योगः
लक्षणम्-
[सम्पाद्यताम्]योगो नाम योजना व्यस्तानां पदानामेकीकरणम्।उदाहरणं तावद्यथा - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि।तत्र प्रतिज्ञा मातृजश्चायं गर्भः। हेतुः मातरमन्तरेण गर्भानुपपत्तेः।दृष्टान्तः कूटागरः।उपनयः यथा नानाद्रव्यसमुदायात् कूटागारः, तथा गर्भनिर्वर्तनम्।तस्मात् मातृजश्चायम् इत्येषां प्रतिज्ञायोगः।एवमन्येऽपि योगार्थाः व्याख्येयाः। च.सू.सिद्धिस्थानम् १२.४१
योगः इत्युक्ते योजना । सूत्रस्थपदानां योजना। अनया योजनया शास्त्रसङ्गतः अर्थः निष्पद्यते।
आक्षेपः –
[सम्पाद्यताम्]ननु पद्यस्य अन्वयः नाम पदानां योजना एव । अन्वयः तु व्याकरणशास्त्रस्य आधारेण क्रियते यथा -
विशेषणं पुरस्कृत्य विशेष्यं तदनन्तरम ।
कर्तृकर्मक्रियायुक्तम् एतद् अन्वयलक्षणम् ॥ इति ॥
एवं यदि अन्वयः व्याकरणज्ञानेन कर्तुं शक्यते । किम् अनया योगाख्यतन्त्रयुक्त्या प्रयोजनम् ?
समाधानम् -
[सम्पाद्यताम्]अन्वयः व्याकरणज्ञानेन शक्यः इति सत्यम् । तथापि व्याकरणमात्रज्ञानेन आयुर्वेदशास्त्रसङ्गता पदयोजना स्यात् एव इति न । एकस्य सूत्रस्य नैके अन्वयाः सम्भवन्ति । ते च सर्वे व्याकरणदृष्ट्या सुसङ्गताः एव सन्ति । परम् आयुर्वेद-दृष्ट्या तेषु कः युक्ततरः अन्वयः इति निर्णयः व्याकरणमात्र-ज्ञानेन न भवति। तदर्थं योगाख्यतन्त्रयुक्तिः प्रयुज्यते । अनया तन्त्रयुक्त्या स्वशास्त्रानुकुला पदयोजना क्रियते। इदम् अत्र उदाहरणम् -
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः
सन्तो यान्त्यपुनर्भावम् अप्रकम्प्या भवन्ति च । । अ.हृ.सू. ८
अस्य सूत्रस्य व्याकरणस्य आधारेण एते अन्वयाः सम्भवन्ति -
१) दोषाः क्रमेण अपचिताः सन्तः अप्रकम्याः भवन्ति, गुणाः च क्रमेण उपचिताः सन्तः अपुनर्भावं यान्ति ।
२) दोषाः क्रमेण अपचिताः सन्तः ,गुणाः च क्रमेण उपचित्ताः सन्तः अपुनर्भावं यान्ति; अप्रकम्प्याः च भवन्ति ।
३) दोषाः क्रमेण अपचिताः सन्तः अपुनर्भावं यान्ति; गुणाः च क्रमेण उपचिताः सन्तः अप्रकम्प्याः भवन्ति ।
एते त्रयः अपि अन्वयाः व्याकरणशस्त्रदृष्ट्या उचिताः। परमायुर्वेदशस्त्रदृष्ट्या प्रथमः अन्वयः अन्यथाप्रतिपत्तिजनकः । द्वितीयः अन्वयः विप्रतिपत्तिजनकः।तृतीयः अन्वयः तु समुचितं बोधं कारयति । अतः एषः तृतीयः अन्वयः नाम योगः ।
योगतन्त्रयुक्तेः उदाहरणानि-
[सम्पाद्यताम्]आयुर्वेदोक्ता: तन्त्रयुक्तय: