सामग्री पर जाएँ

योगप्रत्युक्त्यधिकरणम्

विकिपुस्तकानि तः

एतेन योग: प्रत्युक्त:।२.१.३
वे.- प्रधानं स्वतन्त्रं जगत्कारणं तथा महदादीनि कार्याणीति योगेऽपि कल्प्यते। तस्मात्साङ्ख्यप्रत्याख्यानेन योगोऽपि प्रत्याख्यात:।
पू.- यदि प्रत्याख्येयविषय: समान: तर्हि पूर्वसूत्राभ्यामेवास्य प्रत्याख्यानं जातम्। किमर्थमयमतिदेश:?
वे.- अर्थैकदेशसम्प्रतिपत्ते:।योगस्मृते: अर्थानामेकदेश: स्मृतौ सम्प्रतिपद्यते।अत: योगस्मृतिर्निर्दोषा इति कदाचिद् ग्रह: स्यात्।तं निवारयितुमुच्यते यद् यद्यपि योगस्य कतिपये अर्था: श्रुत्या सम्प्रतिपद्यन्ते, तथापि कतिपये अन्ये अर्था: श्रुत्या विप्रतिपद्यन्ते।
पू.- विप्रतिपन्ना: अर्था: प्रधानादय: सन्ति। सन्तु नाम।के खलु श्रुतिसम्प्रतिपन्ना: योगार्था:?
वे.- इमे योगार्था: श्रुतिसम्प्रतिपन्ना:।
१ सम्यग्दर्शनाभ्युपाय: इति योगस्य स्वरूपम्। तच्च श्रुतौ प्रतिपादितम्- श्रोतव्यो मन्तव्यो निदिध्यासितव्य: _ (बृ. २.४.५)
२ आसनादिकल्पनायुक्तं सविस्तरं योगविधानं वेदे दृश्यते – त्रिरुन्नतं स्थाप्य समं शरीरम् (श्वे. २.८) इति।
३ योगविषयकं लिङ्गमुपलभ्यते-
तं योगमिति मन्यन्ते स्थिरमिन्द्रियधारणम्।–(काठ. २.६.१८)विद्यामेतां योगविधिं च कृत्स्नम्-( )
पू.- एवमध्यात्मविषया नैका: स्मृतय: सन्ति।साङ्ख्ययोगनिराकरणे एव किमर्थं यत्न: क्रियते?
वे.- एते स्मृती परमपुरुषार्थसाधनत्वेन लोके प्रख्याते,शिष्टै: परिगृहीते,श्रौतलिङ्गेन चोपबृंहिते-
यत्कारणं साङ्ख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपापै:।(श्वेता. ६.१३) इति। अतस्तयो: निराकरणे यत्न: क्रियते।
पू.- यदि एते स्मृती श्रौतलिङ्गेनोपबृंहिते, तर्हि निराकरणं किमर्थम्?
वे.- वेदनिरपेक्षेण साङ्ख्यज्ञानेन योगमार्गेण वा न नि:श्रेयसाधिगम: इत्येव निराकरणम्। यत्कारणं साङ्ख्ययोगाभिपन्नम् इत्यत्र वैदिकमेव ज्ञानं ध्यानं च साङ्ख्ययोगशब्दाभ्याम् अभिलप्यते, प्रत्यासत्ते:।
पू.- ननु ये एतयोरंशा वेदे प्रतिपन्ना:, तेऽप्यनेन निराकृता भविष्यन्ति।
वे.- न।येनांशेन एते वेदार्थै: न विरुद्ध्यन्ते, तेनांशेन ते इष्टे एव। यथा-
साङ्ख्ये उक्तं पुरुषस्य निर्गुणत्वं वेदाविरुद्धम्- असङ्गो ह्ययं पुरुष:।-(बृ. ४.३.१६)
योगोक्तं निवृत्तिनिष्ठत्वं वेदाविरुद्धम्- अथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रह: (जाबा. ५)

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद: