोचरा ॥ (मो_१,१२.१८ ॥

न "गतौ" गमने गोचरा "अगतिगोचरा" । "दीपशिखा"पि गतौ अगोचरा एव भवति ॥ (मोटी_१,१२.१८ ॥

सिंहीव विग्रहव्यग्रकरीन्द्रकुलपातिनी ।
खड्गधारेव शिशिरा तीक्ष्णा तीक्ष्णाशयाश्रया ॥ (मो_१,१२.१९ ॥

"विग्रहव्यग्रं" युद्धव्यग्रं । यत् "करीन्द्रकुलं" हस्तिकुलं । तत्र पततीति तादृशी तत्साध्यत्वात् । "सिंही" चेदृशी भवति । "शिशिरा" आमुखे सन्तापहरित्वात् । "तीक्ष्णाशयाः" कठिनचिन्ताः । "आश्रयः" यस्याः । सा ॥ (मोटी_१,१२.१९ ॥

नानयोपहतार्थिन्या दुराधिपरिपीनया ।
पश्याम्य् अभव्यया लक्ष्म्या किञ्चिद् दुःखाद् ऋते सुखम् ॥ (मो_१,१२.२० ॥

"उपहतान्" अज्ञानबाधितान् । "अर्थते" आलम्बनत्वेन काङ्क्षतीति तादृश्या ॥ (मोटी_१,१२.२० ॥

द्वारेणोत्सारिता लक्ष्मीः पुनर् एति तमोऽरिणा ।
अहो वत हृतस्थाना निर्लज्जा दुर्जनास्पदा ॥ (मो_१,१२.२१ ॥

"तमोऽरिणा" गेहान्तर्गततमोनिवारणार्थं कल्पितेन क्षुद्रद्वारेण ॥ (मोटी_१,१२.२१ ॥ सर्गान्तश्लोकेन श्रीनिन्दां समापयति

मनोरमा कर्षति चित्तवृत्तिं
कदर्यसाध्या क्षणभङ्गुरा च ।
व्यालावलीगर्भनिवृत्तदेहा
श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥ (मो_१,१२.२२ ॥

"कदर्यसाध्या" कुकर्मसाध्या । श्रीपक्षे "व्यालावली" दुःखावली । इति शिवम् ॥ (मोटी_१,१२.२२ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वादशः सर्गः ॥ १,१२ ॥




एवं श्रीनिन्दां कृत्वा जीवितनिन्दां करोति

आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
उन्मत्तम् इव सन्त्यज्य यात्य् अकाण्डे शरीरकम् ॥ (मो_१,१३.१ ॥

"आयुः" जीवितं । "याती"ति सम्बन्धः । "अकाण्डे" असमये । तत्सम्मतिरूपं समयम् उल्लङ्घ्येति यावत् ॥ (मोटी_१,१३.१ ॥

विषयाशीर्विषासङ्गपरिजर्जरचेतसाम् ।
अप्रौढात्मविवेकानाम् आयुर् आयासकारणम् ॥ (मो_१,१३.२ ॥

स्पष्टम् ॥ (मोटी_१,१३.२ ॥

ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।
भावाभावसमाश्वस्ता आयुस् तेषां सुखायते ॥ (मो_१,१३.३ ॥

"विश्रान्ता" आत्मत्वे निश्चिताः । "वितते" अपरिमिते । "भावाभावेषु" प्रवाहागतेषु नाशोत्पादेषु । "समाश्वस्ताः" स्वभावाद् अप्रच्युताः ॥ (मोटी_१,१३.३ ॥

वयम् परिमिताकारपरिनिष्ठितनिश्चयाः ।
संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥ (मो_१,१३.४ ॥

"परिमितः" पारिमित्ययुक्तः । यः "आकारः" देहादिरूपः आकारः । तत्र "परिनिष्ठितः" निष्ठां गतः । "निश्चयः" आत्मनिश्चयः । येषां । ते । "निर्वृतिर्" हि अपरिमितस्वरूपनिष्ठत्वम् इति भावः ॥ (मोटी_१,१३.४ ॥

युज्यते वेष्टनं वायाव् आकाशस्य च खण्डनम् ।
ग्रथनं च तरङ्गाणाम् आस्था नायुषि युज्यते ॥ (मो_१,१३.५ ॥

"आस्था" दृढताविश्वासः ॥ (मोटी_१,१३.५ ॥

पेलवं शरदीवाभ्रम् अस्नेहम् इव दीपकम् ।
तरङ्गकम् इवालोलं गतम् एवोपलक्ष्यते ॥ (मो_१,१३.६ ॥

आयुर् इति शेषः । "पेलवं" लघु ॥ (मोटी_१,१३.६ ॥

तरङ्गप्रतिबिम्बेन्दुं तडित्पुञ्जं नभोऽम्बुदम् ।
ग्रहीतुम् आस्थाम् बध्नामि न त्व् आयुषि गतस्थितौ ॥ (मो_१,१३.७ ॥

स्पष्टम् ॥ (मोटी_१,१३.७ ॥

अविश्रान्तमनाः शून्यम् आयुर् आततम् ईहते ।
दुःखायैव विमूढोऽन्तर् गर्भम् अश्वतरी यथा ॥ (मो_१,१३.८ ॥

"अश्वतरी" खरस्त्रियाम् अश्वाज् जाता वडवा । तस्या "गर्भः" कुक्षिपाटनं विना न निर्याति ॥ (मोटी_१,१३.८ ॥

संसारसंसृताव् अम्भःफेनोऽस्मिन् सर्गसागरे ।
कायवल्ल्यां रसो राजञ् जीवितम् मे न रोचते ॥ (मो_१,१३.९ ॥

"सर्गसागरे" कथम्भूते । "संसारे" "संसृतिः" संसरणं । यस्य । तादृशे । "अम्भःफेनः" अम्भोविकारः फेनः । दशरथम् प्रति इयम् उक्तिः ॥ (मोटी_१,१३.९ ॥

प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते ।
पराया निर्वृतेः स्थानं यत् तज् जीवितम् उच्यते ॥ (मो_१,१३.१० ॥

"पराया" उत्कृष्टायाः ॥ (मोटी_१,१३.१० ॥

तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य मननेन न जीवति ॥ (मो_१,१३.११ ॥

"मननेन" भोगानुसन्धानेन ॥ (मोटी_१,१३.११ ॥

जातास् त एव जगति जन्तवः साधुजीविताः ।
ये पुनर् नेह जायन्ते शेषा जानीत गर्दभाः ॥ (मो_१,१३.१२ ॥

यूयं "जानीत" । किम् इत्य् अपेक्षायाम् आह । "शेषा" इति । "शेषा" "गर्दभाः" भवन्ति ॥ (मोटी_१,१३.१२ ॥

भारोऽविवेकिनः शास्त्रम् भारो ज्ञानं च रागिणः ।
अशान्तं च मनो भारो भारोऽनात्मविदो वपुः ॥ (मो_१,१३.१३ ॥

"अविवेकिनः" विवेकरहितस्य । "भार"त्वं च "शास्त्रा"देः सम्यग्ज्ञानाद्यर्थक्रियाकारित्वाभावेन ज्ञेयम् ॥ (मोटी_१,१३.१३ ॥

रूपम् आयुर् मनो बुद्धिर् अहङ्कारस् तथेहितम् ।
भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥ (मो_१,१३.१४ ॥

"दुर्धियः" बुद्धिरहितस्य । बुद्धिरहितो हि "रूपा"दौ समतया पारवश्यं याति । ततश् च दुःखे निमज्जति ॥ (मोटी_१,१३.१४ ॥

अविश्रान्तमनःपूर्णम् आपदाम् परमास्पदम् ।
नीडो रोगविहङ्गानाम् आयुर् आयासनं दृढम् ॥ (मो_१,१३.१५ ॥

"आयुः" कथम्भूतम् । "अविश्रान्तम्" परमपदविश्रान्तिरहितं । यन् "मनस्" । तेन "पूर्णम्" ॥ (मोटी_१,१३.१५ ॥

प्रत्यहं खेदम् उत्सृज्य शनैर् अलम् अनारतम् ।
आश्व् एव जन्मनः श्वभ्रं कालेन विनिखन्यते ॥ (मो_१,१३.१६ ॥

कालनाश्यत्वं हि आयुषः प्रसिद्धम् ॥ (मोटी_१,१३.१६ ॥

शरीरबिलविश्रान्तैर् विषदाहप्रदायिभिः ।
रोगैर् निपीयते रौद्रैर् व्यालैर् इव वनानिलः ॥ (मो_१,१३.१७ ॥

आयुर् इति शेषः ॥ (मोटी_१,१३.१७ ॥

प्रसुवानैर् अवच्छेदं तुच्छैर् अन्तरवासिभिः ।
दुःखैर् आकृष्यते क्रूरैर् घुणैर् इव जरद्द्रुमः ॥ (मो_१,१३.१८ ॥

"अवच्छेदं" छेदनम् । "प्रसुवानैर्" उत्पादयद्भिः । "आकृष्यते" स्ववशं नीयते ॥ (मोटी_१,१३.१८ ॥

नूनं निगिरणायाशु घनगर्वम् अनारतम् ।
आखुर् मार्जारकेणेव मरणेनावलोक्यते ॥ (मो_१,१३.१९ ॥

"अवलोक्यते" कदा एतत् ग्रसे इति दृश्यते ॥ (मोटी_१,१३.१९ ॥

गर्वादिगुणगर्भिण्या शून्ययाशक्तिवश्यया ।
अन्नम् महाशनेनेव जरसा परिजीर्यते ॥ (मो_१,१३.२० ॥

"अशक्तिवश्यया" अशक्तिग्रस्तया ॥ (मोटी_१,१३.२० ॥

दिनैः कतिपयैर् एव परिज्ञाय गतादरम् ।
दुर्जनः सज्जनेनेव यौवनेनावमुच्यते ॥ (मो_१,१३.२१ ॥

स्पष्टम् ॥ (मोटी_१,१३.२१ ॥

विनाशसुहृदा नित्यं जरामरणबन्धुना ।
रूपं शिड्गवरेणेव कृतान्तेनाभिलष्यते ॥ (मो_१,१३.२२ ॥

स्पष्टम् ॥ (मोटी_१,१३.२२ ॥

सर्गान्तश्लोकेन जीवितनिन्दां समापयति

स्थिरतया सुखहारितया तया
सततम् उज्झितम् उत्तम फल्गु च ।
जगति नास्ति तथा गुणवर्जितम्
मरणमार्जितम् आयुर् इदं यथा ॥ (मो_१,१३.२३ ॥

"उत्तमे"त्य् आमन्त्रणम् । "फल्गु" निःसारम् । "मरणेन" "मार्जितं" सङ्क्षिप्तम् । इति शिवम् ॥ (मोटी_१,१३.२३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रयोदशः सर्गः ॥ १,१३ ॥




अधुनाहङ्कारनिन्दाम् प्रस्तौति

मुधैवाभ्युत्थितो मोहान् मुधैव परिवर्धते ।
मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥ (मो_१,१४.१ ॥

"मिथ्यामयेन" मिथ्यास्वरूपेण ॥ (मोटी_१,१४.१ ॥

अहङ्कारवशाद् एव दोषकोशः कदर्थनाम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः ॥ (मो_१,१४.२ ॥

"कदर्थनां" दुःखम् ॥ (मोटी_१,१४.२ ॥

अहङ्कारवशाद् आपद् अहङ्काराद् दुराधयः ।
अहङ्कारवशाद् ईहाप्य् अहङ्कारो महामयः ॥ (मो_१,१४.३ ॥

"ईहा" भोगार्थं चेष्टा ॥ (मोटी_१,१४.३ ॥

तम् अहङ्कारम् आश्रित्य परमं चिरवैरिणम् ।
न भुञ्जे न पिबाम्य् अम्भः किम् उ भोगान् भजे मुने ॥ (मो_१,१४.४ ॥

स्पष्टम् ॥ (मोटी_१,१४.४ ॥

संसाररज्जुर् आदीर्घा मम चेतसि मोहिनी ।
तताहङ्कारदोषेण किरातेनेव वागुरा ॥ (मो_१,१४.५ ॥

"अहङ्कारदोषेणा"हङ्काराख्येन दोषेण ॥ (मोटी_१,१४.५ ॥

यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहङ्कारात् प्रसूतानि तान्य् अगात् खदिरा इव ॥ (मो_१,१४.६ ॥

"अगात्" पर्वतात् ॥ (मोटी_१,१४.६ ॥

शमेन्दोः सैंहिकेयास्यं गुणिपद्ममहाशनिम् ।
ज्ञानमेघशरत्कालम् अहङ्कारं त्यजाम्य् अहम् ॥ (मो_१,१४.७ ॥

स्पष्टम् ॥ (मोटी_१,१४.७ ॥

अहङ्कारत्यागम् एव करोति

नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।
शान्त आसितुम् इच्छामि स्वात्मन्य् एव जिनो यथा ॥ (मो_१,१४.८ ॥

देहस्यैव रामत्वात् । मम चिन्मात्रत्वाद् इति भावः । "शान्तः" अहङ्काररहितः ॥ (मोटी_१,१४.८ ॥

अहङ्कारवशाद् यद् यन् मया भुक्तं कृतं हृतम् ।
सर्वं तत् तद् अवस्त्व् एव वस्त्व् अहङ्काररिक्तता ॥ (मो_१,१४.९ ॥

"अहङ्काररिक्तता" अहङ्कारराहित्यम् ॥ (मोटी_१,१४.९ ॥

अहम् इत्य् अस्ति चेद् ब्रह्मन्न् अहम् आपदि दुःखितः ।
सम्पत्सु सुखितस् तस्माद् अनहङ्कारिता धनः ॥ (मो_१,१४.१० ॥

धनयुक्तस्य एव हि आपत्सु सम्पत्सु च दुःखादिस्पर्शो न भवतीति पूर्ववाक्ये भावः । फलितम् आह "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अनहङ्कारिता धनः" धनम् भवति । देहात्मत्वे निश्चितः पुरुषो हि देहार्थम् भोगजालम् इच्छन् भोगराहित्यरूपायाम् आपदि दुःखी भवति । तत्सम्पत्तिरूपायां सम्पदि सुखी भवति । चिन्मात्रात्मत्वे निश्चितोऽहं न तादृशो भवामीति भावः ॥ (मोटी_१,१४.१० ॥

अहङ्कारम् परित्याज्य मुने शान्तमनास् तथा ।
अवतिष्ठे गतोद्वेगो भोगौघेऽभङ्गुरास्पदम् ॥ (मो_१,१४.११ ॥

"अवतिष्ठे" तिष्ठामि । "अहङ्कारं" कथम्भूतम् । "भोगौघे" भोगसमूहे । "अभङ्गुरास्पदम्" अनश्वरप्रतिष्ठम् ॥ (मोटी_१,१४.११ ॥

ब्रह्मन् यावद् अहङ्कारवारिदः प्रविजृम्भते ।
तावद् विकासम् आयाति तृष्णाकुटजमञ्जरी ॥ (मो_१,१४.१२ ॥

स्पष्टम् ॥ (मोटी_१,१४.१२ ॥

अहङ्कारघने शान्ते तृष्णानवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यास्यति सत्वरम् ॥ (मो_१,१४.१३ ॥

स्पष्टम् ॥ (मोटी_१,१४.१३ ॥

अहङ्कारमहाविन्ध्ये मनोमत्तमतङ्गजः ।
विस्फूर्जति घनास्फोटैः स्तनितैर् इव वारिदः ॥ (मो_१,१४.१४ ॥

"विस्फूर्जति" विलसति । "घनास्फोटैः" निविडकर्णतालैः ॥ (मोटी_१,१४.१४ ॥

इह देहमहादर्यां घनाहङ्कारकेसरी ।
योऽयम् उल्लसति स्फारं तेनेदं जगद् आततम् ॥ (मो_१,१४.१५ ॥

अनहङ्कारित्वे हि सद् अपि जगन् नास्ति अपेक्षाविषयत्वाभावात् ॥ (मोटी_१,१४.१५ ॥

तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहङ्कारोग्रशिड्गेन कण्ठे मुक्तावली कृता ॥ (मो_१,१४.१६ ॥

"शिड्गो" हि "तन्तुप्रोताम्" "मुक्तावलीं" "कण्ठे" करोति ॥ (मोटी_१,१४.१६ ॥

पुत्रदारकलत्राणि तन्त्रम् मन्त्रविवर्जितम् ।
प्रसारितम् अनेनेह दुरहङ्कारवैरिणा ॥ (मो_१,१४.१७ ॥

स्पष्टम् ॥ (मोटी_१,१४.१७ ॥

प्रमार्जितेऽहम् इत्य् अस्मिन् पदे स्वयम् अखिद्यता ।
प्रमार्जिता भवन्त्य् एव सर्वा एव दुराधयः ॥ (मो_१,१४.१८ ॥

स्पष्टम् ॥ (मोटी_१,१४.१८ ॥

अहम् इत्य् अम्बुदे शान्ते शनैः सुशमशालिनि ।
मनोमननसम्मोहमिहिका क्वापि गच्छति ॥ (मो_१,१४.१९ ॥

"मनसः" यः "मननसम्मोहः" मननरूपः । स एव "मिहिका" नीहारः ॥ (मोटी_१,१४.१९ ॥

निरहङ्कारवृत्तेर् मे मौर्ख्याच् छोकेन सीदतः ।
यत् किञ्चिद् उचितम् ब्रह्मंस् तद् आख्यातुम् इहार्हसि ॥ (मो_१,१४.२० ॥

प्रथमम् अहङ्कारं स्वयम् एव त्यजामि । पश्चात् त्वदुक्तं करोमीति भावः ॥ (मोटी_१,१४.२० ॥

सर्गान्तश्लोकेनाहङ्कारनिन्दां समापयति

सर्वापदां निलयम् अध्रुवम् अन्तरस्थम्
उन्मुक्तम् उत्तमगुणेन न संश्रयामि ।
यत्नाद् अहङ्कृतिपदम् परितोऽतिदुःखम्
शेषेण मां समनुशाधि महानुभाव ॥ (मो_१,१४.२१ ॥

"अहङ्कृतिपदम्" अहङ्कृत्याख्यं स्थानम् । "शेषेणे"ति अहङ्काराश्रयणं त्यक्त्वा यत् किञ्चित् समाज्ञापयसि तत् सम्पादयामीति भावः । अहङ्कारश् च इदन्ताविषयत्वयोग्ये देहे अहन्ताविषयत्वसञ्जननं ज्ञेयम् । इति शिवम् ॥ (मोटी_१,१४.२१ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्दशः सर्गः ॥ १,१४ ॥




एवम् अहङ्कारनिन्दां कृत्वा चित्तनिन्दाम् प्रस्तौति

दोषैर् जर्जरतां यातं सत्कार्याद् आर्यसेवितात् ।
वातात्तपिञ्छलववच् चेतश् चलति चञ्चलम् ॥ (मो_१,१५.१ ॥

"दोषैः" रागादिदोषैः । "सत्कार्यात्" "चलति" सत्कार्ये स्थैर्येण न तिष्ठतीत्य् अर्थः ॥ (मोटी_१,१५.१ ॥

इतश् चेतश् च सुव्यग्रं व्यर्थम् एवाभिधावति ।
दूराद् दूरतरं दीनं ग्रामे कौलेयको यथा ॥ (मो_१,१५.२ ॥

"कौलेयकः" श्वा ॥ (मोटी_१,१५.२ ॥

न प्राप्नोति क्वचित् किञ्चित् प्राप्तैर् अपि महाधनैः ।
नान्तः सम्पूर्णताम् एति करण्डक इवाम्बुभिः ॥ (मो_१,१५.३ ॥

किञ्चित् प्राप्तो हि पुनः किञ्चिद् "अपि" न प्रार्थयेद् इति भावः ॥ (मोटी_१,१५.३ ॥

नित्यम् एव मनः शून्यं कदाशावागुरावृतम् ।
न मनाङ् निर्वृतिं याति मृगो यूथाद् इव च्युतः ॥ (मो_१,१५.४ ॥


"शून्यं" निःसारम् ॥ (मोटी_१,१५.४ ॥

तरङ्गतरलां वृत्तिं दधद् आलूनशीर्णताम् ।
परित्यज्य क्षणम् अपि न मनो याति निर्वृतिम् ॥ (मो_१,१५.५ ॥


"आलूनशीर्णतां" हस्तस्पर्शासहत्वम् । मतिचाञ्चल्यम् इति यावत् ॥ (मोटी_१,१५.५ ॥

मनो मननविक्षुब्धं दिशो दश विधावति ।
मन्दराहननोद्भूतं क्षीरार्णवपयो यथा ॥ (मो_१,१५.६ ॥

"मननविक्षुब्धम्" भोगानुसन्धानक्षुब्धम् ॥ (मोटी_१,१५.६ ॥

कल्लोलकलनावर्तम् मायामकरमालितम् ।
न निरोद्धुं समर्थोऽस्मि मनोमोहमहार्णवम् ॥ (मो_१,१५.७ ॥


"कल्लोल"रूपा या "कलना" सङ्कल्पः । सैव्"आवर्तः" यस्य । तत् । "माया" विपर्ययज्ञानम् ॥ (मोटी_१,१५.७ ॥

भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातम् अचिन्तयन् ।
मनोहरिणको ब्रह्मन् दूरं विपरिधावति ॥ (मो_१,१५.८ ॥


स्पष्टम् ॥ (मोटी_१,१५.८ ॥


न कदाचन मे चेतस् ताम् आलूनविशीर्णताम् ।
त्यजत्य् आकुलया वृत्त्या चञ्चलत्वम् इवार्णवः ॥ (मो_१,१५.९ ॥


"आलूनविशीर्णतां" हस्तस्पर्शासहत्वं । मतिचाञ्चल्यम् इति यावत् ॥ (मोटी_१,१५.९ ॥

चेतश् चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।
धृतिम् बध्नाति नैकत्र केसरी पञ्जरे यथा ॥ (मो_१,१५.१० ॥


"चिन्तानिचयेन" चिन्तासमूहेन । "चञ्चुरं" निर्भरम् ॥ (मोटी_१,१५.१० ॥

मनो मोहरथारूढं शरीराच् छमतासुखम् ।
हरत्य् उपगतोद्योगं हंसः क्षीरम् इवाम्भसः ॥ (मो_१,१५.११ ॥


स्पष्टम् ॥ (मोटी_१,१५.११ ॥

अनल्पकल्पनातल्पे निलीनाश् चित्तवृत्तयः ।
मुनीन्द्र न प्रबुध्यन्ते तेन तप्तोऽहम् आकुलः ॥ (मो_१,१५.१२ ॥


कल्पनाग्रस्तम् एव सदासन्मनोऽस्तीति भावः ॥ (मोटी_१,१५.१२ ॥

क्रोडीकृतदृढग्रन्थितृष्णासूत्रोम्भितात्मना ।
विहगो जालकेनेव ब्रह्मन् बद्धोऽस्मि चेतसा ॥ (मो_१,१५.१३ ॥


"ग्रन्थयो"ऽत्र रागादिरूपा ज्ञेयाः ॥ (मोटी_१,१५.१३ ॥

सततामर्षधूमेन चिन्ताज्वालाबिलेन च ।
वह्निनेव तृणं शुष्कम् मुने दग्धोऽस्मि चेतसा ॥ (मो_१,१५.१४ ॥


"सततम् अमर्षः" क्रोध एव । "धूमः" यस्य । तादृशेन ॥ (मोटी_१,१५.१४ ॥

क्रूरेण जडतां यातस् तृष्णाभार्यानुगामिना ।
शवः कौलेयकेनेव ब्रह्मन् भुक्तोऽस्मि चेतसा ॥ (मो_१,१५.१५ ॥


स्पष्टम् ॥ (मोटी_१,१५.१५ ॥

तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।
तटवृक्ष इवौघेन ब्रह्मन् नीतोऽस्मि चेतसा ॥ (मो_१,१५.१६ ॥


"तरङ्ग"वत् "तरलास्फाला" अत्यन्तचञ्चला । "वृत्तिः" यस्य । तादृशेन ॥ (मोटी_१,१५.१६ ॥

अवान्तरनिपाताय शून्येनाक्रमणाय च ।
तृणं चण्डानिलेनेव दूरे नुन्नोऽस्मि चेतसा ॥ (मो_१,१५.१७ ॥


"अवान्तरेषु" भोगरूपेषु परमविश्रान्तिरहितेषु पदेषु । यः "निपातस्" । तस्मै । "आक्रमणाय" आक्रमणार्थं । "शून्येने"ति मनोविशेषणम् ॥ (मोटी_१,१५.१७ ॥

संसारजलधेर् अस्मान् नित्यम् उत्तरणोन्मुखः ।
सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥ (मो_१,१५.१८ ॥


स्पष्टम् ॥ (मोटी_१,१५.१८ ॥

पातालाद् गच्छता पृष्ठम् पृष्ठात् पातालगामिना ।
कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥ (मो_१,१५.१९ ॥


स्पष्टम् ॥ (मोटी_१,१५.१९ ॥

मिथ्यैव स्फाररूपेण विचारविशरारुणा ।
बालो वेतालकेनेव गृहीतोऽस्मि स्वचेतसा ॥ (मो_१,१५.२० ॥


"गृहीतः" स्ववशीकृतः ॥ (मोटी_१,१५.२० ॥

वह्नेर् उष्णतरः शैलाद् अपि कष्टतरक्रमः ।
वज्राद् अपि दृढो ब्रह्मन् दुर्निग्रहमनोग्रहः ॥ (मो_१,१५.२१ ॥


"कष्टतरः" "क्रमः" उल्लङ्घनं यस्य । सः "कष्टतरक्रमः" । "दुर्निग्रहं" दुःखेन निर्ग्रहीतुं शक्यं । यत् "मनः" । तस्य "ग्रहः" ग्रहनं । "दुर्निग्रहमनोग्रहः" ॥ (मोटी_१,१५.२१ ॥

चेतः पतति कार्येषु विहगश् चामिषेष्व् इव ।
क्षणेन विरतिं याति बालः क्रीडनकाद् इव ॥ (मो_१,१५.२२ ॥


स्पष्टम् ॥ (मोटी_१,१५.२२ ॥

जडप्रकृतिर् आलोलो विततावर्तवृत्तिमान् ।
मनोऽब्धिर् ईहितव्यालो दूरान् नयति तात माम् ॥ (मो_१,१५.२३ ॥


"जडप्रकृतिः" जडस्वभावः शीतप्रकृतिश् च । "विततावर्ता" एव "वृत्तयः" यस्य । सः । "ईहितानि" काङ्क्षितानि एव "व्यालाः" सर्पाः । यस्य । सः । चेष्टायुक्तसर्पाश् च यस्मिन् । सः । "दूरान्" "नयति" नानाविषयेषु भ्रमयति ॥ (मोटी_१,१५.२३ ॥

यदीदृशम् मनस् तवास्ति तर्हि तस्य निग्रहं कुर्व् इत्य् । अत्राह

अप्य् अब्धिपानान् महतः सुमेरूल्लङ्घनाद् अपि ।
अपि वह्न्यशनात् साधो विषमश् चित्तनिग्रहः ॥ (मो_१,१५.२४ ॥


स्पष्टम् ॥ (मोटी_१,१५.२४ ॥

ननु चित्तनिग्रहो दुःसाध्य एव भवतु । किं तेन सेत्स्यतीत्य् । अत्राह

चित्तं कारणम् अर्थानां तस्मिन् सति जगत्त्रयम् ।
तस्मिन् क्षीणे जगत् क्षीणं तच् चिकित्स्यम् प्रयत्नतः ॥ (मो_१,१५.२५ ॥


स्पष्टम् ॥ (मोटी_१,१५.२५ ॥


चित्ताद् इमानि सुखदुःखशतानि नूनम्
अभ्यागतान्य् अगवराद् इव काननानि ।
तस्मिन् विवेकवशतस् तनुताम् प्रयाते
मन्ये मुने निपुणम् एव गलन्ति तानि ॥ (मो_१,१५.२६ ॥


"इमानि" अनुभूयमानानि । "अगवरात्" पर्वतश्रेष्ठात् । "निपुणं" सम्यक् ॥ (मोटी_१,१५.२६ ॥

सर्गान्तश्लोकेन चित्तनिन्दां समापयति

सकलगुणजयाशा यत्र बद्धा महद्भिस्
तम् अरिम् इह विजेतुं चित्तम् अभ्युत्थितोऽहम् ।
विगतरतितयान्तर् नाभिनन्दामि लक्ष्मीं
जडमलिनविशालाम् मेघमालाम् इवेन्दुः ॥ (मो_१,१५.२७ ॥


"यत्र" यस्मिन् मनसि । "अभ्युत्थितः" उद्योगयुक्तो जातः । इति शिवम् ॥ (मोटी_१,१५.२७ ॥



इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चदशः सर्गः ॥ १,१५ ॥




एवम् मनोनिन्दां कृत्वा तृष्णानिन्दाम् प्रस्तौति

हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया ।
चरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥ (मो_१,१६.१ ॥

"चेतनाकाशे" चित्ताकाशे । "दोषाः" रागादयः । युक्तं च शर्वर्यां कौशिकच-रणम् ॥ (मोटी_१,१६.१ ॥

अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।
पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥ (मो_१,१६.२ ॥

"समूढं" धृतं । "रसमार्दवम्" आस्वादकृतं जलकृतं च मार्दवं ये-न । सः । "चिन्ता" चात्र तृष्णा एव ज्ञेया । तृष्णायाः चिन्तारूपत्वानपायात् । एवम् उत्तरत्रापि ज्ञेयम् ॥ (मोटी_१,१६.२ ॥

मम चित्तमहारण्ये व्यामोहतिमिराकुले ।
शून्ये ताण्डविनी मत्ता भृशम् आशा पिशाचिका ॥ (मो_१,१६.३ ॥

"आशा" तृष्णा ॥ (मोटी_१,१६.३ ॥

रजोरचितनीहारा काञ्चनावचयोज्ज्वला ।
नूनं विकासम् आयाति चिन्ता मेऽशोकमञ्जरी ॥ (मो_१,१६.४ ॥

"नूनं" निश्चये । "चिन्ता" "अशोकमञ्जरी" "मे" "विकासम्" "आयाति" । कथम्भूता । "रजसा" स्वयम् उत्पादितेन लोभेन । "रचितः" "नीहारः" जाड्यं यया । सा । "रजसा" परा-गेण । "रचितः" उत्पादितः । "नीहारः" यया सेति च । "काञ्चनावचयेन" काञ्चनसङ्ग्रहेण । "उज्ज्वला" ज्वलन्ती । काञ्चनावचयवत् उज्ज्वला च ॥ (मोटी_१,१६.४ ॥

अलम् अन्तर् भ्रमायैषा तृष्णा कवलिताशया ।
आयाता विमलोल्लासम् ऊर्मिर् अम्बुनिधाव् इव ॥ (मो_१,१६.५ ॥

"अन्तर्" मनसि । "भ्रमाय" मिथ्याज्ञानाय ॥ (मोटी_१,१६.५ ॥

उद्दामकल्लोलरवा देहाद्रौ वहतीव मे ।
तरङ्गिततराकारा तरतृष्णातरङ्गिणी ॥ (मो_१,१६.६ ॥

तरन्ती चासौ तृष्णातरङ्गिणी "तरतृष्णातरङ्गिणी" ॥ (मोटी_१,१६.६ ॥

वेगं संरोद्धुम् उदितो वात्ययेव जरत्तृणम् ।
नीतः कलुषया क्वापि धियायं चित्तचातकः ॥ (मो_१,१६.७ ॥

"वेगं" स्वकीयं वेगं । "धिया" तृष्णाविष्टया बुद्ध्या ॥ (मोटी_१,१६.७ ॥

यां याम् अहम् अधीतास्थाम् आश्रयामि गुणश्रियम् ।
तां तां कृन्तति मे तृष्णा तन्त्रीम् इव कुमूषिका ॥ (मो_१,१६.८ ॥

"अधीतास्थाम्" शिक्षितदार्ढ्यं । दृढाम् इति यावत् ॥ (मोटी_१,१६.८ ॥

पयसीव जरत्पर्णं वायाव् इव जरत्तृणम् ।
नभसीव शरन्मेघश् चिन्ताचक्रे भ्रमाम्य् अहम् ॥ (मो_१,१६.९ ॥

"चिन्ताचक्रे" तृष्णाचक्रे ॥ (मोटी_१,१६.९ ॥

गन्तुम् आस्पदम् आत्मीयम् असमर्थधियो वयम् ।
चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ (मो_१,१६.१० ॥

"आत्मीयम् आस्पदम्" परमात्मतत्त्वाख्यं निजं स्थानम् ॥ (मोटी_१,१६.१० ॥

तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा ।
यथा दाहोपशमनम् आशङ्के नामृतैर् अपि ॥ (मो_१,१६.११ ॥

स्पष्टम् ॥ (मोटी_१,१६.११ ॥

दूरं दूरम् इतो गत्वा समेत्य च पुनः पुनः ।
भ्रमत्य् आशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥ (मो_१,१६.१२ ॥

स्पष्टम् ॥ (मोटी_१,१६.१२ ॥

जडसंसङ्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।
क्षुब्धा ग्रन्थिमती नित्यम् अरघट्टोग्ररज्जुवत् ॥ (मो_१,१६.१३ ॥

"ग्रन्थिमती" रागादिग्रन्थियुक्ता ॥ (मोटी_१,१६.१३ ॥

अन्तर् ग्रथितया देहे सम्भ्रमोच्छिद्यमानया ।
रज्ज्वेवाशु बलीवर्दस् तृष्णया वाह्यते जनः ॥ (मो_१,१६.१४ ॥

"देहे" शरीरे । "सम्भ्रमेण" न तु युक्त्या । "उच्छिद्यमानया" नाशयितुम् आरब्धया । "वाह्यते" यत्र तत्र नीयते ॥ (मोटी_१,१६.१४ ॥

पुत्रदारकलत्रादितृष्णया नित्यकृष्णया ।
खगेष्व् इव किरात्येह जालं लोकेषु रच्यते ॥ (मो_१,१६.१५ ॥

"पुत्रादिभिर्" एव हि लोकः संसारे बन्धम् आप्नोति ॥ (मोटी_१,१६.१५ ॥

भाययत्य् अपि धीरेहम् अन्धयत्य् अपि सेक्षणम् ।
खेदयत्य् अपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥ (मो_१,१६.१६ ॥

स्पष्टम् ॥ (मोटी_१,१६.१६ ॥

कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।
दहत्य् अपि मनाक् स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥ (मो_१,१६.१७ ॥

स्पष्टम् ॥ (मोटी_१,१६.१७ ॥

भिनत्ति हृदयम् पुंसाम् मायामयविधायिनी ।
दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥ (मो_१,१६.१८ ॥

"माया" एव्"आमयः" रोगस् । तं करोतीति तादृशी । "दौर्भाग्यदायिनी" वैवर्ण्यकारिणी ॥ (मोटी_१,१६.१८ ॥

तन्द्रातन्त्रीगणं कोशे दधाना परिवेष्टितम् ।
नानन्दे राजते ब्रह्मंस् तृष्णाजर्जरवल्लकी ॥ (मो_१,१६.१९ ॥

"तन्द्राः" विषयेष्व् अवसादाः । ता एव "तन्त्र्यस्" । तासां "गणस्" । तं "परिवेष्टितं" सम्यक् बद्धं । "आनन्दे" विश्रान्त्यवस्थारूपे आनन्दे नाट्ये च ॥ (मोटी_१,१६.१९ ॥

नित्यम् एवातिमलिना कटुकोन्मादशालिनी ।
दीर्घा तन्वी घनस्नेहा तृष्णागह्वरवल्लरी ॥ (मो_१,१६.२० ॥

"तृष्णा" एव "गह्वरवल्लरी" श्वभ्रलता ॥ (मोटी_१,१६.२० ॥

अनानन्दकरी शून्या निष्फलात्यर्थम् उन्नता ।
अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥ (मो_१,१६.२१ ॥

"क्षीणा मञ्जरी" निस्सारा मञ्जरी ॥ (मोटी_१,१६.२१ ॥

अनावर्जितचित्तापि सर्वम् एवानुधावति ।
न चाप्नोति फलं किञ्चित् तृष्णा जीर्णेव कामिनी ॥ (मो_१,१६.२२ ॥

"अनावर्जितचित्ता" अरम्यत्वाद् अवशीकृतजनहृदया ॥ (मोटी_१,१६.२२ ॥

संसारनृत्ते महति नानारससमाकुले ।
भुवनाभोगरङ्गेषु तृष्णा जरढनर्तकी ॥ (मो_१,१६.२३ ॥

"नानारसाः" सुखादिरूपाः शृङ्गारादिरूपाश् च ॥ (मोटी_१,१६.२३ ॥

जरा कुसुमिता रूढा पातोत्पातफलावलिः ।
संसारजङ्गले दीर्घे तृष्णाविषलता तता ॥ (मो_१,१६.२४ ॥

"रूढा" प्ररोहं गता ॥ (मोटी_१,१६.२४ ॥

यन् न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् ।
नृत्यत्य् आनन्दरहितं तृष्णा जीर्णेव नर्तकी ॥ (मो_१,१६.२५ ॥

स्पष्टम् ॥ (मोटी_१,१६.२५ ॥

भृशं स्फुरति नीहारे शाम्यत्य् आलोक आगते ।
दुःखौघेषु पदं धत्ते तृष्णाचपलवर्हिणी ॥ (मो_१,१६.२६ ॥

"नीहारे" मोहे । "आलोके" ज्ञाने ॥ (मोटी_१,१६.२६ ॥

जडकल्लोलबहला चिरं शून्यतरान्तरा ।
क्षणम् उल्लासम् आयाति तृष्णाप्रावृट्तरङ्गिणी ॥ (मो_१,१६.२७ ॥

"जडकल्लोलैः" जाड्यरूपैः कल्लोलैः जलकल्लोलैश् च ॥ (मोटी_१,१६.२७ ॥

नष्टम् उत्सृज्य तिष्ठन्तं वृक्षाद् वृक्षम् इवा परम् ।
पुरुषात् पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ (मो_१,१६.२८ ॥

"तृष्णा" "नष्टम्" "पुरुषम्" "उत्सृज्य" "पुरुषात्" तस्मान् नष्टात् पुरुषात् । "परम्" अन्यरूपं । "तिष्ठन्तं" स्थितियुक्तम् । "पुरुषम् आ याति" । का "इव" । "पक्षिणीव" । यथा "पक्षिणी" "नष्टं वृक्षम्" परित्यज्य "वृक्षात्" तस्मात् नष्टात् । "अपरम्" अन्यरूपं । "तिष्ठन्तं वृक्षं याति" । तथेत्य् अर्थः ॥ (मोटी_१,१६.२८ ॥

पदं करोत्य् अलङ्घ्येऽपि तृप्तापि फलम् ईहते ।
चिरं तिष्ठति नैकत्र तृष्णाचपलमर्कटी ॥ (मो_१,१६.२९ ॥

स्पष्टम् ॥ (मोटी_१,१६.२९ ॥

इदं कृत्वेदम् आयाति सर्वम् एवासमञ्जसम् ।
अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥ (मो_१,१६.३० ॥

"दैविकी" दैवसम्बन्धिनी ॥ (मोटी_१,१६.३० ॥

क्षणम् आयाति पातालं क्षणं याति नभस्तलम् ।
क्षणम् भ्रमति दिक्कुञ्जे तृष्णाहृत्पद्मषट्पदी ॥ (मो_१,१६.३१ ॥

स्पष्टम् ॥ (मोटी_१,१६.३१ ॥

सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।
अन्तःपुरस्थम् अपि या योजयत्य् अतिसङ्कटे ॥ (मो_१,१६.३२ ॥

"दोषाणाम्" इति निर्धारणे षष्ठी । दीर्घदुःखत्वम् एवोत्तरार्धेन कथयति "अन्तःपुरस्थम्" इति ॥ (मोटी_१,१६.३२ ॥

प्रयच्छति परं जाड्यम् परमालोकरोधिनी ।
मोहनीहारगहना तृष्णाजलदमालिका ॥ (मो_१,१६.३३ ॥

स्पष्टम् ॥ (मोटी_१,१६.३३ ॥

सर्वेषां जन्तुजालानां संसारव्यवहारिणाम् ।
परिप्रोतमनोमालास् तृष्णा बन्धनरज्जवः ॥ (मो_१,१६.३४ ॥

स्पष्टम् ॥ (मोटी_१,१६.३४ ॥

विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः ।
शून्याशून्यास्पदा तृष्णा शक्रकार्मुकधर्मिणी ॥ (मो_१,१६.३५ ॥

मलिनास्पदत्वं शक्रकार्मुकपक्षे मेघाश्रयत्वेन ज्ञेयम् ॥ (मोटी_१,१६.३५ ॥

अशनिर् गुणसस्यानाम् फलिता शरद् आपदे ।
हिमं सम्पत्सरोजिन्यास् तमसां दीर्घयामिनी ॥ (मो_१,१६.३६ ॥

तृष्णा का । "आपदे" आपदर्थम् । "फलिता" "शरत्" फलयुक्ता शरद् । आपत्प्रदेत्य् अर्थः ॥ (मोटी_१,१६.३६ ॥

संसारनाटकनटी कायालयविहङ्गमी ।
मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥ (मो_१,१६.३७ ॥

स्पष्टम् ॥ (मोटी_१,१६.३७ ॥

व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला ।
मार्गन्यग्रोधसुभगा दुःखकैरवचन्द्रिका ॥ (मो_१,१६.३८ ॥

"मार्गे" "न्यग्रोध"च्छायावत् परिणामदुःखावहेत्य् अर्थः ॥ (मोटी_१,१६.३८ ॥

जरामरणदुःखानाम् एका रत्नसमुद्गिका ।
आधिव्याधिविलासानां नित्यमत्ता विलासिनी ॥ (मो_१,१६.३९ ॥

"समुद्गिका" पेटिका ॥ (मोटी_१,१६.३९ ॥

क्षणम् आलोकविमला सान्धकारलवा क्षणम् ।
व्योमवीथीसमा तृष्णा नीहारगहना क्षणम् ॥ (मो_१,१६.४० ॥

स्पष्टम् ॥ (मोटी_१,१६.४० ॥

गच्छतूपशमं तृष्णा कार्यव्यायामशान्तये ।
तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥ (मो_१,१६.४१ ॥

"कार्य"कृतः यः "व्यायामः" । तस्य "शान्तये" । "तमी" रात्रिः ॥ (मोटी_१,१६.४१ ॥

तावन् मुह्यत्य् अयं लोको मूको विलुलिताशयः ।
यावद् एवानुसन्धत्ते तृष्णाविषविषूचिकाम् ॥ (मो_१,१६.४२ ॥

"विषविषूचिका" विषभक्षणकृतो रोगविशेषः ॥ (मोटी_१,१६.४२ ॥

लोकोऽयम् अखिलं दुःखं चिन्तयोज्झित उज्झति ।
चिन्ताविषूचिकामन्त्रश् चिन्तात्यागो हि कथ्यते ॥ (मो_१,१६.४३ ॥

"दुःखं" चिन्तास्वरूपं दुःखं ॥ (मोटी_१,१६.४३ ॥

तृणपाषाणकाष्ठादि सर्वम् आमिषशङ्कया ।
आदधाना स्फुरत्य् अन्तस् तृष्णा मत्स्यी ह्रदे यथा ॥ (मो_१,१६.४४ ॥

स्पष्टम् ॥ (मोटी_१,१६.४४ ॥

रोगार्तिर् अङ्गगा तृष्णा गम्भीरम् अपि मानवम् ।
उत्तानतां नयत्य् आशु सूर्यांशव इवाम्बुजम् ॥ (मो_१,१६.४५ ॥

"उत्तानताम्" उत्तानपाणित्वं । याचकभावम् इति यावत् ॥ (मोटी_१,१६.४५ ॥

अहो बत महच् चित्रं तृष्णाम् अपि महाधियः ।
दुश्छेदाम् अपि कृन्तन्ति विवेकेनामलासिना ॥ (मो_१,१६.४६ ॥

स्पष्टम् ॥ (मोटी_१,१६.४६ ॥

नासिधारा न वज्राग्निर् न तप्तायःकणार्चिषः ।
तथा तीक्ष्णा यथा ब्रह्मंस् तृष्णेयं हृदि संस्थिता ॥ (मो_१,१६.४७ ॥

स्पष्टम् ॥ (मोटी_१,१६.४७ ॥

कज्जलासिततीक्ष्णाग्राः स्नेहदीर्घदशापराः ।
प्रकाशा दाहदस्पर्शास् तृष्णा दीपशिखा इव ॥ (मो_१,१६.४८ ॥

"कज्जलासिताश्" च ताः "तीक्ष्णाग्राश्" च । "स्नेहः" रागः तैलं च । "दशा" अवस्था वर्तिश् च ॥ (मोटी_१,१६.४८ ॥

अपि मेरूपमम् प्राज्ञम् अपि शूरम् अपि स्थिरम् ।
तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ (मो_१,१६.४९ ॥

"तृणीकरोति" लघूकरोतीत्य् अर्थः ॥ (मोटी_१,१६.४९ ॥

विस्तीर्णगहना भीमा घनजालरजोमयी ।
सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहाटवी ॥ (मो_१,१६.५० ॥

"विस्तीर्णा" चासौ "गहना" च । विन्ध्यमहाटवीपक्षे "विस्तीर्णानि गहनानि" यस्याः । सेति । "घना" चासौ बन्धकत्वात् "जाल"रूपा च । तादृशी चासौ "रजोमयी" च रजोगुणमयी च । मेघजालेन रजसा च व्याप्तेत्य् अटवीपक्षे । "सान्धकारा" अज्ञानान्ध्ययुक्ता । "उग्रनीहारा" कठिनमोहयुक्ता ॥ (मोटी_१,१६.५० ॥

सर्गान्तश्लोकेन तृष्णानिन्दां समापयति

एकैव सर्वभुवनान्तरलब्धलक्ष्या
दुर्लक्षताम् उपगतैव पुरःस्थितेव ।
तृष्णा स्थिता जगति चञ्चलवीचिमाले
क्षीरार्णवाम्बुपटले मधुरेव शक्तिः ॥ (मो_१,१६.५१ ॥

"दुर्लक्षताम्" "उपगतैवा"त्यन्तासत्त्वाद् इति भावः । "मधुरा शक्तिः" माधुर्याख्यो गुणः । इति शिवम् ॥ (मोटी_१,१६.५१ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षोडशः सर्गः ॥ १,१६ ॥




एवं तृष्णानिन्दां कृत्वा शरीरनिन्दाम् प्रस्तौति

आर्द्रान्त्रतन्त्रीगहनो विकारी परितापवान् ।
देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥ (मो_१,१७.१ ॥

"आर्द्रा" रक्तार्द्राः । याः "अन्त्रतन्त्र्यः" । ताभिः "गहनः" दुर्गमः । "विकारी" रोगवान् ॥ (मोटी_१,१७.१ ॥

देहम् एव विस्तरेण विशिनष्टि

अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।
युक्त्या भव्योऽप्य् अभव्यो मे न जडो नापि चेतनः ॥ (मो_१,१७.२ ॥

"अज्ञोऽपि" पाषाणतुल्यत्वेनाचेतनोऽपि । "तज्ज्ञसदृशः" प्रमातृत्वेन भासमानत्वात् । "वलिते"ति देहाहम्भावनयैव परम्"आत्मचमत्कारो" व्यवधानं याति । "युक्त्या" योगादिरूपया युक्त्या । "भव्योऽपि" श्रेष्ठोऽपि मोक्षसाधनत्वात् । "मे अभव्यः" मद्दृष्ट्याभव्यः ॥ (मोटी_१,१७.२ ॥

जडाजडदृशोर् मध्ये दोलायितदुराशयः ।
न विवेकी न मूढात्मा मोहम् एव प्रयच्छति ॥ (मो_१,१७.३ ॥

"जडत्वे" पाषाणवत् चेष्टाश्रयो न स्यात् । "अजडत्वे" ग्राह्यतां न यायाद् इति भावः ॥ (मोटी_१,१७.३ ॥

स्तोकेनानन्दाम् आयाति स्तोकेनायाति खिन्नताम् ।
नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥ (मो_१,१७.४ ॥

"नीचो" हि "स्तोकेनानन्दम् आयाति खिन्नतां" च्"आयाति" ॥ (मोटी_१,१७.४ ॥

आगमापायिना नित्यं दन्तकेसरशालिना ।
विकासिस्मितपुष्पेण प्रतिक्षणम् अलङ्कृतः ॥ (मो_१,१७.५ ॥

स्पष्टम् ॥ (मोटी_१,१७.५ ॥

भुजशाखौघनमितो द्विजानुस्तम्भसुस्थितः ।
लोचनालिवनाक्रान्तः शिरःपीठबृहत्फलः ॥ (मो_१,१७.६ ॥

स्पष्टम् ॥ (मोटी_१,१७.६ ॥

स्रवदस्रुरसस्रोता हस्तपादसुपल्लवः ।
गुल्फवान् कार्यसङ्घातविहङ्गमततास्पदम् ॥ (मो_१,१७.७ ॥

"कार्यसङ्घातविहङ्गमानाम् ततं" विस्तीर्णम् । "आस्पदम्" ॥ (मोटी_१,१७.७ ॥

सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदम् ।
कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥ (मो_१,१७.८ ॥

"आस्थानास्थे" इति उपेक्षा एवात्र युक्तेति भावः ॥ (मोटी_१,१७.८ ॥

भारसन्तारणार्थेन गृहीतायाम् पुनः पुनः ।
नावि देहलतायां च कस्य स्याद् आत्मभावना ॥ (मो_१,१७.९ ॥

देहपक्षे "भारसन्तारणार्थेन" संसारभारसमाप्तये । देहं विना हि संसारो नश्यति ॥ (मोटी_१,१७.९ ॥

देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।
तनूरुहासङ्ख्यतरौ विश्वासं कोऽधिगच्छति ॥ (मो_१,१७.१० ॥

"गर्ताः" अत्र विषयाः ॥ (मोटी_१,१७.१० ॥

चर्मस्नाय्वस्थिवलिते शरीरपटहे दृढे ।
मार्जारवद् अहं नान्तस् तिष्ठाम्य् अविरतध्वनौ ॥ (मो_१,१७.११ ॥

"स्नायवः" सूक्ष्मनाड्यः "पटहा"न्तरे । "मार्जारो" हि तत्र "न" तिष्ठति ॥ (मोटी_१,१७.११ ॥

संसारारण्यसंरूढो विलसच्चित्तमर्कटः ।
चिन्तामञ्जरिकाकारो दीर्घदुःखघुणक्षतः ॥ (मो_१,१७.१२ ॥
तृष्णाभुजङ्गमीदेहः कोपकाककृतालयः ।
स्मितपुष्पो द्रुमः श्रीमाञ् शुभाशुभमहाफलः ॥ (मो_१,१७.१३ ॥
सुस्कन्धो दोर्लताजालो हस्तस्तबकसुन्दरः ।
पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥ (मो_१,१७.१४ ॥
सर्वेन्द्रियखगाधारः सुजानुः सुत्वग् उन्नतः ।
सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ (मो_१,१७.१५ ॥
मूर्ध्नि सञ्जनितादीर्घशिरोरुहतृणावलिः ।
अहङ्कारजरद्गृद्धकुलायसुषिरोदरः ॥ (मो_१,१७.१६ ॥
उच्छिन्नवासनाजालमूलत्वाद् दुर्बलाकृतिः ।
व्यायामविरमः कायवृक्षोऽयं न सुखाय मे ॥ (मो_१,१७.१७ ॥

"अहङ्कार" एव "गृद्धः" । तस्य "कुलाय"भूतं यत् "सुषिरं" विवरं । तत् "उदरे" यस्य । तत् तादृशं । "दुर्बलाकृतिः" शिथिलाकृतिः । "वासनया" अहम्भावेन गृहीत एव हि देहः दृढाकृतिः भवति । "व्यायामेन" आघातेन । "विरमः" नाशो यस्य । तादृशः । कुलकम् ॥ (मोटी_१,१७.१२-१७ ॥

कलेवरम् अहङ्कारगृहस्थस्य महागृहम् ।
लुठत्व् अभ्येतु वा स्थैर्यं किम् अनेन मुने हि मे ॥ (मो_१,१७.१८ ॥

न हि परगृहस्य लुठने स्थैर्ये वा सुखदुःखे युक्ते इति भावः ॥ (मोटी_१,१७.१८ ॥

पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गनम् ।
रजोरञ्जितसर्वाङ्गं नेष्टं देहगृहम् मम ॥ (मो_१,१७.१९ ॥

अनेन देहस्य ग्रामीणगृहसदृशत्वम् उक्तम् ॥ (मोटी_१,१७.१९ ॥

काष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् ।
अन्त्रदामभिर् आबद्धं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२० ॥

"काष्ठ" इति काष्ठरूपम् "अस्थिकाष्ठं" । तस्य यः "सङ्घट्टः" निःसन्धिबन्धम् अवस्थानं । तेन "परिसङ्कटं" परितः सम्बाधं । "कोटरं" यस्य । तादृशम् । "अन्त्रदामभिर्" अन्त्ररज्जुभिः ॥ (मोटी_१,१७.२० ॥

प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् ।
जरामक्कोलधवलं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२१ ॥

स्पष्टम् ॥ (मोटी_१,१७.२१ ॥

चित्रकृत्यभृतानन्तचेष्टावष्टब्धसंस्थिति ।
मिथ्यामोहमहास्थूणं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२२ ॥

"चित्रकृत्येषु" नानाविधकार्येषु । "भृताः" धारिताः । याः "अनन्तचेष्टाः" । ताभिर् "अवष्टब्धा" भरिता । "संस्थितिः" यस्य । तत् । गृहपक्षे "चित्रकृत्यानि" आलेख्यानि । "मिथ्यामोहः" मिथ्याज्ञानम् एव "महास्थूणा" यस्य । तत् तादृशं । मिथ्याज्ञानेनैव हि देहो धार्यते ॥ (मोटी_१,१७.२२ ॥

दुःखार्भककृताक्रन्दं सुखशय्यामनोहरम् ।
दुरीहादग्धदासीकं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२३ ॥

"सुखान्य्" एव "शय्याः" । ताभिः "मनोहरम्" । "दुरीहाः" कुत्सिताः काङ्क्षा एव "दग्धदास्यः" हतदास्यः यस्य ॥ (मोटी_१,१७.२३ ॥

मलाढ्यविषयिव्यूहभाण्डोपस्करसङ्कटम् ।
अज्ञानक्षारवलितं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२४ ॥

"विषयीणि" इन्द्रियाणि । "क्षारम्" भस्म ॥ (मोटी_१,१७.२४ ॥

गुल्फगुल्गुलुविश्रान्तजानूच्चस्तम्भमस्तकम् ।
दीर्घदोर्दारुसुदृढं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२५ ॥

"गुल्गुलुः" स्तम्भाधारभूता शिला ॥ (मोटी_१,१७.२५ ॥

प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् ।
चिन्तादुहितृकम् ब्रह्मन् नेष्टं देहगृहम् मम ॥ (मो_१,१७.२६ ॥

स्पष्टम् ॥ (मोटी_१,१७.२६ ॥

मूर्धजच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् ।
आदीर्घाङ्गुलिनिर्यूहं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२७ ॥

"छन्ना" आवृता । "चन्द्रशालिका" शिरोगृहम् । "निर्यूहः" बहिर्गतदारु ॥ (मोटी_१,१७.२७ ॥

सर्वाङ्गकुड्यसञ्जातघनरोमयवाङ्कुरम् ।
संशून्यपीठपिठिरं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२८ ॥

"पीठपिठिरम्" मध्यदेशः ॥ (मोटी_१,१७.२८ ॥

नखोर्णनाभनिलयैः शारम् आरणितान्तरम् ।
भाङ्कारकारिपवनं नेष्टं देहगृहम् मम ॥ (मो_१,१७.२९ ॥

"निलयाः" आलयाः । "शारं" शवलम् ॥ (मोटी_१,१७.२९ ॥

प्रवेशनिर्गमव्यग्रवातवेगम् अनारतम् ।
वितताक्षगवाक्षं च नेष्टं देहगृहम् मम ॥ (मो_१,१७.३० ॥

"वातः" प्राणवातः ॥ (मोटी_१,१७.३० ॥

जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
दृष्टदन्तास्थिशकलं नेष्टं देहगृहम् मम ॥ (मो_१,१७.३१ ॥

स्पष्टम् ॥ (मोटी_१,१७.३१ ॥

त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् ।
मनोमन्दाखुनोत्खातं नेष्टं देहगृहम् मम ॥ (मो_१,१७.३२ ॥

"यन्त्र"वद् यः "सञ्चारः" । तेन "चञ्चलम्" ॥ (मोटी_१,१७.३२ ॥

स्मितदीपप्रभाभासि क्षणम् आनन्दसुन्दरम् ।
क्षणं व्याप्तम् प्रभापूरैर् नेष्टं देहगृहम् मम ॥ (मो_१,१७.३३ ॥

स्पष्टम् ॥ (मोटी_१,१७.३३ ॥

समस्तरोगायतनं वलीपलितपत्तनम् ।
सर्वाधिसारङ्गवनं नेष्टम् मम कलेवरम् ॥ (मो_१,१७.३४ ॥

"सर्वाधय" एव "सारन्गाः" । तेषां "वनम्" ॥ (मोटी_१,१७.३४ ॥

अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा ।
तमोगहनहृत्कुञ्जा नेष्टा देहाटवी मम ॥ (मो_१,१७.३५ ॥

"अक्षाणि" एव "ऋक्षास्" । तेषां यः "क्षोभः" । तेन "विषमा" । "तमः" अज्ञानम् अन्धकारं च ॥ (मोटी_१,१७.३५ ॥

देहालयं धारयितुं न शक्तोऽस्मि मुनीश्वर ।
पङ्कमग्नं समुद्धर्तुं गजम् अल्पबलो यथा ॥ (मो_१,१७.३६ ॥

"देहालयं" देहाख्यं गृहम् ॥ (मोटी_१,१७.३६ ॥

किं श्रिया किं च कायेन किम् मानेन किम् ईहया ।
दिनैः कतिपयैर् एव कालः सर्वं निकृन्तति ॥ (मो_१,१७.३७ ॥

स्पष्टम् ॥ (मोटी_१,१७.३७ ॥

रक्तमांसमयस्यास्य सबाह्याभ्यन्तरम् मुने ।
नाशैकधर्मिणो ब्रूहि केव कायस्य रम्यता ॥ (मो_१,१७.३८ ॥

नाशस्य एकः धर्मी "नाशैकधर्मी" । तस्य ॥ (मोटी_१,१७.३८ ॥

मरणावसरे काया जीवं नानुसरन्ति ये ।
तेषु तात कृतघ्नेषु केवास्था वत धीमतः ॥ (मो_१,१७.३९ ॥

स्पष्टम् ॥ (मोटी_१,१७.३९ ॥

मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः ।
न सन्त्यजति मां यावत् तावद् एनं त्यजाम्य् अहम् ॥ (मो_१,१७.४० ॥

अहन्ताविषयत्वेनाग्रहणाद् इति भावः ॥ (मोटी_१,१७.४० ॥

पवनस्पन्दतरलः पेलवः कायपल्लवः ।
जर्जरस् तनुवृत्तश् च नेष्टोऽयं कटुनीरसः ॥ (मो_१,१७.४१ ॥

तनुश् चासौ वृत्तश् च "तनुवृत्तः" ॥ (मोटी_१,१७.४१ ॥

भुक्त्वा पीत्वा चिरं कालम् बालपल्लवपेलवम् ।
तनुताम् एत्य् अयत्नेन विनाशम् अनुधावति ॥ (मो_१,१७.४२ ॥

आदौ "तनुताम्" "एति" । ततोऽ"यत्नेन" "विनाशम्" "अनुधावति" ॥ (मोटी_१,१७.४२ ॥

तान्य् एव सुखदुःखानि भावाभावमयान्य् असौ ।
भूयोऽप्य् अनुभवन् कायः प्राकृतो हि न लज्जते ॥ (मो_१,१७.४३ ॥

स्पष्टम् ॥ (मोटी_१,१७.४३ ॥

सुचिरम् प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।
नोच्छ्रायम् एति न स्थैर्यं कायः किम् इति पाल्यते ॥ (मो_१,१७.४४ ॥

"किम् इति" किमर्थं । "पाल्यते" रक्ष्यते ॥ (मोटी_१,१७.४४ ॥

जराकाले जराम् एति मृत्युकाले तथा मृतिम् ।
समम् एव विशेषज्ञ कायो भोगिदरिद्रयोः ॥ (मो_१,१७.४५ ॥

हे "विशेषज्ञ" । "भोगिदरिद्रयोः" "कायः" "समम् एव" निर्विशेषम् एव । "जराकाले" "जराम्" "एति" । "तथा" "मृतिकाले" "मृतिम्" एति । अतः शरीरभोगसाधनार्थं यत्नो व्यर्थ एवेति भावः ॥ (मोटी_१,१७.४५ ॥

संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे ।
सुप्तस् तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥ (मो_१,१७.४६ ॥

"कच्छपः" कूर्मः । "कुहरकं" रन्ध्रम् ॥ (मोटी_१,१७.४६ ॥

दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।
संसाराब्धाव् इवोह्यन्ते कञ्चित् तेषु नरं विदुः ॥ (मो_१,१७.४७ ॥

"दहना"ख्यो यः "एकः अर्थः" प्रयोजनं । तत्र "योग्यानि" । कञ्चित् ज्ञातज्ञेयजीवाश्रयम् इत्य् अर्थः । "तेषु" इति निर्धारणे सप्तमी । अन्ये पशव इव इति भावः ॥ (मोटी_१,१७.४७ ॥

दीर्घदौरात्म्यचलया निपातफलयानया ।
न देहलतया कार्यं किञ्चिद् अस्ति विवेकिनः ॥ (मो_१,१७.४८ ॥

"निपातफलया" नाशफलया । "विवेकिनः" आत्मविचारयुक्तस्य ॥ (मोटी_१,१७.४८ ॥

मज्जन् कर्दमकोशेषु झगित्य् एवं जरां गतः ।
न ज्ञायते यात्य् अचिरात् क्व कथं देहदर्दुरः ॥ (मो_१,१७.४९ ॥

"देह" एव "दर्दुरः" भेकः ॥ (मोटी_१,१७.४९ ॥

निःसारसकलारम्भाः कायाश् चपलवायवः ।
रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥ (मो_१,१७.५० ॥

"रजोमार्गेण" लोभमार्गेण धूलिमर्गेण च ॥ (मोटी_१,१७.५० ॥

वायोर् दीपस्य मनसो गच्छतो ज्ञायते गतिः ।
आगच्छतश् च भगवन् न शरीरशरस्य नः ॥ (मो_१,१७.५१ ॥

"नः" अस्मत्सम्बन्धिन इत्य् अर्थः ॥ (मोटी_१,१७.५१ ॥

बद्धाशा ये शरीरेषु बद्धाशा ये जगत्स्थितौ ।
तान् मोहमदिरोन्मत्तान् धिग् धिग् अस्तु पुनः पुनः ॥ (मो_१,१७.५२ ॥

स्पष्टम् ॥ (मोटी_१,१७.५२ ॥

नाहं देहस्य नो देहो मम नायम् अहं तथा ।
इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ (मो_१,१७.५३ ॥

"अहं तथा" तद्वत् । "अयं" देहो । नास्मि ॥ (मोटी_१,१७.५३ ॥

मानावमानबहुला बहुलाभमनोरमाः ।
शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥ (मो_१,१७.५४ ॥

"दोषदृशः" रागादिरूपाः । "बहुलाभमनोरम"त्वम् आमुखे ज्ञेयम् ॥ (मोटी_१,१७.५४ ॥

शरीरसङ्गशायिन्या पिशाच्या पेशलाङ्गया ।
अहङ्कारचमत्कृत्या छलेन च्छलिता वयम् ॥ (मो_१,१७.५५ ॥

शरीरोत्सङ्गेति वा पाठः ॥ (मोटी_१,१७.५५ ॥

प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया ।
मिथ्याज्ञानकुराक्षस्या छलिता कष्टम् एकिका ॥ (मो_१,१७.५६ ॥

राक्षसी हि एककम् एव च्छलयति ॥ (मोटी_१,१७.५६ ॥

न किञ्चिद् अपि यस्यास्ति सत्यं तेन हतात्मना ।
चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ (मो_१,१७.५७ ॥

"किञ्चिद् अपि" विप्रलम्भकरणं किम् अपि वस्तु । "विप्रलभ्यते" वञ्च्यते ॥ (मोटी_१,१७.५७ ॥

दिनैः कतिपयैर् एव निर्झराम्बुकणो यथा ।
पतत्य् अयम् अयत्नेन जर्जरः कायपल्लवः ॥ (मो_१,१७.५८ ॥

स्पष्टम् ॥ (मोटी_१,१७.५८ ॥

कायोऽयम् अचिरापायो बुद्बुदोऽम्बुनिधाव् इव ।
व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥ (मो_१,१७.५९ ॥

"कार्यपरावर्ते" संसारे ॥ (मोटी_१,१७.५९ ॥

मिथ्याज्ञानविकारेऽस्मिन् स्वप्नसम्भ्रमपत्तने ।
काये स्फुटतरापाये क्षणम् आस्था न मे द्विज ॥ (मो_१,१७.६० ॥

"स्वप्नसम्भ्रमपत्तने" स्वप्नसम्भ्रमदृष्टपत्तनतुल्ये इत्य् अर्थः ॥ (मोटी_१,१७.६० ॥

तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।
स्थैर्यं येन विनिर्णीतं स विश्वसिति विग्रहे ॥ (मो_१,१७.६१ ॥

"विश्वसिति" विश्वासं करोति ॥ (मोटी_१,१७.६१ ॥

सर्गान्तश्लोकेन शरीरनिन्दां समापयति

सततभङ्गुरकार्यपरम्परा-
विजयि जातजयं शठवृत्तिषु ।
सकलदोषम् इदं कुकलेवरं
तृणम् इवाहम् उपोज्झ्य सुखं स्थितः ॥ (मो_१,१७.६२ ॥

"सततभङ्गुराः" याः "कार्यपरम्पराः" । तासु "विजयः" अस्यास्तीति तादृशं । भङ्गुरकार्यपरम्परासाधनम् इति यावत् । अत एव "शठवृत्तिषु" कुत्सितव्यापारेषु । "जातजयम्" । इति शिवम् ॥ (मोटी_१,१७.६२ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तदशः सर्गः ॥ १,१७ ॥






एवं शरीरनिन्दां कृत्वा तत्प्रथमावस्थारूपस्य बाल्यस्य निन्दाम् प्रस्तौति

लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि ।
संसारसागरे जन्म बाल्यं दुःकाय केवलम् ॥ (मो_१,१८.१ ॥

स्पष्टम् ॥ (मोटी_१,१८.१ ॥

तत्कृतं दुःखम् एव विस्तरेण कथयति

अशक्तिर् आपदस् तृष्णा मूकता मूढबुद्धिता ।
गृध्नुता लोलता दैन्यं सर्वम् बाल्ये प्रवर्तते ॥ (मो_१,१८.२ ॥

स्पष्टम् ॥ (मोटी_१,१८.२ ॥

रोषरोदनरौद्रीषु दैन्यजर्जरितासु च ।
दशासु बन्धनम् बाल्यम् आलानं करिणीष्व् इव ॥ (मोटी_१,१८.३ ॥


"दशास्व्" इति वैषयिके आधारे सप्तमी । बध्यते अस्मिन्न् इति "बन्धनम्" ॥ (मोटी_१,१८.३ ॥

न मृतौ न जरारोगे न चापदि न यौवने ।
ताश् चिन्ता न निकृन्तन्ति हृदयं शैशवेषु याः ॥ (मो_१,१८.४ ॥

जरा एव रोगः "जरारोगस्" । तस्मिन् ॥ (मोटी_१,१८.४ ॥

तिर्यग्जातिसमारम्भः सर्वैर् एवावधीरितः ।
लोलो बालजनाचारो मरणाद् अपि दुःखदः ॥ (मो_१,१८.५ ॥

"तिर्यग्जाति"वत् "समारम्भः" यस्य । सः । पशुजातितुल्यसमारम्भ इत्य् अर्थः ॥ (मोटी_१,१८.५ ॥

प्रतिबिम्बं घनाज्ञानां नानासङ्कल्पपेलवम् ।
बाल्यम् आलूनसंशीर्णमनः कस्य सुखावहम् ॥ (मो_१,१८.६ ॥

"बाल्यं" कथम्भूतम् । "आलूनसंशीर्णम्" अत्यन्तचञ्चलं । "मनः" यस्मिन् । तत् तादृशम् । "घनाज्ञानाम्" अत्यन्तजडानां । "प्रतिबिम्बं" दृष्टान्तः ॥ (मोटी_१,१८.६ ॥

जडश्यामलयाजस्रं जातभीत्या पदे पदे ।
यद् भयं शैशवे बुद्ध्या कस्याम् आपदि तद् भवेत् ॥ (मो_१,१८.७ ॥

"बुद्ध्या" "भयं" बुद्धिकृतम् भयं । न कस्याम् अपीति भवः ॥ (मोटी_१,१८.७ ॥

लीलासु दुर्विलासेषु दुरीहासु दुराशये ।
परमम् मोहम् आदत्ते बालो बलवदापदम् ॥ (मो_१,१८.८ ॥

"दुराशये" कुत्सिते चित्ते । "मोहं" कथम्भूतम् "बलवती" "आपद्" यस्मात् । तत् तादृशम् ॥ (मोटी_१,१८.८ ॥

विकल्पकलिलारम्भं दुर्विलासं दुरास्पदम् ।
शैशवं शासनायैव पुरुषस्य न शान्तये ॥ (मो_१,१८.९ ॥

"शासनाय" मारणाय । "शान्तये" सुखाय ॥ (मोटी_१,१८.९ ॥

ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।
ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ॥ (मो_१,१८.१० ॥

"कौशिकाः "घूकाः ॥ (मोटी_१,१८.१० ॥

बाल्यं रम्यम् इति व्यर्थबुद्धयः कथयन्ति ये ।
तान् मूर्खपुरुषान् ब्रह्मन् धिग् अस्तु हतचेतसः ॥ (मो_१,१८.११ ॥

स्पष्टम् ॥ (मोटी_१,१८.११ ॥

यत्र लोलाकृति मनः परिस्फुरति वृत्तिषु ।
त्रैलोक्यराज्यम् अपि तत् कथं वहति तुष्टये ॥ (मो_१,१८.१२ ॥

"त्रैलोक्यराज्यम्" "अपि" त्रैलोक्यराज्यरूपम् अपि । "वहति" प्रभवति ॥ (मोटी_१,१८.१२ ॥

सर्वेषाम् एव सत्त्वानां सर्वावस्थासु चैव हि ।
मनश् चञ्चलताम् एति बाल्ये दशगुणं मुने ॥ (मो_१,१८.१३ ॥

"तु"शब्दोऽध्याहार्यः । हे "मुने" । "बाल्ये" तु "मनः" "दशगुणं" "चञ्चलताम्" "एति" ॥ (मोटी_१,१८.१३ ॥

मनः प्रकृत्यैव चलम् बाल्यं च चलतावरम् ।
तयोः संश्लिष्टयोः तात केनैवान्तः कुचापले ॥ (मो_१,१८.१४ ॥

"चलतायां वरम्" प्रधानम् । बहुचलम् इत्य् अर्थः । हे "तात" । "तयोः" मनोबालतयोः । "संश्लिष्टयोः" सत्योः । "कुचापले" "केनैव" प्रकारेण्"आन्तः" अवसानं स्यात् । न केनापीत्य् अर्थः ॥ (मोटी_१,१८.१४ ॥

स्त्रीलोचनैस् तडित्पुञ्जैर् ज्वालामालैस् तरङ्गकैः ।
चापलं शिक्षितम् ब्रह्मञ् शैशवान् मनसोऽथ वा ॥ (मो_१,१८.१५ ॥

"स्त्रीलोचना"दिभ्योऽपि "शैशवं" चलम् इति भावः ॥ (मोटी_१,१८.१५ ॥

शैशवं च मनश् चैव सर्वास्व् एव हि वृत्तिषु ।
भ्रातराव् इव लक्ष्येते सततम् भङ्गुरस्थिती ॥ (मो_१,१८.१६ ॥

"भङ्गुरस्थिती" चलस्थिती ॥ (मोटी_१,१८.१६ ॥

सर्वाणि दुष्टभूतानि सर्वे दोषा दुराशयाः ।
बाल्यम् एवोपजीवन्ति श्रीमन्तम् इव मानवाः ॥ (मो_१,१८.१७ ॥

"दुराशयाः" कठिनाः । "उपजीवन्ति" अपेक्षन्ते ॥ (मोटी_१,१८.१७ ॥

नवं नवम् प्रीतिकरं न शिशुः प्रत्यहं यदि ।
प्राप्नोति तद् असौ याति विषवेगस्य मूर्छनाम् ॥ (मो_१,१८.१८ ॥

"नवं नवं" नवीनं नवीनं वस्तु ॥ (मोटी_१,१८.१८ ॥

स्तोकेन वशम् आयाति स्तोकेनैति विकारिताम् ।
अमेध्य एव रमते बालः कौलेयको यथा ॥ (मो_१,१८.१९ ॥

स्पष्टम् ॥ (मोटी_१,१८.१९ ॥

अजस्रम् बाष्पवदनः कर्दमान्तर् जडाशयः ।
वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥ (मो_१,१८.२० ॥

"कर्दमान्तः" कर्दममध्ये । "जडः आशयः" यस्य । सः तादृशः । "वर्षोक्षितं" "तप्तस्थलम्" अपीदृशम् एव भवति ॥ (मोटी_१,१८.२० ॥

भयाहारपरं दीनं यथादृष्टाभिलाषि च ।
लोलबुद्धिः वपुर् धत्ते बालो दुःखाय केवलम् ॥ (मो_१,१८.२१ ॥

स्पष्टम् ॥ (मोटी_१,१८.२१ ॥

स्वसङ्कल्पाभिलषितान् भावान् अप्राप्य तप्तधीः ।
दुःखम् एत्य् अबलो बालो विनिकृत्त इवाशये ॥ (मो_१,१८.२२ ॥

स्पष्टम् ॥ (मोटी_१,१८.२२ ॥

दुरीहालब्धलक्ष्याणि बहुपक्षोल्वणानि च ।
बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥ (मो_१,१८.२३ ॥

"दुरीहाभिस्" तत्कर्तृकाभिः दुश्चेष्टाभिः । "लब्धं लक्ष्यम्" आस्पदं यैः । तानि । "बहुः" यः "पक्षः" स्ववर्गः । तेन "उल्वणानि" कठिनानि । शराणाम् अत्रोपमानत्वं व्यङ्ग्यम् ॥ (मोटी_१,१८.२३ ॥

बालो बलवताश्वेन मनोरथविलासिना ।
मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थलम् ॥ (मो_१,१८.२४ ॥

"अश्वेने"त्य् । अत्राश्व् एवेति पाठः ॥ (मोटी_१,१८.२४ ॥

विद्यागृहगतो बालः पराम् एति कदर्थनाम् ।
आलान इव नागेन्द्रो विषवैषम्यभीषणम् ॥ (मो_१,१८.२५ ॥

स्पष्टम् ॥ (मोटी_१,१८.२५ ॥

नानामनोरथमयी मिथ्याकल्पितकल्पना ।
दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥ (मो_१,१८.२६ ॥

"पेलवः" जडः । "आशयः" यस्यां । सा तादृशी ॥ (मोटी_१,१८.२६ ॥

सम्भृष्टं तुहिनम् भोक्तुम् इन्दुम् आदातुम् अम्बरात् ।
वाञ्छ्यते येन मौर्ख्येण तत् सुखाय कथम् भवेत् ॥ (मो_१,१८.२७ ॥

"सम्भृष्टम्" भर्जितम् ॥ (मोटी_१,१८.२७ ॥

अन्तश्चितेर् अशक्तस्य शीतातपनिवारणे ।
को विशेषो महाबुद्धे बालस्योर्वीरुहस्य च ॥ (मो_१,१८.२८ ॥

"अन्तश्चितेः" न तु विकसितचितेः । "चितिः" शीतातपज्ञानम् ॥ (मोटी_१,१८.२८ ॥

उड्डीनम् अभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।
भयाहारपरा नित्यम् बाला विहगधर्मिणः ॥ (मो_१,१८.२९ ॥

भयाहारयोः पराः "भयाहारपराः" ॥ (मोटी_१,१८.२९ ॥

शैशवे गुरुतो भीतिर् मातृतः पितृतस् तथा ।
जनतो ज्येष्ठबालाच् च शैशवम् भयमन्दिरम् ॥ (मो_१,१८.३० ॥

ज्येष्ठबालो हि कनिष्ठबालम् पराभवतीति "ज्येष्ठबालाच्" "चे"त्य् उक्तम् ॥ (मोटी_१,१८.३० ॥

सर्गान्तश्लोकेन बाल्यनिन्दां समापयति

सकलदोषदशाविहताशयं
शरणम् अप्य् अविवेकविलासिनः ।
इह न कस्यचिद् एव महामुने
भवति बाल्यम् अलम् परितुष्टिदम् ॥ (मो_१,१८.३१ ॥

"अविवेक" एव "विलासी" । तस्य "शरणं" गृहम् । अविवेकास्पदम् इत्य् अर्थः । "अपि"शब्दः पादपूरणार्थः । इति शिवम् ॥ (मोटी_१,१८.३१ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणेऽष्टादशः सर्गः ॥ १,१८ ॥




एवम् बाल्यनिन्दां कृत्वा क्रमप्राप्तां यौवननिन्दाम् प्रस्तौति

बाल्यानर्थम् अथ त्यक्त्वा पुमान् अभिहताशयः ।
आरोहति निपाताय यौवनं श्वभ्रसम्भ्रमम् ॥ (मो_१,१९.१ ॥

"श्वभ्र"वत् "सम्भ्रमो" यस्मिंस् तादृशम् । "पातश्" चात्र जरागमनरूपः ज्ञेयः ॥ (मोटी_१,१९.१ ॥

तत्रत्यं निपातं विस्तरेण कथयति

तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः ।
वृत्तीर् अनुसरन् याति दुःखाद् दुःखान्तरं जडः ॥ (मो_१,१९.२ ॥

"जडः" न तु ज्ञानी ॥ (मोटी_१,१९.२ ॥

स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा ।
बलात् कामपिशाचेन विवशः परिभूयते ॥ (मो_१,१९.३ ॥

पूर्वश्लोकस्थं "तत्रे"ति पदम् अत्राप्य् अनुवर्तनीयम् ॥ (मोटी_१,१९.३ ॥

चिन्तानां लोलवृत्तीनां ललनानाम् इवाभितः ।
अर्पयत्य् अवशश् चेतो ज्वालानाम् आत्मजो यथा ॥ (मो_१,१९.४ ॥

"चिन्तानां" कुटुम्बभरणादिविषयाणां । यौवने पुरुषः यथा "ललनानां" "चेतः" "अर्पयति" तथा "चिन्तानाम्" अपीति पिण्डार्थः । को यथ्"आत्मजो" बालः "यथा" । "यथा" सः "ज्वालानां" "चेतः अर्पयति" । तथेत्य् अर्थः ॥ (मोटी_१,१९.४ ॥

ते ते दोषा दुरारम्भास् तत्र तं तादृशाशयम् ।
तरुणम् प्रविलुम्पन्ति दृश्यास् ते नैव ये मुने ॥ (मो_१,१९.५ ॥

"तरुणं" यौवनाविष्टम् पुरुषम् । "प्रविलुम्पन्ति" विश्रान्तेः च्यावयन्ति । "ते ते" के । हे "मुने" । "ते" तव । "ये" "दोषाः" "दृश्याः" "नैव" भवन्ति । तेभ्यो निष्क्रान्तत्वाद् इति भावः । अथ वा "ये दोषाः ते नैव" नान्येन "दृश्याः" भवन्तीति योज्यम् ॥ (मोटी_१,१९.५ ॥

महानरकबीजेन सन्ततभ्रमदायिना ।
यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥ (मो_१,१९.६ ॥

स्पष्टम् ॥ (मोटी_१,१९.६ ॥

नानारसमयी चिन्तावृत्तान्तनिचयोम्भिता ।
भीमा यौवनभूर् येन तीर्णा धीरः स उच्यते ॥ (मो_१,१९.७ ॥

स्पष्टम् ॥ (मोटी_१,१९.७ ॥

निमेषभासुराकारम् आलोलघनगर्जितम् ।
विद्युत्प्रकाशम् अनिशं यौवनम् मे न रोचते ॥ (मो_१,१९.८ ॥

स्पष्टम् ॥ (मोटी_१,१९.८ ॥

विविधावर्तबहुलम् पङ्कलग्नं जडाशयम् ।
तरङ्गभङ्गुरम् भीमं यौवनम् मे न रोचते ॥ (मो_१,१९.९ ॥

"आवर्ताः" कामवेगाः । "पङ्कलग्नम्" पापग्रस्तम् । "जडः आशयः" यस्मिंस् । तादृशम् ॥ (मोटी_१,१९.९ ॥

सर्वस्याग्रेसरम् पुंसः क्षणमात्रमनोहरम् ।
गन्धर्वनगरप्रख्यं यौवनम् मे न रोचते ॥ (मो_१,१९.१० ॥

"सर्वस्य" "पुंस" इति जातौ एकवचनम् । "अग्रेसरम्" अव्यभिचारीत्य् अर्थः ॥ (मोटी_१,१९.१० ॥

इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् ।
दाहदोषप्रदं नित्यं यौवनम् मे न रोचते ॥ (मो_१,१९.११ ॥

"इषुप्रपातमात्रं" क्षनमात्रम् इत्य् अर्थः ॥ (मोटी_१,१९.११ ॥

मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् ।
सुराकल्लोलसदृशं यौवनम् मे न रोचते ॥ (मो_१,१९.१२ ॥

"मधुरम्" आपाते । "तिक्तम्" परिणामे ॥ (मोटी_१,१९.१२ ॥

असत्यं सत्यसङ्काशम् अचिराद् विप्रलम्भदम् ।
स्वप्नाङ्गनासङ्गसमं यौवनम् मे न रोचते ॥ (मो_१,१९.१३ ॥

स्पष्टम् ॥ (मोटी_१,१९.१३ ॥

क्षणप्रकाशतरलम् मिथ्यारचितचक्रिकम् ।
अलातचक्रप्रतिमं यौवनम् मे न रोचते ॥ (मो_१,१९.१४ ॥

स्पष्टम् ॥ (मोटी_१,१९.१४ ॥

मृदुस्फारतरोदारम् अन्तःशून्यं क्षणात् क्षतम् ।
शरदम्बुदसङ्काशं यौवनम् मे न रोचते ॥ (मो_१,१९.१५ ॥

स्पष्टम् ॥ (मोटी_१,१९.१५ ॥

आपातमात्ररमणं सद्भावरहितान्तरम् ।
वेश्यास्त्रीसङ्गमप्रख्यं यौवनम् मे न रोचते ॥ (मो_१,१९.१६ ॥

"सद्भावः" सत्त्वं स्नेहश् च ॥ (मोटी_१,१९.१६ ॥

ये केचन दुरारम्भास् ते सर्वे सर्वदुःखदाः ।
तारुण्ये सन्निधिं यान्ति महोत्पाता इव क्षये ॥ (मो_१,१९.१७ ॥

स्पष्टम् ॥ (मोटी_१,१९.१७ ॥

हार्दान्धकारकारिण्या भैरवाकारवान् अपि ।
यौवनाकारयामिन्या बिभेति भगवान् अपि ॥ (मो_१,१९.१८ ॥

"हार्दं" हृत्सम्बन्धि । "अन्धकारं" करोतीति तादृश्या । "भगवान्" श्रीमहादेवः । अन्येषां तु का कथेत्य् "अपि"शब्दाभिप्रायः ॥ (मोटी_१,१९.१८ ॥

सुविस्मृतशुभाचारम् बुद्धिवैधुर्यदायिनम् ।
ददात्य् अतितराम् एष भ्रमं यौवनविभ्रमः ॥ (मो_१,१९.१९ ॥

"सुविस्मृतः" "शुभाचारः" यस्मिंस् । तम् ॥ (मोटी_१,१९.१९ ॥

कान्तावियोगजातेन हृदि दुर्धर्षवह्निना ।
यौवने दह्यते जन्तुस् तरुर् दावाग्निना यथा ॥ (मो_१,१९.२० ॥

"दुर्धर्षवह्निना" दुर्निवार्येण कामाग्निना ॥ (मोटी_१,१९.२० ॥

विस्तीर्णापि प्रसन्नापि पावन्य् अपि हि यौवने ।
मतिः कलुषताम् एति प्रावृषीव तरङ्गिणी ॥ (मो_१,१९.२१ ॥

स्पष्टम् ॥ (मोटी_१,१९.२१ ॥

शक्यते घनकल्लोलभीमा रोधयितुं नदी ।
न तु तारुण्यतरला तृष्णातरलितान्तरा ॥ (मो_१,१९.२२ ॥

"तारुण्यतरले"त्य् अनेन यौवननिन्दैवेयं ज्ञातव्या ॥ (मोटी_१,१९.२२ ॥

सा कान्ता तौ स्तनौ पीनौ ते विलासास् तद् आननम् ।
तारुण्य इति चिन्ताभिर् याति जर्जरतां जनः ॥ (मो_१,१९.२३ ॥

"तारुण्ये" यौवने ॥ (मोटी_१,१९.२३ ॥

तरत्तरलतृष्णार्तं युवानम् इह साधवः ।
पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा ॥ (मो_१,१९.२४ ॥

"तरन्ती" चञ्चलतां गच्छन्ती । या "तरला तृष्णा" । तया "आर्तं" दीनं ॥ (मोटी_१,१९.२४ ॥

नाशायैव मदान्धस्य दोषमौक्तिकधारिणः ।
अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥ (मो_१,१९.२५ ॥

"दोषाः" रागादयः । "अभिमान" एवाहङ्कार एव "महेभस्" । तस्य ॥ (मोटी_१,१९.२५ ॥

मनोविपुलमूलानां दोषाशीविषधारिणाम् ।
रोषरोदनवृक्षाणां यौवनं नवकाननम् ॥ (मो_१,१९.२६ ॥

"रोषेण" यानि "रोदनानि" । तान्य् एव "वृक्षास्" । तेषाम् ॥ (मोटी_१,१९.२६ ॥

रसकेसरसम्बाधं कुविकल्पदलाकुलम् ।
दुश्चिन्ताचञ्चरीकाणाम् पुष्करं विद्धि यौवनम् ॥ (मो_१,१९.२७ ॥

त्वं "यौवनं" । "दुश्चिन्ताः" एव भोगविषयाः कुचिन्ता एव । "चञ्चरीकाः" भ्रमराः । तेषाम् "पुष्करम्" आधारभूतम् पद्मं । "विद्धि" जानीहि । कथम्भूतम् । "रसाः" विषयास्वादा एव । "केसराः" किञ्जल्कास् । तैः "सम्बाधं" सङ्कटं । तथा "कुविकल्पाः" कुत्सिताः विकल्पा एव "दलानि" । तैः "आकुलं" निर्भरितम् ॥ (मोटी_१,१९.२७ ॥

कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् ।
आधिव्याधिविहङ्गानाम् आलयो नवयौवनम् ॥ (मो_१,१९.२८ ॥

"कृताकृतौ" विहिताविहितौ एव । "कुपक्षौ" येषां । तादृशानाम् । विहितस्यापि धर्माख्यशुद्धाशुद्धिव्युत्थापकत्वेन "कृताकृते"त्य् उक्तम् ॥ (मोटी_१,१९.२८ ॥

जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् ।
अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम् ॥ (मो_१,१९.२९ ॥

"अनपेक्षितमर्यादः" मर्यादरहित इत्य् अर्थः ॥ (मोटी_१,१९.२९ ॥

सर्वेषां गुणपर्णानाम् अपनेतुं रजस्ततः ।
अपनेतुं स्थितो दक्षो विषमो यौवनानिलः ॥ (मो_१,१९.३० ॥

"अपनेतुं" "स्थितः" सर्वापनयनशीलः । "रजसा" रजोगुणेन धूल्या च । "ततः" व्याप्तः । "विषमः" "यौवनानिलः" "सर्वेषां" "गुणपर्णानाम्" "अपनेतुं" दूरीकर्तुं । "दक्षः" भवति ॥ (मोटी_१,१९.३० ॥

नयन्ति पाण्डुतां वक्त्रम् आकुलावकरोत्कटाः ।
आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥ (मो_१,१९.३१ ॥

"आकुलः" चञ्चलः । यः "अवकरः" सङ्करः । मर्जनीसङ्क्षिप्तं रज इति यावत् । तद्वत् "उत्कटाः" उद्भटाः ॥ (मोटी_१,१९.३१ ॥

उद्बोधयति दोषालीं निकृन्तति गुणावलिम् ।
नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाः ॥ (मो_१,१९.३२ ॥

स्पष्टम् ॥ (मोटी_१,१९.३२ ॥

शरीरपङ्कजरजश् चञ्चलाम् मतिषट्पदीम् ।
निबध्य मोहयत्य् एष नरं यौवनचन्द्रमाः ॥ (मो_१,१९.३३ ॥

"यौवन"वशेनैव पुरुषः "शरीरा"सक्तो भवतीति भावः ॥ (मोटी_१,१९.३३ ॥

शरीरषण्डकोद्भूता रम्या यौवनवल्लरी ।
लग्नम् एव मनोभृङ्गम् मदयत्य् उन्नतिं गता ॥ (मो_१,१९.३४ ॥

स्पष्टम् ॥ (मोटी_१,१९.३४ ॥

शरीरमरुतापोत्थां युवताम् मृगतृष्णिकाम् ।
मनोमृगाः प्रधावन्तः पतन्ति विषमाटवीम् ॥ (मो_१,१९.३५ ॥

"शरीरम्" एव "मरुः" । तत्र तापोत्थां "शरीरमरुतापोत्थां" । "विषमाटवीं" स्त्रीत्यादिविषयरूपं विषमारण्यम् ॥ (मोटी_१,१९.३५ ॥

शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा ।
लहरी जीविताम्भोधेर् युवता मे न रोचते ॥ (मो_१,१९.३६ ॥

स्पष्टम् ॥ (मोटी_१,१९.३६ ॥

दिनानि कतिचिद् येयम् फलिता देहजङ्गले ।
युवताशरद् अस्यां हि न समाश्वासम् अर्हथ ॥ (मो_१,१९.३७ ॥

"फलिता" कान्ताभोगादिफलयुक्ता ॥ (मोटी_१,१९.३७ ॥

झगित्य् एष प्रयात्य् एव शरीराद् युवताखगः ।
क्षणेनैवाल्पभाग्यस्य हस्ताच् चिन्तामणिर् यथा ॥ (मो_१,१९.३८ ॥

स्पष्टम् ॥ (मोटी_१,१९.३८ ॥

यदा यदा परां कोटिम् अभ्यारोहति यौवनम् ।
वल्गन्ति सरसाः कामास् तदा नाशाय केवलम् ॥ (मो_१,१९.३९ ॥

"सरसाः" विषयरसपूर्णाः । "कामाः" अभिलाषाः ॥ (मोटी_१,१९.३९ ॥

तावद् एव विवल्गन्ति रागद्वेषपिशाचिकाः ।
नास्तम् एति समस्तैषा यावद् यौवनयामिनी ॥ (मो_१,१९.४० ॥

स्पष्टम् ॥ (मोटी_१,१९.४० ॥

नानाधिकारबहले वराके क्षणनाशिनि ।
कारुन्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥ (मो_१,१९.४१ ॥

स्पष्टम् ॥ (मोटी_१,१९.४१ ॥

हर्षम् आयाति यो मोहात् पुरुषः क्षणभङ्गिना ।
यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥ (मो_१,१९.४२ ॥

स्पष्टम् ॥ (मोटी_१,१९.४२ ॥

मानमोहमदोन्मत्तं यौवनं योऽभिलष्यति ।
अचिरेण सुदुर्बुद्धिः पश्चात्तापेन युज्यते ॥ (मो_१,१९.४३ ॥

"पश्चात्तापेन" तन्नाशकृतेन इत्य् अर्थः ॥ (मोटी_१,१९.४३ ॥

ते धर्म्यास् ते महात्मानस् त एव पुरुषा भुवि ।
ये सुखेन समुत्तीर्णाः साधो यौवनसङ्कटात् ॥ (मो_१,१९.४४ ॥

स्पष्टम् ॥ (मोटी_१,१९.४४ ॥

सुखेन तीर्यतेऽम्भोधिर् उत्कृष्टमकराकरः ।
न कल्लोलवनोल्लासि सदोषं हतयौवनम् ॥ (मो_१,१९.४५ ॥

स्पष्टम् ॥ (मोटी_१,१९.४५ ॥

सर्गान्तश्लोकेन यौवननिन्दां समापयति

विनयभूषितम् आर्यजनास्पदं
करुणयोज्ज्वलम् आवलितं गुणैः ।
इह हि दुर्लभम् अङ्ग सुयौवनं
जगति काननम् अम्बरगं यथा ॥ (मो_१,१९.४६ ॥

एतादृशं यौवनम् प्रशस्तम् एवेति भावः । इति शिवम् ॥ (मोटी_१,१९.४६ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनविंशः सर्गः ॥ १,१९ ॥




एवं यौवननिन्दां सम्पाद्य तत्प्रसङ्गेन स्त्रीनिन्दाम् प्रस्तौति

मांसपुत्तलिकायाश् च यन्त्रलोलाङ्गपञ्जरे ।
स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किम् इव शोभनम् ॥ (मो_१,२०.१ ॥

"पुत्तलिकायाः" पुत्रिकायाः । "यन्त्र"वत् "लोलं" यत् "अङ्गपञ्जरं" । तस्मिन् । पुत्रिकापि यन्त्रस्था भवति । न हि किञ्चिद् अपि स्त्रियाः शोभनम् इति भावः ॥ (मोटी_१,२०.१ ॥

त्वङ्मांसरक्तबाष्पास्रु पृथक् कृत्वा विलोचनम् ।
समालोकय रम्यं चेत् किम् मुधा परिमुह्यसि ॥ (मो_१,२०.२ ॥

सर्वाङ्गानाम् उपलक्षणम् एतत् ॥ (मोटी_१,२०.२ ॥

इतः केशा इतो रक्तम् इतीयम् प्रमदातनुः ।
किम् एतया निन्दितया करोतु विपुलाशयः ॥ (मो_१,२०.३ ॥

"विपुलाशयस्या"त्र रतिर् न युक्तेति भावः ॥ (मोटी_१,२०.३ ॥

वासोविलेपनैर् यानि लालितानि पुनः पुनः ।
तान्य् अङ्गान्य् अवलुम्पन्ति क्रव्यादाः सर्वदेहिनाम् ॥ (मो_१,२०.४ ॥

अतः स्त्रीणाम् अपि "क्रव्यादा अवलुम्पन्ती"ति भावः ॥ (मोटी_१,२०.४ ॥

मेरोः शृङ्गतटोल्लासिगङ्गाजलरयोपमा ।
दृष्टा यस्मिन् स्तने मुक्ता हारस्योल्लासशालिनः ॥ (मो_१,२०.५ ॥
श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
श्वभिर् आस्वाद्यते काले लघुपिण्ड इवान्धसः ॥ (मो_१,२०.६ ॥

स्पष्टम् । युग्मम् ॥ (मोटी_१,२०.५-६ ॥

रक्तमांसादिदिग्धानि करभस्य यथा वने ।
तथैवाङ्गानि कामिन्यास् तत् प्रत्य् अपि हि को ग्रहः ॥ (मो_१,२०.७ ॥

स्पष्टम् ॥ (मोटी_१,२०.७ ॥

आपातरमणीयत्वं कल्प्यते केवलं स्त्रियाः ।
मन्ये तद् अपि नास्त्य् अत्र मुने मोहैककारणे ॥ (मो_१,२०.८ ॥

"अत्र" स्त्रीशरीरे ॥ (मोटी_१,२०.८ ॥

विपुलोल्लासदायिन्या मदोन्मथनपूर्वकम् ।
को विशेषो विकारिण्या मदिराया इह स्त्रियाः ॥ (मो_१,२०.९ ॥

"मदिराया" इति पञ्चमी ॥ (मोटी_१,२०.९ ॥

ललनालानसंलीना मुने मानवदन्तिनः ।
प्रबोधं नाधिगच्छन्ति दीर्घैर् अपि शमाङ्कुशैः ॥ (मो_१,२०.१० ॥

स्पष्टम् ॥ (मोटी_१,२०.१० ॥

केशकज्जलधारिण्यस् तीक्ष्णाः प्रकृतितः सदा ।
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन् नरम् ॥ (मो_१,२०.११ ॥

स्पष्टम् ॥ (मोटी_१,२०.११ ॥

ते वन्द्यास् ते महात्मानस् त एव पुरुषा भुवि ।
ये सुखेन समुत्तीर्णाः साधो यौवतसङ्कटात् ॥ (मो_१,२०.१२ ॥

"यौवतसङ्कटात्" स्त्रीसमूहाख्यात् ॥ (मोटी_१,२०.१२ ॥

ज्वलताम् अतिदूरेऽपि सरसा अपि नीरसम् ।
स्त्रियो हि नरकाग्नीनां दारु चारु च दारुणम् ॥ (मो_१,२०.१३ ॥

"सरसा अपि" "स्त्रियः" "नीरसं" "दारु" भवन्तीति विरोधाभासः ॥ (मोटी_१,२०.१३ ॥

कीर्णान्धकारकवरी तरत्तारकलोचना ।
पूर्णेन्दुबिम्बवदना कुमुदोत्करहासिनी ॥ (मो_१,२०.१४ ॥
लीलाविलोलपुरुषा कार्यसंहारकारिणी ।
परं विमोहनम् बुद्धेः कामिनी दीर्घयामिनी ॥ (मो_१,२०.१५ ॥

स्पष्टम् ॥ (मोटी_१,२०.१४-१५ ॥

पुष्पाभिराममधुरा करपल्लवलासिनी ।
भ्रमरभ्रूविलासाढ्या स्तबकस्तनधारिणी ॥ (मो_१,२०.१६ ॥
पुष्पकेसरगौराङ्गी नरमारणतत्परा ।
ददात्य् उत्तमवैवश्यं कान्ता विषमहालता ॥ (मो_१,२०.१७ ॥

स्पष्टम् ॥ (मोटी_१,२०.१६-१७ ॥

सीत्कारोच्छ्वासमात्रेण भुजङ्गदलनोत्कया ।
कान्तयोद्ध्रियते जन्तुः करिण्येवोरगो बिलात् ॥ (मो_१,२०.१८ ॥

"भुजङ्गाः" विटाः सर्पाश् च । "उद्ध्रियते" आकृष्यते ॥ (मोटी_१,२०.१८ ॥

कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् ।
नार्यो नरविहङ्गानाम् अङ्गबन्धनवागुराः ॥ (मो_१,२०.१९ ॥

स्पष्टम् ॥ (मोटी_१,२०.१९ ॥

ललनाविपुलालाने मनोमत्तमतङ्गजः ।
रतिशृङ्खलया ब्रह्मन् बद्धस् तिष्ठति मूकवत् ॥ (मो_१,२०.२० ॥

स्पष्टम् ॥ (मोटी_१,२०.२० ॥

जन्मपल्वलमत्स्यानां कर्मकोटरवारिणाम् ।
पुंसां दुर्वासनारज्जुर् नारी बडिशपिण्डिका ॥ (मो_१,२०.२१ ॥

"बडिशे" हि मत्स्यग्रहणार्थम् अन्नादि"पिण्डिका" स्थाप्यते ॥ (मोटी_१,२०.२१ ॥

मन्दुरेव तुरङ्गानाम् आलानम् इव दन्तिनाम् ।
पुंसाम् अब्जम् इवालीनाम् बन्धनं वामलोचनाः ॥ (मो_१,२०.२२ ॥

स्पष्टम् ॥ (मोटी_१,२०.२२ ॥

नानारसमयी चित्रा भोगभूमिर् इयम् मुने ।
स्त्रियम् आश्रित्य संयाता पराम् इह हि संस्थितिम् ॥ (मो_१,२०.२३ ॥

स्पष्टम् ॥ (मोटी_१,२०.२३ ॥

सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।
दुःखशृङ्खलया नित्यम् अलम् अस्तु मम स्त्रिया ॥ (मो_१,२०.२४ ॥

"अलम् अस्तु" दूरे भवतु ॥ (मोटी_१,२०.२४ ॥

किं स्तनेन किम् अक्ष्णा वा किं नितम्बेन किम् भ्रुवा ।
मांसमात्रैकसारेण करोम्य् अहम् अवस्तुना ॥ (मो_१,२०.२५ ॥

स्पष्टम् ॥ (मोटी_१,२०.२५ ॥

इतो मांसम् इतो रक्तम् इतोऽस्थीनि च वासरैः ।
ब्रह्मन् कतिपयैर् एव याति स्त्री विशरारुताम् ॥ (मो_१,२०.२६ ॥

"इति"शब्द अध्याहार्यः ॥ (मोटी_१,२०.२६ ॥

यास् ता निष्परुषैस् तूलैर् लालिताः पतिभिः स्त्रियः ।
ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूमिषु ॥ (मो_१,२०.२७ ॥

"निष्परुषैः" कोमलैः । "तूलैः" तूलविकारैः शयनीयैः । "पितृभूमिषु" श्मशानेषु ॥ (मोटी_१,२०.२७ ॥

यस्मिन् घननवस्नेहम् मुखे पत्त्राङ्कुरश्रियः ।
कान्तेन रचिता ब्रह्मञ् शीर्यते तत् तु जङ्गले ॥ (मो_१,२०.२८ ॥

"घनः" "नवः" "स्नेहः" यत्र । तत् । क्रियाविशेषणम् एतत् ॥ (मोटी_१,२०.२८ ॥

केशाः श्मशानवृक्षेषु यान्ति चामरलेशताम् ।
अस्थीन्य् उडुवद् आभान्ति दिनैर् अवनिमण्डले ॥ (मो_१,२०.२९ ॥

"दिनैः" स्वल्पकालेनेत्य् अर्थः ॥ (मोटी_१,२०.२९ ॥

पिबन्ति पांसवो रक्तं क्रव्यादाश् चाप्य् अनेकशः ।
चर्मानलशिखा भुङ्क्ते खं यान्ति प्राणवायवः ॥ (मो_१,२०.३० ॥
इत्य् एषा ललनाङ्गानाम् अचिरेणैव भाविनी ।
स्थितिर् मया वः कथिता किम् भ्रान्तिम् अनुधावथ ॥ (मो_१,२०.३१ ॥

स्पष्टम् ॥ (मोटी_१,२०.३०-३१ ॥

भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् ।
रसाद् अभिवहत्व् एतत् कथं नाम धियान्वितः ॥ (मो_१,२०.३२ ॥

"भूतपञ्चकस्य" यः "सङ्घट्टः" । तस्य "संस्थानं" रचनाविशेषः । "रसाद्" अभिलाषात् । "अभिवहतु" अनुयातु ॥ (मोटी_१,२०.३२ ॥

शाखावितानगहना कट्वम्लफलशालिनी ।
प्रतानोत्तालताम् एति चिन्ता कान्तानुसारिणी ॥ (मो_१,२०.३३ ॥

"वितानं" समूहः । "प्रतानैर्" उपशाखाभिर् । या "उत्तालता" उद्भटता । ताम् । "कान्तानुसारिणी" कान्ताविषया । "कान्तानुसारिणी" "चिन्ता" अत्यन्तं घनीभवतीति भावः ॥ (मोटी_१,२०.३३ ॥

शोच्यताम् परमाम् एति तरुणस् तरुणीरतः ।
निबद्धः करिणीलोभाद् विन्ध्यखाते यथा द्विपः ॥ (मो_१,२०.३४ ॥

स्पष्टम् ॥ (मोटी_१,२०.३४ ॥

यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य न भोगभूः ।
स्त्रियं त्यक्त्वा जगत् त्यक्तं जगत् त्यक्त्वा सुखी भवेत् ॥ (मो_१,२०.३५ ॥

"भोगेषु" स्त्र्यादिरूपेषु । "भोगभूः" भोगेच्छा ॥ (मोटी_१,२०.३५ ॥

सर्गान्तश्लोकेन स्त्रीनिन्दां समापयति

आपातमात्रमधुरेषु दुरुत्तरेषु
भोगेषु नाहम् अलिपक्षतिपेलवेषु ।
ब्रह्मन् रमे मरणरोगजरादिभीत्या
शाम्याम्य् अहम् परम् उपैमि वनम् प्रयत्नात् ॥ (मो_१,२०.३६ ॥

स्पष्टम् । इति शिवम् ॥ (मोटी_१,२०.३६ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे विंशः सर्गः ॥ १,२० ॥




एवं प्रसङ्गायातां स्त्रीनिन्दां कृत्वा प्रकरणप्राप्तं जरानिन्दाम् प्रस्तौति

अपर्याप्तं हि बालत्वम् बाल्यम् पिबति यौवनम् ।
यौवनं च जरा पश्चात् पश्य कर्कशताम् मिथः ॥ (मो_१,२१.१ ॥

"पिबति" ग्रसते ॥ (मोटी_१,२१.१ ॥

हिमाशनिर् इवाम्भोजं वात्येव शरदम्बुदम् ।
देहं जरा जरयति सरित् तीरतरुं यथा ॥ (मो_१,२१.२ ॥

"जरयति" जीर्णतां नयति ॥ (मोटी_१,२१.२ ॥

शिथिलादीर्घसर्वाङ्गं जराजीर्णकलेवरम् ।
समम् पश्यन्ति कामिन्यः पुरुषं करभं तथा ॥ (मो_१,२१.३ ॥

"तथा"शब्दः समुच्चये ॥ (मोटी_१,२१.३ ॥

श्वासायासकदर्थिन्या गृहीते जरसा जने ।
पलाय्य गच्छति प्रज्ञा सपत्न्येव हताङ्गना ॥ (मो_१,२१.४ ॥

"श्वासायासैः" "कदर्थयती"ति तादृश्या ॥ (मोटी_१,२१.४ ॥

दासाः पुत्राः स्त्रियश् चैव बान्धवाः सुहृदस् तथा ।
हसन्त्य् उन्मत्तकम् इव नरं वार्धककम्पितम् ॥ (मो_१,२१.५ ॥

स्पष्टम् ॥ (मोटी_१,२१.५ ॥

दुष्प्रज्ञं जरढं दीनं हीनं गुणपराक्रमैः ।
गृध्रो वृक्षम् इवादीर्घं गर्धो ह्य् अभ्येति वृद्धताम् ॥ (मो_१,२१.६ ॥
दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी ।
सर्वापदाम् एकसखी वर्धते वार्धके स्पृहा ॥ (मो_१,२१.७ ॥

"आदीर्घं" समन्ताद् दीर्घम् । "गर्धः" लोभः । "अभ्येति" आश्रयति । "वृद्धताम्" वार्धकम् । युग्मम् ॥ (मोटी_१,२१.६-७ ॥

कर्तव्यं किम् मया कष्टम् परत्रेत्य् अतिदारुणम् ।
अप्रतीकारयोग्यं हि वार्धके वर्धते भयम् ॥ (मो_१,२१.८ ॥

स्पष्टम् ॥ (मोटी_१,२१.८ ॥

कोऽहं वराकः किम् इव करोमि कथम् एव वा ।
तिष्ठामि मौनम् एवेति दीनतोदेति वार्धके ॥ (मो_१,२१.९ ॥

स्पष्टम् ॥ (मोटी_१,२१.९ ॥

गर्धोऽभ्युदेति सोल्लासम् उपभोक्तुं न शक्यते ।
हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके ॥ (मो_१,२१.१० ॥

"गर्धः" उपभोगलोभः । "सोल्लासम्" इति क्रियाविशेषणम् ॥ (मोटी_१,२१.१० ॥

जराजीर्णबकी यावत् कासक्रेङ्कारकारिणी ।
रौति रोगोरगाकीर्णा कायद्रुमशिरःस्थिता ॥ (मो_१,२१.११ ॥
तावद् आगत एवाशु कुतोऽपि परिदृश्यते ।
घनान्धतिमिराकाङ्क्षी मुने मरणकौशिकः ॥ (मो_१,२१.१२ ॥

"कासः" रोगविशेषः ॥ (मोटी_१,२१.११-१२ ॥

सायंसन्ध्याप्रजातैव तमः समनुधावति ।
जरा वपुषि दृष्टैव मृतिं समनुधावति ॥ (मो_१,२१.१३ ॥

स्पष्टम् ॥ (मोटी_१,२१.१३ ॥

जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः ।
मृतिभृङ्गी द्रुतम् ब्रह्मन् नरस्यायाति सूत्सुका ॥ (मो_१,२१.१४ ॥

सुष्ठु उत्सुका "सूत्सुका" ॥ (मोटी_१,२१.१४ ॥

शून्यं नगरम् आभाति भाति च्छिन्नलतो द्रुमः ।
भात्य् अनावृष्टिमान् देशो न जराजर्जरं वपुः ॥ (मो_१,२१.१५ ॥

"शून्यनगरा"दिभ्योऽपि अशुभम् एव वृद्धत्वम् इति भावः ॥ (मोटी_१,२१.१५ ॥ क्षणान् निगिरणायैव कासक्वणितकारिणी ।

गृध्रीवामिषम् आदत्ते तरसैव नरं जरा ॥ (मो_१,२१.१६ ॥

स्पष्टम् ॥ (मोटी_१,२१.१६ ॥

दृष्ट्वैव सूत्सुकेवाशु प्रगृह्य शिरसि क्षणात् ।
प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥ (मो_१,२१.१७ ॥

स्पष्टम् ॥ (मोटी_१,२१.१७ ॥

सीत्कारकारिणी पांसुपरुषा परिजर्जरम् ।
शरीरं शातयत्य् एषा वात्येव तरुपल्लवम् ॥ (मो_१,२१.१८ ॥

"एषा" जरा । जरागृहीतः "वात"गृहीतश् च पुरुषः "सीत्कारं करोति" ॥ (मोटी_१,२१.१८ ॥

जरसोपहतो देहो धत्ते जर्जरतां गतः ।
तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् ॥ (मो_१,२१.१९ ॥

स्पष्टम् ॥ (मोटी_१,२१.१९ ॥

जराज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः ।
विकासयति संरब्धवातां कासकुमुद्वतीम् ॥ (मो_१,२१.२० ॥

"संरब्धः" आरब्धः । "वातः" वातरोगः यया । सा । ताम् ॥ (मोटी_१,२१.२० ॥

परिपक्वं समालोक्य जराक्षारविधूसरम् ।
शिरःकुष्माण्डकम् भुङ्क्ते पुंसः कालः किलेश्वरः ॥ (मो_१,२१.२१ ॥

"शिर" एव "कुष्माण्डकम्" फलविशेषः ॥ (मोटी_१,२१.२१ ॥

जराजह्नुसुतोद्युक्ता मूलान्य् अस्य निकृन्तति ।
शरीरतीरवृक्षस्य चलस्यायूंषि सत्वरम् ॥ (मो_१,२१.२२ ॥

"उद्युक्ता" प्रवृत्ता । "आयूंषि" "मूलानि" आयुराख्यानि मूलानि ॥ (मोटी_१,२१.२२ ॥

जरामार्जारिका भुक्तयौवनाखुतयेन्धिता ।
परम् उल्लासम् आयाति शरीरामिषगर्धिनी ॥ (मो_१,२१.२३ ॥

स्पष्टम् ॥ (मोटी_१,२१.२३ ॥

काचिद् अस्ति जगत्य् अस्मिन् नामङ्गलकरी तथा ।
यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥ (मो_१,२१.२४ ॥

स्पष्टम् ॥ (मोटी_१,२१.२४ ॥

कासश्वासससीत्कारा दुःखधूमतमोमयी ।
जराज्वाला ज्वलत्य् एषा ययासौ दग्ध एव हि ॥ (मो_१,२१.२५ ॥

"असौ" वृद्धः ॥ (मोटी_१,२१.२५ ॥

जरसा वक्रताम् एति शुक्लावयवपल्लवा ।
तात तन्वी तनुर् नॄणां लता पुष्पानता यथा ॥ (मो_१,२१.२६ ॥

स्पष्टम् ॥ (मोटी_१,२१.२६ ॥

जराकर्पूरधवलं देहकर्पूरपादपम् ।
मुने मरणमातङ्गो नूनम् उद्धरति क्षणात् ॥ (मो_१,२१.२७ ॥

स्पष्टम् ॥ (मोटी_१,२१.२७ ॥

मरणस्य मुने राज्ञो जराधवलचामरा ।
आगच्छतोऽग्रे निर्याति स्वाधिव्याधिपताकिनी ॥ (मो_१,२१.२८ ॥

स्पष्टम् ॥ (मोटी_१,२१.२८ ॥

न जिताः शत्रुभिः सङ्ख्ये ये निष्पिष्टाद्रिकोटयः ।
ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥ (मो_१,२१.२९ ॥

स्पष्टम् ॥ (मोटी_१,२१.२९ ॥

जरातुषारधवले शरीरसदनान्तरे ।
शक्नुवन्त्य् अक्षशिशवः स्पन्दितुं न मनाग् अपि ॥ (मो_१,२१.३० ॥

"अक्षशिशवः" इन्द्रियबालकाः ॥ (मोटी_१,२१.३० ॥

संसारसंसृतेर् अस्या गन्धकुट्याः शिरोगता ।
देहयष्ट्या जरानाम्नी चामरश्रीर् विराजते ॥ (मो_१,२१.३१ ॥

"गन्धकुट्याः" "शिरसि" "चामरं" स्थाप्यते । घटकुट्या इति वा पाठः ॥ (मोटी_१,२१.३१ ॥

जराचन्द्रोदयसिते शरीरनगरे स्थिते ।
क्षणाद् विकासम् आयाति मुने मरणकैरवम् ॥ (मो_१,२१.३२ ॥

स्पष्टम् ॥ (मोटी_१,२१.३२ ॥

जरासुधालेपसिते शरीरान्तःपुरान्तरे ।
अशक्तिर् आधिर् आर्तिश् च तिष्ठन्ति सुखम् अङ्गनाः ॥ (मो_१,२१.३३ ॥

स्पष्टम् ॥ (मोटी_१,२१.३३ ॥

अभावाग्रे सरा यत्र जरा जयति जन्तुषु ।
कस् तत्रेह समाश्वासो मम मन्दमतेर् मुने ॥ (मो_१,२१.३४ ॥

"अभावस्य" मरणस्य्"आग्रे सरा" ॥ (मोटी_१,२१.३४ ॥

सर्गान्तश्लोकेन जरानिन्दां समापयति

किं तेन दुर्जीवितदुर्ग्रहेण
जरां गतेनापि हि जीव्यते यत् ।
जरा जगत्याम् अजिता नराणां
सर्वैषणास् तात तिरस्करोति ॥ (मो_१,२१.३५ ॥

"तेन" प्रसिद्धेन । "दुर्जीवितदुर्ग्रहेण" कुत्सितजीविताख्येन दुष्टग्रहेण । "जरागतेनापि" सता "किं" "जीव्यते" किमर्थं जीव्यते । व्यर्थं जीव्यते इति यावत् । "हि" निश्चये । हे "तात" । "यद्" यस्मात् कारणात् । "जगत्यां" जगति । "अजिता" "जरा नराणां" "सर्वैषणाः" समस्ताः चेष्टाः । "तिरस्करोति" नयति । इति शिवम् ॥ (मोटी_१,२१.३५ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकविंशः सर्गः ॥ १,२१ ॥




एवं जरानिन्दां कृत्वा कालनिन्दाम् प्रस्तौति

विकल्पकल्पनानल्पकल्पितैर् अल्पबुद्धिभिः ।
भेदैर् उद्धरतां नीतः संसारकुहकभ्रमः ॥ (मो_१,२२.१ ॥

"भेदैः" कथम्भूतैः । विकल्पकल्पनाभिः "अनल्पम्" अत्यन्तं । "कल्पितैः" । असत्यभूतैर् इत्य् अर्थः । "संसार "एव "कुहकभ्रमः" मिथ्याभ्रमः ॥ (मोटी_१,२२.१ ॥

सतां कथम् इवास्थेह जायते जालपञ्जरे ।
बाला एवात्तुम् इच्छन्ति फलम् मकुरबिम्बितम् ॥ (मो_१,२२.२ ॥

"इह" "जालपञ्जरे" इन्द्रजालपञ्जररूपे संसारे इत्य् अर्थः । भामेतिवत् प्रयोगः । "अत्तुम्" भक्षितुम् ॥ (मोटी_१,२२.२ ॥

इहापि विद्यते यैषा पेलवा सुखभावना ।
आखुस् तन्तुम् इवाशेषं कालस् ताम् अपि कृन्तति ॥ (मो_१,२२.३ ॥

"अशेषम्" इति क्रियाविशेषणम् । "तां" सुखभावनाम् ॥ (मोटी_१,२२.३ ॥

न तद् अस्तीह यद् अयं कालस् सकलघस्मरः ।
ग्रसते न जगज्जातम् महाब्धिम् इव वाडवः ॥ (मो_१,२२.४ ॥

स्पष्टम् ॥ (मोटी_१,२२.४ ॥

समस्तसामान्यतया भीमः कालो महेश्वरः ।
दृश्यसत्ताम् इमां सर्वां कवलीकर्तुम् उद्यतः ॥ (मो_१,२२.५ ॥

स्पष्टम् ॥ (मोटी_१,२२.५ ॥

महताम् अपि नो देवः प्रतिपालयति क्षणात् ।
कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥ (मो_१,२२.६ ॥

"नो" "प्रतिपालयति" न प्रतीक्षते । "विश्वात्मतां" व्यापकतां ॥ (मोटी_१,२२.६ ॥

युगवत्सरकल्पाख्यैः किञ्चित् प्रकटतां गतः ।
रूपैर् अलक्ष्यरूपात्मा सर्वम् आक्रम्य तिष्ठति ॥ (मो_१,२२.७ ॥

सूर्यवारादिवशेन ज्ञातैर् इति शेषः ॥ (मोटी_१,२२.७ ॥

ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये ।
कालेन विनिगीर्णास् ते करभेणेव पल्लवाः ॥ (मो_१,२२.८ ॥

स्पष्टम् ॥ (मोटी_१,२२.८ ॥

निर्दयः कठिनः क्रूरः कर्कशः कृपणोऽधमः ।
न तद् अस्ति यद् अद्यापि न कालो निगिरत्य् अयम् ॥ (मो_१,२२.९ ॥

पौनरुक्त्यप्रयोगः क्रोधावेशबाहुल्यं सूचयति ॥ (मोटी_१,२२.९ ॥

कालः कवलनैकान्तमतिर् अत्ति गिरीन् अपि ।
अनन्तैर् अपि भोगौघैर् नायं तृप्तो महाशनः ॥ (मो_१,२२.१० ॥

"महाशनः" बह्वाशी ॥ (मोटी_१,२२.१० ॥

हरत्य् अयं नाशयति करोत्य् अत्ति निहन्ति च ।
कालः संसारनृत्ये हि नानारूपैर् यथा नटः ॥ (मो_१,२२.११ ॥

स्पष्टम् ॥ (मोटी_१,२२.११ ॥

भिनत्ति प्रविभागस्थो भूतबीजान्य् अनारतम् ।
जगत्य् असत्तया चञ्च्वा दाडिमानि यथा शुकः ॥ (मो_१,२२.१२ ॥

"प्रविभागे" ति"ष्ठ"तीति तादृशः । प्रविभागकारीत्य् अर्थः ॥ (मोटी_१,२२.१२ ॥

शुभाशुभविषाणाग्रविलूनजनपल्लवः ।
स्फूर्जति स्फीतजनताजीवराजीविनीगजः ॥ (मो_१,२२.१३ ॥

"स्फीता" स्फारत्वं गता । "जीवराजीविनी" जीवयुक्ता पद्मिनी ॥ (मोटी_१,२२.१३ ॥

विरिञ्चमज्जब्रह्माण्डबृहद्विल्वफलद्रुमम् ।
ब्रह्मकाननम् आभोगि परम् आवृत्य तिष्ठति ॥ (मो_१,२२.१४ ॥

"ब्रह्माण्डे" हि "विरिञ्च" एव सारभूतो भवतीति "विरिञ्चमज्जे"त्य् उक्तं । "आवृत्य" आच्छाद्य । एतेन ब्रह्मण्य् अपि कालस्पर्श उक्तः ॥ (मोटी_१,२२.१४ ॥

यामिनीभ्रमरीपूर्णा रचयन् दिनमञ्जरीः ।
वर्षकल्पकलावल्लीर् न कदाचन खिद्यते ॥ (मो_१,२२.१५ ॥

काल इति शेषः । कालः किं कुर्वन् । "वर्षकल्पकलावल्ली" "रचयन्न्" इति योज्यम् ॥ (मोटी_१,२२.१५ ॥

भिद्यते नावभग्नोऽपि दग्धोऽपि हि न दह्यते ।
दृश्यते नातिदृश्योऽपि धूर्तचूडामणिर् मुने ॥ (मो_१,२२.१६ ॥

"अतिदृश्य"त्वं कालस्य ऋतुगुणादिदर्शनेन ज्ञेयम् । "न दृश्यते" आकाराभावात् । "धूर्तोऽपि" एवंविधो भवतीति "धूर्तचूडामणिर्" इत्य् उक्तम् ॥ (मोटी_१,२२.१६ ॥

एकेनैव निमेषेण किञ्चिद् उत्थापयत्य् अलम् ।
किञ्चिद् विनाशयत्य् उच्चैर् मनोराज्यवद् आततः ॥ (मो_१,२२.१७ ॥

स्पष्टम् ॥ (मोटी_१,२२.१७ ॥

दुर्विलासविलासिन्या चेष्टया परिपुष्टया ।
दर्व्येव सूपकृत् सूपं जनम् आवर्तयन् स्थितः ॥ (मो_१,२२.१८ ॥

"आवर्तयन्" भ्रमयन् ॥ (मोटी_१,२२.१८ ॥

तृणम् पांसुम् महेन्द्रं च सुमेरुम् पर्णम् अर्णवम् ।
आत्मस्फारतया सर्वम् आत्मसात्कर्तुम् उद्यतः ॥ (मो_१,२२.१९ ॥

"आत्मनः" या "स्फारता" व्यापकता । तया । "आत्मसात्कर्तुम्" स्वाधीनं कर्तुम् ॥ (मोटी_१,२२.१९ ॥

क्रौर्यम् अत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता ।
सर्वं दौर्भाग्यम् अत्रैव सर्वम् अत्रैव चापलम् ॥ (मो_१,२२.२० ॥

"अत्रैव" अस्मिन् काले एव । "पर्याप्तम्" पूर्णम् ॥ (मोटी_१,२२.२० ॥

प्रेरयंल् लीलयार्केन्दू क्रीडतीह नभस्तले ।
निक्षिप्तवीटायुगलो निजे बाल इवाङ्गने ॥ (मो_१,२२.२१ ॥

"वीटा" कन्दुकं ॥ (मोटी_१,२२.२१ ॥

सर्वभूतास्थिमालाभिर् आपादवलिताकृतिः ।
विलसत्य् एष कल्पान्ते कालः कल्पितकल्पनः ॥ (मो_१,२२.२२ ॥

"कल्पिताः" "कल्पनाः" जगद्रूपाः कल्पनाः । येन । सः ॥ (मोटी_१,२२.२२ ॥

अस्योड्डामरनृत्तस्य कल्पान्तेऽङ्गविनिर्गतैः ।
प्रस्फुरत्य् अम्बरे मेरुर् भूर्जत्वग् इव वायुभिः ॥ (मो_१,२२.२३ ॥

"स्फुरति" आकाशे भ्रमति ॥ (मोटी_१,२२.२३ ॥

रुद्रो भूत्वा भवत्य् एष महेन्द्रोऽथ पितामहः ।
शुक्रो वैश्रवणश् चापि पुनर् एव न किञ्चन ॥ (मो_१,२२.२४ ॥

स्पष्टम् ॥ (मोटी_१,२२.२४ ॥

धत्तेऽजस्रोत्थितध्वस्तान् सर्गान् अमितभासुरान् ।
अन्यान् अन्यान् अप्य् अनन्यान् वीचीन् अब्धिर् इवात्मनि ॥ (मो_१,२२.२५ ॥

"अजस्रम्" "उत्थितांश्" च तान् "ध्वस्तांश्" च "सर्गान्" सृष्टीन् । "अन्यान् अन्यान्" इति वीप्सा । "अपि"शब्दः "अनन्यान्" इत्य् अनेन सम्बध्यते ॥ (मोटी_१,२२.२५ ॥

महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् ।
देवासुरगणान् पक्वान् फलभारान् अवस्थितः ॥ (मो_१,२२.२६ ॥

"परिशातयन्" छेदयन् ॥ (मोटी_१,२२.२६ ॥

आलोलभूतमषकघुङ्घुमानाम् प्रपातिनाम् ।
ब्रह्माण्डोडुम्बरौघानाम् बृहत्पादपतां गतः ॥ (मो_१,२२.२७ ॥

"घुङ्घुमे"ति शब्दानुकरणम् । "उडुम्बरः" फलविशेषः । तत्र हि मषकाः बाहुल्येन तिष्ठन्ति ॥ (मोटी_१,२२.२७ ॥

सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया ।
वपुर् विनोदयत्य् एषः क्रियाप्रियतमान्वितः ॥ (मो_१,२२.२८ ॥

"क्रियाप्रियतमान्वितः" "सः" कालः । "चिद्" एव प्रकाशरूपत्वात् "ज्योत्स्ना" । तया "परिफुल्लया" प्रकटीभूतया । "सत्तामात्रकुमुद्वत्या" । "वपुः" आत्मानं । "विनोदयति" सदासत्तया क्रियया युतो भवतीति ॥ (मोटी_१,२२.२८ ॥

अनन्तापायपर्यन्तम् बद्धपीठं निजं वपुः ।
महाशैलवद् उत्तुङ्गम् अवलम्ब्य व्यवस्थितः ॥ (मो_१,२२.२९ ॥

"अनन्तापायपर्यन्तम्" अन्तापायपर्यन्तरहितं । नाशरहितम् इत्य् अर्थः ॥ (मोटी_१,२२.२९ ॥ क्वचिच् छ्यामतमःश्यामं क्वचित् कान्तियुतं ततम् ।

द्वयेनापि क्रमाद् रिक्तं स्वभावम् भावयन् स्थितः ॥ (मो_१,२२.३० ॥

"श्यामं" यत् "तमः" । तेन "श्यामं" । ["स्वभावम्" "भावयन्"] स्वरूपं सम्पादयन्न् इति यावत् । एतेन रात्रिदिवसे सन्ध्या चेति त्रयम् उक्तम् ॥ (मोटी_१,२२.३० ॥

संलीनासङ्ख्यसंसारसारया स्वात्मसत्तया ।
गुर्वीव भारघनया निबद्धपदतां गतः ॥ (मो_१,२२.३१ ॥

"संलीनः" "असङ्ख्यसंसाराणां" "सारो" यस्यां । सा । तया । गुर्वी हि "निबद्धपदतां" गच्छति इति "गुर्वी"त्य् उक्तम् ॥ (मोटी_१,२२.३१ ॥

न खिद्यते न म्रियते न तिष्ठति न गच्छति ।
नास्तम् एति न चोदेति महाकल्पशतैर् अपि ॥ (मो_१,२२.३२ ॥

स्पष्टम् ॥ (मोटी_१,२२.३२ ॥

केवलं जगदारम्भलीलया घनहेलया ।
यापयत्य् आत्मनात्मानम् अनहङ्कारम् आनतम् ॥ (मो_१,२२.३३ ॥

"घना" "हेला" यस्यां । तादृश्या । "यापयति" समापयति । अहङ्काराभवे हि कालो नश्यति । स्वनाशक्रीडाम् अपि स्वयम् एव करोतीति भावः ॥ (मोटी_१,२२.३३ ॥

यामिनीपङ्ककलिलां दिनकोकनदावलीम् ।
क्रियाभ्रमरिकाम् मन्दं सरःसु आरोपयन् स्थितः ॥ (मो_१,२२.३४ ॥

"सरःसु" अर्थात् भुवनरूपेषु । "आरोपयन्" कल्पयन् । सूर्यरूपेणेति शेषः ॥ (मोटी_१,२२.३४ ॥

गृहीत्वा भीषणः कृष्णां रजनीं जीर्णमार्जनीम् ।
आलोककनकक्षोदम् आहरत्य् अभितोऽवनिम् ॥ (मो_१,२२.३५ ॥

"आहरति" सम्मार्जयति । रात्रिं विधाय प्रकाशम् उपसंहरतीति भावः ॥ (मोटी_१,२२.३५ ॥

सञ्चारयन् क्रियाङ्गुल्या कोणकेष्व् अर्कदीपिकाम् ।
जगत्सद्मनि कारुण्यात् क्व किम् अस्तीति वीक्षते ॥ (मो_१,२२.३६ ॥

"कोणकेषु" दिक्कोणेषु । अन्योऽपि हि दीपिकाम् प्रज्वाल्य सद्मनि क्व किम् अस्तीति पश्यति ॥ (मोटी_१,२२.३६ ॥

प्रेक्ष्याहानि निमेषेण सूर्याक्ष्णा पाकवन्त्य् अलम् ।
लोकपालफलान्य् अत्ति जगज्जीर्णवनाद् अयम् ॥ (मो_१,२२.३७ ॥

"सूर्याक्ष्णा" सूर्याख्येन चक्षुषा । "अहानि" "प्रेक्ष्य" कञ्चित् कालम् प्रतीक्ष्येत्य् अर्थः ॥ (मोटी_१,२२.३७ ॥

जगज्जीर्णकुटीकीर्णान् अर्पयत्य् उग्रकोटरे ।
क्रमेण गुणवल्लोकमणीन् मृत्युसमुद्गके ॥ (मो_१,२२.३८ ॥

"जगज्जीर्णकुट्यां कीर्णान्" विक्षिप्तान् । अन्योऽपि हि कुट्यां विक्षिप्तान् मणीन् समुद्गकेऽर्पयति ॥ (मोटी_१,२२.३८ ॥

गुणैर् आपूर्यते यैव लोकरत्नावली भृशम् ।
भूषार्थम् इव ताम् अङ्गे कृत्वा भूयो निकृन्तति ॥ (मो_१,२२.३९ ॥

अन्योऽपि राजादिः रत्नावलीम् अङ्गे कृत्वा लीलया कृन्तति ॥ (मोटी_१,२२.३९ ॥

दिनहंसानुसृतया निशेन्दीवरमालया ।
ताराकेसरयाजस्रं चपलो वलयत्य् अलम् ॥ (मो_१,२२.४० ॥

"वलयति" आवृत्तं सम्पादयति । भुवनम् इति शेषः ॥ (मोटी_१,२२.४० ॥

शैलोर्णद्युधराशृङ्गजगदूर्णायुसौनिकः ।
प्रत्यहम् पिबति प्रेक्ष्य तारारक्तकणान् अपि ॥ (मो_१,२२.४१ ॥

"शैला" एव "ऊर्णा" यस्य । तत् । तादृशं । "द्युधरे" द्यावापृथिव्यौ एव "शृङ्गे" यस्य । तत् । तादृशं च । ईदृशं च यत् "जगत्" तद् एव "ऊर्णायुः" मेषः । तस्य "सौनिकः" हिंसकः ॥ (मोटी_१,२२.४१ ॥

तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी ।
न तद् अस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥ (मो_१,२२.४२ ॥

स्पष्टम् ॥ (मोटी_१,२२.४२ ॥

कल्पकेलिविलासेन पिष्टपातितजन्तुना ।
न्यग्भावोद्भवहासेन रमते स्वात्मनात्मनि ॥ (मो_१,२२.४३ ॥

"पिष्टाः" चूर्णीकृताः । अत एव "पातिताः" "जन्तवो" येन । सः । तादृशेन । काल इति शेषः । तृतीयान्तत्रयं "स्वात्मने"त्य् अस्य विशेषणत्वेन योज्यम् ॥ (मोटी_१,२२.४३ ॥

कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वम् पदं गतः ।
सर्वम् एव करोतीदं न करोति च किञ्चन ॥ (मो_१,२२.४४ ॥

नकिञ्चिद्रूपत्वात् न किञ्चित् करणं ज्ञेयम् ॥ (मोटी_१,२२.४४ ॥

सर्गान्तश्लोकेन कालनिन्दां समापयति

सकलम् अप्य् अकलाकलितान्तरं
सुभगदुर्भगरूपधरं वपुः ।
प्रकटयन् सहसैव च गोपयन्
विलसतीह हि कालबलं नृषु ॥ (मो_१,२२.४५ ॥

"सकलत्वाकल"त्वादिकं विषयविभागेन ज्ञेयं । "प्रकटयन्" "गोपयन्" इत्य् अत्र सर्वनामस्थानाभावेऽपि नुमागम आर्षः । इति शिवम् ॥ (मोटी_१,२२.४५ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वाविंशः सर्गः ॥ १,२२ ॥




एवं कालनिन्दां कृत्वा कालविलासं कथयति

अस्योड्डामरलीलस्य दूरास्तसकलापदः ।
संसारे राजपुत्रस्य कालस्याकलितौजसः ॥ (मो_१,२३.१ ॥
अस्मिन्न् आचरतो दीनैर् मुग्धैर् भूतमृगव्रजैः ।
आखेटकं जर्जरिते जगज्जङ्गलजालके ॥ (मो_१,२३.२ ॥
एकदेशोल्लसच्चारुवडवानलपङ्कजा ।
क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥ (मो_१,२३.३ ॥

स्पष्टम् ॥ (मोटी_१,२३.१-३ ॥

कटुतिक्ताम्लभूताढ्यैः सदधिक्षीरसागरैः ।
तैर् एव तैः पर्युषितैर् जगद्भिः काल्यवर्तनम् ॥ (मो_१,२३.४ ॥

"कटुतिक्ताम्लाः" अत्यन्ततामसिकतामसिकराजसिकाः । कट्वादिरसविशेषयुक्ताश् च ये "भूताः" चराचराः भूताः सिद्धद्रव्याणि च । तैः "आढ्यैः" युक्तैः । परेद्युः उषितैः "पर्युषितैः" । न तु नवैर् इत्य् अर्थः । "काल्यवर्तनम्" प्राभातिकभोजनं । "अस्ये"ति सर्गाद्यश्लोकस्थं सर्वत्र योज्यम् ॥ (मोटी_१,२३.४ ॥

चण्डी चतुरसञ्चारा सर्वमातृगणान्विता ।
संसारवनविन्यस्तनरैणाकर्षणी वृकी ॥ (मो_१,२३.५ ॥

अस्य कालस्य "चण्डी"ति नामधेया शक्तिः । "वृकी" भवतीति सम्बन्धः । "मातृगणः" प्रसिद्धः । राजपुत्रोऽपि आखेटकार्थं वृकीम् पालयति ॥ (मोटी_१,२३.५ ॥

पृथ्वी करतले पृथ्वी पानपात्री रसान्विता ।
कमलोत्पलकल्हारलोलजालकमालिता ॥ (मो_१,२३.६ ॥

"पृथ्वी" विस्तीर्णा ॥ (मोटी_१,२३.६ ॥

विरावी विकटास्फालो नृसिंहो भुजपञ्जरे ।
सटाविकटपीनांसः कान्तः क्रीडाशकुन्तकः ॥ (मो_१,२३.७ ॥

"नृसिंहः" नरसिंहः । राजपुत्रस्यापि विलासार्थम् पञ्जरे सिंहो भवति ॥ (मोटी_१,२३.७ ॥

अलाबुवीणामधुरः शरद्व्योमामलच्छविः ।
देवः किल महाकालो लीलाकोकिलबालकः ॥ (मो_१,२३.८ ॥

"महाकालः" संहाराधिकारी "देव"विशेषः ॥ (मोटी_१,२३.८ ॥

अजस्रस्फूर्जिताकारो वान्तदुःखशराशनिः ।
अभावनामकोदण्डः परिस्फुरति सर्वतः ॥ (मो_१,२३.९ ॥

"वान्ताः" उद्गीर्णाः । "दुःखान्य्" एव "शराशनयः" । येन । सः । अभावनामा चासौ कोदण्डः "अभावनामकोदण्डः" ॥ (मोटी_१,२३.९ ॥

सर्गान्तश्लोकेन कालविलासवर्णनं समापयति

अनुत्तमस्फुरितविलासवर्धितो
भ्रमन् हरन् परिविलसन् विदारयन् ।
जरज्जगज् जरढविलोलमर्कटः
परिस्फुरद्वपुर् इह काल ईहते ॥ (मो_१,२३.१० ॥

"ईहते" नानाविधाः चेष्टाः करोति । इति शिवम् ॥ (मोटी_१,२३.१० ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रयोविंशः सर्गः ॥ १,२३ ॥




एवं कालविलासम् उक्त्वा दैवविलासम् प्रस्तौति

अत्रैव दुर्विलासानां चूडामणिर् इवापरः ।
करोत्य् अस्तीति लोकेन दैवं कालश् च कथ्यते ॥ (मो_१,२४.१ ॥

"करोति" इति क्रियाकथनम् । "अस्तीति" सत्ताकथनं । "कालो"ऽत्र कृतान्तोऽभिप्रेतः । तस्यैव "दैव"पर्यायत्वात् ॥ (मोटी_१,२४.१ ॥

क्रियामात्राद् ऋते यस्य स्वपरिस्पन्दरूपिणः ।
नान्यद् आलक्ष्यते रूपं कर्मणो न समीहितम् ॥ (मो_१,२४.२ ॥
तेनेयम् अखिला भूतसन्ततिर् नित्यपेलवा ।
तापेन हिममालेव नीता विधुरताम् भृशम् ॥ (मो_१,२४.३ ॥

"यस्य" दैवस्य । "क्रियामात्रं" विना । "न रूपम् आलक्ष्यते" । "ना"पि "कर्मणः" "समीहितं" कर्मालम्बनं काङ्क्षितम् । "आलक्ष्यते" । किमर्थम् । अयं किञ्चित् करोतीति "तेनेयम्" "भूतसन्ततिर् विधुरतां नीता" ॥ (मोटी_१,२४.२-३ ॥

यद् इदं दृश्यते किञ्चिज् जगदाभोगिमण्डलम् ।
तत् तस्य नर्तनागारम् इहासाव् अभिनृत्यति ॥ (मो_१,२४.४ ॥

"तस्य" दैवस्य ॥ (मोटी_१,२४.४ ॥

अस्य नामान्तरकथनाभिप्रायेणाह

तृतीयं च कृतान्तेति नाम बिभ्रत् सुदारुणम् ।
कापालिकवपुर् मत्तं दैवं जगति नृत्यति ॥ (मो_१,२४.५ ॥

"कापालिकवपुः" कापालिकतुल्यः ॥ (मोटी_१,२४.५ ॥

अस्यैव सर्वाधारत्वं कथयति

नृत्यतो हि कृतान्तस्य नितान्तम् अविरागिणः ।
नित्यं नियतिकान्ताया मुने परमकामिनः ॥ (मो_१,२४.६ ॥
शेषः शशिकलाशुभ्रो गङ्गावाहश् च तौ त्रिधा ।
उपवीते अवीताभे उभे संसारवक्षसि ॥ (मो_१,२४.७ ॥

"तौ" कौ । "शेषः गङ्गावाहश्" च । "अवीताभे" शोभायुक्ते । "संसार" एव "वक्षस्" । तत्र ॥ (मोटी_१,२४.६-७ ॥

चन्द्रार्कमण्डले हेमकटके करमूलयोः ।
लीलासरसिजं हस्ते ब्राह्मम् ब्रह्माण्डकर्णिकम् ॥ (मो_१,२४.८ ॥

"ब्राह्मम्" ब्रह्मणः आसनभूतम् पद्मम् । "ब्रह्माण्डस्य कर्णिकम्" कर्निकाभूतं । तन्मध्यवर्तित्वात् ॥ (मोटी_१,२४.८ ॥

ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् ।
एकार्णवपयोधौतम् एकम् अम्बरम् अम्बरम् ॥ (मो_१,२४.९ ॥

"अम्बरम्" आकाशम् । "अम्बरं" वस्त्रम् ॥ (मोटी_१,२४.९ ॥

एवंरूपस्य तस्याग्रे नियतिर् नित्यकामिनी ।
अनस्तमितसंरम्भम् आरम्भैः परिनृत्यति ॥ (मो_१,२४.१० ॥

"आरम्भैः" यमनियमरूपैः । नर्तकस्य समीपे हि नर्तकी अपि नृत्यति ॥ (मोटी_१,२४.१० ॥

तस्या नर्तनलोलाया जगन्मण्डपकोटरे ।
अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥ (मो_१,२४.११ ॥
चारुभूषणम् अङ्गेषु देवलोकान्तरावली ।
आपातालं नभो लम्बं कवरीमण्डलम् बृहत् ॥ (मो_१,२४.१२ ॥

"देवानाम्" यानि "लोकान्तराणि" । तेषाम् "आवली" "अङ्गेषु" "चारुभूषणम्" भवति । "नभः" कथम्भूतम् । "आपातालम्" पातालं तावत् । "लम्बं" व्यापकं । नृत्यन्त्याश् च "कवरी" लम्बा भवति ॥ (मोटी_१,२४.११-१२ ॥

नरकाली च मञ्जीरमाला कलकलाकुला ।
प्रोता दुष्कृतसूत्रेण पातालचरणे चला ॥ (मो_१,२४.१३ ॥

"मञ्जीरमाला" किङ्किणीमाला ॥ (मोटी_१,२४.१३ ॥

कस्तूरिकातिलककं क्रियासख्योपकल्पितम् ।
चित्रितं चित्रगुप्तेन यामे वदनपट्टके ॥ (मो_१,२४.१४ ॥

"यामे" यमसम्बन्धिनि । "वदनपट्टके" मुखपट्टके ।ऽर्थात् यमशासनपट्टरूपके मुखे । "चित्रगुप्तेन चित्रितं" चित्रगुप्तकर्तृकं चित्रितं । चित्रगुप्तलिखिता लिपिर् इति यावत् । "कस्तूरिकातिलकम्" भवति । कथम्भूतं । "क्रियासख्या" क्रियाशक्तिरूपया सख्या । "उपकल्पितम्" चित्रगुप्तम् आविश्य रचितम् । "सखी" हि सख्यास् तिलकं करोति ॥ (मोटी_१,२४.१४ ॥

कालीरूपम् उपस्थाय कल्पान्तेषु क्रियाकुलम् ।
नृत्यत्य् एषा पुनर् देवी स्फुटच्छैलघनारवम् ॥ (मो_१,२४.१५ ॥

"काली" कालशक्तिः । तस्या "रूपम् उपस्थाय" आश्रित्य । पूर्ववृत्तापेक्षया "पुनर्" इति प्रयोगः ॥ (मोटी_१,२४.१५ ॥

पश्चात्प्रलम्बविभ्रान्तकौमाररथबर्हिभिः ।
नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः ॥ (मो_१,२४.१६ ॥
लम्बलोलशरच्चन्द्रवितीर्णहरमूर्धजैः ।
उच्चरच्चारुमन्दारगौरीकवरिचामरैः ॥ (मो_१,२४.१७ ॥
उत्ताण्डवाचलाकारभैरवादरतुम्बकैः ।
रणत्सहस्ररन्ध्रेन्द्रदेहभिक्षाकपालकैः ॥ (मो_१,२४.१८ ॥
शुष्का शरीरखट्वाङ्गभङ्गैर् आपूरिताम्बरम् ।
भाययत्य् आत्मनात्मानम् अपि कृष्णैर् घनासितम् ॥ (मो_१,२४.१९ ॥

कुलकम् । "शुष्का" शोषणधर्मयुक्ता । प्रकृतत्वात् इयं नियतिः । "आत्मना" "घनासितम्" अत्यन्तकृष्णम् । "आत्मानम् अपि भाययति" भयाविष्टं करोति । अन्येषां तु का कथेति भावः । "आत्मानम्" कथम्भूतम् । "शरीरस्य" ये "खट्वाङ्गभङ्गाः" अर्थात् खट्वाङ्गभङ्गरूपाः अवयवाः । तैः "आपूरिताम्बरम्" । "शरीरखट्वाङ्गैः" कथम्भूतैः । "पश्चाद्" इत्यादि । "पश्चात्प्रलम्बः" अत एव "विभ्रान्तः" भ्रमन् । "कौमारः" कुमारसम्बन्धी । "रथबर्ही" येषां । तैः । "भाङ्काराः" वातकृताः ज्ञेयाः । "लम्बश्" चासौ "लोलश् "च यः "शरच्चन्द्रस्" । तेन "वितीर्णाः" दत्ताः । कृता इति यावत् । "हर"वत् "मूर्धजाः" येषां । तैः । यथा हरस्य केशाः चन्द्रकलया भासिताः भवन्ति । तथास्याः पूर्णेन शरच्चन्द्रेणेति भावः । "उच्चरच्चारुमन्दारा" विलसच्चारुमन्दारा । या "गौरीकवरी" । सा एव "चामरं" येषां । तैः । "उत्ताण्डवः" चासौ "अचलाकारः "। "भैरवः" महाभैरवः । स एव्"आदरतुम्बकः" आदरविषयः वाद्यभाण्डविशेषः येषां । तैः । "रणन्ति सहस्ररन्ध्राणि" नेत्ररूपाणि रन्ध्रसहस्राणि यस्य । तादृशः यः "इन्द्रदेहः" । स एव "भिक्षाकपालकं" येषां । तैः । तथा "कृष्णैः" । इदं च स्थूलदृष्ट्यर्थम् बाह्यध्यानम् उक्तम् । सूक्ष्मदृष्टीन् प्रति तु भङ्ग्या कुमारादिष्व् अपि नियतिस्पर्शः उक्तः ॥ (मोटी_१,२४.१६-१९ ॥

विश्वरूपशिरश्चक्रचारुपुष्करमालया ।
ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते ॥ (मो_१,२४.२० ॥

"विश्वरूपस्य" विराजो । यत् "शिरश्चक्रं" । तद् एव "चारुपुष्करमाला" । तया ॥ (मोटी_१,२४.२० ॥

प्रमत्तपुष्करावर्तडमरूड्डामरारवैः ।
तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः ॥ (मो_१,२४.२१ ॥

"डमरवः" वाद्यभाण्डविशेषाः । "उड्डामराः" उद्भटाः । "तुम्बुरे"ति गन्धर्वनाम ॥ (मोटी_१,२४.२१ ॥

नृत्यतोऽन्ते कृतान्तस्य चन्द्रमण्डलहासिनः ।
तारकाचन्द्रकाचारुव्योमपिञ्छावचूलिनः ॥ (मो_१,२४.२२ ॥
एकस्मिञ् श्रवणे दीर्घा हिमवान् अस्ति मुद्रिका ।
अपरेऽपि महामेरुः कान्ता काञ्चनकर्णिका ॥ (मो_१,२४.२३ ॥

"अन्ते" कल्पान्ते । "चन्द्रमण्डलम्" एव "हासः" । तद्युक्तस्य । "चन्द्रकाणि" [...] । ताभिः "चारु" यत् । "व्योमै"व "पिञ्छं" । तद् "अवचूलं" शिरोभूषणं यस्य । तादृशस्य । "मुद्रिका" श्वेतः कर्णाभरणविशेषः ॥ (मोटी_१,२४.२२-२३ ॥

अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले ।
लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥ (मो_१,२४.२४ ॥

"गण्डमण्डले" गण्डभित्तौ । कटिस्था मेखला "कटिमेखला" ॥ (मोटी_१,२४.२४ ॥

इतश् चेतश् च गच्छन्ती विद्युद्वलयवर्णिका ।
अनिलान्दोलिता भाति नीरदांशुकपट्टिका ॥ (मो_१,२४.२५ ॥

"विद्युद्वलय" एव "वर्णिका" भूषणविशेषः यस्यास् । तादृशी "विद्युद्वलयवर्णिका" ॥ (मोटी_१,२४.२५ ॥

मुसुलैः पट्टिसैः शूलैः प्रासैस् तोमरमुद्गरैः ।
तीक्ष्णैः क्षीणजगद्व्रातकृतान्तैर् इव सम्भृतैः ॥ (मो_१,२४.२६ ॥
संसारबन्धनादीर्घे पाशे कालकरच्युते ।
शेषभोगमहासूत्रे प्रोतैर् मालास्य शोभते ॥ (मो_१,२४.२७ ॥

"संसारबन्धना"र्थम् । "आ" समन्ताद् । "दीर्घे" । "अस्य" समनन्तरोक्तस्य । दैवापरपर्यायस्य कृतान्तस्य ॥ (मोटी_१,२४.२६-२७ ॥

जीवोल्लसन्मकरिकारत्नतेजोभिर् उज्ज्वला ।
सप्ताब्धिकङ्कणश्रेणी भुजयोर् अस्य भूषणम् ॥ (मो_१,२४.२८ ॥

"जीवेन उल्लसन्तः" । सजीवा इति यावत् । "मकराः" यासां । ताः । "कङ्कणेष्व्" अपि मकरिकाः भवन्ति । किं तु निर्जीवाः ॥ (मोटी_१,२४.२८ ॥

व्यवहारमहावर्ता सुखदुःखपरम्परा ।
रजःपूर्णा तमःश्यामा रोमाली तस्य राजते ॥ (मो_१,२४.२९ ॥

"व्यवहाराणाम् महावर्ताः" पुनः पुनर् आगमनानि यस्यां । सा । तादृशी "सुखदुःखपरम्परा" "तस्य" "रोमाली" "राजते" । कथम्भूता । "रजःपूर्णा" रजोगुणभरिता । तथा "तमःश्यामा" तमोगुणमलिना । "रोमाली" अपि आवर्तयुक्ता रजःपूर्णा तमःश्यामा च भवति ॥ (मोटी_१,२४.२९ ॥

एवम्प्रायां स कल्पान्ते कृतान्तस् ताण्डवोद्भटाम् ।
उपसंहृत्य नृत्येहां सृष्ट्या सह महेश्वरः ॥ (मो_१,२४.३० ॥
पुनर् हास्यमयीं नृत्तलीलां सर्वस्वरूपिणीम् ।
तनोतीमां जरादुःखशोकाभिनयभूषिताम् ॥ (मो_१,२४.३१ ॥

"सृष्ट्या सह" नियत्या सह । "पुनः" सर्गारम्भे । "इमां" जगद्रूपाम् ॥ (मोटी_१,२४.३०-३१ ॥

सर्गान्तश्लोकेनैतत् समापयति

भूयः करोति भुवनानि वनान्तराणि
लोकान्तराणि जनजालककल्पनां च ।
आचारचारुकलनां च चलाचलां च
पङ्काद् यथार्भकजनो रचनाम् अखिन्नः ॥ (मो_१,२४.३२ ॥

"चलाचलाम्" अत्यन्तचलाम् । इति शिवम् ॥ (मोटी_१,२४.३२ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्विंशः सर्गः ॥ १,२४ ॥




एवं दैवविलासम् उक्त्वा फलितम् आह

वृत्तेऽस्मिन्न् एव चैतेषां कालादीनाम् महामुने ।
संसारनाम्नि कैवास्था मादृशानाम् भवत्व् इह ॥ (मो_१,२५.१ ॥

अत इति शेषः । "वृत्ते" चरिते । "आदि"शब्देन दैवादीनां ग्रहणम् ॥ (मोटी_१,२५.१ ॥

विक्रीता इव तिष्ठाम एतैर् दैवादिभिर् वयम् ।
धूर्तैः प्रपञ्चचतुरैर् मुग्धा वनमृगा इव ॥ (मो_१,२५.२ ॥

स्पष्टम् ॥ (मोटी_१,२५.२ ॥

एषोऽनार्यसमाचारः कालः कवलनोन्मुखः ।
जगत्य् अविरतं लोकम् पातयत्य् आपदर्णवे ॥ (मो_१,२५.३ ॥

स्पष्टम् ॥ (मोटी_१,२५.३ ॥

दहत्य् अन्ते दुराशाभिर् दैवो दारुणचेष्टया ।
लोकम् पुष्पनिकाशाभिर् ज्वालाभिर् दहनो यथा ॥ (मो_१,२५.४ ॥

स्पष्टम् ॥ (मोटी_१,२५.४ ॥

धृतिं विधुरयत्य् एकामयदारूपवल्लभा ।
स्त्रीत्वात् स्वभावचपला नियतिर् नियमोन्मुखी ॥ (मो_१,२५.५ ॥

"आमयदा" रोगदायिनी । न रूपेण वल्लभा "अरूपवल्लभा" ॥ (मोटी_१,२५.५ ॥

ग्रसतेऽविरतम् भूतजालं सर्प इवानिलम् ।
कृतान्तः कर्कशाचारो जरां नीत्वा जगद्वपुः ॥ (मो_१,२५.६ ॥

"जगद्" एव "वपुः" यस्य । तादृशः ॥ (मोटी_१,२५.६ ॥

यमनिर्घृणराजेन्द्रो नार्तं नामानुकम्पते ।
सर्वभूतदयाचारो जनो दुर्लभतां गतः ॥ (मो_१,२५.७ ॥

"आर्तं" दीनम् ॥ (मोटी_१,२५.७ ॥

सर्वा एव मुने फल्गुविभवा भूतजातयः ।
दुःखायैव दुरन्ताय दारुणा लोभभूमयः ॥ (मो_१,२५.८ ॥

"फल्गुविभवाः" निस्सारविभवयुक्ताः ॥ (मोटी_१,२५.८ ॥

आयुर् अत्यन्ततरलम् मृत्युर् एकस् तु निष्ठुरः ।
तारुण्यं चातितरलम् बाल्यं जडतया हृतम् ॥ (मो_१,२५.९ ॥

स्पष्टम् ॥ (मोटी_१,२५.९ ॥

कलाकलङ्कितो लोको बन्धवो भवबन्धनम् ।
भोगा भवमहारोगास् तृष्णा च मृगतृष्णिका ॥ (मो_१,२५.१० ॥

"कलाभिः" परवञ्चनाख्याभिः कलाभिः । "कलङ्कितः" ॥ (मोटी_१,२५.१० ॥

शत्रवश् चेन्द्रियाण्य् एव सत्यं यातम् असत्यताम् ।
प्रहरत्य् आत्मनैवात्मा मन एव मनोरिपुः ॥ (मो_१,२५.११ ॥

"आत्मा" । "आत्मना" स्वयम् । "प्रहरत्य्" आत्मानं । दुर्विकल्पैर् इति शेषः । "मन" "एव" अशुद्धमनः एव । न त्व् अन्यः । "मनोरिपुः" शुद्धस्य मनसो रिपुः भवति ॥ (मोटी_१,२५.११ ॥

अहङ्कारः कलङ्काय बुद्धयः परिपेलवाः ।
क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ॥ (मो_१,२५.१२ ॥

"परिपेलवा" अतीक्ष्णाः ॥ (मोटी_१,२५.१२ ॥

वाञ्छाविषयशालिन्यः सचमत्कृतयः कृताः ।
नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥ (मो_१,२५.१३ ॥

"वाञ्छाविषयाश्" च ताः "शालिन्यश्" च आपातरमणीयाश् च । तादृश्यः "नार्यः" । "सचमत्कृतयः" चमत्कारयुक्ताः । "कृताः" कल्पिताः । भाविता इति यावत् । कीदृश्यः "नार्यः" । "दोषपताकिन्यः" । रागादिदोषमयत्वात् रागादि"दोषपताकिन्यः" । "रसाः" शास्त्रादिविषयाः अभिलाषाः । "नीरसतां" शुष्कतां "गताः" ॥ (मोटी_१,२५.१३ ॥

वस्त्व् अवस्तुतया चात्तं दत्तं चित्तम् अहङ्कृतौ ।
अभावरोधिता भावा भवान्तो नाधिगम्यते ॥ (मो_१,२५.१४ ॥

अस्माभिः । "वस्तु" सत्यं वस्तु । "अवस्तुतया" देहोऽहम् इत्य् एवंरूपेण अवस्तुभावेन्"आत्तं" गृहीतं । तथा "चित्तम्" "अहङ्कृतौ" "दत्तम्" अहङ्कारग्रस्तं कृतम् इत्य् अर्थः । "भावाः" "अभावरोधिताः" नाशगृहीताः । न ज्ञाता इति शेषः । अतः "भवान्तः" "नाधिगम्यते" न प्राप्यते ॥ (मोटी_१,२५.१४ ॥

तप्यते केवलं साधो मतिर् आकुलितान्तरा ।
रागोरगो विलसति विरागं नोपगच्छति ॥ (मो_१,२५.१५ ॥

"विरागं" रागाभावः । "नोपगच्छति" नागच्छति ॥ (मोटी_१,२५.१५ ॥

रजोगुणहता दृष्टिस् तमः सम्परिवर्धते ।
न चाधिगम्यते सत्त्वं तत्त्वम् अत्यन्तदूरतः ॥ (मो_१,२५.१६ ॥

"तत्त्वम्" परमार्थः ॥ (मोटी_१,२५.१६ ॥

स्थितिर् अस्थिरतां याता मृतिर् आगमनोन्मुखी ।
धृतिर् वैधुर्यम् आयाति रतिर् नित्यम् अवस्तुनि ॥ (मो_१,२५.१७ ॥

"अवस्तुनि" अवस्तुभूते देहादौ ॥ (मोटी_१,२५.१७ ॥

मतिर् मान्द्येन मलिना पातैकपरमं वपुः ।
ज्वलतीव जरा देहे प्रविस्फूर्जति दुष्कृतम् ॥ (मो_१,२५.१८ ॥

"मान्द्येन" जाड्येन ॥ (मोटी_१,२५.१८ ॥

यत्नेनायाति युवता दूरे सज्जनसङ्गतिः ।
गतिर् न विद्यते काचित् क्वचिन् नोदेति सत्यता ॥ (मो_१,२५.१९ ॥

"युवता" लक्षणया स्त्र्यासक्तिः ॥ (मोटी_१,२५.१९ ॥

मनो विमुह्यतीवान्तर् मुदिता दूरतो गता ।
नोज्ज्वला करुणोदेति दूराद् आयाति नीचता ॥ (मो_१,२५.२० ॥

स्पष्टम् ॥ (मोटी_१,२५.२० ॥

धीरताधीरताम् एति पातोत्पातपरो जनः ।
सुलभो दुर्जनाश्लेषो दुर्लभः साधुसङ्गमः ॥ (मो_१,२५.२१ ॥

"धीरता" "अधीरताम्" "एति" नश्यतीत्य् अर्थः ॥ (मोटी_१,२५.२१ ॥

आगमापायिनो भावा भावना भवबन्धनी ।
नीयते केवलं क्वापि नित्यम् भूतपरम्परा ॥ (मो_१,२५.२२ ॥

"नीयते" । कालेनेति शेषः ॥ (मोटी_१,२५.२२ ॥

दिशोऽपि हि न दृश्यन्ते देशोऽप्य् अव्यपदेशभाक् ।
शैला अपि हि शीर्यन्ते कैवास्था मादृशे जने ॥ (मो_१,२५.२३ ॥

"देशः" "अव्यपदेशभाक्" देशेति व्यपदेशं न भजतीति तादृक् स्यात् । देशस्यापि देशेति नाम कालेन न स्याद् इत्य् अर्थः । यत्रेदृशानाम् ईदृशा दशा भविष्यन्ति तत्र "मादृशे जने का एव आस्था" को विश्वासः स्याद् इति भावः ॥ (मोटी_१,२५.२३ ॥

द्रवन्त्य् अपि समुद्राश् च शीर्यन्ते तारका अपि ।
सिद्धा अपि न सिध्यन्ति कैवास्था मादृशे जने ॥ (मो_१,२५.२४ ॥

स्पष्टम् ॥ (मोटी_१,२५.२४ ॥

अद्यतेऽसत्तयापि द्यौर् भुवनं चापि भज्यते ।
धरापि याति वैधुर्यं कैवास्था मादृशे जने ॥ (मो_१,२५.२५ ॥

"असत्तया" नाशेन । "द्यौर्" "अपि" "अद्यते" ग्रस्यते ॥ (मोटी_१,२५.२५ ॥

दानवा अपि दीर्यन्ति ध्रुवोऽप्य् अध्रुवजीवितः ।
अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥ (मो_१,२५.२६ ॥

"मार्यन्ते" । कालेनेति शेषः ॥ (मोटी_१,२५.२६ ॥

शक्रोऽप्य् आक्रम्यते शक्रैर् यमोऽपि हि नियम्यते ।
वायोर् अप्य् अस्त्य् अवायुष्ट्वं कैवास्था मादृशे जने ॥ (मो_१,२५.२७ ॥

"शक्रैः" नवीनैः शक्रैः ॥ (मोटी_१,२५.२७ ॥

सोमोऽपि व्योमताम् एति मार्ताण्डोऽप्य् एति खण्डनम् ।
रुग्णताम् अग्निर् अप्य् एति कैवास्था मादृशे जने ॥ (मो_१,२५.२८ ॥

"व्योमताम्" । नाशम् इत्य् अर्थः ॥ (मोटी_१,२५.२८ ॥

परमेष्ठ्य् अप्य् अनिष्ठावान् हरते हरिम् अप्य् अजः ।
भवोऽप्य् अभवतां याति कैवास्था मादृशे जने ॥ (मो_१,२५.२९ ॥

"भवोऽप्य्" श्रीमहादेवोऽपि । "अभवताम्" अमहादेवभावम् ॥ (मोटी_१,२५.२९ ॥

कालः शकलताम् एति नियतिश् चापि नीयते ।
खम् अप्य् आलीयतेऽनन्ते कैवास्था मादृशे जने ॥ (मो_१,२५.३० ॥

"अनन्ते" अन्तरहिते कस्मिंश्चिद् वस्तुनि ॥ (मोटी_१,२५.३० ॥

अश्रव्यावाच्यदुर्दर्शतन्त्रेणाज्ञातमूर्तिना ।
भुवनानि विडम्ब्यन्ते केनापि भ्रमदायिना ॥ (मो_१,२५.३१ ॥

"अश्रव्यं" तथा "अवाच्यं" तथा "दुर्दर्शं" "तन्त्रं" वञ्चनोपायः । यस्य । तादृशेन । "केना"पीति अनिर्वाच्येनेत्य् अर्थः ॥ (मोटी_१,२५.३१ ॥

अहङ्कारकलाम् एत्य सर्वत्रान्तरवासिना ।
न सोऽस्ति त्रिषु लोकेषु यस् तेनेह न बध्यते ॥ (मो_१,२५.३२ ॥

देहादौ आत्मभावः "अहङ्कारः" । "तेन" केनापीत्य् अर्थः ॥ (मोटी_१,२५.३२ ॥

शिलाशैलकटप्रेषु साश्वसूतो दिवाकरः ।
वनपाषाणवन् नित्यम् अवशः परिदोल्यते ॥ (मो_१,२५.३३ ॥

शिलायुक्ताः शैलाः "शिलाशैलाः" । तेषां "कटप्राः" समूहाः । तेषु "परिदोल्यते" दोलनं कार्यते ॥ (मोटी_१,२५.३३ ॥

धरागोलकम् अन्तःस्थसुरासुरगणास्पदम् ।
वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटम् इव त्वचा ॥ (मो_१,२५.३४ ॥

"धरागोलकम्" भूगोलं । "वेष्ट्यते" वेष्टनयुक्तं क्रियते । "धिष्ण्यचक्रेणे"ति करणे तृतीया ॥ (मोटी_१,२५.३४ ॥

दिवि देवा भुवि नराः पातालेऽसुरभोगिनः ।
कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥ (मो_१,२५.३५ ॥

"असुरभोगिनः" दैत्यसर्पाः । "कल्पमात्रेण" कल्पमात्रपरिमाणेन ॥ (मोटी_१,२५.३५ ॥

कामश् च जगतीशानरणलब्धपराक्रमः ।
अक्रमेणैव विक्रान्तो लोकम् आक्रम्य वल्गति ॥ (मो_१,२५.३६ ॥

"ईशानेन" यः "रणः" । तेन "लब्धः" "पराक्रमः" । येन । तादृशः ॥ (मोटी_१,२५.३६ ॥

वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षनः ।
आमोदितककुप्चक्रश् चेतो नयति वक्रताम् ॥ (मो_१,२५.३७ ॥

"मदैः" मदवारिभिः । "वक्रतां" कामकलाविदग्धत्वम् । कामप्रसङ्गेनेह वसन्ताभिधानम् ॥ (मोटी_१,२५.३७ ॥

अनुरक्ताङ्गनालोकलोचनालोकिताकृति ।
स्पष्टीकर्तुम् मनः शक्तो न विवेको महान् अपि ॥ (मो_१,२५.३८ ॥

"महान् अपि विवेकः मनः स्पष्टीकर्तुं" शुद्धीकर्तुं । "शक्तो न" भवति । "मनः" कथम्भूतं । "अनुरक्तो" यः "अङ्गनालोकः" । तस्य यत् "लोचनालोकितम्" दृष्टिपातस् । तद्वद् "आकृतिः" यस्य । तादृशम् । अत्यन्तचलम् इत्य् अर्थः ॥ (मोटी_१,२५.३८ ॥

परोपकारकारिण्या परार्त्या परितप्तया ।
बुद्ध एव सुखी मन्ये स्वार्थशीतलया धिया ॥ (मो_१,२५.३९ ॥

"बुद्धः" ज्ञानी । "स्वार्थे" स्वप्रयोजने । "शीतलया" । न स्वार्थनिमित्तम् परितप्तयेति यावत् ॥ (मोटी_१,२५.३९ ॥

उत्पन्नध्वंसिनः कालवडवानलपातिनः ।
सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधेः ॥ (मो_१,२५.४० ॥

"जीविताम्बुधेः" "कल्लोलाः" जीवा इत्य् अर्थः ॥ (मोटी_१,२५.४० ॥

सर्व एव नरा मोहाद् दुराशापाशपातिनः ।
दोषगुल्मकसारङ्गा निगीर्णा जन्मजङ्गले ॥ (मो_१,२५.४१ ॥

"दोषगुल्मकसारङ्गाः" दोषप्रिया इत्य् अर्थः । मृगो गुल्मप्रियो भवति । "निगीर्णाः" ग्रस्ताः । मोहेनेति शेषः । सारङ्गा अपि पाशपातिनः "जङ्गले" किरातेन ग्रस्ता भवन्ति ॥ (मोटी_१,२५.४१ ॥

सङ्क्षीयते जगति जन्मपरम्परासु
लोकस्य तैर् इह कुकर्मभिर् आयुर् एतत् ।
आकाशपादपलताकृतपाशकल्पं
येषाम् फलं न हि विचारविदोऽपि विद्मः ॥ (मो_१,२५.४२ ॥

"आकाशपादपलताकृतपाशकल्पम्" असद् इत्य् अर्थः । "इह" कर्म कुर्वन्तीति भावः ॥ (मोटी_१,२५.४२ ॥

सर्गान्तश्लोकेनैतत् समापयति

अद्योत्सवोऽयम् ऋतुर् एष तथेह यात्रा
ते बान्धवाः सुखम् इदं स विशेषभोगः ।
इत्थं मुधैव कलयन् स्वविकल्पजालम्
आलोलपेलवमतिर् गलतीह लोकः ॥ (मो_१,२५.४३ ॥

"आलोलपेलवमतिर्" अतिचञ्चलस्वल्पबुद्धिर् इत्य् अर्थः । "स्वविकल्पजालम्" इत्य् अनेन "उत्सवा"दीनाम् अत्यन्तासत्त्वम् उक्तम् । इति शिवम् ॥ (मोटी_१,२५.४३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चविंशः सर्गः ॥ १,२५ ॥




पुनर् अपि संसारदुर्विलसितम् एव कथयति

अन्यच् च तातातितराम् अरम्ये
मनोरमे वेह जगत्स्वरूपे ।
न किञ्चिद् अप्य् एति तद् अर्थजातं
येनातिविश्रान्तिम् उपैति चेतः ॥ (मो_१,२६.१ ॥

अहम् ब्रवीमीति शेषः । हे "ताता"हम् "अन्यच् च" ब्रवीमि । किम् ब्रवीषीत्य् अपेक्षायाम् आह्"आतितराम्" इति । "मनोरमे वा" मनोरमे इव । "अर्थजातम्" पदार्थसमूहः । अत्यन्तविश्रान्तौ हि सत्याम् अन्यार्थविषयाकाङ्क्षा न पुनर् उद्भवेद् इति भावः ॥ (मोटी_१,२६.१ ॥

बाल्ये गते कल्पितकेलिलोले
वयोमृगे दारदरीषु कीर्णे ।
शरीरके जर्जरताम् प्रयाते
विदूयते केवलम् एव लोकः ॥ (मो_१,२६.२ ॥

"वयोमृगे" यौवनाख्ये मृगे । "जर्जरतां" वृद्धत्वं । "विदूयते" सन्तप्यते ॥ (मोटी_१,२६.२ ॥

जरातुषाराभिहतां शरीर-
सरोजिनीं दूरतरे विहाय ।
क्षणाद् गते जीवितचञ्चरीके
जनस्य संसारसरो विशुष्कम् ॥ (मो_१,२६.३ ॥

"विहाय" त्यक्त्वा । "जीवितचञ्चरीके" जीविताख्ये भ्रमरे ॥ (मोटी_१,२६.३ ॥

यदा यदा पाकम् उपैति नूनं
तदा तदेयं नवम् आतनोति ।
जराभरानल्पनवप्रसूनं
विजर्जरा कायलता नराणाम् ॥ (मो_१,२६.४ ॥

"नूनं" निश्चये । "नवम्" इति क्रियाविशेषणम् । तेन न पौनरुक्त्यम् । आश्चर्यं च पाकं गतायाः लतायाः नवप्रसूनस्य नवम् आतननम् ॥ (मोटी_१,२६.४ ॥

तृष्णानदी सारतरप्रवाह-
ग्रस्ताखिलानन्तपदार्थजाता ।
तटस्थसन्तोषसुवृक्षमूल-
निकाषदक्षा वहतीह लोके ॥ (मो_१,२६.५ ॥

स्पष्टम् ॥ (मोटी_१,२६.५ ॥

शरीरनौश् चर्मनिबद्धबन्धा
भवाम्बुधाव् आलुलिता भ्रमन्ती ।
प्रव्रोड्यते पञ्चभिर् इन्द्रियाख्यैर्
अधो वहन्ती मकरैर् अधीना ॥ (मो_१,२६.६ ॥

"पञ्चभिर्" "इन्द्रियाख्यैः" "मकरैः" "शरीरनौः" "प्रव्रोड्यते" मग्ना सम्पाद्यते इति सम्बन्धः । "आलुलितं" समन्ताच् चञ्चलम् ॥ (मोटी_१,२६.६ ॥

तृष्णालताकाननचारिणोऽमी
शाखाशतं काममहीरुहेषु ।
परिभ्रमन्तः क्षपयन्ति कामम्
मनोमृगा नो फलम् आप्नुवन्ति ॥ (मो_१,२६.७ ॥

"कामं" निश्चये । "तृष्णालतानां" यत् "काननम्" । तत्र "चरन्ती"ति तादृशास् । तथा "परिभ्रमन्तः" परिभ्रमणशीलाः । "अमी" "मनोमृगाः" । "काममहीरुहेषु" काननगतेषु परमकामाख्यवृक्षेषु । गतम् "शाखाशतं" । अर्थात् अवान्तरकामरूपं "शाखाशतं" । "क्षपयन्ति" चालयन्ति । स्वविषयं कुर्वन्तीति यावत् । तथापि "फलं" "नो" "आप्नुवन्ति" ॥ (मोटी_१,२६.७ ॥

कृच्छ्रेषु दूरास्तविषादमोहाः
स्वाम्येष्व् अनुत्सिक्तमनोऽभिरामाः ।
सुदुर्लभाः सम्प्रति सुन्दरीभिर्
अनाहतान्तःकरणा महान्तः ॥ (मो_१,२६.८ ॥

"कृच्छ्रेषु" आपत्सु । "स्वाम्येषु" सम्पत्सु । "अनुत्सिक्तं" दर्परहितं सत् । "मनः" । तेन्"आभिरामाः" ॥ (मोटी_१,२६.८ ॥

तरन्ति मातङ्गघटातरङ्गं
रणाम्बुधिं ये मयि ते न शूराः ।
शूरास् त एवेह मनस्तरङ्गं
ये स्वेन्द्रियाम्भोधिम् इमं तरन्ति ॥ (मो_१,२६.९ ॥

स्पष्टम् ॥ (मोटी_१,२६.९ ॥

अक्लिष्टपर्यन्तफलाभिरामा
न दृश्यते कस्यचिद् एव काचित् ।
क्रिया दुराशाहतचित्तवृत्तेर्
याम् एत्य विश्रान्तिम् उपैति लोकः ॥ (मो_१,२६.१० ॥

स्पष्टम् ॥ (मोटी_१,२६.१० ॥

कीर्त्या जगद् दिक्कुहरम् प्रतापैः
श्रिया गृहं सत्त्वबलेन लक्ष्मीम् ।
ये पूरयन्त्य् अक्षतधैर्यबन्धा
न ते जगत्यां सुलभा महान्तः ॥ (मो_१,२६.११ ॥

स्पष्टम् ॥ (मोटी_१,२६.११ ॥

अप्य् अन्तरस्थं गिरिशैलभित्तेर्
वज्रालयाभ्यन्तरसंस्थितं वा ।
सर्वं समायान्ति समिद्धवेगाः
सर्वाः श्रियः सन्ततम् आपदश् च ॥ (मो_१,२६.१२ ॥

शिलानाम् इयं शैला । सा चासौ भित्तिः "शैलभित्तिः" । गिरेः शैलभित्तिः "गिरिशैलभित्तिस्" । तस्याः ॥ (मोटी_१,२६.१२ ॥

पुत्राश् च दाराश् च धनं च बुद्ध्या
प्रकल्प्यते तात रसायनं च ।
सर्वं तु तन् नाम करोत्य् अथान्ते
यत्रातिरम्या विषमूर्छनैव ॥ (मो_१,२६.१३ ॥

"प्रकल्प्यते" कल्पनया भाव्यते । "रसायनम्" । अमृतम् इव । "च"शब्द इवार्थः । "अन्ते" परिणामे ॥ (मोटी_१,२६.१३ ॥

विषादयुक्तो विषमाम् अवस्थाम्
उपागतः कायवयोऽवसाने ।
भावान् स्मरन् स्वान् अभिधर्मरिक्ताञ्
जनो जरावान् अभिदह्यतेऽन्तः ॥ (मो_१,२६.१४ ॥

"कायवयोऽवसाने" वृद्धत्वे । "भावान्" अभिलाषान् । अभितः धर्मेण रिक्तान् "अभिधर्मरिक्तान्" । "अन्तः" मनसि ॥ (मोटी_१,२६.१४ ॥

कामार्थधर्माप्तिकृशान्तराभिः
क्रियाभिर् आदौ दिवसानि नीत्वा ।
चेतश् चलद्बर्हिणपिञ्छलोलं
विश्रान्तिम् आगच्छतु केन पुंसाम् ॥ (मो_१,२६.१५ ॥

"कामार्थधर्माणां" या "आप्तिः" । तया "कृशान्तराभिः" निःसाराभिः । मोक्षार्थं न कश्चित् क्रियां करोतीति भावः ॥ (मोटी_१,२६.१५ ॥

पुरोगतैर् अप्य् अनवाप्तरूपैस्
तरङ्गिणीतुङ्गतरङ्गकल्पैः ।
क्रियाफलैः दैववशाद् उपेतैर्
विडम्ब्यते भिन्नरुचिर् हि लोकः ॥ (मो_१,२६.१६ ॥

"हि" निश्चये । "विडम्ब्यते" वञ्च्यते । "क्रियाफलानां" च "अनवाप्तरूप"त्वं क्षणनश्वरत्वेन ज्ञेयम् ॥ (मोटी_१,२६.१६ ॥

इमान्य् अमूनीति विभावितानि
कार्याण्य् अपर्यन्तमनोरमाणि ।
जनस्य जायाजनरञ्जनेन
जटाजरान्तं जरयन्ति चेतः ॥ (मो_१,२६.१७ ॥

"जायाजनरञ्जनेने"ति हेतौ तृतीया । "जटानां" या "जरा" । तद्"अन्तम्" ॥ (मोटी_१,२६.१७ ॥

पर्णानि शीर्णानि यथा तरूणां
समेत्य जन्माशु लयम् प्रयान्ति ।
तथैव लोकाः स्वविवेकहीनाः
समेत्य गच्छन्ति कुतोऽप्य् अहोभिः ॥ (मो_१,२६.१८ ॥

"स्वविवेकहीनाः" आत्मविचाररहिताः ॥ (मोटी_१,२६.१८ ॥

इतस् ततो दूरतरं विहृत्य
प्रविश्य गेहं दिवसावसाने ।
विवेकिलोकाश्रयिसाधुकर्म-
रिक्तेऽह्नि याते क उपैति निद्राम् ॥ (मो_१,२६.१९ ॥

स्पष्टम् ॥ (मोटी_१,२६.१९ ॥

विद्राविते शत्रुजने समस्ते
समागतायाम् अभितश् च लक्ष्म्याम् ।
सेव्यन्त एतानि सुखानि यावत्
तावत् समायाति कुतोऽपि मृत्युः ॥ (मो_१,२६.२० ॥

स्पष्टम् ॥ (मोटी_१,२६.२० ॥

कुतोऽपि संवर्धिततुच्छरूपैर्
भावैर् अमीभिः क्षणदृष्टनष्टैः ।
विलोभ्यमाना जनता जगत्यां
न वेत्त्य् उपायातम् अहो न यातम् ॥ (मो_१,२६.२१ ॥

"कुतोऽपि" अनिर्वाच्यात् कस्माच्चिद् वस्तुनः । "भावैः" पदार्थैः । "उपायातम्" भावविषयजन्म । "यातम्" भावविषयसरणम् ॥ (मोटी_१,२६.२१ ॥

यियासुभिः कालमुखं क्रियन्ते
जनैडकैस् ते हतकर्मबन्धाः ।
ये पीनताम् एव बलाद् उपेत्य
शरीरबन्धे ननु ते भवन्ति ॥ (मो_१,२६.२२ ॥

"जनैडकैः" जनाख्यैः मेषैः । "ते" "हतकर्मबन्धाः" कुत्सितकर्मप्रपञ्चाः । "क्रियन्ते" । "ते" के । "ये" प्रतिस्वं स्थिताः" "ये "बलाद्" हठेन । "पीनताम्" "एव" न तु क्षीनताम् । "एत्य" आगत्य । "ते" तव । "शरीरबन्धे" शरीरबन्धार्थं । "ननु" "भवन्ति" निश्चयेन भवन्तीत्य् अर्थः । कर्मवशाद् एव हि पुरुषः देहबन्धम् प्राप्नोति ॥ (मोटी_१,२६.२२ ॥

अजस्रम् आगच्छति सत्वरेयम्
अनारतं गच्छति सत्वरैव ।
कुतोऽपि लोला जनता जगत्यां
तरङ्गमाला क्षणभङ्गुरेव ॥ (मो_१,२६.२३ ॥

"जनता" जनसमूहः ॥ (मोटी_१,२६.२३ ॥

प्राणापहारैकपरा नराणाम्
मनो मनोहारितया हरन्ति ।
रक्तच्छदाः षट्पदचञ्चलाक्ष्यो
विषद्रुमालोललताः स्त्रियश् च ॥ (मो_१,२६.२४ ॥

"हरन्ति" स्ववशीकुर्वन्ति मोहयन्ति च । "रक्तच्छदाः" रक्तपत्त्राः रक्ताधराश् च । "लोललताः" लोलशाखाः । लक्षणया लोलभुजाश् च ॥ (मोटी_१,२६.२४ ॥

इतोऽन्यतश् चोपगता मुधैव
समानसङ्केतनिबन्धभावा ।
यात्रासमासङ्गसमा नराणां
कलत्रमित्रव्यवहारमाया ॥ (मो_१,२६.२५ ॥

"सङ्केतः" गन्तव्यो देशः । यथा "यात्रायाम्" मार्गे जना अन्योऽन्यं रात्रौ मिलित्वा प्रभाते "समानं" गन्तव्यं देशं गच्छन्ति । तथा संसारेऽपि पुत्रादिभिः मिलित्वा मृत्वा परलोकाख्यं देशं गच्छन्ति । अतस् तेषु भावबन्धनं न युक्तम् इति भावः ॥ (मोटी_१,२६.२५ ॥

प्रदीपशान्तिष्व् इव भुक्तभूरि-
दशास्व् अतिस्नेहनिबन्धनीषु ।
संसारमायासु चलाचलासु
न ज्ञायते तत्त्वम् अतात्त्विकीषु ॥ (मो_१,२६.२६ ॥

"अतिस्नेहः" रागाधिक्यं तैलाधिक्यं च । स "निबन्धनं" कारणं यासां । ताः । तादृशीषु "चलाचलासु" अतिचञ्चलासु । "अतात्त्विकीषु" असत्यासु ॥ (मोटी_१,२६.२६ ॥

संसारसंरम्भकुचक्रिकेयम्
प्रावृट्पयोबुद्बुदभङ्गुरापि ।
असावधानस्य जनस्य बुद्धौ
चिरस्थिरप्रत्ययम् आतनोति ॥ (मो_१,२६.२७ ॥

अत्यन्तम् भ्रम्यमाणा "चक्रिकापि" "असावधानस्य" "जनस्य" "बुद्धौ" "स्थिरताप्रत्ययम्" आदधाति । अत्यन्तवैराग्याविष्टत्वात् "कु"शब्दप्रयोगः ॥ (मोटी_१,२६.२७ ॥

शोभोज्ज्वला दैन्यवशाद् विनष्टा
गुणाः स्थिताः सम्प्रति जर्जरत्वे ।
आश्वासना दूरतरम् प्रयाता
जनस्य हेमन्त इवाम्बुजस्य ॥ (मो_१,२६.२८ ॥

"जर्जरत्वे "नाशौन्मुख्ये । "जनस्याश्वासना" जनकर्तृकम् "आश्वासनम्" ॥ (मोटी_१,२६.२८ ॥

पुनः पुनर् दैववशाद् उपेत्य
स्वदेहभारेण कृतापकारः ।
विलूयते यत्र तरुः कुठारैर्
आश्वासने तत्र हि कः प्रसङ्गः ॥ (मो_१,२६.२९ ॥

"यत्र" "दैववशात्" "पुनः पुनः उपेत्य" उपागत्य । "स्वदेहभारेण" शाखोपशाखभारेण । "कृतः अपकारो" यस्य । सः "तरुः कुठारैः" जनेन "लूयते" । "हि" निश्चये । "तत्र" तस्मिन् संसारे । "आश्वासने कः प्रसङ्गः" का युक्तता भवति । "उपेत्ये"त्य् अस्य "कृते"त्य् अनेन सहैककर्तृत्वम् बृहद्भयाय एव भवतीति भावः ॥ (मोटी_१,२६.२९ ॥

मनोरमस्याप्य् अतिदोषवृत्तेर्
अन्तर् विघाताय समुत्थितस्य ।
विषद्रुमस्येव जनस्य सङ्गाद्
आसाद्यते सम्प्रति मूर्च्छनैव ॥ (मो_१,२६.३० ॥

"अति"शयेन "दोषे वृत्तिर्" यस्य । सः । तस्य ॥ (मोटी_१,२६.३० ॥

कास् ता दृशो यासु न सन्ति दोषाः
कास् ता दिशो यासु न दुःखदाहः ।
कास् ताः प्रजा यासु न भङ्गुरत्वं
कास् ताः क्रिया यासु न नाम माया ॥ (मो_१,२६.३१ ॥

"माया" कपटः ॥ (मोटी_१,२६.३१ ॥

कल्पाभिधानक्षणजीविनोऽपि
कल्पौघसङ्ख्याकलने विरिञ्चाः ।
अतः कलाशालिनि कालजाले
लघुत्वदीर्घत्वधियोऽप्य् असत्याः ॥ (मो_१,२६.३२ ॥

"कल्पौघानां" "कलने" गणने । क्रियमाणे इति शेषः । क्रियमाणे सति "विरिञ्चा" "अपि" ब्रह्माणः अपि । "कल्पाभिधानक्षणजीविनः" भवन्ति । फलितम् आह्"आत" इति । "कलाः" कल्पादिरूपाः । ताभिह् "शालिनि" ॥ (मोटी_१,२६.३२ ॥

सर्वत्र पाषाणमया महीध्रा
मृदा मही दारुभिर् एव वृक्षाः ।
मांसैर् जनाः पौरुषबद्धभावा
नापूर्वम् अस्तीह विकारहीनम् ॥ (मो_१,२६.३३ ॥

"पौरुषे" पुरुषकारे । "बद्धाः" "भावाः" येषां । ते ॥ (मोटी_१,२६.३३ ॥

आलोक्यते चेतनयानुविद्धः
पयोनिबद्धोऽणुचयो नभःस्थः ।
पृथग्विभागेन पदार्थलक्ष्म्या
एतज् जगन् नेतरद् अस्ति किञ्चित् ॥ (मो_१,२६.३४ ॥

"चेतनया" "अनुविद्धः" व्याप्तः । "नभःस्थः पयोनिबद्धः" जलावष्टब्धः । "अणुचयः" परमाणुसमूहः । "पदार्थलक्ष्म्याः पृथग्विभागेन" पदार्थलक्ष्मीसम्बन्धिना पृथक् विभागेन । "आलोक्यते" । उक्तविशेषणाः परमाणव एव नानार्थभावेन दृश्यन्ते इति यावत् । "एतज् जगद्" अस्ति । "इतरत्" अन्यत् । "किञ्चिज् जगन्" "नास्ति" । पदार्थनानाभावस्यैव जगत्त्वात् । अतश् चात्र किं रम्यत्वं किं वारम्यत्वम् इति भावः ॥ (मोटी_१,२६.३४ ॥

चमत्कृतिश् चेह मनस्विलोके
चेतश्चमत्कारकरी नराणाम् ।
स्वप्नेऽपि साधो विषयं कदाचित्
केषाञ्चिद् अप्य् एति न चित्ररूपा ॥ (मो_१,२६.३५ ॥

"इह" संसारे । "मनस्विलोके" इति निर्धारणे । तेषाम् अपि मनस्विनाम् मध्ये संसारे चित्तानन्दकरी "केषाम् अपि" "चमत्कृतिर्" नास्तीति पिण्डार्थः ॥ (मोटी_१,२६.३५ ॥

अद्यापयाते त्व् अपि कल्पनाया
आकाशवल्लीफलवन्महत्त्वे ।
उदेति नालोभलवाहतानाम्
उदारवृत्तान्तमयी कथैव ॥ (मो_१,२६.३६ ॥

"अद्या"स्मिन् वैराग्यसमये । "कल्पनायाः" संसारकल्पनायाः । "उदारवृत्तान्तमयी" "कथा" अध्यात्मशास्त्रकथा । "अलोभलवाहतानां" लोभरहितानाम् अस्माकम् इत्य् अर्थः । एतदनुभवे तु का कथेत्य् "एव"शब्दाभिप्रायः ॥ (मोटी_१,२६.३६ ॥

आदातुम् इच्छन् पदम् उत्तमानां
स्वचेतसैवोपहतोऽद्य लोकः ।
पतत्य् अशङ्कम् पशुर् अद्रिकूटाद्
आनीलवल्लीदलवाञ्छयेव ॥ (मो_१,२६.३७ ॥

स्पष्टम् ॥ (मोटी_१,२६.३७ ॥

अवान्तरन्यस्तनिरर्थकांस-
च्छायालतापत्त्रफलप्रसूनाः ।
शरीर एव क्षतसम्पदश् च
श्वभ्रद्रुमा अद्यतना नराश् च ॥ (मो_१,२६.३८ ॥

"श्वभ्रद्रुमाः" कथम्भूताः । "अवान्तरे" न तु विश्रान्तिस्थाने । "न्यस्तानि" स्थापितानि । "निरर्थकानि" अन्येषाम् उपयोगित्वाभावेन अर्थशून्यानि । "अंसच्छायालतापत्त्रफलप्रसूनानि" यैः । ते । "अद्यतनाः" "नराः" कथम्भूताः । "शरीरे एव "स्वशरीरार्थम् एव । न तु परोपकारार्थं । "क्षतसम्पदः" । "अंस"शब्दोऽत्र लक्षणया द्रुमस्कन्दवाचकः । अन्यत् स्वयम् अभ्यूहम् ॥ (मोटी_१,२६.३८ ॥

क्वचिज् जना मार्दवसुन्दरेषु
क्वचित् करालेषु च सञ्चरन्ति ।
दशान्तरालेषु निरन्तरेषु
वनान्तषण्डेष्व् इव कृष्णशाराः ॥ (मो_१,२६.३९ ॥

"दशान्तरालेषु" दशामध्येषु ॥ (मोटी_१,२६.३९ ॥

धातुर् नवानि दिवसम् प्रति भीषणानि
रम्याणि चावलुलिताखिलमानवानि ।
कार्याणि कष्टफलपाकहतोदयानि
विस्मापयन्ति न शठस्य मनांसि केषाम् ॥ (मो_१,२६.४० ॥

"धातुः" दैवस्य । "दिवसम्" "प्रति" प्रतिदिवसं । "अवलुलिताः" चाञ्चल्यं नीताः । "अखिलाः" "मानवाः" यैः । तानि । "शठस्ये"ति धातारम् प्रति कोपातिशयं सूचयति ॥ (मोटी_१,२६.४० ॥

सर्गान्तश्लोकेनैतत् समापयति

जनः कामासक्तो विविधकुकलावेदनपरः
समः स्वप्नेऽप्य् अस्मिञ् जगति सुलभो नाद्य सुजनः ।
क्रिया दुःखासङ्गाद् विधुरविधुरा नूनम् अखिला
न जाने नेतव्या कथम् इव दशा जीवितमयी ॥ (मो_१,२६.४१ ॥

"कामासक्तः" स्वप्नयोजनमात्रपरः । "आवेदनम्" प्रकटीकरणम् । इति शिवम् ॥ (मोटी_१,२६.४१ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षड्विंशः सर्गः ॥ १,२६ ॥




एवं जगतो नित्यताम् उक्त्वाथ तद्विपर्यासं कथयति

यच् चेदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
तत् सर्वम् अस्थिरम् ब्रह्मन् स्वप्नसङ्गमसन्निभम् ॥ (मो_१,२७.१ ॥

स्पष्टम् ॥ (मोटी_१,२७.१ ॥

अस्थिरत्वम् एव विस्तरतः कथयति

शुष्कसागरसङ्काशो निखातो योऽद्य दृश्यते ।
स प्रातर् अभ्रसंवीतो नगः सम्पद्यते मुने ॥ (मो_१,२७.२ ॥

"निखातः" गर्तः ॥ (मोटी_१,२७.२ ॥

यो वनव्यूहविस्तीर्णो विलीढगगनोऽचलः ।
दिनैर् एव स यात्य् उर्वीसमतां कूपतां च वा ॥ (मो_१,२७.३ ॥

"विलीढगगनः" व्याप्ताकाशः ॥ (मोटी_१,२७.३ ॥

यद् अङ्गम् अद्य संवीतं कौशेयस्रग्विलेपनैः ।
दिगम्बरं तद् एव श्वो दूरे विशरितावटे ॥ (मो_१,२७.४ ॥

"श्वो" दिने । "विशरिता" विशीर्णो भविता ॥ (मोटी_१,२७.४ ॥

यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् ।
तत्रैवोदेति दिवसैः संशून्यारण्यधन्वता ॥ (मो_१,२७.५ ॥

"धन्वा" मरुः ॥ (मोटी_१,२७.५ ॥

यः पुमान् अद्य तेजस्वी मण्डलान्य् अधितिष्ठति ।
स भस्मकूटतां राजन् दिवसैर् अधिगच्छति ॥ (मो_१,२७.६ ॥

"मण्डलानि" देशान् । "भस्मकूटताम्" भस्मचयभावम् ॥ (मोटी_१,२७.६ ॥

अरण्यानी महाभीमा या नभोमण्डलोपमा ।
पताकाच्छादिताकाशा सैव सम्पद्यते पुरी ॥ (मो_१,२७.७ ॥

स्पष्टम्॥ (मोटी_१,२७.७ ॥

या लतावलिता भीमा भात्य् अद्य विपिनावली ।
दिवसैर् एव सा याति मुने मरुमहीपदम् ॥ (मो_१,२७.८ ॥

"मरुमहीपदम्" मरुमहीभावम् ॥ (मोटी_१,२७.८ ॥

सलिलं स्थलतां याति स्थली भवति वारिभूः ।
विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥ (मो_१,२७.९ ॥

"विपर्यस्यति" विपर्यासं याति ॥ (मोटी_१,२७.९ ॥

अनित्यं यौवनम् बाल्यं शरीरं द्रव्यसञ्चयाः ।
भावाद् भावान्तरं यान्ति तरङ्गवद् अनारतम् ॥ (मो_१,२७.१० ॥

"भावात्" एकस्मात् स्वरूपात् । "भावान्तरम्" अन्यत् स्वरूपम् ॥ (मोटी_१,२७.१० ॥

वातात्तदीपकशिखालोलं जगति जीवितम् ।
तडित्स्फुरणसङ्काशा पदार्थश्रीर् जगत्त्रये ॥ (मो_१,२७.११ ॥

"वातात्ता" वातगृहीता ॥ (मोटी_१,२७.११ ॥

विपर्यासम् इयं याति भूरिभूतपरम्परा ।
बीजराशिर् इवाजस्रम् प्रथमानः पुनः पुनः ॥ (मो_१,२७.१२ ॥

"प्रथमानः" उप्यमानः ॥ (मोटी_१,२७.१२ ॥

मनःपवनपर्यस्तभूरिभूतरजःपटा ।
पातोत्पातपरावर्तवराभिनयभूषिता ॥ (मो_१,२७.१३ ॥
आलक्ष्यते स्थितिर् इयं जागती जनितभ्रमा ।
नृत्तावेशविवृत्तेव संसारारभटीनटी ॥ (मो_१,२७.१४ ॥

"मनःपवनेन पर्यस्ताः" ईरिताः । ये "भूरिभूतास्" । ते एव "रजःपटः" रजोवृतः पटः । यस्याः । सा । "परावर्तः" पुनरावृत्तिरूपो भ्रमः । "जागती स्थितिः" जगद्रूपा स्थितिः । "नृत्ते" य "आवेशः" । तत्र "विवृत्ता" प्रवृत्ता । "संसारे" संसाराख्ये रङ्गे । या "आरभटी" । तस्याः "नटी" । "आरभटी" रौद्ररसवृत्तिविशेषः ॥ (मोटी_१,२७.१३-१४ ॥

गन्धर्वनगराकारविपर्यासविधायिनी ।
अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥ (मो_१,२७.१५ ॥
तडित्तरलम् आलोकम् आतन्वाना पुनः पुनः ।
संसाररञ्जना ब्रह्मन् नृत्तमत्तेव राजते ॥ (मो_१,२७.१६ ॥

"संसारस्य" "रञ्जना" रागः । "नृत्तमत्तेव राजते" । कथम्भूता । "गन्धर्वनगराकारः" यः "विपर्यासः" । तं "विदधाती"ति तादृशी । तथ्"आपाङ्ग"वत् "भङ्गुरः" । "अपाङ्गेषु" च "भङ्गुरः" । यः "उदारव्यवहारः" । तेन "मनोरमा" । तथा "तडित्तरलम्" अतिचञ्चलम् । "आलोकं" स्वविषयं ज्ञानं स्वशरीरप्रकाशनं च । "पुनः" "पुनः आतन्वाना" ॥ (मोटी_१,२७.१५-१६ ॥

दिवसास् ते महान्तस् ते संपदस् ताः क्रियाश् च ताः ।
सर्वं स्मृतिपदं यातं यामो वयम् अपि क्षणात् ॥ (मो_१,२७.१७ ॥

"ते दिवसा" इति सम्बन्धः । "तच्"छब्देन पूर्वानुभूतानां दिवसानां स्मरणम् ॥ (मोटी_१,२७.१७ ॥

प्रत्यहं क्षयम् आयाति प्रत्यहं जायते पुनः ।
अद्यापि हतरूपाया नान्तोऽस्या दग्धसंसृतेः ॥ (मो_१,२७.१८ ॥

स्पष्टम् ॥ (मोटी_१,२७.१८ ॥

तिर्यक्त्वम् पुरुषा यान्ति तिर्यञ्चो नरताम् अपि ।
देवाश् चादेवतां चैते किम् एवेह विभो स्थिरम् ॥ (मो_१,२७.१९ ॥

"तिर्यग्"आदीनाम् "पुरुषत्वा"दिगमनं स्वभावद्वारेण ज्ञेयम् अथ वा जन्मद्वारेण ॥ (मोटी_१,२७.१९ ॥

रचयन् रश्मिजालेन रात्र्यहानि पुनः पुनः ।
अतिवाह्य रविः कायं विनाशावधिम् ईक्षते ॥ (मो_१,२७.२० ॥

"अतिवाह्य" प्रवर्तयित्वा ॥ (मोटी_१,२७.२० ॥

ब्रह्मा विष्णुश् च रुद्रश् च सर्वा वा भूतजातयः ।
नाशम् एवानुधावन्ति सलिलानीव वाडवम् ॥ (मो_१,२७.२१ ॥

स्पष्टम् ॥ (मोटी_१,२७.२१ ॥

द्यौः क्षमा वायुर् आकाशम् पर्वताः सरितो दिशः ।
विनाशवाडवस्यैतत् सर्वं संशुष्कम् इन्धनम् ॥ (मो_१,२७.२२ ॥

सुदाह्यत्वसूचकं "संशुष्कम्" इति ॥ (मोटी_१,२७.२२ ॥

धनानि बन्धवो भृत्या मित्राणि विभवाश् च ये ।
विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥ (मो_१,२७.२३ ॥

ममेति शेषः ॥ (मोटी_१,२७.२३ ॥

स्वदन्ते तावद् एवैते भावा जगति धीमतः ।
यावत् स्मृतिपथं याति न विनाशकुराक्षसः ॥ (मो_१,२७.२४ ॥

स्पष्टम् ॥ (मोटी_१,२७.२४ ॥

क्षणम् ऐश्वर्यम् आयाति क्षणम् एति दरिद्रता ।
क्षणं विगतरोगत्वं क्षणम् आगतरोगता ॥ (मो_१,२७.२५ ॥

स्पष्टम् ॥ (मोटी_१,२७.२५ ॥

प्रतिक्षणं विपर्यासदायिना महतामुना ।
जगद्भ्रमेण के नाम धीमन्तोऽपि न मोहिताः ॥ (मो_१,२७.२६ ॥

स्पष्टम् ॥ (मोटी_१,२७.२६ ॥

तमःपङ्कसमालब्धं क्षणम् आकाशमण्डलम् ।
क्षणं कनकनिःष्यन्दकोमलालोकसुन्दरम् ॥ (मो_१,२७.२७ ॥
क्षणं जलदनीलाब्जमालावलितकोटरम् ।
क्षणम् उड्डामररवं क्षणम् मूकम् अवस्थितम् ॥ (मो_१,२७.२८ ॥
क्षणं ताराविलसितं क्षणम् अर्केण भूषितम् ।
क्षणम् इन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥ (मो_१,२७.२९ ॥
आगमापायपरया स्थित्या संस्थितनाशया ।
न बिभेतीह संसारे धीरोऽपि क इवानया ॥ (मो_१,२७.३० ॥

"स्थित्या" जगत्स्थित्या । अधीरस्य तु का कथेति भावः ॥ (मोटी_१,२७.२७-३० ॥

आपदः क्षणम् आयान्ति क्षणम् आयान्ति सम्पदः ।
क्षणं जन्माथ मरणम् मुने किम् इव न क्षणम् ॥ (मो_१,२७.३१ ॥

सर्वं क्षणे एवेति भावः ॥ (मोटी_१,२७.३१ ॥

प्राग् आसीद् अन्य एवेह तातस् त्व् अन्येतरो दिनैः ।
अप्य् एकरूपम् भगवन् किञ्चिद् अस्ति न सुस्थितम् ॥ (मो_१,२७.३२ ॥

"तातः" दशरथः । अन्यस्मात् इतरः "अन्येतरः" ॥ (मोटी_१,२७.३२ ॥

घटस्य पटता दृष्टा पटस्यापि घटस्थितिः ।
न तद् अस्ति न यद् दृष्टं विपर्यस्यति संसृतौ ॥ (मो_१,२७.३३ ॥

"दृष्टे"ति कालान्तरे मृत्त्वादिद्वारेण "विपर्यस्यति" विपर्यासं गच्छति ॥ (मोटी_१,२७.३३ ॥

अशूरेण हतः शूर एकेनापि शतं हतम् ।
प्राकृताः प्रभुतां याताः सर्वम् आवर्तते जगत् ॥ (मो_१,२७.३४ ॥

"आवर्तते" परिवृत्तिम् भजते ॥ (मोटी_१,२७.३४ ॥

जनतेयं विपर्यासम् अजस्रम् अनुगच्छति ।
जडस्पन्दपरामर्शात् तरङ्गानाम् इवावली ॥ (मो_१,२७.३५ ॥

"जनता" जनसमूहः । "जडः" यः "स्पन्दः" । तेन "परामर्शात्" स्पर्शात् । जाड्याद् इति यावत् । "जलस्पन्दे" यः "परामर्शः" । तस्माद् इति च ॥ (मोटी_१,२७.३५ ॥

बाल्यम् अद्य दिनैर् एव यौवनश्रीस् ततो जरा ।
देहेऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥ (मो_१,२७.३६ ॥

स्पष्टम् ॥ (मोटी_१,२७.३६ ॥

क्षणम् आनन्दिताम् एति क्षणम् एति विषादिताम् ।
क्षणम् सौम्यत्वम् आयाति सर्वस्मिन् नटवन् मनः ॥ (मो_१,२७.३७ ॥

"सर्वस्मिन्" सर्वेषु प्राणिषु ॥ (मोटी_१,२७.३७ ॥

इतश् चान्यद् इतश् चान्यद् इतश् चान्यद् अयं विधिः ।
रचयन् वस्तु नायाति खेदं लीलास्व् इवार्भकः ॥ (मो_१,२७.३८ ॥

स्पष्टम् ॥ (मोटी_१,२७.३८ ॥

चिनोत्य् उन्मादयत्य् अत्ति निहन्त्य् आहन्ति चात्मसात् ।
जगज्जातम् इदं धाता पातोत्पातशतैर् इह ॥ (मो_१,२७.३९ ॥

"चिनोति" वर्धयति । "उन्मादयति" उन्मादयुक्तं करोति । "अत्ति" भक्षयति । "निहन्ति" नाशयति । "आत्मसात्" स्वाधीनं करोति । "आहन्ति" समन्तान् नाशयति ॥ (मोटी_१,२७.३९ ॥

क्षणेनान्यद् दिनेनान्यत् प्रातर् अन्यद् इतस् ततः ।
रचयन् वञ्चनादक्षो विधिर् दृष्टो न केनचित् ॥ (मो_१,२७.४० ॥

"न दृष्टः" इन्द्रियाविषयत्वात् ॥ (मोटी_१,२७.४० ॥

यद् अद्य तत् तु न प्रातर् यत् प्रातस् तत् तु नाद्य च ।
यद् अन्यदा तु तन् नाद्य सर्वम् आवर्ततेतराम् ॥ (मो_१,२७.४१ ॥

स्पष्टम् ॥ (मोटी_१,२७.४१ ॥

सन्ततानीह दुःखानि सुखानि विरलानि च ।
सततं रात्र्यहानीव विवर्तन्ते नरम् प्रति ॥ (मो_१,२७.४२ ॥

"सन्ततानि" अविच्छिन्नानि । "नरम्" "प्रति" प्रतिपुरुषम् ॥ (मोटी_१,२७.४२ ॥

आविर्भावतिरोभावभागिनो भवभाविनः ।
जनस्य स्थिरतां यान्ति नापदो न च सम्पदः ॥ (मो_१,२७.४३ ॥

"आविर्भावतिरोभावौ" भजतीति तादृशस्य । "भवे" संसारे । "भावः" प्रादुर्भावः अस्यास्तीति तादृशस्य ॥ (मोटी_१,२७.४३ ॥

पदात् पदम् अयम् पापः सर्वम् आपदि पातयन् ।
हेलाविवलिताशेषः खलः काललवः स्थितः ॥ (मो_१,२७.४४ ॥

गच्छन्न् इति शेषः । "हेलया" न तु यत्नेन । "विवलितं" रूपान्तरं नीतम् । "अशेषम्" । येन । सः ॥ (मोटी_१,२७.४४ ॥

सर्गान्तश्लोकेनैतत् समापयति

समविषमदशाविपाकभिन्नास्
त्रिभुवनभूतपरम्पराफलौघाः ।
समयपवनपातिताः पतन्ति
प्रतिदिनम् आततसंसृतिद्रुमेभ्यः ॥ (मो_१,२७.४५ ॥

"समविषमदशानां" यः "विपाकः" परिणामः । तेन "भिन्नाः" । तद्युक्ता इति यावद् । इति शिवम् ॥ (मोटी_१,२७.४५ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तविंशः सर्गः ॥ १,२७ ॥




एवं जगद्विपर्यासम् उक्त्वा तत्कृतां विरक्तताम् प्रतिपादयति

इति मेधोपदावाग्निदग्धे महति चेतसि ।
प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरस्स्व् इव ॥ (मो_१,२८.१ ॥

"इति मेधा" एव "उपदावाग्नि" दवाग्निसमीपं । तेन "दग्धे" ॥ (मोटी_१,२८.१ ॥

प्रत्यहं चातिकटुताम् एति संसारसंस्थितिः ।
कालपाकवशोल्लासिरसा निम्बलता यथा ॥ (मो_१,२८.२ ॥

"कालेन" यः "पाकः" । तस्य "वशेन" "उल्लासी रसः" । यस्याः । सा ॥ (मोटी_१,२८.२ ॥

वृद्धिम् आयाति दौर्जन्यं सौजन्यं याति तानवम् ।
करञ्जकर्कशे राजन् प्रत्यहं जनचेतसि ॥ (मो_१,२८.३ ॥

"राजन्न्" इति दशरथम् प्रति कथनं । "करञ्ज"वत् कण्टकवत् । "कर्कशे" । अतो जनसङ्गान् मम विरतिः जातेति भावः । एवम् उत्तरत्रापि भावयोजना कार्या ॥ (मोटी_१,२८.३ ॥

भज्यते भुवि मर्यादा झगित्य् एव दिशम् प्रति ।
शुष्केव माषशिमिका टाङ्कारकठिनारवम् ॥ (मो_१,२८.४ ॥

स्पष्टम् ॥ (मोटी_१,२८.४ ॥

राज्येभ्यो भोगपूगेभ्यश् चिन्तावन्तो महीश्वराः ।
निरस्तचिन्ताकलिका वरम् एकान्तशीलता ॥ (मो_१,२८.५ ॥

"राज्येभ्यः" राज्यार्थं । फलितम् आह "निरस्ते"ति । अत इत्य् अध्याहार्यम् ॥ (मोटी_१,२८.५ ॥

नानन्दाय ममोद्यानं न सुखाय मम श्रियः ।
न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥ (मो_१,२८.६ ॥

"शाम्यामि" नकिञ्चिद्भावनारूपां शान्तिं गच्छामि ॥ (मोटी_१,२८.६ ॥

अनित्यश् चासुखो लोकस् तृष्णा तात दुरुत्सहा ।
चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ॥ (मो_१,२८.७ ॥

स्पष्टम् ॥ (मोटी_१,२८.७ ॥

नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।
यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥ (मो_१,२८.८ ॥

अनेन च जीवन्मुक्तपदप्राप्तिः सूचिता । यथास्थितत्वं हि जीवन्मुक्तिं विना न सम्भवति ॥ (मोटी_१,२८.८ ॥

किम् मे राज्येन किम् भोगैः किम् अर्थेन किम् ईहितैः ।
अहङ्कारवशाद् एतत् स एव गलितो मम ॥ (मो_१,२८.९ ॥

अहङ्काराभावे हि नकिञ्चिद्रूपः पुरुषः किं राज्यादिभिः करोति ॥ (मोटी_१,२८.९ ॥

जन्मावलिवरत्रायाम् इन्द्रियग्रन्थयो दृढाः ।
ये लग्नास् तद्विमोक्षार्थं ये यतन्ते त उत्तमाः ॥ (मो_१,२८.१० ॥

"तद्विमोक्षार्थम्" इन्द्रियग्रन्थीनां विमोक्षार्थम् ॥ (मोटी_१,२८.१० ॥

दलितम् मानिनीलोकैर् मनो मकरकेतुना ।
कोमलं खुरनिष्पेषैः कमलं करिणा यथा ॥ (मो_१,२८.११ ॥

"मानिनीलोकैर्" इति करणे तृतीया । "मकरकेतुने"ति कर्तरि ॥ (मोटी_१,२८.११ ॥

अद्य चेत् स्वस्थया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।
भूयश् चित्तचिकित्सायां कः किलावसरः कुतः ॥ (मो_१,२८.१२ ॥

"अद्य" सकलसामग्र्यान्विते समये ।" स्वस्थया" सामग्रीचिन्ताहीनया ॥ (मोटी_१,२८.१२ ॥

ननु विषयसेवनं त्यक्त्वा किमर्थं चिकित्सापरो भवतीत्य् । अत्राह

विषं विषयवैषम्यं न विषं विषम् उच्यते ।
जन्मान्तरघ्ना विषया एकदेहहरं विषम् ॥ (मो_१,२८.१३ ॥

"विषय"कृतं "वैषम्यम्" "विषयवैषम्यम्" । जन्मान्तरे घ्नन्ति "जन्मान्तरघ्नाः" वासनारूपेण स्थितत्वात् ॥ (मोटी_१,२८.१३ ॥

ते एव त्वां कथं त्यजन्तीत्य् । अत्राह

न सुखानि न दुःखानि न मित्राणि न बन्धवः ।
न जीवितं न मरणम् बन्धाय ज्ञस्य चेतसः ॥ (मो_१,२८.१४ ॥

"बन्धाय" रागद्वेषरूपबन्धार्थम् । "ज्ञस्य" विवेकयुक्तस्य ॥ (मोटी_१,२८.१४ ॥

ननु तव ज्ञत्वम् कुतोऽस्तीत्य् अपेक्षायां ज्ञत्वकरणम् एव प्रार्थयते

तद् भवामि यथा ब्रह्मन् पूर्वापरविदां वर ।
वीतशोकभयायासो ज्ञस् तथोपदिशाशु मे ॥ (मो_१,२८.१५ ॥

स्पष्टम् ॥ (मोटी_१,२८.१५ ॥

वासनाजालवलिता दुःखकण्टकसङ्कटा ।
निपातोत्पातबहला भीमरूपाज्ञताटवी ॥ (मो_१,२८.१६ ॥

स्पष्टम् ॥ (मोटी_१,२८.१६ ॥

क्रकचोग्रविनिष्पेषं सोढुं शक्तोऽस्म्य् अहम् मुने ।
संसारव्यवहारोत्थं नाशाविषमवैशसम् ॥ (मो_१,२८.१७ ॥

"आशया" कृतं "विषमं" कठिनं ।" वैशसं" हिंसनम् । "आशाविषमवैशसम्" ॥ (मोटी_१,२८.१७ ॥

इदं नास्तीदम् अस्तीति व्यवहारिजनभ्रमः ।
धुनोतीदं चलं चेतो रजोराशिम् इवानिलः ॥ (मो_१,२८.१८ ॥

"धुनोति" कम्पयति ॥ (मोटी_१,२८.१८ ॥

तृष्णातन्तुलवप्रोतजीवसञ्चयमौक्तिकम् ।
चिदच्छाङ्गतया नित्यम् प्रकटं चित्तनायकम् ॥ (मो_१,२८.१९ ॥
संसारहारम् अरतिः कालव्यालविभूषणम् ।
त्रोटयाम्य् अहम् अक्रूरां वागुराम् इव केसरी ॥ (मो_१,२८.२० ॥

"चिद्" एव "अच्छम्" "अङ्गं" स्वरूपं । यस्य । सः । तस्य भावः तत्"ता" । तया । चिन्मयत्वेनेत्य् अर्थः । "प्रकटं" वेद्यतां गतं । अन्यथा ह्य् अचिन्मयत्वाद् वेद्यं कथं स्यात् । चिदविरुद्धस्य चिद्विषयीभूतस्यैव वेद्यत्वयोगात् । हारोऽपि "प्रकटो" विशदो भवति । "चित्तम्" एव "नायकः" उत्पादकः मध्यमणिश् च यस्य । तं । "अक्रूरां" कोमलाम् ॥ (मोटी_१,२८.१९-२० ॥

नीहारं हृदयाटव्याम् मनस्तिमिरम् आशु मे ।
केनचिज् ज्ञानदीपेन भिन्द्धि तत्त्वविदां वर ॥ (मो_१,२८.२१ ॥

"हृदयं" हृत्कमलम् एव "अटवी" अरण्यं । तत्र "नीहारं" । "केनचित्" मया वक्तुम् अशक्येनेत्य् अर्थः ॥ (मोटी_१,२८.२१ ॥

विद्यन्त एवेह न ते महात्मन्
दुराधयो न क्षयम् आप्नुवन्ति ।
ये सङ्गमेनोत्तममानसानां
निशातमांसीव निशाकरेण ॥ (मो_१,२८.२२ ॥

हे "महात्मन्" । "इह" लोके । "ते" "दुराधयो न" "विद्यन्ते" "ये उत्तमानां सङ्गमेन क्षयं नाप्नुवन्ति" उत्तममानससङ्गमेन दुराधयो नश्यन्तीति भवः ॥ (मोटी_१,२८.२२ ॥

सर्गान्तश्लोकेनैतत् समापयति

आयुर् वायुविघट्टिताब्जपटलीलम्बाम्बुवद् भङ्गुरम्
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः ।
लोलो यौवनलालनाजलरयश् चेत्य् आकलय्य द्रुतम्
मुद्रैवाद्रिदृढार्पिता ननु मया चित्ते चिरं शान्तये ॥ (मो_१,२८.२३ ॥

"वितानं" समूहः । "लालना "विलासः । "मुद्रा "मौनं । विषयावेदनम् इति यावत् । कथम्भूता । "अद्रि"वत् पर्वतवत् । "दृढा" । इति शिवम् ॥ (मोटी_१,२८.२३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टाविंशः सर्गः ॥ १,२८ ॥




एवं विरक्तताम् प्रतिपाद्य वैराग्यकृतावस्थाकथनम् प्रस्तौति

एवम् अभ्युत्थितानर्थसार्थसङ्कटकोटरम् ।
जगद् आलोक्य निर्मग्नम् मनोमननकर्दमे ॥ (मो_१,२९.१ ॥
मनो मे भ्रमतीवेदं सम्भ्रमश् चोपजायते ।
गात्राणि परिकम्पन्ते पत्त्राणीव जरत्तरोः ॥ (मो_१,२९.२ ॥

"अभ्युत्थितः" अभ्युदयं गतः । यः "अनर्थसार्थ" अनर्थसमूहः । तेन "सङ्कटं" सम्बाधं । "कोटरम्" मध्यं यस्य । तत् । "मनसः" यत् "मननम्" सङ्कल्पापरपर्यायो मननाख्यो धर्मः । स एव "कर्दमः" । तस्मिन् । "सम्भ्रमः" आवेगः । "गात्राणि" अङ्गानि ॥ (मोटी_१,२९.१-२ ॥

अनाप्तोत्तमसन्तोषचर्योत्सङ्गाकुला मतिः ।
शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥ (मो_१,२९.३ ॥

"अनाप्तः" । "उत्तमसन्तोषस्य" "चर्यायाः" क्रियायाः । "उत्सङ्गः" अङ्कः । यया । सा । तादृशी चासौ । अत एव्"आकुला" च । बालापि अनाप्तप्रियसख्युत्सङ्गा आकुला भवति । "अल्पबलः ईश्वरः" पतिर् । यस्याः । सा । तादृशी । "अल्पबलेश्वरा" "शून्यास्पदा" च "बाला" हि स्फुटम् एव "बिभेति" ॥ (मोटी_१,२९.३ ॥

विकल्पेभ्यो लुठन्त्य् एताश् चान्तःकरणवृत्तयः ।
श्वभ्रेभ्य इव सारङ्ग्यस् तुच्छालम्बविडम्बिताः ॥ (मो_१,२९.४ ॥

"विकल्पेभ्यः लुठन्ति" अन्यस्माद् विकल्पाद् अन्यं विकल्पं यान्तीत्य् अर्थः । अथ वा मोहं गच्छन्तीति । "अन्तःकरणवृत्तयः" कथम्भूताः । "तुच्छाः" आपातमात्रमधुरत्वेन निःसाराः । ये "आलंबाः" विषयास् । तैर् "विडम्बिताः" वञ्चिताः । स्वोन्मुखाः कृता इति यावत् ॥ (मोटी_१,२९.४ ॥

अविवेकास्पदभ्रष्टाः कष्टे रूढा न सत्पदे ।
अन्धकूपम् इवापन्ना वराकाश् चक्षुरादयः ॥ (मो_१,२९.५ ॥

"कष्टे" विषयाख्ये कठिने पदे इत्य् अर्थः ॥ (मोटी_१,२९.५ ॥

नावस्थितिम् उपायाति न च याति यथेप्सितम् ।
चिन्ता जीवेश्वरायत्ता कान्तेवाप्रियसद्मनि ॥ (मो_१,२९.६ ॥

"अवस्थितिं" स्थैर्यम् । "यथेप्सितं" स्वेप्सितम् अर्थम् । "जीव" एव "ईश्वरः" पतिः । तस्य्"आयत्ता" वश्या । न तु स्वाधीना ॥ (मोटी_१,२९.६ ॥

जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा ।
मार्गशीर्षान्तवल्लीव धृतिर् विधुरतां गता ॥ (मो_१,२९.७ ॥

"जर्जरीकृत्य" निर्विद्य । "बिभ्रती" । नवानीति शेषः । "धृतिः" लक्षणया धैर्ययुक्ता बुद्धिः ॥ (मोटी_१,२९.७ ॥

अपहस्तितसर्वार्थम् अनवस्थितिर् आस्थिता ।
गृहीत्वोत्सृज्य चात्मानम् अवस्थितिर् अवस्थिता ॥ (मो_१,२९.८ ॥

"अपहस्तिताः" हस्ताद् अतीताः । "सर्वे अर्थाः" यत्र । तत् । निष्प्रयोजनम् इत्य् अर्थः । "अनवस्थितिः" अरतिः । "आस्थिता" दृढीभूता । "अवस्थितिः" रतिः । "आत्मानं गृहीत्वा" "उत्सृज्य" "चावस्थिता" शिथिलास्थितेत्य् अर्थः ॥ (मोटी_१,२९.८ ॥

चलिताचलितेनान्तर् अवष्टम्भेन मे मतिः ।
दरिद्राच्छिनवृक्षस्य मूलेनेव विडम्ब्यते ॥ (मो_१,२९.९ ॥

"दरिद्रैर्" "आच्छिन्नो" मूलदेशं तावच् छिन्नश् चासौ "वृक्षस्" । तस्य । "मूलेन" कर्त्रा । "चलिताचलितेन" क्षणम् अचलितेन । अवष्टम्भेन धैर्येण । उपलक्षिता "मे मतिः" कर्मभूता । "विडम्ब्यते"ऽनुक्रियते । मम मतिः छिन्नवृक्षमूलवद् अङ्कुरजननासमर्थास्तीति भावः ॥ (मोटी_१,२९.९ ॥

चेतश् चञ्चलम् आभोगि भुवनान्तर्विहारि च ।
सम्भ्रमं न जहातीदं स्वविमानम् इवामरः ॥ (मो_१,२९.१० ॥

"आभोगि" विकल्पाख्याभोगयुक्तम् ॥ (मोटी_१,२९.१० ॥

अतोऽतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
किं तत् स्थितिपदं साधु यत्र शङ्का न विद्यते ॥ (मो_१,२९.११ ॥

स्थितेः योग्यम् पदं "स्थितिपदं" । "शङ्का" नाशशङ्का ॥ (मोटी_१,२९.११ ॥

सर्वारम्भसमारम्भाः सुजना जनकादयः ।
व्यवहारपरा एव कथम् उत्तमतां गताः ॥ (मो_१,२९.१२ ॥

"सर्वारम्भेषु" "समारम्भः" येषां । ते । सर्वकारिण इति यावत् । "सुजनाः" सज्जनाः ॥ (मोटी_१,२९.१२ ॥

लग्नेनापि किलाङ्गेषु बहुना बहुमानद ।
कथं संसारपङ्केन पुमान् इह न लिप्यते ॥ (मो_१,२९.१३ ॥

"न लिप्यते" स्वावेशेनोत्पादितैः सुखदुःखैः पापपुण्यैः वा न गृह्यते ॥ (मोटी_१,२९.१३ ॥

कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।
महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥ (मो_१,२९.१४ ॥

तां ममापि कथयेति भावः ॥ (मोटी_१,२९.१४ ॥

लोभयन्तो भयायैव विषयाभोगभोगिनः ।
भङ्गुराकारविभवाः कथम् आयान्ति भव्यताम् ॥ (मो_१,२९.१५ ॥

"भयायैव" न तु सुखाय । "विषयाः" "भोगाः" । भोगयुक्ताः भोगिनः "भोगभोगिनः" । पुष्टशरीरयुक्तसर्पस्वरूपा इत्य् अर्थः । "भङ्गुराकारः" नश्वरस्वभावः । "विभवः" उत्पत्तिस्थानं येषां । तादृशाः । "भव्यताम्" रागानुत्पादकत्वेन रमणीयताम् ॥ (मोटी_१,२९.१५ ॥

मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।
परम् प्रसादम् आयाति शेमुषीसरसी कथम् ॥ (मो_१,२९.१६ ॥

"कलङ्को"ऽत्र भोगानुसन्धानरूपो ज्ञेयः । "शेमुषी" बुद्धिः । सा एव "सरसी" ॥ (मोटी_१,२९.१६ ॥

संसार एव निवसञ् जनो व्यवहरन्न् अपि ।
न बन्धं कथम् आयाति पद्मपत्त्रे पयो यथा ॥ (मो_१,२९.१७ ॥

स्पष्टम् ॥ (मोटी_१,२९.१७ ॥

आत्मवत् तृणवद् वेदं सकलं जनयञ् जगत् ।
कथम् उत्तमताम् एति मनोमन्मथम् अस्पृशन् ॥ (मो_१,२९.१८ ॥

"जनयन्" उत्पादयन् । लक्षणया जानन् इत्य् अर्थः । मनो हि ज्ञानद्वारेणैव सर्वं जनयति । उभयथापि मोक्ष एवेति भावः ॥ (मोटी_१,२९.१८ ॥

कम् महापुरुषम् पारम् उपयातम् भवोदधेः ।
आचारेणानुसृत्यायं जनो याति न दुष्कृतम् ॥ (मो_१,२९.१९ ॥

स्पष्टम् ॥ (मोटी_१,२९.१९ ॥

किं तद् यद् उचितं श्रेयः किं तत् स्याद् उचितम् फलम् ।
वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥ (मो_१,२९.२० ॥

"असमञ्जसे" विषमे ॥ (मोटी_१,२९.२० ॥

तत् त्वं कथय मे किञ्चिद् येनास्य जगतः प्रभो ।
वेद्मि पूर्वापरां धातुश् चेष्टितस्यासमस्थितिम् ॥ (मो_१,२९.२१ ॥

"येन" कथितेन । "पूर्वापराम्" अन्तद्वययुक्तां । समग्राम् इति यावत् । "असमस्थितिं" विषमां स्थितिं । "जगतः" कथम्भूतस्य । "धातुश् चेष्टितस्य" ब्रह्मचेष्टितरूपस्य ॥ (मोटी_१,२९.२१ ॥

हृदयाकाशशशिनश् चेतसो मलमार्जनम् ।
यथा मे जायताम् ब्रह्मंस् तथा निर्विघ्नम् आचर ॥ (मो_१,२९.२२ ॥

"मलमार्जनम्" संशयाख्यमलमार्जनम् ॥ (मोटी_१,२९.२२ ॥

किम् इह स्याद् उपादेयं किं वा हेयम् अथेतरत् ।
कथं विश्रान्तिम् आयातु चेतश् चपलम् अद्रिवत् ॥ (मो_१,२९.२३ ॥

"अथ इतरद्" उपेक्ष्यं किम् अस्ति ॥ (मोटी_१,२९.२३ ॥

केन पावनमन्त्रेण दुःसंसृतिविषूचिका ।
शाम्यतीयम् अनायासम् आयासशतकारिणी ॥ (मो_१,२९.२४ ॥

स्पष्टम् ॥ (मोटी_१,२९.२४ ॥

कथं शीतलताम् अन्तर् आनन्दतरुमञ्जरीम् ।
पूर्णचन्द्र इवाक्षीणां राकाम् आसादयाम्य् अहम् ॥ (मो_१,२९.२५ ॥

"राकाम्" पूर्णिमाम् ॥ (मोटी_१,२९.२५ ॥

प्राप्यान्तःपूर्णताम् अन्तर् न शोचामि यथा पुनः ।
सन्तो भवन्तस् तत्त्वज्ञास् तथैवोपदिशन्तु माम् ॥ (मो_१,२९.२६ ॥

स्पष्टम् ॥ (मोटी_१,२९.२६ ॥

सर्गान्तश्लोकेनैतत् समापयति

अनुत्तमानन्दपदप्रधान-
विश्रान्तिरिक्तं हि मनो महात्मन् ।
कदर्थयन्तीह भृशं विकल्पाः
श्वानो वने देहम् इवाल्पजीवम् ॥ (मो_१,२९.२७ ॥

"कदर्थयन्ति" मथ्नन्ति । इति शिवम् ॥ (मोटी_१,२९.२७ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनत्रिंशः सर्गः ॥ १,२९ ॥




एवं वैराग्यकृताम् अवस्थाम् उक्त्वोपायम् प्रष्टुम् प्रस्तावं करोति

प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुलवभङ्गुरे ।
आयुषीशानशीतांशुकलामृदुनि देहके ॥ (मो_१,३०.१ ॥
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।
वागुरावलये जन्तोः सुहृत्स्वजनसङ्गमे ॥ (मो_१,३०.२ ॥
वासनावातवलितकदाशातडिति स्फुटे ।
मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति ॥ (मो_१,३०.३ ॥
नृत्यत्य् उत्ताण्डवं चण्डे लोले लोभकलापिनि ।
सुविकासिनि सस्फोटम् अनर्थकुटजद्रुमे ॥ (मो_१,३०.४ ॥
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।
अश्रुतस्पन्दसञ्चारे कुतोऽप्य् उपरिपातिनि ॥ (मो_१,३०.५ ॥
क उपायो गतिः का वा का चिन्ता कः समाश्रयः ।
केनेयम् अशुभोदर्का न भवेज् जीविताटवी ॥ (मो_१,३०.६ ॥

"ईशानशीतांशुकला" श्रीमहादेवशिरःस्था चन्द्रकला । "रटतः" "भेकस्य" "कण्ठत्वक्" अत्यन्त"भङ्गुरा" भवति । इति तस्या उपमानत्वेन ग्रहणम् । "मिहिकामेघे" नीहारयुक्ते मेघे । कथम्भूते । "वासनावातेन" "वलिता" या "कदाशा" । सा एव "तडित्" यस्य । तादृशे । "स्फुटे" प्रकटे । "उत्ताण्डवम्" उद्भटं । "सस्फोटं" स्फोटनयुक्तं । सशब्दम् इत्य् अर्थः । "कृतान्तमार्जारे" कथम्भूते । "अश्रुतस्पन्दः सञ्चारो" यस्य । तादृशे । "अशुभोदर्का" अशुभोत्तरफला । "जीवितम्" एव्"आटवी "वनम् ॥ (मोटी_१,३०.१-६ ॥

न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
सुधियस् तुच्छम् अप्य् एतद् यन् न याति नरम्यताम् ॥ (मो_१,३०.७ ॥

"नरम्यताम्" इति नसमासोऽयम् । अरम्यताम् इत्य् अर्थः । सर्वत्र सर्वं "सुधियः" अरम्यताम् एव यातीति भावः । "अपि"शब्दः पादपूरणार्थः ॥ (मोटी_१,३०.७ ॥

अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः ।
कथं सुस्वादुताम् एति नीरसो मूर्खतां विना ॥ (मो_१,३०.८ ॥

मूर्खताभावे तु सुस्वादुतां नैतीति भावः ॥ (मोटी_१,३०.८ ॥

आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् ।
उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी ॥ (मो_१,३०.९ ॥

"आशा" एव "प्रतिविषा" तिक्तद्रव्यविशेषः । "केन" किंरूपेण ॥ (मोटी_१,३०.९ ॥

अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।
मनश्चन्द्रमसः केन तेन कामकलङ्किनः ॥ (मो_१,३०.१० ॥

"अपमृष्टं" नष्टं । "मलं" यस्याः । सा । "तेन केने"ति प्रश्नः । "मनश्चन्द्रमसः" कथम्भूतस्य । "काम" एव "कलङ्कः" अस्यास्तीति तादृशस्य ॥ (मोटी_१,३०.१० ॥

दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।
केन वा व्यवहर्तव्यं संसारवनवीथिषु ॥ (मो_१,३०.११ ॥

"दृष्टा संसारगतिः" येन । सः । तादृशेन । तथा "दृष्टादृष्टयोः" "विनाशः" अस्यास्तीति तादृशेन । पदार्थधर्माधर्माद्यतीतेन जीवन्मुक्तेनेति यावत् । "केन" केन प्रकारेण । "संसारवनवीथिषु" "व्यवहर्तव्यं" व्यवहारः कर्तव्यः ॥ (मोटी_१,३०.११ ॥

रागद्वेषमहारोगा भोगपूर्वातिपूतयः ।
कथं जन्तोर् न बाधन्ते संसारारण्यचारिणः ॥ (मो_१,३०.१२ ॥

"रागद्वेषा" एव "महारोगाः" । ते "संसारारण्यचारिणो" "जन्तोः" "कथं न बाधन्ते" । कथम्भूताः । "भोगाः" "पूर्वं" कारणं येषां । ते । तादृशाश् च तेऽ"तिपूतयश्" चातिशयेन पूतिगन्धाश् च । रागादिगतः पूतिः । अर्थाद् धर्षामर्षौ ज्ञेयौ । रोगपक्षे तु प्रसिद्धार्थ एव ॥ (मोटी_१,३०.१२ ॥

कथं च वीरवैराग्नौ पततापि न दह्यते ।
पावके पारतेनेव रसेन रसशालिना ॥ (मो_१,३०.१३ ॥

क्षत्रियजातित्वाद् इयम् उक्तिः । "पारतेन" "रसेन" पारताख्येन रसेन ॥ (मोटी_१,३०.१३ ॥

तर्हि व्यवहारम् एव मा कुर्व् इत्य् । अत्राह

यस्मात् किल जगत्य् अस्मिन् व्यवहारक्रियां विना ।
न स्थितिः सम्भवत्य् अब्धौ पतितस्याजला यथा ॥ (मो_१,३०.१४ ॥

"स्थितिः" अवस्थानम् ॥ (मोटी_१,३०.१४ ॥

रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।
कृशानोर् दाहहीनेव शिखा नास्तीह सत्क्रिया ॥ (मो_१,३०.१५ ॥

स्पष्टम् ॥ (मोटी_१,३०.१५ ॥

मनोमननमानिन्याः सतापाभुवनत्रये ।
क्षययुक्तिं विना नास्ति ब्रूत ताम् अलम् उत्तमाः ॥ (मो_१,३०.१६ ॥

"सतापम्" "आ" समन्ताद् । "भुवनत्रयं" । तस्मिन् । "मनोमननमानिन्याः क्षययुक्तिं विना नास्ति" । तापनिवारकम् इति शेषः । अतः हे "उत्तमाः" । यूयं "तां" क्षययुक्तिं । "ब्रूत" कथयतेत्य् अर्थः । "आभुवनत्रयम्" इत्य् अत्र आङ्शब्दोऽभिव्यापकत्वे समस्यते । आनगरम् इतिवत् ॥ (मोटी_१,३०.१६ ॥

व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।
अथ वाव्यवहारस्य ब्रूत तां गतिम् उत्तमाः ॥ (मो_१,३०.१७ ॥

"अव्यवहारस्य" व्यवहाररहितस्य । "गतिं" युक्तिम् ॥ (मोटी_१,३०.१७ ॥

तत् कथं केन वा किं वा कृतम् उत्तमचेतसा ।
पूर्वं येनैति विश्रामम् परमम् पावनम् मनः ॥ (मो_१,३०.१८ ॥

"केनोत्तमचेतसा" "पूर्वं" "तत् किं" "कृतं कथं वा कृतं" । "तत् किम्" ममेति शेषः । "येन" मम "मनः" "पावनं" सत् "परमं" "विश्रामम्" "एति" ॥ (मोटी_१,३०.१८ ॥

यथा जानासि भगवंस् तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन यूयं निर्दुःखतां गताः ॥ (मो_१,३०.१९ ॥

ननु कथम् अहं वक्तुं शक्नोमीत्य् अत्राह "साधव" इति ॥ (मोटी_१,३०.१९ ॥

अथ वा तादृशी ब्रह्मन् युक्तिर् यदि न विद्यते ।
न युक्तिम् मम वा कश्चिद् विद्यमानाम् अपि स्फुटम् ॥ (मो_१,३०.२० ॥
स्वयं चैव न चाप्नोमि तां विश्रान्तिम् अनुत्तमाम् ।
तद् अहं त्यक्तसर्वेहो निरहङ्कारतां गतः ॥ (मो_१,३०.२१ ॥
न भोक्ष्ये न पिबाम्य् अम्बु नाहम् परिदधेऽम्बरम् ।
करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥ (मो_१,३०.२२ ॥

हे "ब्रह्मन्न्" । "अथ वा यदि तादृशी युक्तिर् न विद्यते" । "विद्यमानाम् अपि" "युक्तिं कश्चिन् मम" "न" । ब्रूयाद् इति शेषः । "स्वयं च" "तां विश्रान्तिं" यथातथालब्धया युक्त्या कृतं विश्रामम् । अतिजाड्यान् "नाप्नोमि" । "तदाहं" "निरहङ्कारतां गतो"ऽत एव "त्यक्तसर्वेहः "सन् । "न भोक्ष्ये" । तिलकम् ॥ (मोटी_१,३०.२०-२२ ॥

" " न च तिष्ठामि कार्येषु सम्पत्स्व् आपद्दशासु च ।

न किञ्चिद् अपि वाञ्छामि देहत्यागाद् ऋते मुने ॥ (मो_१,३०.२३ ॥

स्पष्टम् ॥ (मोटी_१,३०.२३ ॥

केवलं विगताशङ्को निर्ममो गतमत्सरः ।
मौनम् एवेह तिष्ठामि लिपिकर्मस्व् इवार्पितः ॥ (मो_१,३०.२४ ॥

स्पष्टम् ॥ (मोटी_१,३०.२४ ॥

अथ क्रमेण सन्त्यज्य सश्वासोच्छ्वाससंविदम् ।
सन्निवेशं त्यजामीमम् अनर्थं देहनामकम् ॥ (मो_१,३०.२५ ॥

श्वासश् चोच्छ्वासश् च । तौ "श्वासोच्छ्वासौ" । ताभ्यां सह वर्तते इति "सश्वासोच्छ्वासा" । तादृशी "संवित्" । तां । "सन्निवेशं" संस्थानम् ॥ (मोटी_१,३०.२५ ॥

ननु समताविषयत्वेन स्वसम्बन्धितया स्थितस्य देहस्य त्यागः कथं सिध्यतीत्य् । अत्राह

नाहम् अस्य न मे देहः शाम्याम्य् अस्नेहदीपवत् ।
सर्वम् एव परित्यज्य त्यजामीदं कलेवरम् ॥ (मो_१,३०.२६ ॥

स्पष्टम् ॥ (मोटी_१,३०.२६ ॥

सर्गान्तश्लोकेन श्रीरामवाक्यम् उपसंहरति

इत्य् उक्तवान् अमलशीतकराभिरामो
रामो महत्तरविवेकविकासिचेताः ।
तूष्णीम् बभूव पुरतो महतां घनानां
केकारवश्रमवशाद् इव नीलकण्ठः ॥ (मो_१,३०.२७ ॥

"नीलकण्ठः" मयूरः । इति शिवम् ॥ (मोटी_१,३०.२७ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रिंशः सर्गः ॥ १,३० ॥





श्रीवाल्मीकिः श्रीभरद्वाजम् प्रति कथयति

वदत्य् एवम् मनोमोहविनिवृत्तिकरं वचः ।
रामे राजीवपत्त्राक्षे तस्मिन् राजकुमारके ॥ (मो_१,३१.१ ॥
सर्वे बभूवुस् तत्रस्था विस्मयोत्फुल्ललोचनाः ।
धृताम्बरा देहरुहैर् गिरः श्रोतुम् इवोद्गतैः ॥ (मो_१,३१.२ ॥
विरामवासनापास्तसमस्तभववासनाः ।
मुहूर्तम् अमृताम्भोधिवीचीविलुलिता इव ॥ (मो_१,३१.३ ॥

"देहरुहैः" रोमभिः । "धृताम्बराः" धृतवस्त्राः । रोमकञ्चुकान्विताः इत्य् अर्थः । "देहरुहैः" कथम्भूतैर् "इव" । "गिरः" श्रीराम"गिरः" "श्रोतुम् उद्गतैः" उत्थितैर् "इव" । "विरामवासनया" निवृत्तिवासनया । "अपास्ताः" त्यक्ताः । "समस्ताः" "भववासनाः" यैः । ते "विलुलिताः" चञ्चलीकृताः ॥ (मोटी_१,३१.१-३ ॥

ता गिरो रामभद्रस्य तस्य चित्रार्पितैर् इव ।
संश्रुताः शृणुकैर् अन्तर् आनन्दपरिपीवरैः ॥ (मो_१,३१.४ ॥

"शृणुकैः" श्रोतृभिः ॥ (मोटी_१,३१.४ ॥

शृणुकान् एव विशेषेण कथयति

वसिष्ठविश्वामित्राद्यैर् मुनिभिः संसदि स्थितैः ।
जयन्तघृष्टिप्रमुखैर् मन्त्रिभिर् मन्त्रकोविदैः ॥ (मो_१,३१.५ ॥

स्पष्टम् ॥ (मोटी_१,३१.५ ॥

नृपैर् दशरथप्रख्यैः पौरैः पारशवादिभिः ।
सामन्तै राजपुत्रैश् च ब्राह्मणैर् ब्रह्मवादिभिः ॥ (मो_१,३१.६ ॥

स्पष्टम् ॥ (मोटी_१,३१.६ ॥

तथा भृत्यैर् अमात्यैश् च पञ्जरस्थैश् च पक्षिभिः ।
क्रीडामृगैर् गतस्पन्दैस् तुरङ्गैर् गतचर्वणैः ॥ (मो_१,३१.७ ॥

"गतचर्वणैः" त्यक्तभोजनैः ॥ (मोटी_१,३१.७ ॥

कौसल्याप्रमुखैश् चैव निजवातायनस्थितैः ।
संशान्तभूषणारावैर् अस्पन्दैर् वनितागणैः ॥ (मो_१,३१.८ ॥

स्पष्टम् ॥ (मोटी_१,३१.८ ॥

उद्यानवल्लीनिलयैर् विटङ्कनिलयैर् अपि ।
अक्षुब्धपक्षततिभिर् विहगैर् विरतारवैः ॥ (मो_१,३१.९ ॥
सिद्धैर् नभश्चरैश् चैव तथा गन्धर्वकिन्नरैः ।
नारदव्यासपुलहप्रमुखैर् मुनिपुङ्गवैः ॥ (मो_१,३१.१० ॥

स्पष्टम् ॥ (मोटी_१,३१.९-१० ॥

अन्यैश् च देवदेवेशविद्याधरमहोरगैः ।
रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः ॥ (मो_१,३१.११ ॥

स्पष्टम् ॥ (मोटी_१,३१.११ ॥

अथ तूष्णीं स्थितवति रामे राजीवलोचने ।
तस्मिन् रघुकुलाकाशशशाङ्कसमसुन्दरे ॥ (मो_१,३१.१२ ॥
साधुवादगिरा सार्धं सिद्धसार्थसमीरिता ।
वितानकसमा व्योम्नः पुष्पवृष्टिः पपात ह ॥ (मो_१,३१.१३ ॥

स्पष्टं ॥ (मोटी_१,३१.१२-१३ ॥

पुष्पवृष्टिं विशिनष्टि

मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी ।
मदिरामोदसौन्दर्यमुदितोन्मदमानवा ॥ (मो_१,३१.१४ ॥

स्पष्टम् ॥ (मोटी_१,३१.१४ ॥

व्योमवातविनुन्नेव तारकाणाम् परम्परा ।
पतितेव धरापीठं स्वर्गस्त्रीहसितच्छटा ॥ (मो_१,३१.१५ ॥

स्पष्टम् ॥ (मोटी_१,३१.१५ ॥

वृष्टिष्व् एकशरन्मेघलवावलिर् इव च्युता ।
हैयङ्गवीनपिण्डानाम् ईरितेव परम्परा ॥ (मो_१,३१.१६ ॥

"वृष्टिषु" "वृष्ट्य्"अन्तः ॥ (मोटी_१,३१.१६ ॥

हिमवृष्टिर् इवोदारा मुक्ताहारचयोपमा ।
ऐन्दवीरश्मिमालेव क्षीरोर्मीणाम् इवाततिः ॥ (मो_१,३१.१७ ॥

स्पष्टम्॥ (मोटी_१,३१.१७ ॥

किञ्जल्कामोदवलिता भ्रमद्भृङ्गकदम्बका ।
सीत्कारगायदामोदमधुरानिलदोलिता ॥ (मो_१,३१.१८ ॥

"सीत्कारेति" शब्दानुकरणम् ॥ (मोटी_१,३१.१८ ॥

प्रभ्रमत्केतकव्यूहा प्रसरत्कैरवोत्करा ।
प्रपतत्कुन्दवलया वलत्कुवलयालया ॥ (मो_१,३१.१९ ॥

स्पष्टम् ॥ (मोटी_१,३१.१९ ॥

आपूरिताङ्गनारामगृहच्छादनचत्वरा ।
उद्ग्रीवपुरवास्तव्यवरनारीविलोकिता ॥ (मो_१,३१.२० ॥

"अङ्गनानि" च्"आरामाश्" च "गृहच्छादनानि" च "चत्वराणि" च । तानि "आपूरितानि" "अङ्गना"दीनि यया । सा । दर्शनोत्सुको हि "उद्ग्रीवो" भवति ॥ (मोटी_१,३१.२० ॥

निरभ्रोत्पलसङ्काशव्योमवृष्टिर् अनाकुला ।
अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥ (मो_१,३१.२१ ॥

स्पष्टम् ॥ (मोटी_१,३१.२१ ॥

अदृष्टपूर्वसिद्धौघकरोत्करसमीरिता ।
सा मुहूर्तचतुर्भागे पुष्पवृष्टिः पपात ह ॥ (मो_१,३१.२२ ॥

"ह" इति निपातः पादपूरणार्थः ॥ (मोटी_१,३१.२२ ॥

आपूरितसभालोके शान्ते कुसुमवर्षणे ।
इमान् सिद्धगणालापाञ् शुश्रुवुस् ते सभागताः ॥ (मो_१,३१.२३ ॥

स्पष्टम् ॥ (मोटी_१,३१.२३ ॥

सिद्धगिर एव कथयति

आकल्पं सिद्धसेनासु भ्रमद्भिर् अभितो दिवम् ।
अपूर्वम् अद्य त्व् अस्माभिः श्रुतं श्रुतिरसायनम् ॥ (मो_१,३१.२४ ॥

"श्रुत्"औ कर्णे । "रसायनम्" अमृतम् ॥ (मोटी_१,३१.२४ ॥

यद् अनेन किलोदारम् उक्तं रघुकुलेन्दुना ।
वीतरागतया तद् धि वाक्पतेर् अप्य् अगोचरम् ॥ (मो_१,३१.२५ ॥

स्पष्टम् ॥ (मोटी_१,३१.२५ ॥

अहो वत महत् पुण्यम् अद्यास्माभिर् इदं श्रुतम् ।
वचो राममुखोद्भूतम् अमृताह्लादकं धियः ॥ (मो_१,३१.२६ ॥

स्पष्टम् ॥ (मोटी_१,३१.२६ ॥

सर्गान्तश्लोकं कथयति

उपशमामृतसुन्दरम् आदराद्
अधिगतोत्तमतापदम् एष यत् ।
कथितवान् उचितं रघुनन्दनः
सपदि तेन वयम् प्रतिबोधिताः ॥ (मो_१,३१.२७ ॥

"प्रतिबोधिताः" ज्ञानयुक्ताः सम्पादिताः । इति शिवम् ॥ (मोटी_१,३१.२७ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकत्रिंशः सर्गः ॥ १,३१ ॥




सिद्धा एव परस्परं कथयन्ति

पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना ।
निर्णयं श्रोतुम् उचितं वक्ष्यमाणम् महर्षिभिः ॥ (मो_१,३२.१ ॥
नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः ।
आगच्छताश्व् अविघ्नेन सर्व एव महर्षयः ॥ (मो_१,३२.२ ॥
पतामः परितः पुण्याम् एतां दाशरथीं सभाम् ।
नीरन्ध्रकनकाम्भोजाम् पद्मिनीम् इव षट्पदाः ॥ (मो_१,३२.३ ॥

स्पष्टम् ॥ (मोटी_१,३२.१-३ ॥

श्रीवाल्मीकिः श्रीभरद्वाजम् प्रति कथयति

इत्य् उक्त्वा सा समस्तैव व्योमावासनिवासिनी ।
ताम् पपात सभां तत्र दिव्या मुनिपरम्परा ॥ (मो_१,३२.४ ॥

"व्योम्नि" यः "आवासः" । तत्र "निवस"तीति तादृशी ॥ (मोटी_१,३२.४ ॥

मुनिपरम्परां विशिनष्टि

अग्रस्थितमरुत्पृष्ठरणद्वीणमुनीश्वरा ।
पयःपीनघनश्यामव्यासमेचकिताम्बरा ॥ (मो_१,३२.५ ॥

"अग्रे स्थिताः" "मरुतः" यस्यां । सा । तादृशी चासौ "पृष्ठे" च "रणद्वीणाः" "मुनीश्वराः" यस्यां । सा । तादृशी ॥ (मोटी_१,३२.५ ॥

भृग्वङ्गिरःपुलस्त्यादिमुनिनायकमण्डिता ।
च्यवनोद्दालकोशीरशरलोमादिपालिता ॥ (मो_१,३२.६ ॥

स्पष्टम् ॥ (मोटी_१,३२.६ ॥

परस्परपरामर्शाद् दुःसंस्थानमृगाजिना ।
लोलाक्षमालावलया सुकमण्डलुधारिणी ॥ (मो_१,३२.७ ॥

"परामर्शात्" सङ्घट्टात् ॥ (मोटी_१,३२.७ ॥

तारावलिर् इवान्योन्यकृतशोभातिशायिनी ।
कौसुमी वृष्टिर् अन्येव द्वितीयेवार्कमण्डली ॥ (मो_१,३२.८ ॥

स्पष्टम् ॥ (मोटी_१,३२.८ ॥

ताराजाल इवाम्भोदो व्यासो ह्य् अत्र व्यराजत ।
तारौघ इव शीतांशुर् नारदोऽत्र व्यराजत ॥ (मो_१,३२.९ ॥

स्पष्टम् ॥ (मोटी_१,३२.९ ॥

देवेष्व् इव स्वराधीशः पुलस्त्योऽत्र व्यराजत ।
आदित्य इव देवानाम् अङ्गिराश् च व्यराजत ॥ (मो_१,३२.१० ॥

स्पष्टम् ॥ (मोटी_१,३२.१० ॥

अथास्यां सिद्धसेनायाम् पतन्त्यां नभसो रसात् ।
उत्तस्थौ मुनिसम्पूर्णा तदा दाशरथी सभा ॥ (मो_१,३२.११ ॥

स्पष्टम् ॥ (मोटी_१,३२.११ ॥

मिश्रीभूता विरेजुस् ते नभश्चरमहीचराः ।
परस्परवृताङ्गाभा भासयन्तो दिशो दश ॥ (मो_१,३२.१२ ॥

"परस्परं वृता" "अङ्गानाम्" "आभा" यैः । ते ॥ (मोटी_१,३२.१२ ॥

नभश्चरमहीचरान् विशिनष्टि

वेणुघण्टावृतकरा लीलाकमलधारिणः ।
दूर्वाङ्कुराक्रान्तशिखाः सचुडामणिमूर्धजाः ॥ (मो_१,३२.१३ ॥

स्पष्टम् ॥ (मोटी_१,३२.१३ ॥

जटाकटप्रकपिला मौलिमालितमस्तकाः ।
प्रकोष्ठगाक्षवलया माणिक्यवलयान्विताः ॥ (मो_१,३२.१४ ॥

"जटाकटप्रेण" जटासमूहेन । "कपिलाः" ॥ (मोटी_१,३२.१४ ॥

चीरवल्कलसंवीताः स्रक्कौशेयावलुण्ठिताः ।
विलोलमेखलापाशाश् चलन्मुक्ताकलापिनः ॥ (मो_१,३२.१५ ॥

स्पष्टम् ॥ (मोटी_१,३२.१५ ॥

वसिष्ठविश्वामित्रौ तान् पूजयाम् आसतुः क्षणात् ।
अर्घ्यैः पाद्यैर् वचोभिश् च नभश्चरमहागणान् ॥ (मो_१,३२.१६ ॥

स्पष्टम् ॥ (मोटी_१,३२.१६ ॥

सर्वाचारेण सिद्धौघम् पूजयाम् आस भूपतिः ।
सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया ॥ (मो_१,३२.१७ ॥

स्पष्टम् ॥ (मोटी_१,३२.१७ ॥

तैस् तैः प्रणयसंरम्भैर् अन्योऽन्यम् प्राप्तसत्क्रियाः ।
उपाविशन् विष्टरेषु नभश्चरमहीचराः ॥ (मो_१,३२.१८ ॥

"प्रणयसंरम्भैः" स्नेहसंरम्भैः ॥ (मोटी_१,३२.१८ ॥

वचोभिः पुष्पवर्षेण साधुवादेन चाभितः ।
रामं तम् पूजयाम् आसुः पुरः प्रणतम् आस्थितम् ॥ (मो_१,३२.१९ ॥

स्पष्टम् ॥ (मोटी_१,३२.१९ ॥

आसां चक्रे च तत्रासौ राजलक्ष्म्या विराजितः ।
विश्वामित्रो वसिष्ठश् च वामदेवश् च मन्त्रिणः ॥ (मो_१,३२.२० ॥

"असौ" श्रीरामः ॥ (मोटी_१,३२.२० ॥

नारदो देवपुत्रश् च व्यासश् च मुनिपुङ्गवः ।
मरीचिर् अथ दुर्वासा मुनिर् आङ्गिरसस् तथा ॥ (मो_१,३२.२१ ॥

स्पष्टम् ॥ (मोटी_१,३२.२१ ॥

क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः ।
वात्स्यायनो भरद्वाजो वाल्मीकिर् मुनिपुङ्गवः ॥ (मो_१,३२.२२ ॥

स्पष्टम् ॥ (मोटी_१,३२.२२ ॥

उद्दालक ऋचीकश् च शर्यातिश् च्यवनस् तथा ।
ऊष्मपाश् च घृतार्चिश् च शालुडिर् वालुडिस् तथा ॥ (मो_१,३२.२३ ॥

स्पष्टम् ॥ (मोटी_१,३२.२३ ॥

एते चान्ये च बहवो वेदवेदाङ्गपारगाः ।
ज्ञातज्ञेया महात्मानः संस्थितास् तत्र नायकाः ॥ (मो_१,३२.२४ ॥

"नायकाः" श्रेष्ठाः ॥ (मोटी_१,३२.२४ ॥

वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः ।
इदम् ऊचुर् अनूचाना रामम् आनमिताननम् ॥ (मो_१,३२.२५ ॥

"अनूचानाः" साङ्गवेदज्ञाः ॥ (मोटी_१,३२.२५ ॥

अहो वत कुमारेण कल्याणगुणशालिनी ।
वाग् उक्ता परमोदारविरागरसगर्भिणी ॥ (मो_१,३२.२६ ॥

स्पष्टम् ॥ (मोटी_१,३२.२६ ॥

परिनिष्ठितवाक्यार्थसुबोधम् उचितं स्फुटम् ।
उदारम् प्रियचर्यार्हम् अविह्वलम् अविप्लुतम् ॥ (मो_१,३२.२७ ॥
अभिव्यक्तपदं चैव निष्ठं स्पष्टं च तुष्टिमत् ।
करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ॥ (मो_१,३२.२८ ॥

"परिनिष्ठितः" आकाङ्क्षारहितः । "वाक्यार्थः" यस्मिन् । तत् "परिनिष्ठितवाक्यार्थं" । तादृशम् च तत् "सुबोधं" च तत् । "स्फुटम्" प्रकटार्थम् । "प्रियचर्याम्" प्रियव्यवहारम् "अर्हती"ति तादृशम् । "अविह्वलं" व्याकुलतारहितम् । "अविप्लुतं" केनापि बाधितुम् अशक्यम् । "तुष्टिमत्" श्रोतुः तुष्टिकारित्वेन तुष्टिमत् ॥ (मोटी_१,३२.२७-२८ ॥

शताद् एकतमस्यैव सर्वोदारचमत्कृतेः ।
ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ॥ (मो_१,३२.२९ ॥

"सर्वेभ्यः उदारा" उद्भटा । "चमत्कृतिः" चमत्कारो । यस्य । तादृशस्य । न तु सर्वे एतादृशाः भवन्तीति भावः ॥ (मोटी_१,३२.२९ ॥

श्रीरामम् प्रति कथयति

कुमार त्वां विना कस्य विवेकफलशालिनी ।
एवं विकासम् आयाति प्रज्ञा वनलता यथा ॥ (मो_१,३२.३० ॥

स्पष्टम् ॥ (मोटी_१,३२.३० ॥

प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता ।
प्रज्वलत्य् अलम् आलोककारिणी स पुमान् स्मृतः ॥ (मो_१,३२.३१ ॥

स्पष्टम् ॥ (मोटी_१,३२.३१ ॥

रक्तमांसास्थियन्त्राणि बहून्य् अतिततानि च ।
पदार्थान् अपकर्षन्ति नास्ति तेषु सचेतनम् ॥ (मो_१,३२.३२ ॥

"अतिततानि बहूनि रक्तमांसास्थियन्त्राणि" देहनिष्ठाः पुरुषा इति यावत् । सन्ति कथम्भूतानि । "पदार्थान्" "अपकर्षन्ति" जाड्येन जेतॄणि । किं तु "तेषु" किञ्चिद् अपि "रक्तमांसास्थियन्त्रम्" "सचेतनं" विचारयुक्तं । "नास्ति" । कश्चिद् अपि पुरुषः सचेतनो नास्तीत्य् अर्थः ॥ (मोटी_१,३२.३२ ॥

जन्ममृत्युजरादुःखम् अनुयान्ति पुनः पुनः ।
विमृशन्ति न संसारपशवः परिमोहिताः ॥ (मो_१,३२.३३ ॥

"विमृशन्ती"त्य् अत्रापि "जन्ममृत्युजरादुःखम्" इत्य् एतद् एव कर्म । "संसारपशवः" अज्ञानिनः ॥ (मोटी_१,३२.३३ ॥

कथञ्चित् क्वचिद् एवैको दृश्यते विमलाशयः ।
पूर्वापरविचारार्हो यथायम् अरिसूदनः ॥ (मो_१,३२.३४ ॥

"पूर्वापरविचारार्हः" सम्यग्विचारयोग्यः ॥ (मोटी_१,३२.३४ ॥

अनुत्तमचमत्कारफलाः सुभगमूर्तयः ।
भव्या हि विरला लोके सहकारद्रुमा इव ॥ (मो_१,३२.३५ ॥

"भव्याः" विवेकयुक्ताः ॥ (मोटी_१,३२.३५ ॥

सम्यग्दृष्टिर् जगज्जातौ स्वविवेकचमत्कृतिः ।
अस्मिन् भव्यमताव् अन्तर् इयम् अन्येव दृश्यते ॥ (मो_१,३२.३६ ॥

अस्माभिः । "भव्यमतौ" "अस्मिन्" गर्भरूपे श्रीरामे । "सम्यग्दृष्टिः" सम्यग्दृष्टिस्वरूपा । "इयं" "स्वविवेकचमत्कृतिः" आत्मविवेकचमत्कारः । "जगज्जातौ" जगत्स्थितौ । "अन्या इव" नवीना इव । "दृश्यते" ॥ (मोटी_१,३२.३६ ॥

सुलभाः सुभगा लोकाः फलपल्लवशालिनः ।
जायन्ते तरवो देशे न तु चन्दनपादपाः ॥ (मो_१,३२.३७ ॥

"सुभगाः" आकारमात्रेण मनोहराः ॥ (मोटी_१,३२.३७ ॥

वृक्षाः प्रतिवने सन्ति सत्यं सुफलपल्लवाः ।
न त्व् अपूर्वचमत्कारो लवङ्गः सुलभः सदा ॥ (मो_१,३२.३८ ॥

स्पष्टम् ॥ (मोटी_१,३२.३८ ॥

ज्योत्स्नेव शीता शशिनः सुतरोर् इव मञ्जरी ।
पुष्पाद् आमोदलेखेव दृष्टा रामाच् चमत्कृतिः ॥ (मो_१,३२.३९ ॥

"चमत्कृतिः" वैराग्यरूपेत्य् अर्थः ॥ (मोटी_१,३२.३९ ॥

अस्माद् उद्दामदौरात्म्यदैवनिर्माणनिर्मितेः ।
द्विजेन्द्रा दग्धसंसारात् सारो ह्य् अत्यन्तदुर्लभः ॥ (मो_१,३२.४० ॥

हे "द्विजेन्द्राः" । "दग्धसंसारात्" कथम्भूतात् । अत्यन्तवैषम्यकारित्वेन "उद्दामदौरात्म्यं" यद् "दैवं" विधिः । तस्य यत् "निर्माणं" रचनं । ततः "निर्मितिः" सम्पत्तिर् । यस्य । सः । तादृशात् । निर्माणनिर्मित्योः सामान्यविशेषभावेन भेदो द्रष्टव्यः । अत्र वैराग्योत्कर्षात् दैवम् प्रति असूया न युक्तेति नान्यथा शङ्कितव्यम् ॥ (मोटी_१,३२.४० ॥

यतन्ते सारसम्प्राप्तौ ये यशोनिधयो धिया ।
धन्या धुरि सतां गण्यास् ता एव पुरुषोत्तमाः ॥ (मो_१,३२.४१ ॥

स्पष्टम् ॥ (मोटी_१,३२.४१ ॥

न रामेण समोऽस्तीह त्रिषु लोकेषु कश्चन ।
विवेकवान् उदारात्मा महात्मा चेति नो मतिः ॥ (मो_१,३२.४२ ॥

स्पष्टम् ॥ (मोटी_१,३२.४२ ॥

सर्गान्तश्लोकेन वैराग्यप्रकरणं समापयति

सकललोकचमत्कृतिकारिणो
ऽप्य् अभिमतं यदि राघवचेतसः ।
फलति नो तद् इमे वयम् एव हि
स्फुटतरम् मुनयो हतबुद्धयः ॥ (मो_१,३२.४३ ॥

"अभिमतं" समनन्तरोक्तस्य प्रश्नस्योत्तरम् । इति शिवम् ॥ (मोटी_१,३२.४३ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वात्रिंशः सर्गः ॥ १,३२ ॥



श्रोतॄणाम् भावनावेशसत्कृतस्वान्तशालिनाम् *
वैराग्याख्यप्रकरणव्याख्या सत्फलदास्त्व् इयम् ** १५ **
यच्छक्त्यावेशवशतः सामर्थ्यं कार्यगोचरम् *
भावानाम् अस्तु यत्नोऽयं तत्कार्यत्वेन निश्चितः ** १६ **
वासनाबीजरागाख्यद्रुमोन्मूलनपण्डितः *
वैराग्याख्यः पयःपूरः स्फुरतान् मम मानसे ** १७ **


इति शिवम् ॥

इति श्रीकाश्मीरमण्डलान्तर्वर्त्याराध्यपादमहामाहेश्वरवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्रश्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्याख्यम् प्रकरणं समाप्तम् ॥