यजुर्वेदः

विकिपुस्तकानि तः
यजुर्वेदस्य परिचय:-[सम्पाद्यताम्]

यजुर्वेदस्य उपवेद:धनुर्वेद: अस्ति । तस्मिन् वेदे कर्मकाण्डस्य विषय: अधिक: वर्तते सूर्याग्निवाय्वाकाशेन्द्रकुबेरादिदेवानां स्तुति: वर्तते । तत्र भेदद्वयम् अस्ति । प्रथम: शुक्ल यजुर्वेद:,द्वितीय:कृष्णयजुर्वेद: । उत्तरभारते पश्चिम भारते च शुक्ल यजुर्वेद: पठ्यते । दक्षिणभारते कृष्णयजुर्वेद: पठ्यते । शुक्लयजुर्वेदे चत्वारिंशत् अध्याया: सन्ति । तत्र 1975 परिमिता: मन्त्राः सन्ति। 303 अनुवाका सन्ति।अस्य वेदस्य चत्वारिंशत्तमो अध्याय: ईशावास्योपनिषत् नाम्न: प्रसिद्धो वर्तते। उपनिषदेस्मिन् आत्मतत्वस्य निरूपणं वर्तते यागसंबन्धि मन्त्रा एव प्रायः भवन्ति । तत्र विष्णो: ब्रह्मण: इन्द्रस्य कुबेरस्य यक्षस्य प्रजापतेःरुद्रस्य बहवः मन्त्राः सन्ति। विविधदेवानां सूक्तानि स्तुतयश्च विशेषरूपेण अस्मिन् वेदे सन्ति।द्वयोः वेदयोः उच्चारणपद्धतिः अपि भिन्ना वर्तते।उच्चारणे वैदिकस्वराणां वैशिष्ट्यं भवति। तदर्थं वैदिकव्याकरणं अवश्यं पठनीयमिति । अपि च गुरुमुखं विना वेदानामुच्चारणं शुद्धं न भवति। अत: गुरुमुखेनैव वेदानामध्ययनं यदा भवति तदैव शुद्धमुच्चारणं सम्भवति। यतो हि वेदानां शुद्धोच्चारणमेव पुण्यदायकं भवति।

"https://sa.wikibooks.org/w/index.php?title=यजुर्वेदः&oldid=7105" इत्यस्माद् प्रतिप्राप्तम्